The nine verses saluting the Navagraha, from Sūrya to Ketu — one per graha.
the Nine Planets (Navagraha) · Traditional devotional text · Source: Vyāsa, Navagraha Stotra (traditional) (Traditional / public domain)
Sūrya
जपाकुसुम-सङ्काशं काश्यपेयं महाद्युतिम् । तमोऽरिं सर्व-पापघ्नं प्रणतोऽस्मि दिवाकरम् ॥
Candra
दधि-शङ्ख-तुषाराभं क्षीरोदार्णव-सम्भवम् । नमामि शशिनं सोमं शम्भोर्-मुकुट-भूषणम् ॥
Maṅgala
धरणी-गर्भ-सम्भूतं विद्युत्-कान्ति-समप्रभम् । कुमारं शक्ति-हस्तं तं मङ्गलं प्रणमाम्यहम् ॥
Budha
प्रियङ्गु-कलिका-श्यामं रूपेणाप्रतिमं बुधम् । सौम्यं सौम्य-गुणोपेतं तं बुधं प्रणमाम्यहम् ॥
Bṛhaspati
देवानां च ऋषीणां च गुरुं काञ्चन-सन्निभम् । बुद्धि-भूतं त्रि-लोकेशं तं नमामि बृहस्पतिम् ॥
Śukra
हिम-कुन्द-मृणालाभं दैत्यानां परमं गुरुम् । सर्व-शास्त्र-प्रवक्तारं भार्गवं प्रणमाम्यहम् ॥
Śani
नीलाञ्जन-समाभासं रवि-पुत्रं यमाग्रजम् । छाया-मार्ताण्ड-सम्भूतं तं नमामि शनैश्चरम् ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
Rāhu
अर्ध-कायं महा-वीर्यं चन्द्रादित्य-विमर्दनम् । सिंहिका-गर्भ-सम्भूतं तं राहुं प्रणमाम्यहम् ॥
Ketu
पलाश-पुष्प-सङ्काशं तारका-ग्रह-मस्तकम् । रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥