Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ काल्यै नमः । ॐ कपालिन्यै नमः । ॐ कांतायै नमः । ॐ कामदायै नमः । ॐ कामसुंदर्यै नमः । ॐ कालरात्र्यै नमः । ॐ कालिकायै नमः । ॐ कालभैरवपूजितायै नमः । ॐ कुरुकुल्लायै नमः । ॐ कामिन्यै नमः । 10 ।
ॐ कमनीयस्वभाविन्यै नमः । ॐ कुलीनायै नमः । ॐ कुलकर्त्र्यै नमः । ॐ कुलवर्त्मप्रकाशिन्यै नमः । ॐ कस्तूरीरसनीलायै नमः । ॐ काम्यायै नमः । ॐ कामस्वरूपिण्यै नमः । ॐ ककारवर्णनिलयायै नमः । ॐ कामधेनवे नमः । ॐ करालिकायै नमः । 20 ।
ॐ कुलकांतायै नमः । ॐ करालास्यायै नमः । ॐ कामार्तायै नमः । ॐ कलावत्यै नमः । ॐ कृशोदर्यै नमः । ॐ कामाख्यायै नमः । ॐ कौमार्यै नमः । ॐ कुलपालिन्यै नमः । ॐ कुलजायै नमः । ॐ कुलकन्यायै नमः । 30 ।
ॐ कुलहायै नमः । ॐ कुलपूजितायै नमः । ॐ कामेश्वर्यै नमः । ॐ कामकांतायै नमः । ॐ कुंजरेश्वरगामिन्यै नमः । ॐ कामदात्र्यै नमः । ॐ कामहर्त्र्यै नमः । ॐ कृष्णायै नमः । ॐ कपर्दिन्यै नमः । ॐ कुमुदायै नमः । 40 ।
ॐ कृष्णदेहायै नमः । ॐ कालिंद्यै नमः । ॐ कुलपूजितायै नमः । ॐ काश्यप्यै नमः । ॐ कृष्णमात्रे नमः । ॐ कुलिशांग्यै नमः । ॐ कलायै नमः । ॐ क्रीं रूपायै नमः । ॐ कुलगम्यायै नमः । ॐ कमलायै नमः । 50 ।
ॐ कृष्णपूजितायै नमः । ॐ कृशांग्यै नमः । ॐ किन्नर्यै नमः । ॐ कर्त्र्यै नमः । ॐ कलकंठ्यै नमः । ॐ कार्तिक्यै नमः । ॐ कंबुकंठ्यै नमः । ॐ कौलिन्यै नमः । ॐ कुमुदायै नमः । ॐ कामजीविन्यै नमः । 60 ।
ॐ कुलस्त्रियै नमः । ॐ कीर्तिकायै नमः । ॐ कृत्यायै नमः । ॐ कीर्त्यै नमः । ॐ कुलपालिकायै नमः । ॐ कामदेवकलायै नमः । ॐ कल्पलतायै नमः । ॐ कामांगवर्धिन्यै नमः । ॐ कुंतायै नमः । ॐ कुमुदप्रीतायै नमः । 70 ।
Offered for worship and study, not as prediction. Non-commercial.
ॐ कदंबकुसुमोत्सुकायै नमः । ॐ कादंबिन्यै नमः । ॐ कमलिन्यै नमः । ॐ कृष्णानंदप्रदायिन्यै नमः । ॐ कुमारीपूजनरतायै नमः । ॐ कुमारीगणशोभितायै नमः । ॐ कुमारीरंजनरतायै नमः । ॐ कुमारीव्रतधारिण्यै नमः । ॐ कंकाल्यै नमः । ॐ कमनीयायै नमः । 80 ।
ॐ कामशास्त्रविशारदायै नमः । ॐ कपालखट्वांगधरायै नमः । ॐ कालभैरवरूपिण्यै नमः । ॐ कोटर्यै नमः । ॐ कोटराक्ष्यै नमः । ॐ काशीवासिन्यै नमः । ॐ कैलासवासिन्यै नमः । ॐ कात्यायन्यै नमः । ॐ कार्यकर्यै नमः । ॐ काव्यशास्त्रप्रमोदिन्यै नमः । 90 ।
ॐ कामाकर्षणरूपायै नमः । ॐ कामपीठनिवासिन्यै नमः । ॐ कंकिन्यै नमः । ॐ काकिन्यै नमः । ॐ क्रीडायै नमः । ॐ कुत्सितायै नमः । ॐ कलहप्रियायै नमः । ॐ कुंडगोलोद्भवप्राणायै नमः । ॐ कौशिक्यै नमः । ॐ कीर्तिवर्धिन्यै नमः । 100 ।
ॐ कुंभस्तन्यै नमः । ॐ कटाक्षायै नमः । ॐ काव्यायै नमः । ॐ कोकनदप्रियायै नमः । ॐ कांतारवासिन्यै नमः । ॐ कांत्यै नमः । ॐ कठिनायै नमः । ॐ कृष्णवल्लभायै नमः । 108
इति ककारादि श्री काली अष्टोत्तरशतनामावलिः ।
Browse Related Categories: