Sri Krishna · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
पल्लवि (कीरवाणि) गीतासारं शृणुत सदा मनसि विकासं वहतमुदा कामं क्रोधं त्यजत हृदा भूयात् संवित् परसुखदा
चरणं विषाद योगात् पार्थेन भणितं किंचिन्मोह धिया तं संदिग्धं मोचयितुं गीताशास्त्रं गीतमिदं ॥ 1 ॥
सांख्यं ज्ञानं जानीहि शरणागति पथ मवाप्नुहि आत्म नित्य स्सर्वगतो नैनं किंचित् क्लेदयति ॥ 2 ॥
(मोहन) फलेषु सक्तिं मैव कुरु कार्यं कर्म तु समाचर कर्माबद्धः परमेति कर्मणि संगः पातयति ॥ 3 ॥
कर्माकर्म विकर्मत्वं चिंतय चात्मनि कर्मगतिं नास्ति ज्ञानसमं लोके त्यज चाहंकृति मिह देहे ॥ 4 ॥
(कापि) वह समबुद्धिं सर्वत्र भव समदर्शी त्वं हि सखे योननुरक्तो न द्वेष्टि योगी योगं जानाति ॥ 5 ॥
मित्रं तव ते शत्रुरपि त्वमेव नान्यो जंतुरयि! युक्तस्त्वं भव चेष्टासु आहारादिषु विविधासु ॥ 6 ॥
(कल्याणि) अनात्मरूपा मष्टविधां प्रकृति मविद्यां जानीहि जीव स्सैव हि परमात्मा यस्मिन् प्रोतं सर्वमिदं ॥ 7 ॥
अक्षर पर वर पुरुषं तं ध्यायन् प्रेतो याति परं तत स्तमेव ध्यायन् त्वं कालं यापय नश्यंतं ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
(हिंदोल) सर्वं ब्रह्मार्पण बुद्ध्या कर्म क्रियतां समबुद्ध्या भक्त्या दत्तं पत्रमपि फलमपि तेन स्वीक्रियते ॥ 9 ॥
यत्र विभूति श्श्री युक्ता यत्र विभूति स्सत्त्वयुता तत्र तमीशं पश्यंतं नेर्ष्या द्वेषौ सज्जेते ॥ 10 ॥
(अमृतवर्षिणि) कालस्तस्य महान् रूपो लोकान् सर्वान् संग्रसति भक्त्या भगवद्रूपं तं प्रभवति लोक स्संद्रष्टुं ॥ 11 ॥
भक्ति स्तस्मिन् रतिरूपा सैव हि भक्तोद्धरणचणा भावं तस्या माधाय बुद्धिं तस्मि न्निवेशय ॥ 12 ॥
(चारुकेशि) क्षेत्रं तद्ज्ञं जानीहि क्षेत्रे ममतां मा कुरु च आत्मानं यो जानाति आत्मनि सोयं ननु रमते ॥ 13 ॥
सात्त्विक राजस तामसिका बंधन हेतव अथवर्ज्यः त्रयं गुणानां योतीत- स्सैव ब्राह्मं सुखमेति ॥ 14 ॥
(हंसानंदि) छित्वा सांसारिकवृक्षं पदं गवेषय मुनिलक्ष्यं तत्किल सर्वं तेजो यत् वेदै स्सर्वै स्संवेद्यं ॥ 15 ॥
सृष्टि र्दैवी चासुरिका द्विविधा प्रोक्ता लोकेस्मिन् दैवे सक्ता यांति परं आसुरसक्ता असुरगतिं ॥ 16 ॥
(श्री) निष्ठा यज्ञे दाने च तपसि प्रोक्ता सदिति परा सत्किल सफलं सश्रद्धं तत्किल निष्फल मश्रद्धं ॥ 17 ॥
धर्मान् सर्वान् त्यक्त्वा त्वं शरणं व्रज पर-मात्मानं मोक्षं प्राप्स्यसि सत्यं त्वं संतत सच्चिदानंद घनं ॥ 18 ॥
॥ गीतासारं शृणुत सदा ॥
Browse Related Categories: