Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ईश्वरः परमः कृष्णः सच्चिदानंदविग्रहः । अनादिरादिर्गोविंदः सर्वकारणकारणम् ॥ 1 ॥
सहस्रपत्रकमलं गोकुलाख्यं महत्पदम् । तत्कर्णिकारं तद्धाम तदनंताशसंभवम् ॥ 2 ॥
कर्णिकारं महद्यंत्रं षट्कोणं वज्रकीलकम् षडंग षट्पदीस्थानं प्रकृत्या पुरुषेण च । प्रेमानंदमहानंदरसेनावस्थितं हि यत् ज्योतीरूपेण मनुना कामबीजेन संगतम् ॥ 3 ॥
तत्किंजल्कं तदंशानां तत्पत्राणि श्रियामपि ॥ 4 ॥
चतुरस्रं तत्परितः श्वेतद्वीपाख्यमद्भुतम् । चतुरस्रं चतुर्मूर्तेश्चतुर्धाम चतुष्कृतम् । चतुर्भिः पुरुषार्थैश्च चतुर्भिर्हेतुभिर्वृतम् । शूलैर्दशभिरानद्धमूर्ध्वाधो दिग्विदिक्ष्वपि । अष्टभिर्निधिभिर्जुष्टमष्टभिः सिद्धिभिस्तथा । मनुरूपैश्च दशभिर्दिक्पालैः परितो वृतम् । श्यामैर्गौरैश्च रक्तैश्च शुक्लैश्च पार्षदर्षभैः । शोभितं शक्तिभिस्ताभिरद्भुताभिः समंततः ॥ 5 ॥
एवं ज्योतिर्मयो देवः सदानंदं परात्परः । आत्मारामस्य तस्यास्ति प्रकृत्या न समागमः ॥ 6 ॥
माययाऽरममाणस्य न वियोगस्तया सह । आत्मना रमया रेमे त्यक्तकालं सिसृक्षया ॥ 7 ॥
नियतिः सा रमादेवी तत्प्रिया तद्वशं तदा । तल्लिंगं भगवान् शंभुर्जोतिरूपः सनातनः । या योनिः सापराशक्तिः कामो बीजं महद्धरेः ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
लिंगयोन्यात्मिका जाता इमा माहेश्वरी प्रजाः ॥ 9 ॥
शक्तिमान् पुरुषः सोऽयं लिंगरूपी महेश्वरः । तस्मिन्नाविरभूल्लिंगे महाविष्णुर्जगत्पतिः ॥ 10 ॥
सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् । सहस्रबाहुर्विश्वात्मा सहस्रांशः सहस्रसूः ॥ 11 ॥
नारायणः स भगवानापस्तस्मात्सनातनात् । आविरासीत्कारणार्णो निधिः संकर्षणात्मकः । योगनिद्रां गतस्तस्मिन् सहस्रांशः स्वयं महान् ॥ 12 ॥
तद्रोमबिल जालेषु बीजं संकर्षणस्य च । हैमान्यंडानि जातानि महाभूतावृतानि तु ॥ 13 ॥
प्रत्यंडमेवमेकांशादेकांशाद्विशति स्वयम् । सहस्रमूर्धा विश्वात्मा महाविष्णुः सनातनः ॥ 14 ॥
वामांगादसृजद्विष्णुं दक्षिणांगात्प्रजापतिम् । ज्योतिर्लिंगमयं शंभुं कूर्चदेशादवासृजत् ॥ 15 ॥
अहंकारात्मकं विश्वं तस्मादेतद्व्यजायत ॥ 16 ॥
अथ तैस्त्रिविधैर्वेशैर्लीलामुद्वहतः किल । योगनिद्रा भगवती तस्य श्रीरिव संगता ॥ 17 ॥
ससृक्षायां ततो नाभेस्तस्य पद्मं विनिर्ययौ । तन्नालं हेमनलिनं ब्रह्मणो लोकमद्भुतम् ॥ 18 ॥
तत्त्वानि पूर्वरूढानि कारणानि परस्परम् । समवायाप्रयोगाच्च विभिन्नानि पृथक् पृथक् । चिच्छक्त्या सज्जमानोऽथ भगवानादिपूरुषः । योजयन्मायया देवो योगनिद्रामकल्पयत् ॥ 19 ॥
योजयित्वा तु तान्येव प्रविवेश स्वयं गुहाम् । गुहां प्रविष्टे तस्मिंस्तु जीवात्मा प्रतिबुध्यते ॥ 20 ॥
स नित्यो नित्यसंबंधः प्रकृतिश्च परैव सा ॥ 21 ॥
एवं सर्वात्मसंबंधं नाभ्यां पद्मं हरेरभूत् । तत्र ब्रह्माभवद्भूयश्चतुर्वेदी चतुर्मुखः ॥ 22 ॥
स जातो भगवच्छक्त्या तत्कालं किल चोदितः । सिसृक्षायां मतिं चक्रे पूर्वसंस्कारसंस्कृतः । ददर्श केवलं ध्वांतं नान्यत्किमपि सर्वतः ॥ 23 ॥
उवाच
पुरतस्तस्मै तस्य दिव्या सरस्वती । कामः कृष्णाय गोविंद हे गोपीजन इत्यपि । वल्लभाय प्रिया वह्नेर्मंत्रं ते दास्यति प्रियम् ॥ 24
तपस्त्वं तप एतेन तव सिद्धिर्भविष्यति ॥ 25 ॥
अथ तेपे स सुचिरं प्रीणन् गोविंदमव्ययम् । श्वेतद्वीपपतिं कृष्णं गोलोकस्थं परात्परम् । प्रकृत्या गुणरूपिण्या रूपिण्या पर्युपासितम् । सहस्रदलसंपन्ने कोटिकिंजल्कबृंहिते । भूमिश्चिंतामणिस्तत्र कर्णिकारे महासने । समासीनं चिदानंदं ज्योतिरूपं सनातनम् । शब्दब्रह्ममयं वेणुं वादयंतं मुखांबुजे । विलासिनीगणवृतं स्वैः स्वैरंशैरभिष्टुतम् ॥ 26 ॥
अथ वेणुनिनादस्य त्रयीमूर्तिमयी गतिः । स्फुरंती प्रविवेशाशु मुखाब्जानि स्वयंभुवः । गायत्रीं गायतस्तस्मादधिगत्य सरोजजः । संस्कृतश्चादिगुरुणा द्विजतामगमत्ततः ॥ 27 ॥
त्रय्या प्रबुद्धोऽथ विधिर्विज्ञाततत्त्वसागरः । तुष्टाव वेदसारेण स्तोत्रेणानेन केशवम् ॥ 28 ॥
चिंतामणिप्रकरसद्मसु कल्पवृक्ष लक्षावृतेषु सुरभीरभिपालयंतम् । लक्ष्मीसहस्रशतसंभ्रमसेव्यमानं गोविंदमादिपुरुषं तमहं भजामि ॥ 29 ॥
वेणुं क्वणंतमरविंददलायताक्षं बर्हावतंसमसितांबुदसुंदरांगम् । कंदर्पकोटिकमनीयविशेषशोभं गोविंदमादिपुरुषं तमहं भजामि ॥ 30 ॥
आलोलचंद्रकलसद्वनमाल्यवंशी- -रत्नांगदं प्रणयकेलिकलाविलासम् । श्यामं त्रिभंगललितं नियतप्रकाशं गोविंदमादिपुरुषं तमहं भजामि ॥ 31 ॥
अंगानि यस्य सकलेंद्रियवृत्तिमंति पश्यंति पांति कलयंति चिरं जगंति । आनंदचिन्मयसदुज्ज्वलविग्रहस्य गोविंदमादिपुरुषं तमहं भजामि ॥ 32 ॥
अद्वैतमच्युतमनादिमनंतरूपं आद्यं पुराणपुरुषं नवयौवनं च । वेदेषु दुर्लभमदुर्लभमात्मभक्तौ गोविंदमादिपुरुषं तमहं भजामि ॥ 33 ॥
पंथास्तु कोटिशतवत्सरसंप्रगम्यो वायोरथापि मनसो मुनिपुंगवानाम् । सोऽप्यस्ति यत्प्रपदसीम्न्यविचिंत्यतत्त्वे गोविंदमादिपुरुषं तमहं भजामि ॥ 34 ॥
एकोऽप्यसौ रचयितुं जगदंडकोटिं यच्छक्तिरस्ति जगदंडचया यदंतः । अंडांतरस्थपरमाणुचयांतरस्थं गोविंदमादिपुरुषं तमहं भजामि ॥ 35 ॥
यद्भावभावितधियो मनुजास्तथैव संप्राप्य रूपमहिमासनयानभूषाः । सूक्तैर्यमेव निगमप्रथितैः स्तुवंति गोविंदमादिपुरुषं तमहं भजामि ॥ 36 ॥
आनंदचिन्मयरसप्रतिभाविताभि- -स्ताभिर्य एव निजरूपतया कलाभिः । गोलोक एव निवसत्यखिलात्मभूतो गोविंदमादिपुरुषं तमहं भजामि ॥ 37 ॥
प्रेमांजनच्छुरितभक्तिविलोचनेन संतः सदैव हृदयेषु विलोकयंति । यं श्यामसुंदरमचिंत्यगुणस्वरूपं गोविंदमादिपुरुषं तमहं भजामि ॥ 38 ॥
रामादिमूर्तिषु कलानियमेन तिष्ठन् नानावतारमकरोद्भुवनेषु किंतु । कृष्णः स्वयं समभवत्परमः पुमान् यो गोविंदमादिपुरुषं तमहं भजामि ॥ 39 ॥
यस्य प्रभा प्रभवतो जगदंडकोटि- -कोटिष्वशेषवसुधादि विभूतिभिन्नम् । तद्ब्रह्म निष्कलमनंतमशेषभूतं गोविंदमादिपुरुषं तमहं भजामि ॥ 40 ॥
माया हि यस्य जगदंडशतानि सूते त्रैगुण्यतद्विषयवेदवितायमाना । सत्त्वावलंबिपरसत्त्वं विशुद्धसत्त्वं गोविंदमादिपुरुषं तमहं भजामि ॥ 41 ॥
आनंदचिन्मयरसात्मतया मनःसु यः प्राणिनां प्रतिफलन् स्मरतामुपेत्य । लीलायितेन भुवनानि जयत्यजस्रं गोविंदमादिपुरुषं तमहं भजामि ॥ 42 ॥
गोलोकनाम्नि निजधाम्नि तले च तस्य देवि महेशहरिधामसु तेषु तेषु । ते ते प्रभावनिचया विहिताश्च येन गोविंदमादिपुरुषं तमहं भजामि ॥ 43 ॥
सृष्टिस्थितिप्रलयसाधनशक्तिरेका छायेव यस्य भुवनानि बिभर्ति दुर्गा । इच्छानुरूपमपि यस्य च चेष्टते सा गोविंदमादिपुरुषं तमहं भजामि ॥ 44 ॥
क्षीरं यथा दधि विकारविशेषयोगात् संजायते न हि ततः पृथगस्ति हेतोः । यः शंभुतामपि तथा समुपैति कार्या- -द्गोविंदमादिपुरुषं तमहं भजामि ॥ 45 ॥
दीपार्चिरेव हि दशांतरमभ्युपेत्य दीपायते विवृतहेतुसमानधर्मा । यस्तादृगेव हि च विष्णुतया विभाति गोविंदमादिपुरुषं तमहं भजामि ॥ 46 ॥
यः कारणार्णवजले भजति स्म योग- -निद्रामनंतजगदंडसरोमकूपः । आधारशक्तिमवलंब्य परां स्वमूर्तिं गोविंदमादिपुरुषं तमहं भजामि ॥ 47 ॥
यस्यैकनिश्वसितकालमथावलंब्य जीवंति लोमबिलजा जगदंडनाथाः । विष्णुर्महान् स इह यस्य कलाविशेषो गोविंदमादिपुरुषं तमहं भजामि ॥ 48 ॥
भास्वान् यथाश्मशकलेषु निजेषु तेजः स्वीयं कियत्प्रकटयत्यपि तद्वदत्र । ब्रह्मा य एष जगदंडविधानकर्ता गोविंदमादिपुरुषं तमहं भजामि ॥ 49 ॥
यत्पादपल्लवयुगं विनिधाय कुंभ- -द्वंद्वे प्रणामसमये स गणाधिराजः । विघ्नान् विहंतुमलमस्य जगत्त्रयस्य गोविंदमादिपुरुषं तमहं भजामि ॥ 50 ॥
अग्निर्मही गगनमंबु मरुद्दिशश्च कालस्तथात्ममनसीति जगत्त्रयाणि । यस्माद्भवंति विभवंति विशंति यं च गोविंदमादिपुरुषं तमहं भजामि ॥ 51 ॥
यच्चक्षुरेष सविता सकलग्रहाणां राजा समस्तसुरमूर्तिरशेषतेजाः । यस्याज्ञया भ्रमति संभृतकालचक्रो गोविंदमादिपुरुषं तमहं भजामि ॥ 52 ॥
धर्मोऽथ पापनिचयः श्रुतयस्तपांसि ब्रह्मादिकीटपतगावधयश्च जीवाः । यद्दतमात्रविभवप्रकटप्रभावा गोविंदमादिपुरुषं तमहं भजामि ॥ 53 ॥
यस्त्विंद्रगोपमथवेंद्रमहो स्वकर्म- -बंधानुरूपफलभाजनमातनोति । कर्माणि निर्दहति किंतु च भक्तिभाजां गोविंदमादिपुरुषं तमहं भजामि ॥ 54 ॥
यं क्रोधकामसहजप्रणयादिभीति- -वात्सल्यमोहगुरुगौरवसेव्यभावैः । संचिंत्य तस्य सदृशीं तनुमापुरेते गोविंदमादिपुरुषं तमहं भजामि ॥ 55 ॥
श्रियः कांताः कांतः परमपुरुषः कल्पतरवो द्रुमा भूमिश्चिंतामणिगणमयि तोयममृतम् । कथा गानं नाट्यं गमनमपि वंशी प्रियसखि चिदानंदं ज्योतिः परमपि तदास्वाद्यमपि च । स यत्र क्षीराब्धिः स्रवति सुरभीभ्यश्च सुमहान् निमेषार्धाख्यो वा व्रजति न हि यत्रापि समयः । भजे श्वेतद्वीपं तमहमिह गोलोकमिति यं विदंतस्ते संतः क्षितिविरलचाराः कतिपये ॥ 56 ॥
अथोवाच महाविष्णुर्भगवंतं प्रजापतिम् । ब्रह्मन् महत्त्वविज्ञाने प्रजासर्गे च चेन्मतिः । पंचश्लोकीमिमां विद्यां वत्स दत्तां निबोध मे ॥ 57 ॥
प्रबुद्धे ज्ञानभक्तिभ्यामात्मन्यानंदचिन्मयी । उदेत्यनुत्तमा भक्तिर्भगवत्प्रेमलक्षणा ॥ 58 ॥
प्रमाणैस्तत् सदाचारैस्तदभ्यासैर्निरंतरम् । बोधयनात्मनात्मानं भक्तिमप्युत्तमां लभेत् ॥ 59 ॥
यस्याः श्रेयस्करं नास्ति यया निर्वृतिमाप्नुयात् । या साधयति मामेव भक्तिं तामेव साधयेत् ॥ 60 ॥
धर्मानन्यान् परित्यज्य मामेकं भज विश्वसन् । यादृशी यादृशी श्रद्धा सिद्धिर्भवति तादृशी । कुर्वन्निरंतरं कर्म लोकोऽयमनुवर्तते । तेनैव कर्मणा ध्यायन्मां परां भक्तिमिच्छति ॥ 61 ॥
अहं हि विश्वस्य चराचरस्य बीजं प्रधानं प्रकृतिः पुमांश्च । मयाहितं तेज इदं बिभर्षि विधे विधेहि त्वमथो जगंति ॥ 62 ॥
इति श्री ब्रह्म संहिता संपूर्णम् ।
Browse Related Categories: