Ganesha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
शुक्लांबरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत्सर्वविघ्नोपशांतयेः ॥ 1 ॥
अभीप्सितार्थ सिध्यर्थं पूजितो यः सुरासुरैः । सर्वविघ्नहरस्तस्मै गणाधिपतये नमः ॥ 2 ॥
गणानामधिपश्चंडो गजवक्त्रस्त्रिलोचनः । प्रसन्नो भव मे नित्यं वरदातर्विनायक ॥ 3 ॥
सुमुखश्चैकदंतश्च कपिलो गजकर्णकः । लंबोदरश्च विकटो विघ्ननाशो विनायकः ॥ 4 ॥
धूम्रकेतुर्गणाध्यक्षो फालचंद्रो गजाननः । द्वादशैतानि नामानि गणेशस्य तु यः पठेत् ॥ 5 ॥
विद्यार्थी लभते विद्यां धनार्थी विपुलं धनम् । इष्टकामं तु कामार्थी धर्मार्थी मोक्षमक्षयम् ॥ 6 ॥
विध्यारंभे विवाहे च प्रवेशे निर्गमे तथा । संग्रामे संकटे चैव विघ्नस्तस्य न जायते ॥ 7 ॥
॥ इति मुद्गलपुराणोक्तं श्रीगणेशद्वादशनामस्तोत्रं संपूर्णम् ॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts