Samskritam Songs · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ध्येयपथिकसाधक कार्यपथे साधय मृदु हसन् मधुकिरन् मातरं सदा स्मरन् ॥
जीवनं न शाश्वतं, वैभवं न हि स्थिरं स्वार्थलेपनं विना, यत्कृतं हि तच्चिरं सरलता स्वजीवने चिंतने सदोच्चता समाजपोषिता वयं समाजपोषकाश्चिरम् ॥ 1 ॥
यच्च मनसि चिंत्यते, यच्च कीर्त्यते गिरा तच्च मूर्तरूपताम्, एति नित्यजीवने जनन्यनन्यचरणयोः समर्पितस्वजीवनाः ध्येयसाधनव्रता वयं भवेम संगताः ॥ 2 ॥
स्मरत्विहाग्रजन्मनां, त्यागबलिसमर्पणं सिंहकुलसमुद्भवाः सिंहविक्रमा वयं संतु कष्टकोटयो भवतु विघ्नवर्षणं सकृत्प्रतिज्ञका वयं भजेम नो पलायनम् ॥ 3 ॥
रचन: श्री जनार्दन हेग्डे
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts