Chanakya Neethi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
मुक्तिमिच्छसि चेत्तात विषयान्विषवत्त्यज । क्षमार्जवदयाशौचं सत्यं पीयूषवत्पिब ॥ 01 ॥
परस्परस्य मर्माणि ये भाषंते नराधमाः । त एव विलयं यांति वल्मीकोदरसर्पवत् ॥ 02 ॥
गंधः सुवर्णे फलमिक्षुदंडे नाकरि पुष्पं खलु चंदनस्य । विद्वांधनाढ्यश्च नृपश्चिरायुः धातुः पुरा कोऽपि न बुद्धिदोऽभूत् ॥ 03 ॥
सर्वौषधीनाममृता प्रधाना सर्वेषु सौख्येष्वशनं प्रधानम् । सर्वेंद्रियाणां नयनं प्रधानं सर्वेषु गात्रेषु शिरः प्रधानम् ॥ 04 ॥
दूतो न संचरति खे न चलेच्च वार्ता पूर्वं न जल्पितमिदं न च संगमोऽस्ति । व्योम्नि स्थितं रविशाशिग्रहणं प्रशस्तं जानाति यो द्विजवरः स कथं न विद्वान् ॥ 05 ॥
विद्यार्थी सेवकः पांथः क्षुधार्तो भयकातरः । भांडारी प्रतिहारी च सप्त सुप्तान्प्रबोधयेत् ॥ 06 ॥
अहिं नृपं च शार्दूलं वृद्धं च बालकं तथा । परश्वानं च मूर्खं च सप्त सुप्तान्न बोधयेत् ॥ 07 ॥
अर्धाधीताश्च यैर्वेदास्तथा शूद्रान्नभोजनाः । ते द्विजाः किं करिष्यंति निर्विषा इव पन्नगाः ॥ 08 ॥
यस्मिन्रुष्टे भयं नास्ति तुष्टे नैव धनागमः । निग्रहोऽनुग्रहो नास्ति स रुष्टः किं करिष्यति ॥ 09 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
निर्विषेणापि सर्पेण कर्तव्या महती फणा । विषमस्तु न चाप्यस्तु घटाटोपो भयंकरः ॥ 10 ॥
प्रातर्द्यूतप्रसंगेन मध्याह्ने स्त्रीप्रसंगतः । रात्रौ चौरप्रसंगेन कालो गच्छंति धीमताम् ॥ 11 ॥
स्वहस्तग्रथिता माला स्वहस्तघृष्टचंदनम् । स्वहस्तलिखितं स्तोत्रं शक्रस्यापि श्रियं हरेत् ॥ 12 ॥
इक्षुदंडास्तिलाः शूद्राः कांता हेम च मेदिनी । चंदनं दधि तांबूलं मर्दनं गुणवर्धनम् ॥ 13 ॥
दह्यमानाः सुतीव्रेण नीचाः परयशोऽग्निना अशक्तास्तत्पदं गंतुं ततो निंदां प्रकुर्वते । दरिद्रता धीरतया विराजतेकुवस्त्रता शुभ्रतया विराजते कदन्नता चोष्णतया विराजते कुरूपता शीलतया विराजते ॥ 14 ॥
Browse Related Categories: