Shiva · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
कलाभ्यां चूडालंकृत-शशिकलाभ्यां निजतपः- -फलाभ्यां भक्तेषु प्रकटित-फलाभ्यां भवतु मे । शिवाभ्या-मस्तोक-त्रिभुवन-शिवाभ्यां हृदि पुन- -र्भवाभ्या-मानंद-स्फुरदनुभवाभ्यां नतिरियम् ॥ 1 ॥
गलंती शंभो त्वच्चरित-सरितः किल्बिषरजो दलंती धीकुल्या-सरणिषु पतंती विजयताम् । दिशंती संसार-भ्रमण-परितापोपशमनं वसंती मच्चेतोह्रदभुवि शिवानंदलहरी ॥ 2 ॥
त्रयीवेद्यं हृद्यं त्रिपुर-हरमाद्यं त्रिनयनं जटाभारोदारं चलदुरगहारं मृगधरम् । महादेवं देवं मयि सदयभावं पशुपतिं चिदालंबं सांबं शिवमति-विडंबं हृदि भजे ॥ 3 ॥
सहस्रं वर्तंते जगति विबुधाः क्षुद्रफलदा न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम् । हरि-ब्रह्मादीना-मपि निकट-भाजामसुलभं चिरं याचे शंभो शिव तव पदांभोज-भजनम् ॥ 4 ॥
स्मृतौ शास्त्रे वैद्ये शकुन-कविता-गानफणितौ पुराणे मंत्रे वा स्तुति-नटन-हास्येष्वचतुरः । कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते पशुं मां सर्वज्ञ प्रथित कृपया पालय विभो ॥ 5 ॥
घटो वा मृत्पिंडो-ऽप्यणुरपि च धूमोऽग्निरचलः पटो वा तंतुर्वा परिहरति किं घोरशमनम् । वृथा कंठक्षोभं वहसि तरसा तर्कवचसा पदांभोजं शंभोर्भज परमसौख्यं व्रज सुधीः ॥ 6 ॥
मनस्ते पादाब्जे निवसतु वचः स्तोत्रफणितौ करौ चाभ्यर्चायां श्रुतिरपि कथा कर्णनविधौ । तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे [बुद्धिः नयनयुगलं] पर-ग्रंथान्कैर्वा परमशिव जाने परमतः ॥ 7 ॥
Offered for worship and study, not as prediction. Non-commercial.
यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि- [मणिः जले] -र्जले पैष्टे क्षीरं भवति मृगतृष्णा-सु सलिलम् । तथा देवभ्रांत्या भजति भवदन्यं जडजनो महादेवेशं त्वां मनसि च न मत्वा पशुपते ॥ 8 ॥
गभीरे कासारे विशति विजने घोरविपिने विशाले शैले च भ्रमति कुसुमार्थं जडमतिः । समर्प्यैकं चेतः सरसिजमु-मानाथ भवते सुखे-नावस्थातुं जन इह न जानाति किमहो ॥ 9 ॥
नरत्वं देवत्वं नगवन-मृगत्वं मशकता पशुत्वं कीटत्वं भवतु विहगत्वादि जननम् । सदा त्वत्पादाब्ज-स्मरण-परमानंदलहरी- -विहारासक्तं चेद्धृदयमिह किं तेन वपुषा ॥ 10 ॥
वटुर्वा गेही वा यतिरपि जटी वा तदितरो नरो वा यः कश्चिद्भवतु भव किं तेन भवति । यदीयं हृत्पद्मं यदि भवदधीनं पशुपते तदीयस्त्वं शंभो भवसि भवभारं च वहसि ॥ 11 ॥
गुहायां गेहे वा बहिरपि वने वाऽद्रिशिखरे जले वा वह्नौ वा वसतु वसतेः किं वद फलम् । सदा यस्यैवांतः-करणमपि शंभो तव पदे स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥ 12 ॥
असारे संसारे निज-भजनदूरे जडधिया भ्रमंतं मामंधं परमकृपया पातुमुचितम् । मदन्यः को दीनस्तव कृपण-रक्षातिनिपुण- [रक्षातिनिपुणः त्वदन्यः] -स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते ॥ 13 ॥
प्रभुस्त्वं दीनानां खलु परमबंधुः पशुपते प्रमुख्योऽहं तेषामपि किमुत बंधुत्वमनयोः । त्वयैव क्षंतव्याः शिव मदपराधाश्च सकलाः प्रयत्ना-त्कर्तव्यं मदवनमियं बंधुसरणिः ॥ 14 ॥
उपेक्षा नो चेत्किं न हरसि भवद्ध्यान-विमुखां दुराशा-भूयिष्ठां विधिलिपि-मशक्तो यदि भवान् । शिरस्तद्वैधात्रं ननखलु सुवृत्तं पशुपते कथं वा निर्यत्नं करनख-मुखेनैव लुलितम् ॥ 15 ॥
विरिंचि-र्दीर्घायु-र्भवतु भवता तत्परशिर- [तत्परशिरः चतुष्कं] -श्चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् । विचारः को वा मां विशद कृपया पाति शिव ते कटाक्षव्यापारः स्वयमपि च दीनावनपरः ॥ 16 ॥
फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो प्रसन्नेऽपि स्वामिन् भवदमल-पादाब्ज-युगलम् । कथं पश्येयं मां स्थगयति नमः संभ्रमजुषां निलिंपानां श्रेणि-र्निज-कनक-माणिक्य-मकुटैः ॥ 17 ॥
त्वमेको लोकानां परमफलदो दिव्यपदवीं वहंतस्त्वन्मूलां पुनरपि भजंते हरिमुखाः । कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती कदा वा मद्रक्षां वहसि करुणा-पूरितदृशा ॥ 18 ॥
दुराशा-भूयिष्ठे दुरधिप-गृहद्वार-घटके दुरंते संसारे दुरितनिलये दुःखजनके । मदायासं किं न व्यपनयसि कस्योप-कृतये वदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयम् ॥ 19 ॥
सदा मोहाटव्यां चरति युवतीनां कुचगिरौ नटत्याशा-शाखा-स्वटति झटिति स्वैरमभितः । कपालिन् भिक्षो मे हृदय-कपिमत्यंत-चपलं दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो ॥ 20 ॥
धृति-स्तंभाधारां दृढ-गुण-निबद्धां सगमनां विचित्रां पद्माढ्यां प्रतिदिवस-सन्मार्ग-घटिताम् । स्मरारे मच्चेतः-स्फुट-पटकुटीं प्राप्य विशदां जय स्वामिन् शक्त्या सह शिव गणैः सेवित विभो ॥ 21 ॥
प्रलोभाद्यैरर्थाहरण-परतंत्रो धनिगृहे [प्रलोभाद्यैः अर्थाहरण-परतंत्रो] प्रवेशोद्युक्तः सन् भ्रमति बहुधा तस्करपते । इमं चेतश्चोरं कथमिह सहे शंकर विभो तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ॥ 22 ॥
करोमि त्वत्पूजां सपदि सुखदो मे भव विभो विधित्वं विष्णुत्वं दिशसि खलु तस्याः फलमिति । पुनश्च त्वां द्रष्टुं दिवि भुवि वहन्पक्षि-मृगता- -मदृष्ट्वा तत्खेदं कथमिह सहे शंकर विभो ॥ 23 ॥
कदा वा कैलासे कनकमणिसौधे सह गणै- [सह गणैः वसन्] -र्वसन् शंभोरग्रे स्फुट-घटित-मूर्धांजलिपुटः । विभो सांब स्वामि-न्परमशिव पाहीति निगद- -न्विधातॄणां कल्पान् क्षणमिव विनेष्यामि सुखतः ॥ 24 ॥
स्तवै-र्ब्रह्मादीनां जयजय-वचोभिर्नियमिनां गणानां केलीभिर्मदकलमहोक्षस्य ककुदि । [केलीभिः मदकल-महोक्षस्य] स्थितं नीलग्रीवं त्रिनयन-मुमाश्लिष्ट-वपुषं कदा त्वां पश्येयं करधृत-मृगं खंड-परशुम् ॥ 25 ॥
कदा वा त्वां दृष्ट्वा गिरिश तव भव्यांघ्रि युगलं गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् । समा श्लिष्या घ्राय स्फुट जलज गंधान् परिमला- -नलाभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये ॥ 26 ॥ [ब्रह्माद्यैः मुद-मनुभविष्यामि]
करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ गृहस्थे स्वर्भूजा मर सुरभि चिंतामणिगणे । शिरःस्थे शीतांशौ चरणयुगलस्थेऽखिलशुभे कमर्थं दास्येऽहं भवतु भवदर्थं मम मनः ॥ 27 ॥
सारूप्यं तव पूजने शिव महादेवेति संकीर्तने सामीप्यं शिवभक्ति-धुर्यजनता-सांगत्य-संभाषणे ॥ सालोक्यं च चराचरात्मकतनुध्याने भवानीपते सायुज्यं मम सिद्धमत्र भवति स्वामिन् कृतार्थोऽस्म्यहम् ॥ 28 ॥
त्वत्पादांबुजमर्चयामि परमं त्वां चिंतयाम्यन्वहं त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो । वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां शंभो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥ 29 ॥
वस्त्रोद्धूतविधौ सहस्रकरता पुष्पार्चने विष्णुता गंधे गंधवहात्मताऽन्नपचने बर्हिर्मुखाध्यक्षता । पात्रे कांचनगर्भतास्ति मयि चेद्बालेंदुचूडामणे शुश्रूषां करवाणि ते पशुपते स्वामिंस्त्रिलोकीगुरो ॥ 30 ॥
नालं वा परमोपकारकमिदं त्वेकं पशूनां पते पश्यन् कुक्षिगतांश्चराचरगणान् बाह्यस्थितान् रक्षितुम् । सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं निक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया ॥ 31 ॥
ज्वालोग्रः सकलामरातिभयदः क्ष्वेलः कथं वा त्वया दृष्टः किं च करे धृतः करतले किं पक्वजंबूफलम् । जिह्वायां निहितश्च सिद्धघुटिका वा कंठदेशे भृतः किं ते नीलमणिर्विभूषणमयं शंभो महात्मन् वद ॥ 32 ॥
नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुतिः पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् । स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते का वा मुक्तिरितः कुतो भवति चेत्किं प्रार्थनीयं तदा ॥ 33 ॥
किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शंभो भव- -द्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते । भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपंचं लयं पश्यन्निर्भय एक एव विहरत्यानंदसांद्रो भवान् ॥ 34 ॥
योगक्षेमधुरंधरस्य सकलश्रेयःप्रदोद्योगिनो दृष्टादृष्टमतोपदेशकृतिनो बाह्यांतरव्यापिनः । सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया शंभो त्वं परमांतरंग इति मे चित्ते स्मराम्यन्वहम् ॥ 35 ॥
भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मनः कुंभे सांब तवांघ्रिपल्लवयुगं संस्थाप्य संवित्फलम् । सत्वं मंत्रमुदीरयन्निजशरीरागारशुद्धिं वहन् पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् ॥ 36 ॥
आम्नायांबुधिमादरेण सुमनःसंघाः समुद्यन्मनो [समुद्यन्मनः] मंथानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः । सोमं कल्पतरुं सुपर्वसुरभिं चिंतामणिं धीमतां नित्यानंदसुधां निरंतररमासौभाग्यमातन्वते ॥ 37 ॥
प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः प्रसन्नः शिवः सोमः सद्गणसेवितो मृगधरः पूर्णस्तमोमोचकः । चेतः पुष्करलक्षितो भवति चेदानंदपाथोनिधिः प्रागल्भ्येन विजृंभते सुमनसां वृत्तिस्तदा जायते ॥ 38 ॥
धर्मो मे चतुरंघ्रिकः सुचरितः पापं विनाशं गतं कामक्रोधमदादयो विगलिताः कालाः सुखाविष्कृताः । ज्ञानानंदमहौषधिः सुफलिता कैवल्यनाथे सदा मान्ये मानसपुंडरीकनगरे राजावतंसे स्थिते ॥ 39 ॥
धीयंत्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै- [कविताकुल्योपकुल्याक्रमैः] -रानीतैश्च सदाशिवस्य चरितांभोराशिदिव्यामृतैः । हृत्केदारयुताश्च भक्तिकलमाः साफल्यमातन्वते दुर्भिक्षान्मम सेवकस्य भगवन्विश्वेश भीतिः कुतः ॥ 40 ॥
पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युंजय स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने । जिह्वाचित्तशिरोंघ्रिहस्तनयनश्रोत्रैरहं प्रार्थितो मामाज्ञापय तन्निरूपय मुहुर्मामेव मा मेऽवचः ॥ 41 ॥
गांभीर्यं परिखापदं घनधृतिः प्राकार उद्यद्गुण- [उद्यद्गुणस्तॊमः] -स्तोमश्चाप्तबलं घनेंद्रियचयो द्वाराणि देहे स्थितः । विद्या वस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा दुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु ॥ 42 ॥
मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु स्वामिन्नादिकिरात मामकमनःकांतारसीमांतरे । वर्तंते बहुशो मृगा मदजुषो मात्सर्यमोहादय- [ मात्सर्यमोहादयः] -स्तान्हत्वा मृगयाविनोदरुचिता लाभं च संप्राप्स्यसि ॥ 43 ॥
करलग्नमृगः करींद्रभंगो घनशार्दूलविखंडनोऽस्तजंतुः । गिरिशो विशदाकृतिश्च चेतः- -कुहरे पंचमुखोऽस्ति मे कुतो भीः ॥ 44 ॥
छंदः शाखिशिखान्वितैर् [शाखिशिखान्वितैरः] द्विजवरैः संसेविते शाश्वते सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते । चेतःपक्षिशिखामणे त्यज वृथा अंचारमन्यैरलं नित्यं शंकर पादपद्मयुगलीनीडे विहारं कुरु ॥ 45 ॥
आकीर्णे नखराजिकांतिविभवै [नखराजिकांतिविभवैः] रुद्यत्सुधावैभवै-[रुद्यत्सुधावैभवैः] -राधौतेऽपि च पद्मरागललिते हंसव्रजैराश्रिते । नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु स्थित्वा मानसराजहंस गिरिजानाथांघ्रिसौधांतरे ॥ 46 ॥
शंभुध्यान वसंतसंगिनि हृदारामेऽघजीर्णच्छदाः स्रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रवालश्रिताः । दीप्यंते गुणकोरका जपवचःपुष्पाणि सद्वासना ज्ञानानंद सुधामरंदलहरी संवित्फलाभ्युन्नतिः ॥ 47 ॥
नित्यानंदरसालयं सुरमुनिस्वांतांबुजाताश्रयं स्वच्छं सद्द्विजसेवितं कलुषहृत्सद्वासना विष्कृतम् । शंभुध्यान सरोवरं व्रज मनोहं सावतंस स्थिरं किं क्षुद्रा श्रयपल्वल भ्रमण संजातश्रमं प्राप्स्यसि ॥ 48 ॥
आनंदामृत पूरिता हरपदां भोजा लवालोद्यता स्थैर्योपघ्नमुपेत्य भक्तिलतिका शाखोप शाखान्विता । उच्छैर् मानस कायमान पटलीमाक्रम्य निष्कल्मषा नित्याभीष्ट फलप्रदा भवतु मे सत्कर्म संवर्धिता ॥ 49 ॥
संध्या रंभ विजृंभितं श्रुतिशिरः स्थानांतराधि ष्ठितं सप्रेम भ्रमराभिरामं असकृत् सद्वासना शोभितम् । भोगींद्रा भरणं समस्तसुमनः पूज्यं गुणाविष्कृतं सेवे श्रीगिरि मल्लिकार्जुन महालिंगं शिवालिंगितम् ॥ 50 ॥
भृंगीच्छा नटनोत्कटः करमदग्राही स्फुरन् माधवा- [स्फुरन् माधवाव्ह्लादो] -ह्लादो नादयुतो महासितवपुः पंचेषुणा चादृतः । सत्पक्षः सुमनो वनेषु स पुनः साक्षान्मदीये मनो- -राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभुः ॥ 51 ॥
कारुण्यामृत वर्षिणं घनविपद्ग्रीष्मच् छिदाकर्मठं विद्यासस्य फलोदयाय सुमनः संसेव्य मिच्छाकृतिम् । नृत्यद् भक्त मयूरमद्रि निलयं चंचज्जटामंडलं शंभो वांछति नीलकंधर सदा त्वां मे मनश्चातकः ॥ 52 ॥
आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता-[नतानुग्राहि] -नुग्राहि प्रणवोपदे शनिनदैः केकीति यो गीयते । श्यामां शैलसमुद्भवां घनरुचिं दृष्ट्वा नटंतं मुदा वेदांतोपवने विहाररसिकं तं नीलकंठं भजे ॥ 53 ॥
संध्या घर्मदिनात्ययो हरिकराघात प्रभूतानक- [प्रभूतानकध्वानो ] -ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चंचला । भक्तानां परितोषबाष्प विततिर् वृष्टिर् मयूरी शिवा यस्मिन्नुज्ज्वल तांडवं विजयते तं नीलकंठं भजे ॥ 54 ॥ आद्यायामित तेजसे श्रुतिपदैर्वेद्याय साध्याय ते विद्यानंदमयात्मने त्रिजगतः संरक्षणोद्योगिने । ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविने सम्यक्तांडव संभ्रमाय जटिने सेयं नतिः शंभवे ॥ 55 ॥
नित्याय त्रिगुणात्मने पुरजिते कात्यायनी श्रेयसे सत्यायादि कुटुंबिने मुनिमनः प्रत्यक्ष चिन्मूर्तये । मायासृष्ट जगत्त्रयाय सकलाम्नायांतसंचारिणे सायं तांडव संभ्रमाय जटिने सेयं नतिः शंभवे ॥ 56 ॥
नित्यं स्वोदरपोषणाय सकलानुद्दिश्य वित्ताशया व्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो । मज्जन्मांतर पुण्य पाक बलतस्त्वं शर्व सर्वांतर- [सर्वांतरः] -स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षणीयोऽस्म्यहम् ॥ 57 ॥
एको वारिज बांधवः क्षितिनभो व्याप्तं तमो मंडलं भित्त्वा लोचन गोचरोऽपि भवति त्वं कोटि सूर्यप्रभः । वेद्यः किं न भवस्यहो घनतरं कीदृग्भवेन्मत्तम- [कीदृग्भवेन्मत्तमः] -स्तत्सर्वं [तत्सर्वं] व्यपनीय मे पशुपते साक्षात्प्रसन्नो भव ॥ 58 ॥
हंसः पद्मवनं समिच्छति यथा नीलांबुदं चातकः कोकः कोकनदप्रियं प्रतिदिनं चंद्रं चकोरस्तथा । चेतो वांछति मामकं पशुपते चिन्मार्गमृग्यं विभो गौरीनाथ भवत्पदाब्ज युगलं कैवल्य सौख्यप्रदम् ॥ 59 ॥
रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितो [तरोर्वृष्टितः] भीतः स्वस्थगृहं गृहस्थमतिथिर् दीनः प्रभुं धार्मिकम् । दीपं संतमसाकुलश्च शिखिनं शीता वृतस्त्वं तथा चेतः सर्वभयापहं व्रज सुखं शंभोः पदांभोरुहम् ॥ 60 ॥
अंकोलं निज-बीज-संततिरयस्कांतोपलं [संततिः अयस्कांतोपलं] सूचिका साध्वी नैजविभुं लता क्षितिरुहं सिंधुः सरिद् वल्लभम् । प्राप्नोतीह यथा तथा पशुपतेः पादारविंद द्वयं चेतोवृत्ति रुपेत्य तिष्ठति सदा सा भक्ति रित्युच्यते ॥ 61 ॥
आनंदाश्रुभिरातनोति पुलकं नैर्मल्यतश्छादनं वाचा-शंखमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः । रुद्राक्षैर् हसितेन देव वपुषो रक्षां भवद्भावना- -पर्यंके विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति ॥ 62 ॥
मार्गावर्तितपादुका पशुपतेरंगस्य कूर्चायते गंडूषांबुनिषेचनं पुररिपोर्दिव्याभिषेकायते । किंचि-द्भक्षित-मांस-शेषकबलं नव्योपहारायते भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥ 63 ॥
वक्षस्ताडनमंतकस्य कठिनापस्मारसंमर्दनं भूभृत्पर्यटनं नमत्सुरशिरःकोटीरसंघर्षणम् । कर्मेदं मृदुलस्य तावकपदद्वंद्वस्य किं वोचितं मच्चेतोमणिपादुकाविहरणं शंभो सदांगीकुरु ॥ 64 ॥
वक्षस्ताडनशंकया विचलितो वैवस्वतो निर्जराः कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते । दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् ॥ 65 ॥
क्रीडार्थं सृजसि प्रपंचमखिलं क्रीडामृगास्ते जनाः यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् । शंभो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया ॥ 66 ॥
बहुविधपरितोषबाष्पपूर- -स्फुटपुलकांकितचारुभोगभूमिम् । चिरपदफलकांक्षिसेव्यमानां परमसदाशिवभावनां प्रपद्ये ॥ 67 ॥
अमितमुदमृतं मुहुर्दुहंतीं विमलभवत्पदगोष्ठमावसंतीम् । सदय पशुपते सुपुण्यपाकां मम परिपालय भक्तिधेनुमेकाम् ॥ 68 ॥
जडता पशुता कलंकिता कुटिलचरत्वं च नास्ति मयि देव । अस्ति यदि राजमौले भवदाभरणस्य नास्मि किं पात्रम् ॥ 69 ॥
अरहसि रहसि स्वतंत्रबुद्ध्या वरिवसितुं सुलभः प्रसन्नमूर्तिः । अगणितफलदायकः प्रभुर्मे जगदधिको हृदि राजशेखरोऽस्ति ॥ 70 ॥
आरूढभक्तिगुणकुंचितभावचाप- -युक्तैः शिवस्मरणबाणगणैरमोघैः । निर्जित्य किल्बिषरिपून्विजयी सुधींद्रः सानंदमावहति सुस्थिरराजलक्ष्मीम् ॥ 71 ॥
ध्यानांजनेन समवेक्ष्य तमःप्रदेशं भित्त्वा महाबलिभिरीश्वरनाममंत्रैः । दिव्याश्रितं भुजगभूषणमुद्वहंति ये पादपद्ममिह ते शिव ते कृतार्थाः ॥ 72 ॥
भूदारतामुदवहद्यदपेक्षया श्री- -भूदार एव किमतः सुमते लभस्व । केदारमाकलितमुक्तिमहौषधीनां पादारविंदभजनं परमेश्वरस्य ॥ 73 ॥
आशापाशक्लेशदुर्वासनादि- -भेदोद्युक्तैर्दिव्यगंधैरमंदैः । आशाशाटीकस्य पादारविंदं चेतःपेटीं वासितां मे तनोतु ॥ 74 ॥
कल्याणिनं सरसचित्रगतिं सवेगं सर्वेंगितज्ञमनघं ध्रुवलक्षणाढ्यम् । चेतस्तुरंगमधिरुह्य चर स्मरारे नेतः समस्तजगतां वृषभाधिरूढ ॥ 75 ॥
भक्तिर्महेशपदपुष्करमावसंती कादंबिनीव कुरुते परितोषवर्षम् । संपूरितो भवति यस्य मनस्तटाक- -स्तज्जन्मसस्यमखिलं सफलं च नान्यत् ॥ 76 ॥
बुद्धिः स्थिरा भवितुमीश्वरपादपद्म- -सक्ता वधूर्विरहिणीव सदा स्मरंती । सद्भावनास्मरणदर्शनकीर्तनादि सम्मोहितेव शिवमंत्रजपेन विंते ॥ 77 ॥
सदुपचारविधिष्वनुबोधितां सविनयां सुहृदं समुपाश्रिताम् । मम समुद्धर बुद्धिमिमां प्रभो वरगुणेन नवोढवधूमिव ॥ 78 ॥
नित्यं योगिमनः सरोजदलसंचारक्षमस्त्वत्क्रमः शंभो तेन कथं कठोरयमराड्वक्षःकवाटक्षतिः । अत्यंतं मृदुलं त्वदंघ्रियुगलं हा मे मनश्चिंतय- -त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये ॥ 79 ॥
एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति म- -द्रक्षायै गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः । नो चेद्दिव्यगृहांतरेषु सुमनस्तल्पेषु वेद्यादिषु प्रायः सत्सु शिलातलेषु नटनं शंभो किमर्थं तव ॥ 80 ॥
कंचित्कालमुमामहेश भवतः पादारविंदार्चनैः कंचिद्ध्यानसमाधिभिश्च नतिभिः कंचित्कथाकर्णनैः । कंचित्कंचिदवेक्षणैश्च नुतिभिः कंचिद्दशामीदृशीं यः प्राप्नोति मुदा त्वदर्पितमना जीवन् स मुक्तः खलु ॥ 81 ॥
बाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापते घोणित्वं सखिता मृदंगवहता चेत्यादि रूपं दधौ । त्वत्पादे नयनार्पणं च कृतवांस्त्वद्देहभागो हरिः पूज्यात्पूज्यतरः स एव हि न चेत्को वा तदन्योऽधिकः ॥ 82 ॥
जननमृतियुतानां सेवया देवतानां न भवति सुखलेशः संशयो नास्ति तत्र । अजनिममृतरूपं सांबमीशं भजंते य इह परमसौख्यं ते हि धन्या लभंते ॥ 83 ॥
शिव तव परिचर्यासन्निधानाय गौर्या भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये । सकलभुवनबंधो सच्चिदानंदसिंधो सदय हृदयगेहे सर्वदा संवस त्वम् ॥ 84 ॥
जलधिमथनदक्षो नैव पातालभेदी न च वनमृगयायां नैव लुब्धः प्रवीणः । अशनकुसुमभूषावस्त्रमुख्यां सपर्यां कथय कथमहं ते कल्पयानींदुमौले ॥ 85 ॥
पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम् । जाने मस्तकमंघ्रिपल्लवमुमाजाने न तेऽहं विभो न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ॥ 86 ॥
अशनं गरलं फणी कलापो वसनं चर्म च वाहनं महोक्षः । मम दास्यसि किं किमस्ति शंभो तव पादांबुजभक्तिमेव देहि ॥ 87 ॥
यदा कृतांभोनिधिसेतुबंधनः करस्थलाधःकृतपर्वताधिपः । भवानि ते लंघितपद्मसंभव- -स्तदा शिवार्चास्तवभावनक्षमः ॥ 88 ॥
नतिभिर्नुतिभिस्त्वमीश पूजा- -विधिभिर्ध्यानसमाधिभिर्न तुष्टः । धनुषा मुसलेन चाश्मभिर्वा वद ते प्रीतिकरं तथा करोमि ॥ 89 ॥
वचसा चरितं वदामि शंभो- -रहमुद्योगविधासु तेऽप्रसक्तः । मनसाकृतिमीश्वरस्य सेवे शिरसा चैव सदाशिवं नमामि ॥ 90 ॥
आद्याविद्या हृद्गता निर्गतासी- -द्विद्या हृद्या हृद्गता त्वत्प्रसादात् । सेवे नित्यं श्रीकरं त्वत्पदाब्जं भावे मुक्तेर्भाजनं राजमौले ॥ 91 ॥
दूरीकृतानि दुरितानि दुरक्षराणि दौर्भाग्यदुःखदुरहंकृतिदुर्वचांसि । सारं त्वदीयचरितं नितरां पिबंतं गौरीश मामिह समुद्धर सत्कटाक्षैः ॥ 92 ॥
सोमकलाधरमौलौ कोमलघनकंधरे महामहसि । स्वामिनि गिरिजानाथे मामकहृदयं निरंतरं रमताम् ॥ 93 ॥
सा रसना ते नयने तावेव करौ स एव कृतकृत्यः । या ये यौ यो भर्गं वदतीक्षेते सदार्चतः स्मरति ॥ 94 ॥
अतिमृदुलौ मम चरणा- -वतिकठिनं ते मनो भवानीश । इति विचिकित्सां संत्यज शिव कथमासीद्गिरौ तथा वेशः ॥ 95 ॥
धैर्यांकुशेन निभृतं रभसादाकृष्य भक्तिशृंखलया । पुरहर चरणालाने हृदयमदेभं बधान चिद्यंत्रैः ॥ 96 ॥
प्रचरत्यभितः प्रगल्भवृत्त्या मदवानेष मनः करी गरीयान् । रिगृह्य नयेन भक्तिरज्वा परम स्थाणु पदं दृढं नयामुम् ॥ 97 ॥ सर्वालंकारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णां सद्भिः संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् । उद्यद्भूषाविशेषामुपगतविनयां द्योतमानार्थरेखां कल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण ॥ 98 ॥
इदं ते युक्तं वा परमशिव कारुण्यजलधे गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया । हरिब्रह्माणौ तौ दिवि भुवि चरंतौ श्रमयुतौ कथं शंभो स्वामिन्कथय मम वेद्योऽसि पुरतः ॥ 99 ॥
स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिंचादयः स्तुत्यानां गणनाप्रसंगसमये त्वामग्रगण्यं विदुः । माहात्म्याग्रविचारणप्रकरणे धानातुषस्तोमव- -द्धूतास्त्वां विदुरुत्तमोत्तमफलं शंभो भवत्सेवकाः ॥ 100 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविंदभगवत्पूज्यपादशिष्यस्य श्रीमच्छंकरभगवतः कृतौ शिवानंदलहरी ॥
Browse Related Categories: