Ashtottara Sata Namavali · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
महाशास्ता महादेवो महादेवसुतोऽव्ययः । लोककर्ता लोकभर्ता लोकहर्ता परात्परः ॥ 1 ॥
त्रिलोकरक्षको धन्वी तपस्वी भूतसैनिकः । मंत्रवेदी महावेदी मारुतो जगदीश्वरः ॥ 2 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
लोकाध्यक्षोऽग्रणीः श्रीमानप्रमेयपराक्रमः । सिंहारूढो गजारूढो हयारूढो महेश्वरः ॥ 3 ॥
नानाशस्त्रधरोऽनर्घो नानाविद्याविशारदः । नानारूपधरो वीरो नानाप्राणिनिषेवितः ॥ 4 ॥
भूतेशो भूतितो भृत्यो भुजंगाभरणोज्वलः । इक्षुधन्वी पुष्पबाणो महारूपो महाप्रभुः ॥ 5 ॥
मायादेवीसुतो मान्यो महनीयो महागुणः । महाशैवो महारुद्रो वैष्णवो विष्णुपूजकः ॥ 6 ॥
विघ्नेशो वीरभद्रेशो भैरवो षण्मुखप्रियः । मेरुशृंगसमासीनो मुनिसंघनिषेवितः ॥ 7 ॥
देवो भद्रो जगन्नाथो गणनाथो गणेश्वरः । महायोगी महामायी महाज्ञानी महास्थिरः ॥ 8 ॥
देवशास्ता भूतशास्ता भीमहासपराक्रमः । नागहारो नागकेशो व्योमकेशः सनातनः ॥ 9 ॥
सगुणो निर्गुणो नित्यो नित्यतृप्तो निराश्रयः । लोकाश्रयो गणाधीशश्चतुष्षष्टिकलामयः ॥ 10 ॥
ऋग्यजुःसामथर्वात्मा मल्लकासुरभंजनः । त्रिमूर्ति दैत्यमथनः प्रकृतिः पुरुषोत्तमः ॥ 11 ॥
कालज्ञानी महाज्ञानी कामदः कमलेक्षणः । कल्पवृक्षो महावृक्षो विद्यावृक्षो विभूतिदः ॥ 12 ॥
संसारतापविच्छेत्ता पशुलोकभयंकरः । रोगहंता प्राणदाता परगर्वविभंजनः ॥ 13 ॥
सर्वशास्त्रार्थतत्वज्ञो नीतिमान् पापभंजनः । पुष्कलापूर्णासंयुक्तः परमात्मा सतांगतिः ॥ 14 ॥
अनंतादित्यसंकाशः सुब्रह्मण्यानुजो बली । भक्तानुकंपी देवेशो भगवान् भक्तवत्सलः ॥ 15 ॥
Browse Related Categories: