Surya Bhagavan · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ उदयगिरिमुपेतं भास्करं पद्महस्तं सकलभुवननेत्रं रत्नरज्जूपमेयम् । तिमिरकरिमृगेंद्रं बोधकं पद्मिनीनां सुरवरमभिवंद्यं सुंदरं विश्वदीपम् ॥ 1 ॥
ॐ शिखायां भास्कराय नमः । ललाटे सूर्याय नमः । भ्रूमध्ये भानवे नमः । कर्णयोः दिवाकराय नमः । नासिकायां भानवे नमः । नेत्रयोः सवित्रे नमः । मुखे भास्कराय नमः । ओष्ठयोः पर्जन्याय नमः । पादयोः प्रभाकराय नमः ॥ 2 ॥
ॐ ह्रां ह्रीं ह्रूं ह्रैं ह्रौं ह्रः । ॐ हंसां हंसीं हंसूं हंसैं हंसौं हंसः ॥ 3 ॥
ॐ सत्यतेजोज्ज्वलज्वालामालिने मणिकुंभाय हुं फट् स्वाहा । ॐ स्थितिरूपककारणाय पूर्वादिग्भागे मां रक्षतु ॥ 4 ॥
ॐ ब्रह्मतेजोज्ज्वलज्वालामालिने मणिकुंभाय हुं फट् स्वाहा । ॐ तारकब्रह्मरूपाय परयंत्र-परतंत्र-परमंत्र-सर्वोपद्रवनाशनार्थं दक्षिणदिग्भागे मां रक्षतु ॥ 5 ॥
ॐ विष्णुतेजोज्ज्वलज्वालामालिने मणिकुंभाय हुं फट् स्वाहा । ॐ प्रचंडमार्तांड उग्रतेजोरूपिणे मुकुरवर्णाय तेजोवर्णाय मम सर्वराजस्त्रीपुरुष-वशीकरणार्थं पश्चिमदिग्भागे मां रक्षतु ॥ 6 ॥
ॐ रुद्रतेजोज्ज्वलज्वालामालिने मणिकुंभाय हुं फट् स्वाहा । ॐ भवाय रुद्ररूपिणे उत्तरदिग्भागे सर्वमृत्योपशमनार्थं मां रक्षतु ॥ 7 ॥
ॐ अग्नितेजोज्ज्वलज्वालामालिने मणिकुंभाय हुं फट् स्वाहा । ॐ तिमिरतेजसे सर्वरोगनिवारणाय ऊर्ध्वदिग्भागे मां रक्षतु ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
ॐ सर्वतेजोज्ज्वलज्वालामालिने मणिकुंभाय हुं फट् स्वाहा । ॐ नमस्कारप्रियाय श्रीसूर्यनारायणाय अधोदिग्भागे सर्वाभीष्टसिद्ध्यर्थं मां रक्षतु ॥ 9 ॥
मार्तांडाय नमः भानवे नमः हंसाय नमः सूर्याय नमः दिवाकराय नमः तपनाय नमः भास्कराय नमः मां रक्षतु ॥ 10 ॥
मित्र-रवि-सूर्य-भानु-खगपूष-हिरण्यगर्भ- मरीच्यादित्य-सवित्रर्क-भास्करेभ्यो नमः शिरस्थाने मां रक्षतु ॥ 11 ॥
सूर्यादि नवग्रहेभ्यो नमः ललाटस्थाने मां रक्षतु ॥ 12 ॥
धराय नमः धृवाय नमः सोमाय नमः अथर्वाय नमः अनिलाय नमः अनलाय नमः प्रत्यूषाय नमः प्रतापाय नमः मूर्ध्निस्थाने मां रक्षतु ॥ 13 ॥
वीरभद्राय नमः गिरीशाय नमः शंभवे नमः अजैकपदे नमः अहिर्बुध्ने नमः पिनाकिने नमः भुवनाधीश्वराय नमः दिशांतपतये नमः पशुपतये नमः स्थाणवे नमः भवाय नमः ललाटस्थाने मां रक्षतु ॥ 14 ॥
धात्रे नमः अंशुमते नमः पूष्णे नमः पर्जन्याय नमः विष्णवे नमः नेत्रस्थाने मां रक्षतु ॥ 15 ॥
अरुणाय नमः सूर्याय नमः इंद्राय नमः रवये नमः सुवर्णरेतसे नमः यमाय नमः दिवाकराय नमः कर्णस्थाने मां रक्षतु ॥ 16 ॥
असितांगभैरवाय नमः रुरुभैरवाय नमः चंडभैरवाय नमः क्रोधभैरवाय नमः उन्मत्तभैरवाय नमः भीषणभैरवाय नमः कालभैरवाय नमः संहारभैरवाय नमः मुखस्थाने मां रक्षतु ॥ 17 ॥
ब्राह्म्यै नमः महेश्वर्यै नमः कौमार्यै नमः वैष्णव्यै नमः वराह्यै नमः इंद्राण्यै नमः चामुंडायै नमः कंठस्थाने मां रक्षतु ॥ 18 ॥
इंद्राय नमः अग्नये नमः यमाय नमः निर्ऋतये नमः वरुणाय नमः वायवे नमः कुबेराय नमः ईशानाय नमः बाहुस्थाने मां रक्षतु ॥ 19 ॥
मेषादिद्वादशराशिभ्यो नमः हृदयस्थाने मां रक्षतु ॥ 20 ॥
वज्रायुधाय नमः शक्त्यायुधाय नमः दंडायुधाय नमः खड्गायुधाय नमः पाशायुधाय नमः अंकुशायुधाय नमः गदायुधाय नमः त्रिशूलायुधाय नमः पद्मायुधाय नमः चक्रायुधाय नमः कटिस्थाने मां रक्षतु ॥ 21 ॥
मित्राय नमः दक्षिणहस्ते मां रक्षतु । रवये नमः वामहस्ते मां रक्षतु । सूर्याय नमः हृदये मां रक्षतु । भानवे नमः मूर्ध्निस्थाने मां रक्षतु । खगाय नमः दक्षिणपादे मां रक्षतु । पूष्णे नमः वामपादे मां रक्षतु । हिरण्यगर्भाय नमः नाभिस्थाने मां रक्षतु । मरीचये नमः कंठस्थाने मां रक्षतु । आदित्याय नमः दक्षिणचक्षूषि मां रक्षतु । सवित्रे नमः वामचक्षुषि मां रक्षतु । भास्कराय नमः हस्ते मां रक्षतु । अर्काय नमः कवचे मां रक्षतु ॥ 22
ॐ भास्कराय विद्महे महाद्युतिकराय धीमहि । तन्नो आदित्यः प्रचोदयात् ॥ 23 ॥
इति श्री सूर्य पंजर स्तोत्रम् ॥
Browse Related Categories: