Surya Bhagavan · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अतुल्यवीर्यमुग्रतेजसं सुरं सुकांतिमिंद्रियप्रदं सुकांतिदम् । कृपारसैकपूर्णमादिरूपिणं दिवाकरं सदा भजे सुभास्वरम् ॥ 1 ॥
इनं महीपतिं च नित्यसंस्तुतं कलासुवर्णभूषणं रथस्थितम् । अचिंत्यमात्मरूपिणं ग्रहाश्रयं दिवाकरं सदा भजे सुभास्वरम् ॥ 2 ॥
उषोदयं वसुप्रदं सुवर्चसं विदिक्प्रकाशकं कविं कृपाकरम् । सुशांतमूर्तिमूर्ध्वगं जगज्ज्वलं दिवाकरं सदा भजे सुभास्वरम् ॥ 3 ॥
ऋषिप्रपूजितं वरं वियच्चरं परं प्रभुं सरोरुहस्य वल्लभम् । समस्तभूमिपं च तारकापतिं दिवाकरं सदा भजे सुभास्वरम् ॥ 4 ॥
ग्रहाधिपं गुणान्वितं च निर्जरं सुखप्रदं शुभाशयं भयापहम् । हिरण्यगर्भमुत्तमं च भास्करं दिवाकरं सदा भजे सुभास्वरम् ॥ 5 ॥
इति श्री दिवाकर पंचकम् ।
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts