Shiva · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
चांपेयगौरार्धशरीरकायै कर्पूरगौरार्धशरीरकाय । धम्मिल्लकायै च जटाधराय नमः शिवायै च नमः शिवाय ॥ 1 ॥
कस्तूरिकाकुंकुमचर्चितायै चितारजःपुंज विचर्चिताय । कृतस्मरायै विकृतस्मराय नमः शिवायै च नमः शिवाय ॥ 2 ॥
झणत्क्वणत्कंकणनूपुरायै पादाब्जराजत्फणिनूपुराय । हेमांगदायै भुजगांगदाय नमः शिवायै च नमः शिवाय ॥ 3 ॥
विशालनीलोत्पललोचनायै विकासिपंकेरुहलोचनाय । समेक्षणायै विषमेक्षणाय नमः शिवायै च नमः शिवाय ॥ 4 ॥
मंदारमालाकलितालकायै कपालमालांकितकंधराय । दिव्यांबरायै च दिगंबराय नमः शिवायै च नमः शिवाय ॥ 5 ॥
अंभोधरश्यामलकुंतलायै तटित्प्रभाताम्रजटाधराय । निरीश्वरायै निखिलेश्वराय नमः शिवायै च नमः शिवाय ॥ 6 ॥
प्रपंचसृष्ट्युन्मुखलास्यकायै समस्तसंहारकतांडवाय । जगज्जनन्यै जगदेकपित्रे नमः शिवायै च नमः शिवाय ॥ 7 ॥
प्रदीप्तरत्नोज्ज्वलकुंडलायै स्फुरन्महापन्नगभूषणाय । शिवान्वितायै च शिवान्विताय नमः शिवायै च नमः शिवाय ॥ 8 ॥
एतत्पठेदष्टकमिष्टदं यो भक्त्या स मान्यो भुवि दीर्घजीवी । प्राप्नोति सौभाग्यमनंतकालं भूयात्सदा तस्य समस्तसिद्धिः ॥
Offered for worship and study, not as prediction. Non-commercial.
Browse Related Categories: