Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
करारविंदेन पदारविंदं मुखारविंदे विनिवेशयंतम् । वटस्य पत्रस्य पुटे शयानं बालं मुकुंदं मनसा स्मरामि ॥ 1 ॥
संहृत्य लोकान्वटपत्रमध्ये शयानमाद्यंतविहीनरूपम् । सर्वेश्वरं सर्वहितावतारं बालं मुकुंदं मनसा स्मरामि ॥ 2 ॥
इंदीवरश्यामलकोमलांगं इंद्रादिदेवार्चितपादपद्मम् । संतानकल्पद्रुममाश्रितानां बालं मुकुंदं मनसा स्मरामि ॥ 3 ॥
लंबालकं लंबितहारयष्टिं शृंगारलीलांकितदंतपंक्तिम् । बिंबाधरं चारुविशालनेत्रं बालं मुकुंदं मनसा स्मरामि ॥ 4 ॥
शिक्ये निधायाद्यपयोदधीनि बहिर्गतायां व्रजनायिकायाम् । भुक्त्वा यथेष्टं कपटेन सुप्तं बालं मुकुंदं मनसा स्मरामि ॥ 5 ॥
कलिंदजांतस्थितकालियस्य फणाग्ररंगेनटनप्रियंतम् । तत्पुच्छहस्तं शरदिंदुवक्त्रं बालं मुकुंदं मनसा स्मरामि ॥ 6 ॥
उलूखले बद्धमुदारशौर्यं उत्तुंगयुग्मार्जुन भंगलीलम् । उत्फुल्लपद्मायत चारुनेत्रं बालं मुकुंदं मनसा स्मरामि ॥ 7 ॥
आलोक्य मातुर्मुखमादरेण स्तन्यं पिबंतं सरसीरुहाक्षम् । सच्चिन्मयं देवमनंतरूपं बालं मुकुंदं मनसा स्मरामि ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
Browse Related Categories: