Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
मंगलश्लोकाः मंगलं भगवान्विष्णुर्मंगलं मधुसूदनः । मंगलं पुंडरीकाक्षो मंगलं गरुडध्वजः ॥ 1
मंगलं कोसलेंद्राय महनीयगुणाब्धये । चक्रवर्तितनूजाय सार्वभौमाय मंगलम् ॥ 2
वेदवेदांतवेद्याय मेघश्यामलमूर्तये । पुंसां मोहनरूपाय पुण्यश्लोकाय मंगलम् ॥ 3
विश्वामित्रांतरंगाय मिथिलानगरीपतेः । भाग्यानां परिपाकाय भव्यरूपाय मंगलम् ॥ 4
पितृभक्ताय सततं भ्रातृभिः सह सीतया । नंदिताखिललोकाय रामचंद्राय मंगलम् ॥ 5
त्यक्तसाकेतवासाय चित्रकूटविहारिणे । सेव्याय सर्वयमिनां धीरोदात्ताय मंगलम् ॥ 6
सौमित्रिणा च जानक्या चापबाणासिधारिणा । संसेव्याय सदा भक्त्या सानुजायास्तु मंगलम् ॥ 7
दंडकारण्यवासाय खंडितामरशत्रवे । गृध्रराजाय भक्ताय मुक्तिदायास्तु मंगलम् ॥ 8
सादरं शबरीदत्तफलमूलाभिलाषिणे । सौलभ्यपरिपूर्णाय सत्त्वोद्युक्ताय मंगलम् ॥ 9
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
हनूमत्समवेताय हरीशाभीष्टदायिने । वालिप्रमथनायास्तु महाधीराय मंगलम् ॥ 10
श्रीमते रघुवीराय सेतुलंघितसिंधवे । जितराक्षसराजाय रणधीराय मंगलम् ॥ 11
आसाद्य नगरीं दिव्यामभिषिक्ताय सीतया । राजाधिराजराजाय रामभद्राय मंगलम् ॥ 12
विभीषणकृते प्रीत्या विश्वाभीष्टप्रदायिने । जानकीप्राणनाथाय सदा रामाय मंगलम् ॥ 13
—-
श्रीरामं त्रिजगद्गुरुं सुरवरं सीतामनोनायकं श्यामांगं शशिकोटिपूर्णवदनं चंचत्कलाकौस्तुभम् । सौम्यं सत्यगुणोत्तमं सुसरयूतीरे वसंतं प्रभुं त्रातारं सकलार्थसिद्धिसहितं वंदे रघूणां पतिम् ॥ 14
श्रीराघवं दशरथात्मजमप्रमेयं सीतापतिं रघुवरान्वयरत्नदीपम् । आजानुबाहुमरविंददलायताक्षं रामं निशाचरविनाशकरं नमामि ॥ 15
श्रीरामचंद्र करुणाकर राघवेंद्र राजेंद्रचंद्र रघुवंशसमुद्रचंद्र । सुग्रीवनेत्रयुगलोत्पल-पूर्णचंद्र सीतामनःकुमुदचंद्र नमो नमस्ते ॥ 16
सीतामनोमानसराजहंस संसारसंतापहर क्षमावन् । श्रीराम दैत्यांतक शांतरूप श्रीतारकब्रह्म नमो नमस्ते ॥ 17
विष्णो राघव वासुदेव नृहरे देवौघचूडामणे । संसारार्णवकर्णधारक हरे कृष्णाय तुभ्यं नमः ॥ 18
सुग्रीवादिसमस्तवानरवरैस्संसेव्यमानं सदा । विश्वामित्रपराशरादिमुनिभिस्संस्तूयमानं भजे ॥ 19
रामं चंदनशीतलं क्षितिसुतामोहाकरं श्रीकरं वैदेहीनयनारविंदमिहिरं संपूर्णचंद्राननम् । राजानं करुणासमेतनयनं सीतामनोनंदनं सीतादर्पणचारुगंडललितं वंदे सदा राघवम् ॥ 20
जानाति राम तव नामरुचिं महेशो जानाति गौतमसती चरणप्रभावम् । जानाति दोर्बलपराक्रममीशचापो जानात्यमोघपटुबाणगतिं पयोधिः ॥ 21
माता रामो मत्पिता रामचंद्रो भ्राता रामो मत्सखा राघवेशः । सर्वस्वं मे रामचंद्रो दायालु- र्नान्यं दैवं नैव जाने न जाने ॥ 22
विमलकमलनेत्रं विस्फुरन्नीलगात्रं तपनकुलपवित्रं दानवध्वंतमित्रम् । भुवनशुभचरित्रं भूमिपुत्रीकलत्रं दशरथवरपुत्रं नौमि रामाख्यमित्रम् ॥ 23
मार्गे मार्गे शाखिनां रत्नवेदी वेद्यां वेद्यां किन्नरीबृंदगीतम् । गीते गीते मंजुलालापगोष्ठी गोष्ठ्यां गोष्ठ्यां त्वत्कथा रामचंद्र ॥ 24
वृक्षे वृक्षे वीक्षिताः पक्षिसंघाः संघे संघे मंजुलामोदवाक्यम् । वाक्ये वाक्ये मंजुलालापगोष्ठी गोष्ठ्यां गोष्ठ्यां त्वत्कथा रामचंद्र ॥ 25
दुरिततिमिरचंद्रो दुष्टकंजातचंद्रः सुरकुवलयचंद्रस्सूर्यवंशाब्धिचंद्रः । स्वजननिवहचंद्रश्शत्रुराजीवचंद्रः प्रणतकुमुदचंद्रः पातु मां रामचंद्रः ॥ 26
कल्याणदं कौशिकयज्ञपालं कलानिधिं कांचनशैलधीरम् । कंजातनेत्रं करुणासमुद्रं काकुत्स्थरामं कलयामि चित्ते ॥ 27
राजीवायतलोचनं रघुवरं नीलोत्पलश्यामलं मंदारांचितमंडपे सुललिते सौवर्णके पुष्पके । आस्थाने नवरत्नराजिखचिते सिंहासने संस्थितं सीतालक्ष्मणलोकपालसहितं वंदे मुनींद्रास्पदम् ॥ 28
ध्याये रामं सुधांशुं नतसकलभवारण्यतापप्रहारम् । श्यामं शांतं सुरेंद्रं सुरमुनिविनुतं कोटिसूर्यप्रकाशम् । सीतासौमित्रिसेव्यं सुरनरसुगमं दिव्यसिंहासनस्थम् । सायाह्ने रामचंद्रं स्मितरुचिरमुखं सर्वदा मे प्रसन्नम् ॥ 29
इंद्रनीलमणिसन्निभदेहं वंदनीयमसकृन्मुनिबृंदैः । लंबमानतुलसीवनमालं चिंतयामि सततं रघुवीरम् ॥ 30
संपूर्णचंद्रवदनं सरसीरुहाक्षं माणिक्यकुंडलधरं मुकुटाभिरामम् । चांपेयगौरवसनं शरचापहस्तं श्रीरामचंद्रमनिशं मनसा स्मरामि ॥ 31
मातुः पार्श्वे चरंतं मणिमयशयने मंजुभूषांचितांगम् । मंदं मंदं पिबंतं मुकुलितनयनं स्तन्यमन्यस्तनाग्रम् । अंगुल्याग्रैः स्पृशंतं सुखपरवशया सस्मितालिंगितांगम् । गाढं गाढं जनन्या कलयतु हृदयं मामकं रामबालम् ॥ 32
रामाभिरामं नयनाभिरामं वाचाभिरामं वदनाभिरामम् । सर्वाभिरामं च सदाभिरामं वंदे सदा दाशरथिं च रामम् ॥ 33
राशब्दोच्चारमात्रेण मुखान्निर्याति पातकाः । पुनः प्रवेशभीत्या च मकारस्तु कवाटवत् ॥ 34
अनर्घमाणिक्यविराजमान- श्रीपादुकालंकृतशोभनाभ्याम् । अशेषबृंदारकवंदिताभ्यां नमो नमो रामपदांबुजाभ्याम् ॥ 35
चलत्कनककुंडलोल्लसितदिव्यगंडस्थलं चराचरजगन्मयं चरणपद्मगंगाश्रयम् । चतुर्विधफलप्रदं चरमपीठमध्यस्थितं चिदंशमखिलास्पदं दशरथात्मजं चिंतये ॥ 36
सनंदनमुनिप्रियं सकलवर्णवेदात्मकं समस्तनिगमागमस्फुरिततत्त्वसिंहासनम् । सहस्रनयनाब्जजाद्यमरबृंदसंसेवितं समष्टिपुरवल्लभं दशरथात्मजं चिंतये ॥ 37
जाग्रत्स्वप्नसुषुप्ति-कालविलसत्तत्त्वात्मचिन्मात्रकं चैतन्यात्मकमाधिपापरहितं भूम्यादितन्मात्रकम् । शांभव्यादिसमस्तयोगकुलकं सांख्यादितत्त्वात्परं शब्दावाच्यमहं नमामि सततं व्युत्पत्तिनाशात्परम् ॥ 38
इक्ष्वाकुवंशार्णवजातरत्नं सीतांगनायौवनभाग्यरत्नम् । वैकुंठरत्नं मम भाग्यरत्नं श्रीरामरत्नं शिरसा नमामि ॥ 39
इक्ष्वाकुनंदनं सुग्रीवपूजितं त्रैलोक्यरक्षकं सत्यसंधं सदा । राघवं रघुपतिं राजीवलोचनं रामचंद्रं भजे राघवेशं भजे ॥ 40
भक्तप्रियं भक्तसमाधिगम्यं चिंताहरं चिंतितकामधेनुम् । सूर्येंदुकोटिद्युतिभास्वरं तं रामं भजे राघवरामचंद्रम् ॥ 41
श्रीरामं जनकक्षितीश्वरसुतावक्त्रांबुजाहारिणं श्रीमद्भानुकुलाब्धिकौस्तुभमणिं श्रीरत्नवक्षस्स्थलम् । श्रीकंठाद्यमरौघरत्नमकुटालंकारपादांबुजं श्रीवत्सोज्ज्वलमिंद्रनीलसदृशं श्रीरामचंद्रं भजे ॥ 42
रामचंद्र चरिताकथामृतं लक्ष्मणाग्रजगुणानुकीर्तनम् । राघवेश तव पादसेवनं संभवंतु मम जन्मजन्मनि ॥ 43
अज्ञानसंभव-भवांबुधिबाडबाग्नि- रव्यक्ततत्त्वनिकरप्रणवाधिरूढः । सीतासमेतमनुजेन हृदंतराले प्राणप्रयाणसमये मम सन्निधत्ते ॥ 44
रामो मत्कुलदैवतं सकरुणं रामं भजे सादरं रामेणाखिलघोरपापनिहती रामाय तस्मै नमः । रामान्नास्ति जगत्रयैकसुलभो रामस्य दासोऽस्म्यहं रामे प्रीतिरतीव मे कुलगुरो श्रीराम रक्षस्व माम् ॥ 45
वैदेहीसहितं सुरद्रुमतले हैमे महामंटपे । मध्येपुष्पकमासने मणिमये वीरासने संस्थितम् । अग्रे वाचयति प्रभंजनसुते तत्त्वं मुनिभ्यः परम् । व्याख्यांतं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ 46
वामे भूमिसुता पुरस्तु हनुमान्पश्चात्सुमित्रासुत- श्शत्रुघ्नो भरतश्च पार्श्वदलयोर्वाय्वादिकोणेष्वपि । सुग्रीवश्च विभीषणश्च युवराट् तारासुतो जांबवान् मध्ये नीलसरोजकोमलरुचिं रामं भजे श्यामलम् ॥ 47
केयूरांगदकंकणैर्मणिगणैर्वैरोचमानं सदा राकापर्वणिचंद्रकोटिसदृशं छत्रेण वैराजितम् । हेमस्तंभसहस्रषोडशयुते मध्ये महामंडपे देवेशं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ 48
साकेते शरदिंदुकुंदधवले सौघे महामंटपे । पर्यस्तागरुधूपधूमपटले कर्पूरदीपोज्ज्वले । सुग्रीवांगदवायुपुत्रसहितं सौमित्रिणा सेवितं लीलामानुषविग्रहं रघुपतिं रामं भजे श्यामलम् ॥ 49
शांतं शारदचंद्रकोटिसदृशं चंद्राभिरामाननं चंद्रार्काग्निविकासिकुंडलधरं चंद्रावतंसस्तुतम् । वीणापुस्तकसाक्षसूत्रविलसद्व्याख्यानमुद्राकरं देवेशं भरतादिभिः परिवृतं रामं भजे श्यामलम् ॥ 50
रामं राक्षसमर्दनं रघुपतिं शक्रारिविध्वंसिनं सुग्रीवेप्सितराज्यदं सुरपतेः पुत्रांतकं शार्ंगिणम् । भक्तानामभयप्रदं भयहरं पापौघविध्वंसिनं सीतासेवितपादपद्मयुगलं रामं भजे श्यामलम् ॥ 51
कंदर्पायुतकोटिकोटितुलितं कालांबुदश्यामलं कंबुग्रीवमुदारकौस्तुभधरं कर्णावतंसोत्पलम् । कस्तूरीतिलकोज्ज्वलं स्मितमुखं चिन्मुद्रयालंकृतं सीतालक्ष्मणवायुपुत्रसहितं सिंहासनस्थं भजे ॥ 52
साकेते नवरत्नपंक्तिखचिते चित्रध्वजालंकृते वासे स्वर्णमये दलाष्टललिते पद्मे विमानोत्तमे । आसीनं भरतादिसोदरजनैः शाखामृगैः किन्नरैः दिक्पालैर्मुनिपुंगवैर्नृपगणैस्संसेव्यमानं भजे ॥ 53
कस्तूरीघनसारकुंकुमलसच्छ्रीचंदनालंकृतं कंदर्पाधिकसुंदरं घननिभं काकुत्स्थवंशध्वजम् । कल्याणांभरवेष्टितं कमलया युक्तं कलावल्लभं कल्याणाचलकार्मुकप्रियसखं कल्याणरामं भजे ॥ 54
मुक्तेर्मूलं मुनिवरहृदानंदकंदं मुकुंदं कूटस्थाख्यं सकलवरदं सर्वचैतन्यरूपम् । नादातीतं कमलनिलयं नादनादांततत्त्वं नादातीतं प्रकृतिरहितं रामचंद्रं भजेऽहम् ॥ 55
ताराकारं निखिलनिलयं तत्त्वमस्यादिलक्ष्यं शब्दावाच्यं त्रिगुणरहितं व्योममंगुष्ठमात्रम् । निर्वाणाख्यं सगुणमगुणव्योमरंध्रांतरस्थं सौषुम्नांतः प्रणवसहितं रामचंद्रं भजेऽहम् ॥ 56
निजानंदाकारं निगमतुरगाराधितपदं परब्रह्मानंदं परमपदगं पापहरणम् । कृपापारावारं परमपुरुषं पद्मनिलयं भजे रामं श्यामं प्रकृतिरहितं निर्गुणमहम् ॥ 57
साकेते नगरे समस्तमहिमाधारे जगन्मोहने रत्नस्तंभसहस्रमंटपमहासिंहासने सांबुजे । विश्वामित्रवसिष्ठगौतमशुकव्यासादिभिर्मौनिभिः ध्येयं लक्ष्मणलोकपालसहितं सीतासमेतं भजे ॥ 58
रामं श्यामाभिरामं रविशशिनयनं कोटिसूर्यप्रकाशं दिव्यं दिव्यास्त्रपाणिं शरमुखशरधिं चारुकोडंडहस्तम् । कालं कालाग्निरुद्रं रिपुकुलदहनं विघ्नविच्छेददक्षं भीमं भीमाट्टहासं सकलभयहरं रामचंद्रं भजेऽहम् ॥ 59
श्रीरामं भुवनैकसुंदरतनुं धाराधरश्यामलं राजीवायतलोचनं रघुवरं राकेंदुबिंबाननम् । कोदंडादिनिजायुधाश्रितभुजैर्भ्रांतं विदेहात्मजा- धीशं भक्तजनावनं रघुवरं श्रीरामचंद्रं भजे ॥ 60
श्रीवत्सांकमुदारकौस्तुभलसत्पीतांबरालंकृतं नानारत्नविराजमानमकुटं नीलांबुदश्यामलम् । कस्तूरीघनसारचर्चिततनुं मंदारमालाधरं कंदर्पायुतसुंदरं रघुपतिं सीतासमेतं भजे ॥ 61
सदानंददेवे सहस्रारपद्मे गलच्चंद्रपीयूषधारामृतांते । स्थितं राममूर्तिं निषेवे निषेवे- ऽन्यदैवं न सेवे न सेवे न सेवे ॥ 62
सुधाभासितद्वीपमध्ये विमाने सुपर्वालिवृक्षोज्ज्वले शेषतल्पे । निषण्णं रमांकं निषेवे निषेवे- ऽन्यदैवं न सेवे न सेवे न सेवे ॥ 63
चिदंशं समानंदमानंदकंदं सुषुम्नाख्यरंध्रांतराले च हंसम् । सचक्रं सशंखं सपीतांबरांकं परंचान्यदैवं न जाने न जाने ॥ 64
चतुर्वेदकूटोल्लसत्कारणाख्यं स्फुरद्दिव्यवैमानिके भोगितल्पे । परंधाममूर्तिं निषण्णं निषेवे निषेवेऽन्यदैवं न सेवे न सेवे ॥ 65
सिंहासनस्थं सुरसेवितव्यं रत्नांकितालंकृतपादपद्मम् । सीतासमेतं शशिसूर्यनेत्रं रामं भजे राघव रामचंद्रम् ॥ 66
रामं पुराणपुरुषं रमणीयवेषं राजाधिराजमकुटार्चितपादपीठम् । सीतापतिं सुनयनं जगदेकवीरं श्रीरामचंद्रमनिशं कलयामि चित्ते ॥ 67
परानंदवस्तुस्वरूपादिसाक्षिं परब्रह्मगम्यं परंज्योतिमूर्तिम् । पराशक्तिमित्राऽप्रियाराधितांघ्रिं परंधामरूपं भजे रामचंद्रम् ॥ 68
मंदस्मितं कुंडलगंडभागं पीतांबरं भूषणभूषितांगम् । नीलोत्पलांगं भुवनैकमित्रं रामं भजे राघव रामचंद्रम् ॥ 69
अचिंत्यमव्यक्तमनंतरूप- मद्वैतमानंदमनादिगम्यम् । पुण्यस्वरूपं पुरुषोत्तमाख्यं रामं भजे राघव रामचंद्रम् ॥ 70
पद्मासनस्थं सुरसेवितव्यं पद्मालयानंदकटाक्षवीक्ष्यम् । गंधर्वविद्याधरगीयमानं रामं भजे राघव रामचंद्रम् ॥ 71
अनंतकीर्तिं वरदं प्रसन्नं पद्मासनं सेवकपारिजातम् । राजाधिराजं रघुवीरकेतुं रामं भजे राघव रामचंद्रम् ॥ 72
सुग्रीवमित्रं सुजनानुरूपं लंकाहरं राक्षसवंशनाशम् । वेदाश्रयांगं विपुलायताक्षं रामं भजे राघव रामचंद्रम् ॥ 73
सकृत्प्रणतरक्षायां साक्षी यस्य विभीषणः । सापराधप्रतीकारः स श्रीरामो गतिर्मम ॥ 74
फलमूलाशिनौ दांतौ तापसौ धर्मचारिणौ । रक्षःकुलविहंतारौ भ्रातरौ रामलक्ष्मणौ ॥ 75
तरुणौ रूपसंपन्नौ सुकुमारौ महाबलौ । पुंडरीक विशालाक्षौ चीरकृष्णाजिनांबरौ ॥ 76
कौसल्यानयनेंदुं दशरथमुखारविंदमार्तांडम् । सीतामानसहंसं रामं राजीवलोचनं वंदे ॥ 77
भर्जनं भवबीजानां मार्जनं सुखसंपदाम् । तर्जनं यमदूतानां रामरामेति कीर्तनम् ॥ 78
न जाने जानकी जाने राम त्वन्नामवैभवम् । सर्वेशो भगवान् शंभुर्वाल्मीकिर्वेत्ति वा नवा ॥ 79
करतलधृतचापं कालमेघस्वरूपं सरसिजदलनेत्रं चारुहासं सुगात्रम् । विचिनुतवनवासं विक्रमोदग्रवेषं प्रणमत रघुनाथं जानकीप्राणनाथम् ॥ 80
विद्युत्स्फुरन्मकरकुंडलदीप्तचारु- गंडस्थलं मणिकिरीटविराजमानम् । पीतांबरं जलदनीलमुदारकांतिं श्रीरामचंद्रमनिशं कलयामि चित्ते ॥ 81
रत्नोल्लसज्ज्वलितकुंडलगंडभागं कस्तूरिकातिलकशोभितफालभागम् । कर्णांतदीर्घनयनं करुणाकटाक्षं श्रीरामचंद्र मुखमात्मनि सन्निधत्तम् ॥ 82
वैदेहीसहितं च लक्ष्मणयुतं कैकेयिपुत्रान्वितं सुग्रीवं च विभीषणानिलसुतौ नीलं नलं सांगदम् । विश्वामित्रवसिष्ठगौतमभरद्वाजादिकान् मानयन् रामो मारुतिसेवितः स्मरतु मां साम्राज्यसिंहासने ॥ 83
सकलगुणनिधानं योगिभिस्स्तूयमानं भजितसुरविमानं रक्षितेंद्रादिमानम् । महितवृषभयानं सीतया शोभमानं स्मरतु हृदयभानुं ब्रह्मरामाभिरामम् ॥ 84
त्रिदशकुमुदचंद्रो दानवांभोजचंद्रो दुरिततिमिरचंद्रो योगिनां ज्ञानचंद्रः । प्रणतनयनचंद्रो मैथिलीनेत्रचंद्रो दशमुखरिपुचंद्रः पातु मां रामचंद्रः ॥ 85
यन्नामैव सहस्रनामसदृशं यन्नाम वेदैस्समं यन्नामांकितवाक्य-मासुरबलस्त्रीगर्भविच्छेदनम् । यन्नाम श्वपचार्यभेदरहितं मुक्तिप्रदानोज्ज्वलं तन्नामाऽलघुरामरामरमणं श्रीरामनामामृतम् ॥ 86
राजीवनेत्र रघुपुंगव रामभद्र राकेंदुबिंबसदृशानन नीलगात्र । रामाऽभिराम रघुवंशसमुद्भव त्वं श्रीरामचंद्र मम देहि करावलंबम् ॥ 87
माणिक्यमंजीरपदारविंदं रामार्कसंफुल्लमुखारविंदम् । भक्ताभयप्रापिकरारविंदां देवीं भजे राघववल्लभां ताम् ॥ 88
जयतु विजयकारी जानकीमोदकारी तपनकुलविहारी दंडकारण्यचारी । दशवदनकुठारी दैत्यविच्छेदकारी मणिमकुटकधारी चंडकोदंडधारी ॥ 89
रामः पिता रघव एव माता रामस्सुबंधुश्च सखा हितश्च । रामो गुरुर्मे परमं च दैवं रामं विना नाऽन्यमहं स्मरामि ॥ 90
श्रीराम मे त्वं हि पिता च माता श्रीराम मे त्वं हि सुहृच्च बंधुः । श्रीराम मे त्वं हि गुरुश्च गोष्ठी श्रीराम मे त्वं हि समस्तमेव ॥ 91
रामचंद्रचरितामृतपानं सोमपानशतकोटिसमानम् । सोमपानशतकोटिभिरीया- ज्जन्म नैति रघुनायकनाम्ना ॥ 92
राम राम दयासिंधो रावणारे जगत्पते । त्वत्पादकमलासक्ति-र्भवेज्जन्मनि जन्मनि ॥ 93
श्रीरामचंद्रेति दयापरेति भक्तप्रियेति भवबंधनमोचनेति । नाथेति नागशयनेति सदा स्तुवंतं मां पाहि भीतमनिशं कृपणं कृपालो ॥ 94
अयोध्यानाथ राजेंद्र सीताकांत जगत्पते । श्रीराम पुंडरीकाक्ष रामचंद्र नमोऽस्तु ते ॥ 95
हे राम हे रमण हे जगदेकवीर हे नाथ हे रघुपते करुणालवाल । हे जानकीरमण हे जगदेकबंधो मां पाहि दीनमनिशं कृपणं कृतघ्नम् ॥ 96
जानाति राम तव तत्त्वगतिं हनूमान् । जानाति राम तव सख्यगतिं कपीशः । जानाति राम तव युद्धगतिं दशास्यो । जानाति राम धनदानुज एव सत्यम् ॥ 97
सेव्यं श्रीराममंत्रं श्रवणशुभकरं श्रेष्ठसुज्ञानिमंत्रं स्तव्यं श्रीराममंत्रं नरकदुरितदुर्वारनिर्घातमंत्रम् । भव्यं श्रीराममंत्रं भजतु भजतु संसारनिस्तारमंत्रं दिव्यं श्रीराममंत्रं दिवि भुवि विलसन्मोक्षरक्षैकमंत्रम् ॥ 98
निखिलनिलयमंत्रं नित्यतत्त्वाख्यमंत्रं भवकुलहरमंत्रं भूमिजाप्राणमंत्रम् । पवनजनुतमंत्रं पार्वतीमोक्षमंत्रं पशुपतिनिजमंत्रं पातु मां राममंत्रम् ॥ 99
प्रणवनिलयमंत्रं प्राणनिर्वाणमंत्रं प्रकृतिपुरुषमंत्रं ब्रह्मरुद्रेंद्रमंत्रम् । प्रकटदुरितरागद्वेषनिर्णाशमंत्रं रघुपतिनिजमंत्रं रामरामेतिमंत्रम् ॥ 100
दशरथसुतमंत्रं दैत्यसंहारमंत्रं विबुधविनुतमंत्रं विश्वविख्यातमंत्रम् । मुनिगणनुतमंत्रं मुक्तिमार्गैकमंत्रं रघुपतिनिजमंत्रं रामरामेतिमंत्रम् ॥ 101
संसारसागरभयापहविश्वमंत्रं साक्षान्मुमुक्षुजनसेवितसिद्धमंत्रम् । सारंगहस्तमुखहस्तनिवासमंत्रं कैवल्यमंत्रमनिशं भज राममंत्रम् ॥ 102
जयतु जयतु मंत्रं जन्मसाफल्यमंत्रं जननमरणभेदक्लेशविच्छेदमंत्रम् । सकलनिगममंत्रं सर्वशास्त्रैकमंत्रं रघुपतिनिजमंत्रं रामरामेतिमंत्रम् ॥ 103
जगति विशदमंत्रं जानकीप्राणमंत्रं विबुधविनुतमंत्रं विश्वविख्यातमंत्रम् । दशरथसुतमंत्रं दैत्यसंहारमंत्रं रघुपतिनिजमंत्रं रामरामेतिमंत्रम् ॥ 104
ब्रह्मादियोगिमुनिपूजितसिद्धमंत्रं दारिद्र्यदुःखभवरोगविनाशमंत्रम् । संसारसागरसमुत्तरणैकमंत्रं वंदे महाभयहरं रघुराममंत्रम् ॥ 105
शत्रुच्छेदैकमंत्रं सरसमुपनिषद्वाक्यसंपूज्यमंत्रं संसारोत्तारमंत्रं समुचितसमये संगनिर्याणमंत्रम् । सर्वैश्वर्यैकमंत्रं व्यसनभुजगसंदष्टसंत्राणमंत्रं जिह्वे श्रीराममंत्रं जप जप सफलं जन्मसाफल्यमंत्रम् ॥ 106
नित्यं श्रीराममंत्रं निरुपममधिकं नीतिसुज्ञानमंत्रं सत्यं श्रीराममंत्रं सदमलहृदये सर्वदारोग्यमंत्रम् । स्तुत्यं श्रीराममंत्रं सुललितसुमनस्सौख्यसौभाग्यमंत्रं पठ्यं श्रीराममंत्रं पवनजवरदं पातु मां राममंत्रम् ॥ 107
व्यामोहप्रशमौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं दैत्योन्मूलकरौषधं भवभयप्रध्वंसनैकौषधम् । भक्तानंदकरौषधं त्रिभुवने संजीवनैकौषधं श्रेयः प्राप्तिकरौषधं पिब मनः श्रीरामनामौषधम् ॥ 108
सकलभुवनरत्नं सर्वशास्त्रार्थरत्नं समरविजयरत्नं सच्चिदानंदरत्नम् । दशमुखहररत्नं दानवारातिरत्नं रघुकुलनृपरत्नं पातु मां रामरत्नम् ॥ 109
सकलभुवनरत्नं सच्चिदानंदरत्नं सकलहृदयरत्नं सूर्यबिंबांतरत्नम् । विमलसुकृतरत्नं वेदवेदांतरत्नं पुरहरजपरत्नं पातु मां रामरत्नम् ॥ 110
निगमशिखररत्नं निर्मलानंदरत्नं निरुपमगुणरत्नं नादनादांतरत्नम् । दशरथकुलरत्नं द्वादशांतस्स्थरत्नं पशुपतिजपरत्नं पातु मां रामरत्नम् ॥ 111
शतमखसुतरत्नं षोडशांतस्स्थरत्नं मुनिजनजपरत्नं मुख्यवैकुंठरत्नम् । निरुपमगुणरत्नं नीरजांतस्स्थरत्नं परमपदविरत्नं पातु मां रामरत्नम् ॥ 112
सकलसुकृतरत्नं सत्यवाक्यार्थरत्नं शमदमगुणरत्नं शाश्वतानंदरत्नम् । प्रणयनिलयरत्नं प्रस्फुटद्योतिरत्नं परमपदविरत्नं पातु मां रामरत्नम् ॥ 113
निगमशिखररत्नं नित्यमाशास्यरत्नं जननुतनृपरत्नं जानकीरूपरत्नम् । भुवनवलयरत्नं भूभुजामेकरत्नं रघुकुलवररत्नं पातु मां रामरत्नम् ॥ 114
विशालनेत्रं परिपूर्णगात्रं सीताकलत्रं सुरवैरिजैत्रम् । कारुण्यपात्रं जगतः पवित्रं श्रीरामरत्नं प्रणतोऽस्मि नित्यम् ॥ 115
हे गोपालक हे दयाजलनिधे हे सद्गुणांभोनिधे हे दैत्यांतक हे विभीषणदयापरीण हे भूपते । हे वैदेहसुतामनोजविहृते हे कोटिमाराकृते हे नव्यांबुजनेत्र पालय परं जानामि न त्वां विना ॥ 116
यस्य किंचिदपि नो हरणीयं कर्म किंचिदपि नो चरणीयम् । रामनाम च सदा स्मरणीयं लीलया भवजलं तरणीयम् ॥ 117
दशरथसुतमीशं दंडकारण्यवासं शतमखमणिनीलं जानकीप्राणलोलम् । सकलभुवनमोहं सन्नुतांभोददेहं बहुलनुतसमुद्रं भावये रामभद्रम् ॥ 118
विशालनेत्रं परिपूर्णगात्रं सीताकलत्रं सुरवैरिजैत्रम् । जगत्पवित्रं परमात्मतंत्रं श्रीरामचंद्रं प्रणमामि चित्ते ॥ 119
जय जय रघुराम श्रीमुखांभोजभानो जय जय रघुवीर श्रीमदंभोजनेत्र । जय जय रघुनाथ श्रीकराभ्यर्चितांघ्रि जय जय रघुवर्य श्रीश कारुण्यसिंधो ॥ 120
मंदारमूले मणिपीठसंस्थं सुधाप्लुतं दिव्यविराट्स्वरूपम् । सबिंदुनादांतकलांततुर्य- मूर्तिं भजेऽहं रघुवंशरत्नम् ॥ 121
नादं नादविनीलचित्तपवनं नादांतत्त्वप्रियं नामाकारविवर्जितं नवघनश्यामांगनादप्रियम् । नादांभोजमरंदमत्तविलसद्भृंगं मदांतस्स्थितं नादांतधृवमंडलाब्जरुचिरं रामं भजे तारकम् ॥ 122
नानाभूतहृदब्जपद्मनिलयं नामोज्ज्वलाभूषणम् । नामस्तोत्रपवित्रितत्रिभुवनं नारायणाष्टाक्षरम् । नादांतेंदुगलत्सुधाप्लुततनुं नानात्मचिन्मात्रकम् । नानाकोटियुगांतभानुसदृशं रामं भजे तारकम् ॥ 123
वेद्यं वेदगुरुं विरिंचिजनकं वेदांतमूर्तिं स्फुर- द्वेदं वेदकलापमूलमहिमाधारांतकंदांकुरम् । वेदशृंगसमानशेषशयनं वेदांतवेद्यात्मकं वेदाराधितपादपंकजमहं रामं भजे तारकम् ॥ 124
मज्जीवं मदनुग्रहं मदधिपं मद्भावनं मत्सुखं मत्तातं मम सद्गुरुं मम वरं मोहांधविच्छेदनम् । मत्पुण्यं मदनेकबांधवजनं मज्जीवनं मन्निधिं मत्सिद्धिं मम सर्वकर्मसुकृतं रामं भजे तारकम् ॥ 125
नित्यं नीरजलोचनं निरुपमं नीवारशूकोपमं निर्भेदानुभवं निरंतरगुणं नीलांगरागोज्ज्वलम् । निष्पापं निगमागमार्चितपदं नित्यात्मकं निर्मलं निष्पुण्यं निखिलं निरंजनपदं रामं भजे तारकम् ॥ 126
ध्याये त्वां हृदयांबुजे रघुपतिं विज्ञानदीपांकुरं हंसोहंसपरंपरादिमहिमाधारं जगन्मोहनम् । हस्तांभोजगदाब्जचक्रमतुलं पीतांबरं कौस्तुभं श्रीवत्सं पुरुषोत्तमं मणिनिभं रामं भजे तारकम् ॥ 127
सत्यज्ञानमनंतमच्युतमजं चाव्याकृतं तत्परं कूटस्थादिसमस्तसाक्षिमनघं साक्षाद्विराट्तत्त्वदम् । वेद्यं विश्वमयं स्वलीनभुवनस्वाराज्यसौख्यप्रदं पूर्णं पूर्णतरं पुराणपुरुषं रामं भजे तारकम् ॥ 128
रामं राक्षसवंशनाशनकरं राकेंदुबिंबाननं रक्षोरिं रघुवंशवर्धनकरं रक्ताधरं राघवम् । राधायात्मनिवासिनं रविनिभं रम्यं रमानायकं रंध्रांतर्गतशेषशायिनमहं रामं भजे तारकम् ॥ 129
ओतप्रोतसमस्तवस्तुनिचयं ॐकारबीजाक्षरं ॐकारप्रकृतिं षडक्षरहितं ॐकारकंदांकुरम् । ॐकारस्फुटभूर्भुवस्सुपरितं ओघत्रयाराधितम् ॐकारोज्ज्वलसिंहपीठनिलयं रामं भजे तारकम् ॥ 130
साकेते नगरे समस्तसुखदे हर्म्येऽब्जकोटिद्युते नक्षत्रग्रहपंक्तिलग्नशिखरे चांतर्यपंकेरुहे । वाल्मीकात्रिपराशरादिमुनिभिस्संसेव्यमानं स्थितं सीतालंकृतवामभागमनिशं रामं भजे तारकम् ॥ 131
वैकुंठे नगरे सुरद्रुमतले चानंदवप्रांतरे नानारत्नविनिर्मितस्फुटपटुप्राकारसंवेष्टिते । सौधेंदूपलशेषतल्पललिते नीलोत्पलच्छादिते पर्यंके शयनं रमादिसहितं रामं भजे तारकम् ॥ 132
वंदे राममनादिपूरुषमजं वंदे रमानायकं वंदे हारिकिरीटकुंडलधरं वंदे सुनीलद्युतिम् । वंदे चापकलंबकोज्ज्वलकरं वंदे जगन्मंगलं वंदे पंक्तिरथात्मजं मम गुरुं वंदे सदा राघवम् ॥ 133
वंदे शौनकगौतमाद्यभिनुतं वंदे घनश्यामलं वंदे तारकपीठमध्यनिलयं वंदे जगन्नायकम् । वंदे भक्तजनौघदेविवटपं वंदे धनुर्वल्लभं वंदे तत्त्वमसीतिवाक्यजनकं वंदे सदा राघवम् ॥ 134
वंदे सूर्यशशांकलोचनयुगं वंदे जगत्पावनं वंदे पत्रसहस्रपद्मनिलयं वंदे पुरारिप्रियम् । वंदे राक्षसवंशनाशनकरं वंदे सुधाशीतलं वंदे देवकपींद्रकोटिविनुतं वंदे सदा राघवम् ॥ 135
वंदे सागरगर्वभंगविशिखं वंदे जगज्जीवनं वंदे कौशिकयागरक्षणकरं वंदे गुरुणां गुरुम् । वंदे बाणशरासनोज्ज्वलकरं वंदे जटावल्कलं वंदे लक्ष्मणभूमिजान्वितमहं वंदे सदा राघवम् ॥ 136
वंदे पांडरपुंडरीकनयनं वंदेऽब्जबिंबाननं वंदे कंबुगलं कराब्जयुगलं वंदे ललाटोज्ज्वलम् । वंदे पीतदुकूलमंबुदनिभं वंदे जगन्मोहनं वंदे कारणमानुषोज्ज्वलतनुं वंदे सदा राघवम् ॥ 137
वंदे नीलसरोजकोमलरुचिं वंदे जगद्वंदितं वंदे सूर्यकुलाब्धिकौस्तुभमणिं वंदे सुराराधितम् । वंदे पातकपंचकप्रहरणं वंदे जगत्कारणं वंदे विंशतिपंचतत्त्वरहितं वंदे सदा राघवम् ॥ 138
वंदे साधकवर्गकल्पकतरुं वंदे त्रिमूर्त्यात्मकं वंदे नादलयांतरस्थलगतं वंदे त्रिवर्गात्मकम् । वंदे रागविहीनचित्तसुलभं वंदे सभानायकं वंदे पूर्णदयामृतार्णवमहं वंदे सदा राघवम् ॥ 139
वंदे सात्त्विकतत्त्वमुद्रिततनुं वंदे सुधादायकं वंदे चारुचतुर्भुजं मणिनिभं वंदे षडब्जस्थितम् । वंदे ब्रह्मपिपीलिकादिनिलयं वंदे विराट्विग्रहं वंदे पन्नगतल्पशायिनमहं वंदे सदा राघवम् ॥ 140
सिंहासनस्थं मुनिसिद्धसेव्यं रक्तोत्पलालंकृतपादपद्मम् । सीतासमेतं शशिसूर्यनेत्रं रामं भजे राघवरामचंद्रम् ॥ 141
श्रीरामभद्राश्रितसद्गुरूणां पादारविंदं भजतां नराणाम् । आरोग्यमैश्वर्यमनंतकीर्ति- रंते च विष्णोः पदमस्ति सत्यम् ॥ 142
दशरथवरपुत्रं जानकीसत्कलत्रं दशमुखहरदक्षं पद्मपत्रायताक्षम् । करधृतशरचापं चारुमुक्ताकलापं रघुकुलनृवरेण्यं राममीडे शरण्यम् ॥ 143
दशमुखगजसिंहं दैत्यगर्वातिरंहं कदनभयदहस्तं तारकब्रह्म शस्तम् । मणिखचितकिरीटं मंजुलालापवाटं दशरथकुलचंद्रं रामचंद्रं भजेऽहम् ॥ 144
रामं रक्तसरोरुहाक्षममलं लंकाधिनाथांतकं कौसल्यानयनोत्सुकं रघुवरं नागेंद्रतल्पस्थितम् । वैदेहीकुचकुंभकुंकुमरजोलंकारहारं हरिं मायामानुषविग्रहं रघुपतिं सीतासमेतं भजे ॥ 145
रामं राक्षसमर्दनं रघुवरं दैतेयभिध्वंसिनं सुग्रीवेप्सितराज्यदं सुरपतेर्भीत्यंतकं शार्ंगिणम् । भक्तानामभयप्रदं भयहरं पापौघविध्वंसिनं सामीरिस्तुतपादपद्मयुगलं सीतासमेतं भजे ॥ 146
यत्पादांबुजरेणुना मुनिसती मुक्तिंगता यन्महः पुण्यं पातकनाशनं त्रिजगतां भाति स्मृतं पावनम् । स्मृत्वा राघवमप्रमेयममलं पूर्णेंदुमंदस्मितं तं रामं सरसीरुहाक्षममलं सीतासमेतं भजे ॥ 147
वैदेहीकुचमंडलाग्र-विलसन्माणिक्यहस्तांबुजं चंचत्कंकणहारनूपुर-लसत्केयूरहारान्वितम् । दिव्यश्रीमणिकुंडलोज्ज्वल-महाभूषासहस्रान्वितं वीरश्रीरघुपुंगवं गुणनिधिं सीतासमेतं भजे ॥ 148
वैदेहीकुचमंडलोपरि-लसन्माणिक्यहारावली- मध्यस्थं नवनीतकोमलरुचिं नीलोत्पलश्यामलम् । कंदर्पायुतकोटिसुंदरतनुं पूर्णेंदुबिंबाननं कौसल्याकुलभूषणं रघुपतिं सीतासमेतं भजे ॥ 149
दिव्यारण्ययतींद्रनामनगरे मध्ये महामंटपे स्वर्णस्तंभसहस्रषोडशयुते मंदारमूलाश्रिते । नानारत्नविचित्रनिर्मलमहासिंहासने संस्थितं सीतालक्ष्मणसेवितं रघुपतिं सीतासमेतं भजे ॥ 150
कस्तूरीतिलकं कपींद्रहरणं कारुण्यवारांनिधिं क्षीरांभोधिसुतामुखाब्जमधुपं कल्याणसंपन्निधिम् । कौसल्यानयनोत्सुकं कपिवरत्राणं महापौरुषं कौमारप्रियमर्ककोटिसदृशं सीतासमेतं भजे ॥ 151
विद्युत्कोटिदिवाकरद्युतिनिभं श्रीकौस्तुभालंकृतं योगींद्रैस्सनकादिभिः परिवृतं कैलासनाथप्रियम् । मुक्तारत्नकिरीटकुंडलधरं ग्रैवेयहारान्वितं वैदेहीकुचसन्निवासमनिशं सीतासमेतं भजे ॥ 152
मेघश्यामलमंबुजातनयनं विस्तीर्णवक्षस्स्थलं बाहुद्वंद्वविराजितं सुवदनं शोणांघ्रिपंकेरुहम् । नानारत्नविचित्रभूषणयुतं कोदंडबाणांकितं त्रैलोक्याऽप्रतिमानसुंदरतनुं सीतासमेतं भजे ॥ 153
वैदेहीयुतवामभागमतुलं वंदारुमंदारकं वंदे प्रस्तुतकीर्तिवासिततरुच्छायानुकारिप्रभम् । वैदेहीकुचकुंकुमांकितमहोरस्कं महाभूषणं वेदांतैरुपगीयमानमसकृत्सीतासमेतं भजे ॥ 154
देवानां हितकारणेन भुवने धृत्वाऽवतारं ध्रुवं रामं कौशिकयज्ञविघ्नदलनं तत्ताटकासंहरम् । नित्यं गौतमपत्निशापदलनश्रीपादरेणुं शुभं शंभोरुत्कटचापखंडनमहासत्वं भजे राघवम् ॥ 155
श्रीरामं नवरत्नकुंडलधरं श्रीरामरक्षामणिं श्रीरामं च सहस्रभानुसदृशं श्रीरामचंद्रोदयम् । श्रीरामं श्रुतकीर्तिमाकरमहं श्रीराममुक्तिप्रदं श्रीरामं रघुनंदनं भयहरं श्रीरामचंद्रं भजे ॥ 156
राममिंदीवरश्यामं राजीवायतलोचनम् । ज्याघोषनिर्जितारातिं जानकीरमणं भजे ॥ 157
दीर्घबाहुमरविंदलोचनं दीनवत्सलमनाथरक्षकम् । दीक्षितं सकललोकरक्षणे दैवतं दशरथात्मजं भजे ॥ 158
प्रातस्स्मरामि रघुनाथमुखारविंदं मंदस्मितं मधुरभाषि विशालफालम् । कर्णावलंबिचलकुंडलगंडभागं कर्णांतदीर्घनयनं नयनाभिरामम् ॥ 159
प्रातर्भजामि रघुनाथकरारविंदं रक्षोगणाय भयदं वरदं निजेभ्यः । यद्राजसंसदि विभिद्य महेशचापं सीताकरग्रहणमंगलमाप सद्यः ॥ 160
प्रातर्नमामि रघुनाथपदारविंदं पद्मांकुशादिशुभरेखशुभावहं च । योगींद्रमानसमधुव्रतसेव्यमानं शापापहं सपदि गौतमधर्मपत्न्याः ॥ 161
प्रातर्वदामि वचसा रघुनाथनाम वाग्दोषहारि सकलं कलुषं निहंतृ । यत्पार्वती स्वपतिना सह भोक्तुकामा प्रीत्या सहस्रहरिनामसमं जजाप ॥ 162
प्रातः श्रये श्रुतिनुतं रघुनाथमूर्तिं नीलांबुदोत्पलसितेतररत्ननीलाम् । आमुक्तमौक्तिकविशेषविभूषणाढ्यां ध्येयां समस्तमुनिभिर्निजभृत्यमुख्यैः ॥ 163
रघुकुलवरनाथो जानकीप्राणनाथः पितृवचनविधाता कीशराज्यप्रदाता । प्रतिनिशिचरनाशः प्राप्तराज्यप्रवेशो विहितभुवनरक्षः पातु पद्मायताक्षः ॥ 164
कुवलयदलनीलः पीतवासाः स्मितास्यो विविधरुचिरभूषाभूषितो दिव्यमूर्तिः । दशरथकुलनाथो जानकीप्राणनाथो निवसतु मम चित्ते सर्वदा रामचंद्रः ॥ 165
जयतु जयतु रामो जानकीवल्लभोऽयं जयतु जयतु रामश्चंद्रचूडार्चितांघ्रिः । जयतु जयतु वाणीनाथनाथः परात्मा जयतु जयतु रामोऽनाथनाथः कृपालुः ॥ 166
वदतु वदतु वाणी रामरामेति नित्यं जयतु जयतु चित्तं रामपादारविंदम् । नमतु नमतु देहं संततं रामचंद्रं न भवतु मम पापं जन्मजन्मांतरेषु ॥ 167
आनंदरूपं वरदं प्रसन्नं सिंहेक्षणं सेवकपारिजातम् । नीलोत्पलांगं भुवनैकमित्रं रामं भजे राघवरामचंद्रम् ॥ 168
लंकाविरामं रणरंगभीमं राजीवनेत्रं रघुवंशमित्रम् । कारुण्यमूर्तिं करुणाप्रपूर्तिं श्रीरामचंद्रं शरणं प्रपद्ये ॥ 169
सुग्रीवमित्रं परमं पवित्रं सीताकलत्रं नवहेमसूत्रम् । कारुण्यपात्रं शतपत्रनेत्रं श्रीरामचंद्रं शिरसा नमामि ॥ 170
श्रीराघवेति रमणेति रघूद्वहेति रामेति रावणहरेति रमाधवेति । साकेतनाथसुमुखेति च सुव्रतेति वाणी सदा वदतु राम हरे हरेति ॥ 171
श्रीरामनामामृतमंत्रबीजं संजीवनं चेन्मनसि प्रतिष्ठम् । हालाहलं वा प्रलयानलं वा मृत्योर्मुखं वा वितथीकरोति ॥ 172
किं योगशास्त्रैः किमशेषविद्या किं यागगंगादिविशेषतीर्थैः । किं ब्रह्मचर्याश्रमसंचरेण भक्तिर्नचेत्ते रघुवंशकीर्त्याम् ॥ 173
इदं शरीरं श्लथसंधिजर्झरं पतत्यवश्यं परिणामपेशलम् । किमौषथं पृच्छसि मूढ दुर्मते निरामयं रामकथामृतं पिब ॥ 174
हे रामभद्राश्रय हे कृपालो हे भक्तलोकैकशरण्यमूर्ते । पुनीहि मां त्वच्चरणारविंदं जगत्पवित्रं शरणं ममाऽस्तु ॥ 175
नीलाभ्रदेह निखिलेश जगन्निवास राजीवनेत्र रमणीयगुणाभिराम । श्रीदाम दैत्यकुलमर्दन रामचंद्र त्वत्पादपद्ममनिशं कलयामि चित्ते ॥ 176
श्रीरामचंद्र करुणाकर दीनबंधो सीतासमेत भरताग्रज राघवेश । पापार्तिभंजन भयातुरदीनबंधो पापांबुधौ पतितमुद्धर मामनाथम् ॥ 177
इंदीवरदलश्याम-मिंदुकोटिनिभाननम् । कंदर्पकोटिलावण्यं वंदेऽहं रघुनंदनम् ॥ 175
इति श्रीबोधेंद्रसरस्वती कृत श्रीरामकर्णामृतम् ॥
Browse Related Categories: