Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
भीष्म उवाच
इति मतिरुपकल्पिता वितृष्णा भगवति सात्वतपुंगवे विभूम्नि । स्वसुखमुपगते क्वचिद्विहर्तुं प्रकृतिमुपेयुषि यद्भवप्रवाहः ॥ 1
त्रिभुवनकमनं तमालवर्णं रविकरगौरवरांबरं दधाने । वपुरलककुलावृताननाब्जं विजयसखे रतिरस्तु मेऽनवद्या ॥ 2 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
युधि तुरगरजोविधूम्रविष्वक् कचलुलितश्रमवार्यलंकृतास्ये । मम निशितशरैर्विभिद्यमान त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ 3 ॥
सपदि सखिवचो निशम्य मध्ये निजपरयोर्बलयो रथं निवेश्य । स्थितवति परसैनिकायुरक्ष्णा हृतवति पार्थसखे रतिर्ममास्तु ॥ 4 ॥
व्यवहित पृथनामुखं निरीक्ष्य स्वजनवधाद्विमुखस्य दोषबुद्ध्या । कुमतिमहरदात्मविद्यया य- -श्चरणरतिः परमस्य तस्य मेऽस्तु ॥ 5 ॥
स्वनिगममपहाय मत्प्रतिज्ञां ऋतमधिकर्तुमवप्लुतो रथस्थः । धृतरथचरणोऽभ्ययाच्चलद्गुः हरिरिव हंतुमिभं गतोत्तरीयः ॥ 6 ॥
शितविशिखहतो विशीर्णदंशः क्षतजपरिप्लुत आततायिनो मे । प्रसभमभिससार मद्वधार्थं स भवतु मे भगवान् गतिर्मुकुंदः ॥ 7 ॥
विजयरथकुटुंब आत्ततोत्रे धृतहयरश्मिनि तच्छ्रियेक्षणीये । भगवति रतिरस्तु मे मुमूर्षोः यमिह निरीक्ष्य हताः गताः सरूपम् ॥ 8 ॥
ललित गति विलास वल्गुहास प्रणय निरीक्षण कल्पितोरुमानाः । कृतमनुकृतवत्य उन्मदांधाः प्रकृतिमगन् किल यस्य गोपवध्वः ॥ 9 ॥
मुनिगणनृपवर्यसंकुलेऽंतः सदसि युधिष्ठिरराजसूय एषाम् । अर्हणमुपपेद ईक्षणीयो मम दृशिगोचर एष आविरात्मा ॥ 10 ॥
तमिममहमजं शरीरभाजां हृदि हृदि धिष्टितमात्मकल्पितानाम् । प्रतिदृशमिव नैकधाऽर्कमेकं समधिगतोऽस्मि विधूतभेदमोहः ॥ 11 ॥
इति श्रीमद्भागवते महापुराणे प्रथमस्कंधे नवमोऽध्याये भीष्मकृत भगवत् स्तुतिः ।
Browse Related Categories: