Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
प्राचेतसस्तु भगवन्नपरो हि दक्ष- स्त्वत्सेवनं व्यधित सर्गविवृद्धिकामः । आविर्बभूविथ तदा लसदष्टबाहु- स्तस्मै वरं ददिथ तां च वधूमसिक्नीम् ॥1॥
तस्यात्मजास्त्वयुतमीश पुनस्सहस्रं श्रीनारदस्य वचसा तव मार्गमापुः । नैकत्रवासमृषये स मुमोच शापं भक्तोत्तमस्त्वृषिरनुग्रहमेव मेने ॥2॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
षष्ट्या ततो दुहितृभिः सृजतः कुलौघान् दौहित्रसूनुरथ तस्य स विश्वरूपः । त्वत्स्तोत्रवर्मितमजापयदिंद्रमाजौ देव त्वदीयमहिमा खलु सर्वजैत्रः ॥3॥
प्राक्शूरसेनविषये किल चित्रकेतुः पुत्राग्रही नृपतिरंगिरसः प्रभावात् । लब्ध्वैकपुत्रमथ तत्र हते सपत्नी- संघैरमुह्यदवशस्तव माययासौ ॥4॥
तं नारदस्तु सममंगिरसा दयालुः संप्राप्य तावदुपदर्श्य सुतस्य जीवम् । कस्यास्मि पुत्र इति तस्य गिरा विमोहं त्यक्त्वा त्वदर्चनविधौ नृपतिं न्ययुंक्त ॥5॥
स्तोत्रं च मंत्रमपि नारदतोऽथ लब्ध्वा तोषाय शेषवपुषो ननु ते तपस्यन् । विद्याधराधिपतितां स हि सप्तरात्रे लब्ध्वाप्यकुंठमतिरन्वभजद्भवंतम् ॥6॥
तस्मै मृणालधवलेन सहस्रशीर्ष्णा रूपेण बद्धनुतिसिद्धगणावृतेन । प्रादुर्भवन्नचिरतो नुतिभिः प्रसन्नो दत्वाऽऽत्मतत्त्वमनुगृह्य तिरोदधाथ ॥7॥
त्वद्भक्तमौलिरथ सोऽपि च लक्षलक्षं वर्षाणि हर्षुलमना भुवनेषु कामम् । संगापयन् गुणगणं तव सुंदरीभिः संगातिरेकरहितो ललितं चचार ॥8॥
अत्यंतसंगविलयाय भवत्प्रणुन्नो नूनं स रूप्यगिरिमाप्य महत्समाजे । निश्शंकमंककृतवल्लभमंगजारिं तं शंकरं परिहसन्नुमयाभिशेपे ॥9॥
निस्संभ्रमस्त्वयमयाचितशापमोक्षो वृत्रासुरत्वमुपगम्य सुरेंद्रयोधी । भक्त्यात्मतत्त्वकथनैः समरे विचित्रं शत्रोरपि भ्रममपास्य गतः पदं ते ॥10॥
त्वत्सेवनेन दितिरिंद्रवधोद्यताऽपि तान्प्रत्युतेंद्रसुहृदो मरुतोऽभिलेभे । दुष्टाशयेऽपि शुभदैव भवन्निषेवा तत्तादृशस्त्वमव मां पवनालयेश ॥11॥
Browse Related Categories: