Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
षडाधारपंकेरुहांतर्विराज- -त्सुषुम्नांतरालेऽतितेजोल्लसंतीम् । सुधामंडलं द्रावयंतीं पिबंतीं सुधामूर्तिमीडे चिदानंदरूपाम् ॥ 1 ॥
ज्वलत्कोटिबालार्कभासारुणांगीं सुलावण्यशृंगारशोभाभिरामाम् । महापद्मकिंजल्कमध्ये विराज- -त्त्रिकोणे निषण्णां भजे श्रीभवानीम् ॥ 2 ॥
क्वणत्किंकिणीनूपुरोद्भासिरत्न- -प्रभालीढलाक्षार्द्रपादाब्जयुग्मम् । अजेशाच्युताद्यैः सुरैः सेव्यमानं महादेवि मन्मूर्ध्नि ते भावयामि ॥ 3 ॥
सुशोणांबराबद्धनीवीविराज- -न्महारत्नकांचीकलापं नितंबम् । स्फुरद्दक्षिणावर्तनाभिं च तिस्रो वलीरंब ते रोमराजिं भजेऽहम् ॥ 4 ॥
लसद्वृत्तमुत्तुंगमाणिक्यकुंभो- -पमश्रि स्तनद्वंद्वमंबांबुजाक्षि । भजे दुग्धपूर्णाभिरामं तवेदं महाहारदीप्तं सदा प्रस्नुतास्यम् ॥ 5 ॥
शिरीषप्रसूनोल्लसद्बाहुदंडै- -र्ज्वलद्बाणकोदंडपाशांकुशैश्च । चलत्कंकणोदारकेयूरभूषो- -ज्ज्वलद्भिर्लसंतीं भजे श्रीभवानीम् ॥ 6 ॥
शरत्पूर्णचंद्रप्रभापूर्णबिंबा- -धरस्मेरवक्त्रारविंदां सुशांताम् । सुरत्नावलीहारताटंकशोभां महासुप्रसन्नां भजे श्रीभवानीम् ॥ 7 ॥
सुनासापुटं सुंदरभ्रूललाटं तवौष्ठश्रियं दानदक्षं कटाक्षम् । ललाटे लसद्गंधकस्तूरिभूषं स्फुरच्छ्रीमुखांभोजमीडेऽहमंब ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
चलत्कुंतलांतर्भ्रमद्भृंगबृंदं घनस्निग्धधम्मिल्लभूषोज्ज्वलं ते । स्फुरन्मौलिमाणिक्यबद्धेंदुरेखा- -विलासोल्लसद्दिव्यमूर्धानमीडे ॥ 9 ॥
इति श्रीभवानि स्वरूपं तवेदं प्रपंचात्परं चातिसूक्ष्मं प्रसन्नम् । स्फुरत्वंब डिंभस्य मे हृत्सरोजे सदा वाङ्मयं सर्वतेजोमयं च ॥ 10 ॥
गणेशाभिमुख्याखिलैः शक्तिबृंदै- -र्वृतां वै स्फुरच्चक्रराजोल्लसंतीम् । परां राजराजेश्वरि त्रैपुरि त्वां शिवांकोपरिस्थां शिवां भावयामि ॥ 11 ॥
त्वमर्कस्त्वमिंदुस्त्वमग्निस्त्वमाप- -स्त्वमाकाशभूवायवस्त्वं महत्त्वम् । त्वदन्यो न कश्चित् प्रपंचोऽस्ति सर्वं सदानंदसंवित्स्वरूपं भजेऽहम् ॥ 12 ॥
श्रुतीनामगम्ये सुवेदागमज्ञा महिम्नो न जानंति पारं तवांब । स्तुतिं कर्तुमिच्छामि ते त्वं भवानि क्षमस्वेदमत्र प्रमुग्धः किलाहम् ॥ 13 ॥
गुरुस्त्वं शिवस्त्वं च शक्तिस्त्वमेव त्वमेवासि माता पिता च त्वमेव । त्वमेवासि विद्या त्वमेवासि बंधु- -र्गतिर्मे मतिर्देवि सर्वं त्वमेव ॥ 14 ॥
शरण्ये वरेण्ये सुकारुण्यमूर्ते हिरण्योदराद्यैरगण्ये सुपुण्ये । भवारण्यभीतेश्च मां पाहि भद्रे नमस्ते नमस्ते नमस्ते भवानि ॥ 15 ॥
इतीमां महच्छ्रीभवानीभुजंगं स्तुतिं यः पठेद्भक्तियुक्तश्च तस्मै । स्वकीयं पदं शाश्वतं वेदसारं श्रियं चाष्टसिद्धिं भवानी ददाति ॥ 16 ॥
भवानी भवानी भवानी त्रिवारं उदारं मुदा सर्वदा ये जपंति । न शोकं न मोहं न पापं न भीतिः कदाचित्कथंचित्कुतश्चिज्जनानाम् ॥ 17 ॥
॥ इति श्रीमच्छंकराचार्यविरचिता भवानी भुजंगं संपूर्णम् ॥
Browse Related Categories: