Navagraha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अस्य श्री चंद्र कवचस्य । गौतम ऋषिः । अनुष्टुप् छंदः । श्री चंद्रो देवता । चंद्र प्रीत्यर्थे जपे विनियोगः ॥
ध्यानं
समं चतुर्भुजं वंदे केयूर मकुटोज्वलम् । वासुदेवस्य नयनं शंकरस्य च भूषणम् ॥
एवं ध्यात्वा जपेन्नित्यं शशिनः कवचं शुभम् ॥
अथ चंद्र कवचम्
शशी पातु शिरोदेशं भालं पातु कलानिधिः । चक्षुषी चंद्रमाः पातु श्रुती पातु निशापतिः ॥ 1 ॥
प्राणं क्षपकरः पातु मुखं कुमुदबांधवः । पातु कंठं च मे सोमः स्कंधे जैवातृकस्तथा ॥ 2 ॥
करौ सुधाकरः पातु वक्षः पातु निशाकरः । हृदयं पातु मे चंद्रो नाभिं शंकरभूषणः ॥ 3 ॥
मध्यं पातु सुरश्रेष्ठः कटिं पातु सुधाकरः । ऊरू तारापतिः पातु मृगांको जानुनी सदा ॥ 4 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
अब्धिजः पातु मे जंघे पातु पादौ विधुः सदा । सर्वाण्यन्यानि चांगानि पातु चंद्रोखिलं वपुः ॥ 5 ॥
फलश्रुतिः एतद्धि कवचं दिव्यं भुक्ति मुक्ति प्रदायकम् । यः पठेच्छृणुयाद्वापि सर्वत्र विजयी भवेत् ॥ 6 ॥
॥ इति श्रीचंद्र कवचं संपूर्णम् ॥
Browse Related Categories: