Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
श्रीसदाशिव उवाच
शृणु देवि जगद्वंद्ये स्तोत्रमेतदनुत्तमम् । पठनाच्छ्रवणाद्यस्य सर्वसिद्धीश्वरो भवेत् ॥ 1
असौभाग्यप्रशमनं सुखसंपद्विवर्धनम् । अकालमृत्युहरणं सर्वापद्विनिवारणम् ॥ 2 ॥
श्रीमदाद्याकालिकायाः सुखसान्निध्यकारणम् । स्तवस्यास्य प्रसीदेन त्रिपुरारिरहं प्रिये ॥ 3 ॥
स्तोत्रस्यास्य ऋषिर्देवि सदाशिव उदाहृतः । छंदोऽनुष्टुब्देवताद्या कालिका परिकीर्तिता । धर्मकामार्थमोक्षेषु विनियोगः प्रकीर्तितः ॥ 4 ॥
अथ स्तोत्रम् ह्रीं काली श्रीं कराली च क्रीं कल्याणी कलावती । कमला कलिदर्पघ्नी कपर्दीशकृपान्विता ॥ 5 ॥
कालिका कालमाता च कालानलसमद्युतिः । कपर्दिनी करालास्या करुणामृतसागरा ॥ 6 ॥
कृपामयी कृपाधारा कृपापारा कृपागमा । कृशानुः कपिला कृष्णा कृष्णानंदविवर्धिनी ॥ 7 ॥
कालरात्रिः कामरूपा कामपाशविमोचिनी । कादंबिनी कलाधारा कलिकल्मषनाशिनी ॥ 8 ॥
कुमारीपूजनप्रीता कुमारीपूजकालया । कुमारीभोजनानंदा कुमारीरूपधारिणी ॥ 9 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
कदंबवनसंचारा कदंबवनवासिनी । कदंबपुष्पसंतोषा कदंबपुष्पमालिनी ॥ 10 ॥
किशोरी कलकंठा च कलनादनिनादिनी । कादंबरीपानरता तथा कादंबरीप्रिया ॥ 11 ॥
कपालपात्रनिरता कंकालमाल्यधारिणी । कमलासनसंतुष्टा कमलासनवासिनी ॥ 12 ॥
कमलालयमध्यस्था कमलामोदमोदिनी । कलहंसगतिः क्लैब्यनाशिनी कामरूपिणी ॥ 13 ॥
कामरूपकृतावासा कामपीठविलासिनी । कमनीया कल्पलता कमनीयविभूषणा ॥ 14 ॥
कमनीयगुणाराध्या कोमलांगी कृशोदरी । कारणामृतसंतोषा कारणानंदसिद्धिदा ॥ 15 ॥
कारणानंदजापेष्टा कारणार्चनहर्षिता । कारणार्णवसम्मग्ना कारणव्रतपालिनी ॥ 16 ॥
कस्तूरीसौरभामोदा कस्तूरीतिलकोज्ज्वला । कस्तूरीपूजनरता कस्तूरीपूजकप्रिया ॥ 17 ॥
कस्तूरीदाहजननी कस्तूरीमृगतोषिणी । कस्तूरीभोजनप्रीता कर्पूरामोदमोदिता ॥ 18 ॥
कर्पूरमालाभरणा कर्पूरचंदनोक्षिता । कर्पूरकारणाह्लादा कर्पूरामृतपायिनी ॥ 19 ॥
कर्पूरसागरस्नाता कर्पूरसागरालया । कूर्चबीजजपप्रीता कूर्चजापपरायणा ॥ 20 ॥
कुलीना कौलिकाराध्या कौलिकप्रियकारिणी । कुलाचारा कौतुकिनी कुलमार्गप्रदर्शिनी ॥ 21 ॥
काशीश्वरी कष्टहर्त्री काशीशवरदायिनी । काशीश्वरकृतामोदा काशीश्वरमनोरमा ॥ 22 ॥
कलमंजीरचरणा क्वणत्कांचीविभूषणा । कांचनाद्रिकृतागारा कांचनाचलकौमुदी ॥ 23 ॥
कामबीजजपानंदा कामबीजस्वरूपिणी । कुमतिघ्नी कुलीनार्तिनाशिनी कुलकामिनी ॥ 24 ॥
क्रीं ह्रीं श्रीं मंत्रवर्णेन कालकंटकघातिनी । इत्याद्याकालिकादेव्याः शतनाम प्रकीर्तितम् ॥ 25 ॥
ककारकूटघटितं कालीरूपस्वरूपकम् । पूजाकाले पठेद्यस्तु कालिकाकृतमानसः ॥ 26 ॥
मंत्रसिद्धिर्भवेदाशु तस्य काली प्रसीदति । बुद्धिं विद्यां च लभते गुरोरादेशमात्रतः ॥ 27 ॥
धनवान् कीर्तिमान् भूयाद्दानशीलो दयान्वितः । पुत्रपौत्रसुखैश्वर्यैर्मोदते साधको भुवि ॥ 28 ॥
भौमावास्यानिशाभागे मपंचकसमन्वितः । पूजयित्वा महाकालीमाद्यां त्रिभुवनेश्वरीम् ॥ 29 ॥
पठित्वा शतनामानि साक्षात्कालीमयो भवेत् । नासाध्यं विद्यते तस्य त्रिषु लोकेषु किंचन ॥ 30 ॥
विद्यायां वाक्पतिः साक्षात् धने धनपतिर्भवेत् । समुद्र इव गांभीर्ये बले च पवनोपमः ॥ 31 ॥
तिग्मांशुरिव दुष्प्रेक्ष्यः शशिवच्छुभदर्शनः । रूपे मूर्तिधरः कामो योषितां हृदयंगमः ॥ 32 ॥
सर्वत्र जयमाप्नोति स्तवस्यास्य प्रसादतः । यं यं कामं पुरस्कृत्य स्तोत्रमेतदुदीरयेत् ॥ 33 ॥
तं तं काममवाप्नोति श्रीमदाद्याप्रसादतः । रणे राजकुले द्यूते विवादे प्राणसंकटे ॥ 34 ॥
दस्युग्रस्ते ग्रामदाहे सिंहव्याघ्रावृते तथा । अरण्ये प्रांतरे दुर्गे ग्रहराजभयेऽपि वा ॥ 35 ॥
ज्वरदाहे चिरव्याधौ महारोगादिसंकुले । बालग्रहादि रोगे च तथा दुःस्वप्नदर्शने ॥ 36 ॥
दुस्तरे सलिले वापि पोते वातविपद्गते । विचिंत्य परमां मायामाद्यां कालीं परात्पराम् ॥ 37 ॥
यः पठेच्छतनामानि दृढभक्तिसमन्वितः । सर्वापद्भ्यो विमुच्येत देवि सत्यं न संशयः ॥ 38 ॥
न पापेभ्यो भयं तस्य न रोगोभ्यो भयं क्वचित् । सर्वत्र विजयस्तस्य न कुत्रापि पराभवः ॥ 39 ॥
तस्य दर्शनमात्रेण पलायंते विपद्गणाः । स वक्ता सर्वशास्त्राणां स भोक्ता सर्वसंपदाम् ॥ 40 ॥
स कर्ता जातिधर्माणां ज्ञातीनां प्रभुरेव सः । वाणी तस्य वसेद्वक्त्रे कमला निश्चला गृहे ॥ 41 ॥
तन्नाम्ना मानवाः सर्वे प्रणमंति ससंभ्रमाः । दृष्ट्या तस्य तृणायंते ह्यणिमाद्यष्टसिद्धयः ॥ 42 ॥
आद्याकालीस्वरूपाख्यं शतनाम प्रकीर्तितम् । अष्टोत्तरशतावृत्या पुरश्चर्याऽस्य गीयते ॥ 43 ॥
पुरस्क्रियान्वितं स्तोत्रं सर्वाभीष्टफलप्रदम् । शतनामस्तुतिमिमामाद्याकालीस्वरूपिणीम् ॥ 44 ॥
पठेद्वा पाठयेद्वापि शृणुयाच्छ्रावयेदपि । सर्वपापविनिर्मुक्तो ब्रह्मसायुज्यमाप्नुयात् ॥ 45 ॥
इति महानिर्वाणतंत्रे सप्तमोल्लासांतर्गतं श्री आद्या कालिका शतनाम स्तोत्रम् ॥
Browse Related Categories: