Devi · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
जय पद्मपलाशाक्षि जय त्वं श्रीपतिप्रिये । जय मातर्महालक्ष्मि संसारार्णवतारिणि ॥ 1 ॥
महालक्ष्मि नमस्तुभ्यं नमस्तुभ्यं सुरेश्वरि । हरिप्रिये नमस्तुभ्यं नमस्तुभ्यं दयानिधे ॥ 2 ॥
पद्मालये नमस्तुभ्यं नमस्तुभ्यं च सर्वदे । सर्वभूतहितार्थाय वसुवृष्टिं सदा कुरु ॥ 3 ॥
जगन्मातर्नमस्तुभ्यं नमस्तुभ्यं दयानिधे । दयावति नमस्तुभ्यं विश्वेश्वरि नमोऽस्तु ते ॥ 4 ॥
नमः क्षीरार्णवसुते नमस्त्रैलोक्यधारिणि । वसुवृष्टे नमस्तुभ्यं रक्ष मां शरणागतम् ॥ 5 ॥
रक्ष त्वं देवदेवेशि देवदेवस्य वल्लभे । दारिद्र्यात्त्राहि मां लक्ष्मि कृपां कुरु ममोपरि ॥ 6 ॥
नमस्त्रैलोक्यजननि नमस्त्रैलोक्यपावनि । ब्रह्मादयो नमंति त्वां जगदानंददायिनि ॥ 7 ॥
विष्णुप्रिये नमस्तुभ्यं नमस्तुभ्यं जगद्धिते । आर्तिहंत्रि नमस्तुभ्यं समृद्धिं कुरु मे सदा ॥ 8 ॥
अब्जवासे नमस्तुभ्यं चपलायै नमो नमः । चंचलायै नमस्तुभ्यं ललितायै नमो नमः ॥ 9 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
नमः प्रद्युम्नजननि मातस्तुभ्यं नमो नमः । परिपालय मां मातः मां तुभ्यं शरणागतम् ॥ 10 ॥
शरण्ये त्वां प्रपन्नोऽस्मि कमले कमलालये । त्राहि त्राहि महालक्ष्मि परित्राणपरायणे ॥ 11 ॥
पांडित्यं शोभते नैव न शोभंते गुणा नरे । शीलत्वं नैव शोभेत महालक्ष्मि त्वया विना ॥ 12 ॥
तावद्विराजते रूपं तावच्छीलं विराजते । तावद्गुणा नराणां च यावल्लक्ष्मीः प्रसीदति ॥ 13 ॥
लक्ष्मि त्वयाऽलंकृतमानवा ये पापैर्विमुक्ता नृपलोकमान्याः । गुणैर्विहीना गुणिनो भवंति दुश्शीलिनः शीलवतां वरिष्ठाः ॥ 14 ॥
लक्ष्मीर्भूषयते रूपं लक्ष्मीर्भूषयते कुलम् । लक्ष्मीर्भूषयते विद्यां सर्वा लक्ष्मीर्विशिष्यते ॥ 15 ॥
लक्ष्मी त्वद्गुणकीर्तनेन कमला भूर्यात्यलं जिह्मताम् रुद्राद्या रविचंद्रदेवपतयो वक्तुं च नैव क्षमाः । अस्माभिस्तव रूपलक्षणगुणान्वक्तुं कथं शक्यते मातर्मां परिपाहि विश्वजननी कृत्वा ममेष्टं ध्रुवम् ॥ 16 ॥
दीनार्तिभीतं भवतापपीडितं धनैर्विहीनं तव पार्श्वमागतम् । कृपानिधित्वान्मम लक्ष्मि सत्वरं धनप्रदानाद्धननायकं कुरु ॥ 17 ॥
मां विलोक्य जननी हरिप्रिये निर्धनं तव समीपमागतम् । देहि मे झटिति लक्ष्मि कराग्रं वस्त्रकांचनवरान्नमद्भुतम् ॥ 18 ॥
त्वमेव जननी लक्ष्मीः पिता लक्ष्मीस्त्वमेव च । भ्राता त्वं च सखा लक्ष्मीर्विद्या लक्ष्मीस्त्वमेव च ॥ 19 ॥
त्राहि त्राहि महालक्ष्मि त्राहि त्राहि सुरेश्वरि । त्राहि त्राहि जगन्मातः दारिद्र्यात्त्राहि वेगतः ॥ 20 ॥
नमस्तुभ्यं जगद्धात्रि नमस्तुभ्यं नमो नमः । धर्माधारे नमस्तुभ्यं नमः संपत्तिदायिनी ॥ 21 ॥
दारिद्र्यार्णवमग्नोऽहं निमग्नोऽहं रसातले । मज्जंतं मां करे धृत्वा तूद्धर त्वं रमे द्रुतम् ॥ 22 ॥
किं लक्ष्मि बहुनोक्तेन जल्पितेन पुनः पुनः । अन्यन्मे शरणं नास्ति सत्यं सत्यं हरिप्रिये ॥ 23 ॥
एतच्छ्रुत्वाऽगस्त्यवाक्यं हृष्यमाणा हरिप्रिया । उवाच मधुरां वाणीं तुष्टाऽहं तव सर्वदा ॥ 24 ॥
श्रीलक्ष्मीरुवाच
यत्त्वयोक्तमिदं स्तोत्रं यः पठिष्यति मानवः । शृणोति च महाभागस्तस्याहं वशवर्तिनी ॥ 25
नित्यं पठति यो भक्त्या त्वलक्ष्मीस्तस्य नश्यति । ऋणं च नश्यते तीव्रं वियोगं नैव पश्यति ॥ 26 ॥
यः पठेत्प्रातरुत्थाय श्रद्धाभक्तिसमन्वितः । गृहे तस्य सदा तिष्टेन्नित्यं श्रीः पतिना सह ॥ 27 ॥
सुखसौभाग्यसंपन्नो मनस्वी बुद्धिमान्भवेत् । पुत्रवान् गुणवान् श्रेष्ठो भोगभोक्ता च मानवः ॥ 28 ॥
इदं स्तोत्रं महापुण्यं लक्ष्म्यागस्त्यप्रकीर्तितम् । विष्णुप्रसादजननं चतुर्वर्गफलप्रदम् ॥ 29 ॥
राजद्वारे जयश्चैव शत्रोश्चैव पराजयः । भूतप्रेतपिशाचानां व्याघ्राणां न भयं तथा ॥ 30 ॥
न शस्त्रानलतोयौघाद्भयं तस्य प्रजायते । दुर्वृत्तानां च पापानां बहुहानिकरं परम् ॥ 31 ॥
मंदुराकरिशालासु गवां गोष्ठे समाहितः । पठेत्तद्दोषशांत्यर्थं महापातकनाशनम् ॥ 32 ॥
सर्वसौख्यकरं नॄणामायुरारोग्यदं तथा । अगस्त्यमुनिना प्रोक्तं प्रजानां हितकाम्यया ॥ 33 ॥
इत्यगस्त्यविरचितं श्री लक्ष्मी स्तोत्रम् ।
Browse Related Categories: