Samskritam Songs · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
देववाणीं वेदवाणीं मातरं वंदामहे । चिरनवीना चिरपुराणीं सादरं वंदामहे ॥ ध्रु॥
दिव्यसंस्कृतिरक्षणाय तत्परा भुवने भ्रमंतः । लोकजागरणाय सिद्धाः संघटनमंत्रं जपंतः । कृतिपरा लक्ष्यैकनिष्ठा भारतं सेवामहे ॥ 1॥
भेदभावनिवारणाय बंधुतामनुभावयेम । कर्मणा मनसा च वचसा मातृवंदनमाचरेम । कीर्तिधनपदकामनाभिर्विरहिता मोदामहे ॥ 2॥
संस्कृतेर्विमुखं समाजं जीवनेन शिक्षयेम । मानुकूलादर्शं वयं वै पालयित्वा दर्शयेम । जीवनं संस्कृत हितार्थं ह्यर्पितं मन्यामहे ॥ 3॥
वयमसाध्यं लक्ष्यमेतत् संस्कृतेन साधयंतः । त्यागधैर्यसमर्पणेन नवलमितिहासं लिखंतः । जन्मभूमिसमर्चनेन सर्वतः स्पंदामहे ॥ 4॥
भारताः सोदराः स्मो भावनेयं हृदि निधाय । वयं संस्कृतसैनिकाः सज्जीता नैजं विहाय । परमवैभवसाधनाया वरमहो याचामहे ॥ 5॥
देववाणीं वेदवाणीं मातरं वंदामहे चिरनवीनां चिरपुराणीं सादरं वंदामहे ॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts