Hanuma · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
माणिक्यं – ततो रावणनीतायाः सीतायाः शत्रुकर्शनः । इयेष पदमन्वेष्टुं चारणाचरिते पथि ॥ 1 ॥
मुत्यं – यस्य त्वेतानि चत्वारि वानरेंद्र यथा तव । स्मृतिर्मतिर्धृतिर्दाक्ष्यं स कर्मसु न सीदति ॥ 2 ॥
प्रवालं – अनिर्वेदः श्रियो मूलं अनिर्वेदः परं सुखम् । अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः ॥ 3 ॥
मरकतं – नमोऽस्तु रामाय सलक्ष्मणाय देव्यै च तस्यै जनकात्मजायै । नमोऽस्तु रुद्रेंद्रयमानिलेभ्यः नमोऽस्तु चंद्रार्कमरुद्गणेभ्यः ॥ 4 ॥
पुष्यरागं – प्रियान्न संभवेद्दुःखं अप्रियादधिकं भयम् । ताभ्यां हि ये वियुज्यंते नमस्तेषां महात्मनाम् ॥ 5 ॥
हीरकं – रामः कमलपत्राक्षः सर्वसत्त्वमनोहरः । रूपदाक्षिण्यसंपन्नः प्रसूतो जनकात्मजे ॥ 6 ॥
इंद्रनीलं – जयत्यतिबलो रामो लक्ष्मणश्च महाबलः । राजा जयति सुग्रीवो राघवेणाभिपालितः । दासोऽहं कोसलेंद्रस्य रामस्याक्लिष्टकर्मणः । हनुमान् शत्रुसैन्यानां निहंता मारुतात्मजः ॥ 7 ॥
गोमेधिकं – यद्यस्ति पतिशुश्रूषा यद्यस्ति चरितं तपः । यदि वास्त्येकपत्नीत्वं शीतो भव हनूमतः ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
वैडूर्यं – निवृत्तवनवासं तं त्वया सार्धमरिंदमम् । अभिषिक्तमयोध्यायां क्षिप्रं द्रक्ष्यसि राघवम् ॥ 9 ॥
इति श्री आंजनेय नवरत्नमाला स्तोत्रम् ।
Browse Related Categories: