Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
न तातो न माता न बंधुर्न दाता न पुत्रो न पुत्री न भृत्यो न भर्ता न जाया न विद्या न वृत्तिर्ममैव गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 1 ॥
भवाब्धावपारे महादुःखभीरु पपात प्रकामी प्रलोभी प्रमत्तः कुसंसारपाशप्रबद्धः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 2 ॥
न जानामि दानं न च ध्यानयोगं न जानामि तंत्रं न च स्तोत्रमंत्रम् न जानामि पूजां न च न्यासयोगं गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 3 ॥
न जानामि पुण्यं न जानामि तीर्थं न जानामि मुक्तिं लयं वा कदाचित् न जानामि भक्तिं व्रतं वापि मातः गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 4 ॥
कुकर्मी कुसंगी कुबुद्धिः कुदासः कुलाचारहीनः कदाचारलीनः कुदृष्टिः कुवाक्यप्रबंधः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 5 ॥
प्रजेशं रमेशं महेशं सुरेशं दिनेशं निशीथेश्वरं वा कदाचित् न जानामि चान्यत् सदाहं शरण्ये गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 6 ॥
विवादे विषादे प्रमादे प्रवासे जले चानले पर्वते शत्रुमध्ये अरण्ये शरण्ये सदा मां प्रपाहि गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 7 ॥
अनाथो दरिद्रो जरारोगयुक्तो महाक्षीणदीनः सदा जाड्यवक्त्रः विपत्तौ प्रविष्टः प्रनष्टः सदाहं गतिस्त्वं गतिस्त्वं त्वमेका भवानि ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
॥ इति श्रीमदादिशंकराचार्यविरचितं भवान्यष्टकं संपूर्णम् ॥
Browse Related Categories: