Sri Krishna · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ श्री परमात्मने नमः अथ गीता ध्यान श्लोकाः
ॐ पार्थाय प्रतिबोधितां भगवता नारायणेन स्वयं व्यासेन ग्रथितां पुराणमुनिना मध्ये महाभारतम् । अद्वैतामृतवर्षिणीं भगवतीं अष्टादशाध्यायिनीं अंब त्वां अनुसंदधामि भगवद्गीते भवद्वेषिणीम् ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
नमोऽस्तुते व्यास विशालबुद्धे फुल्लारविंदायतपत्रनेत्र । येन त्वया भारत तैलपूर्णः प्रज्वालितो ज्ञानमयः प्रदीपः॥
प्रपन्नपारिजाताय तोत्रवेत्रैकपाणये । ज्ञानमुद्राय कृष्णाय गीतामृतदुहे नमः ॥
वसुदेवसुतं देवं कंसचाणूरमर्दनम् । देवकीपरमानंदं कृष्णं वंदे जगद्गुरुम् ॥
भीष्मद्रोणतटा जयद्रथजला गांधारनीलोत्पला शल्यग्राहवती कृपेण वहनी कर्णेन वेलाकुला । अश्वत्थामविकर्णघोरमकरा दुर्योधनावर्तिनी सोत्तीर्णा खलु पांडवै रणनदी कैवर्तकः केशवः ॥
पाराशर्यवचः सरोजममलं गीतार्थगंधोत्कटं नानाख्यानककेसरं हरिकथा संबोधनाबोधितम् । लोके सज्जनषट्पदैरहरहः पेपीयमानं मुदा भूयाद्भारतपंकजं कलिमलं प्रध्वंसिनः श्रेयसे ॥
मूकं करोति वाचालं पंगुं लंघयते गिरिम् । यत्कृपा तमहं वंदे परमानंदमाधवम् ॥
शांताकारं भुजगशयनं पद्मनाभं सुरेशं विश्वाधारं गगनसदृशं मेघवर्णं शुभांगम् । लक्ष्मीकांतं कमलनयनं योगिहृद्ध्यानगम्यं वंदे विष्णुं भवभयहरं सर्व लोकैकनाथम् ॥
यं ब्रह्मावरुणेंद्ररुद्रमरुतः स्तुन्वंति दिव्यैः स्तवैः वेदैः सांगपदक्रमोपनिषदैः गायंति यं सामगाः । ध्यानावस्थित तद्गतेन मनसा पश्यंति यं योगिनः यस्यांतं न विदुस्सुरासुरगणाः देवाय तस्मै नमः ॥
नारायणं नमस्कृत्य नरंचैव नरोत्तमम् । देवीं सरस्वतीं व्यासं ततो जयमुदीरयेत् ॥
सच्चिदानंदरूपाय कृष्णायाक्लिष्टकारिणे । नमो वेदांतवेद्याय गुरवे बुद्धिसाक्षिणे॥
सर्वोपनिषदो गावः दोग्धा गोपालनंदनः । पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ॥
गीताशास्त्रमिदं पुण्यं यः पठेत् प्रयतः पुमान् । विष्णोः पदमवाप्नोति भयशोकादि वर्जितः ॥
एकं शास्त्रं देवकीपुत्रगीतं एको देवो देवकीपुत्र एव । एको मंत्रस्तस्य नामानि यानि कर्माप्येकं तस्य देवस्य सेवा ॥
॥ ॐ श्री कृष्णाय परमात्मने नमः ॥
Browse Related Categories: