Sri Krishna · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अथ गीतामाहात्म्यं
धरोवाच
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
भगवन् परमेशान भक्तिरव्यभिचारिणी । प्रारब्धं भुज्यमानस्य कथं भवति हे प्रभो ॥ 1 ॥
श्रीविष्णुरुवाच
प्रारब्धं भुज्यमानो हि गीताभ्यासरतः सदा । स मुक्तः स सुखी लोके कर्मणा नोपलिप्यते ॥ 2
महापापादिपापानि गीताध्यानं करोति चेत् । क्वचित्स्पर्शं न कुर्वंति नलिनीदलमंबुवत् ॥ 3 ॥
गीतायाः पुस्तकं यत्र यत्र पाठः प्रवर्तते । तत्र सर्वाणि तीर्थानि प्रयागादीनि तत्र वै ॥ 4 ॥
सर्वे देवाश्च ऋषयः योगिनः पन्नगाश्च ये । गोपाला गोपिका वाऽपि नारदोद्धवपार्षदैः ॥ 5 ॥
सहायो जायते शीघ्रं यत्र गीता प्रवर्तते । यत्र गीताविचारश्च पठनं पाठनं श्रुतम् । तत्राहं निश्चितं पृथ्वि निवसामि सदैव हि ॥ 6 ॥
गीताश्रयेऽहं तिष्ठामि गीता मे चोत्तमं गृहम् । गीताज्ञानमुपाश्रित्य त्रीँल्लोकान्-पालयाम्यहम् ॥ 7 ॥
गीता मे परमा विद्या ब्रह्मरूपा न संशयः । अर्धमात्राक्षरा नित्या स्वानिर्वाच्यपदात्मिका ॥ 8 ॥
चिदानंदेन कृष्णेन प्रोक्ता स्वमुखतोऽर्जुनम् । वेदत्रयी परानंदा तत्त्वार्थज्ञानसंयुता ॥ 9 ॥
योऽष्टादशं जपेन्नित्यं नरो निश्चलमानसः । ज्ञानसिद्धिं स लभते ततो याति परं पदम् ॥ 10 ॥
पाठेऽसमर्थः संपूर्णे ततोऽर्धं पाठमाचरेत् । तदा गोदानजं पुण्यं लभते नात्र संशयः ॥ 11 ॥
त्रिभागं पठमानस्तु गंगास्नानफलं लभेत् । षडंशं जपमानस्तु सोमयागफलं लभेत् ॥ 12 ॥
ऎकाध्यायं तुयो नित्यं पठते भक्तिसंयुतः । रुद्रलोकमवाप्नोति गणो भूत्वा वसेच्चिरम् ॥ 13 ॥
अध्यायं श्लोकपादं वा नित्यं यः पठते नरः । स याति नरतां यावत् मन्वंतरं वसुंधरे ॥ 14 ॥
गीतायाः श्लोकदशकं सप्त पंच चतुष्टयम् । द्वौत्रीनेकं तदर्धं वा श्लोकानां यः पठेन्नरः ॥ 15 ॥
चंद्रलोकमवाप्नोति वर्षाणामयुतं धृवम् । गीतापाठसमायुक्तः मृतो मानुषतां व्रजेत् ॥ 16 ॥
गीताभ्यासं पुनः कृत्वा लभते मुक्तिमुत्तमम् । गीतेत्युच्चारसंयुक्तः म्रियमाणो गतिं लभेत् ॥ 17 ॥
गीतार्थश्रवणासक्तः महापापयुतोऽपि वा । वैकुंठं समवाप्नोति विष्णुना सहमोदते ॥ 18 ॥
गीतार्थं ध्यायते नित्यं कृत्वा कर्माणि भूरिशः । जीवन्मुक्तः स विज्ञेयः देहांते परमं पदम् ॥ 19 ॥
मलनिर्मोचनं पुंसां जलस्नानं दिने दिने । सकृद्गीतांभसि स्नानं संसारमलनाशनम् ॥ 20 ॥
गीतामाश्रित्य बहवः भूभुजो जनकादयः । निर्धूतकल्मषा लोके गीता याताः परं पदम् ॥ 21 ॥
ते शृण्वंति पठंत्येव गीताशास्त्रमहर्निशम् । न ते वै मानुषा ज्ञेया देवा एव न संशयः ॥ 22 ॥
ज्ञानाज्ञानकृतं नित्यं इंद्रियैर्जनितं च यत् । तत्सर्वं नाशमायाति गीतापाठेन तक्षणम् ॥ 23 ॥
धिक् तस्य ज्ञानमाचारं व्रतं चेष्टां तपो यशः । गीतार्थपठनं नाऽस्ति नाधमस्तत्परो जनः ॥ 24 ॥
संसारसागरं घोरं तर्तुमिच्छति यो जनः । गीतानावं समारुह्य पारं याति सुखेन सः ॥ 25 ॥
गीतायाः पठनं कृत्वा माहात्म्यं नैव यः पठेत् । वृथा पाठो भवेत्तस्य श्रम एव ह्युदाहृतः ॥ 26 ॥
एतन्माहात्म्यसंयुक्तं गीताभ्यासं करोति यः । स तत्फलमवाप्नोति दुर्लभां गतिमाप्नुयात् ॥ 27 ॥
सूत उवाच
माहात्म्यमेतद्गीतायाः मया प्रोक्तं सनातनम् । गीतांते च पठेद्यस्तु यदुक्तं तत्फलं भवेत् ॥ 28
इति श्री वराहपुराणे श्री गीतामाहात्म्यं संपूर्णम् ॥
ॐ शांतिः शांतिः शांतिः ॥
Browse Related Categories: