Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
व्रजे प्रसिद्धं नवनीतचौरं गोपांगनानां च दुकूलचौरम् । अनेकजन्मार्जितपापचौरं चौराग्रगण्यं पुरुषं नमामि ॥ 1॥
श्रीराधिकाया हृदयस्य चौरं नवांबुदश्यामलकांतिचौरम् । पदाश्रितानां च समस्तचौरं चौराग्रगण्यं पुरुषं नमामि ॥ 2॥
Offered for worship and study, not as prediction. Non-commercial.
अकिंचनीकृत्य पदाश्रितं यः करोति भिक्षुं पथि गेहहीनम् । केनाप्यहो भीषणचौर ईदृग्- दृष्टःश्रुतो वा न जगत्त्रयेऽपि ॥ 3॥
यदीय नामापि हरत्यशेषं गिरिप्रसारान् अपि पापराशीन् । आश्चर्यरूपो ननु चौर ईदृग् दृष्टः श्रुतो वा न मया कदापि ॥ 4॥
धनं च मानं च तथेंद्रियाणि प्राणांश्च हृत्वा मम सर्वमेव । पलायसे कुत्र धृतोऽद्य चौर त्वं भक्तिदाम्नासि मया निरुद्धः ॥ 5॥
छिनत्सि घोरं यमपाशबंधं भिनत्सि भीमं भवपाशबंधम् । छिनत्सि सर्वस्य समस्तबंधं नैवात्मनो भक्तकृतं तु बंधम् ॥ 6॥
मन्मानसे तामसराशिघोरे कारागृहे दुःखमये निबद्धः । लभस्व हे चौर! हरे! चिराय स्वचौर्यदोषोचितमेव दंडम् ॥ 7॥
कारागृहे वस सदा हृदये मदीये मद्भक्तिपाशदृढबंधननिश्चलः सन् । त्वां कृष्ण हे! प्रलयकोटिशतांतरेऽपि सर्वस्वचौर! हृदयान् न हि मोचयामि ॥ 8॥
इति श्रीबिल्वमंगलठाकूरविरचितं चौराष्टकं संपूर्णम् ।
चौरग्रगण्य पुरुषाष्टकम् ।
Browse Related Categories: