Karma Siddhanta · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
जनक उवाच
हंतात्मज्ञानस्य धीरस्य खेलतो भोगलीलया । न हि संसारवाहीकैर्मूढैः सह समानता ॥ 4-1
यत् पदं प्रेप्सवो दीनाः शक्राद्याः सर्वदेवताः । अहो तत्र स्थितो योगी न हर्षमुपगच्छति ॥ 4-2॥
तज्ज्ञस्य पुण्यपापाभ्यां स्पर्शो ह्यंतर्न जायते । न ह्याकाशस्य धूमेन दृश्यमानापि संगतिः ॥ 4-3॥
आत्मैवेदं जगत्सर्वं ज्ञातं येन महात्मना । यदृच्छया वर्तमानं तं निषेद्धुं क्षमेत कः ॥ 4-4॥
आब्रह्मस्तंबपर्यंते भूतग्रामे चतुर्विधे । विज्ञस्यैव हि सामर्थ्यमिच्छानिच्छाविवर्जने ॥ 4-5॥
आत्मानमद्वयं कश्चिज्जानाति जगदीश्वरम् । यद् वेत्ति तत्स कुरुते न भयं तस्य कुत्रचित् ॥ 4-6॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts