Ganesha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
एषोति चपलो दैत्यान् बाल्येपि नाशयत्यहो । अग्रे किं कर्म कर्तेति न जाने मुनिसत्तम ॥ 1 ॥
दैत्या नानाविधा दुष्टास्साधु देवद्रुमः खलाः । अतोस्य कंठे किंचित्त्यं रक्षां संबद्धुमर्हसि ॥ 2 ॥
ध्यायेत् सिंहगतं विनायकममुं दिग्बाहु माद्ये युगे त्रेतायां तु मयूर वाहनममुं षड्बाहुकं सिद्धिदम् । ई द्वापरेतु गजाननं युगभुजं रक्तांगरागं विभुं तुर्ये तु द्विभुजं सितांगरुचिरं सर्वार्थदं सर्वदा ॥ 3 ॥
विनायक श्शिखांपातु परमात्मा परात्परः । अतिसुंदर कायस्तु मस्तकं सुमहोत्कटः ॥ 4 ॥
ललाटं कश्यपः पातु भ्रूयुगं तु महोदरः । नयने बालचंद्रस्तु गजास्यस्त्योष्ठ पल्लवौ ॥ 5 ॥
जिह्वां पातु गजक्रीडश्चुबुकं गिरिजासुतः । वाचं विनायकः पातु दंतान् रक्षतु दुर्मुखः ॥ 6 ॥
श्रवणौ पाशपाणिस्तु नासिकां चिंतितार्थदः । गणेशस्तु मुखं पातु कंठं पातु गणाधिपः ॥ 7 ॥
स्कंधौ पातु गजस्कंधः स्तने विघ्नविनाशनः । हृदयं गणनाथस्तु हेरंबो जठरं महान् ॥ 8 ॥
धराधरः पातु पार्श्वौ पृष्ठं विघ्नहरश्शुभः । लिंगं गुह्यं सदा पातु वक्रतुंडो महाबलः ॥ 9 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
गजक्रीडो जानु जंघो ऊरू मंगलकीर्तिमान् । एकदंतो महाबुद्धिः पादौ गुल्फौ सदावतु ॥ 10 ॥
क्षिप्र प्रसादनो बाहु पाणी आशाप्रपूरकः । अंगुलीश्च नखान् पातु पद्महस्तो रिनाशनः ॥ 11 ॥
सर्वांगानि मयूरेशो विश्वव्यापी सदावतु । अनुक्तमपि यत् स्थानं धूमकेतुः सदावतु ॥ 12 ॥
आमोदस्त्वग्रतः पातु प्रमोदः पृष्ठतोवतु । प्राच्यां रक्षतु बुद्धीश आग्नेय्यां सिद्धिदायकः ॥ 13 ॥
दक्षिणस्यामुमापुत्रो नैऋत्यां तु गणेश्वरः । प्रतीच्यां विघ्नहर्ता व्याद्वायव्यां गजकर्णकः ॥ 14 ॥
कौबेर्यां निधिपः पायादीशान्याविशनंदनः । दिवाव्यादेकदंत स्तु रात्रौ संध्यासु यःविघ्नहृत् ॥ 15 ॥
राक्षसासुर बेताल ग्रह भूत पिशाचतः । पाशांकुशधरः पातु रजस्सत्त्वतमस्स्मृतीः ॥ 16 ॥
ज्ञानं धर्मं च लक्ष्मी च लज्जां कीर्तिं तथा कुलम् । ई वपुर्धनं च धान्यं च गृहं दारास्सुतान्सखीन् ॥ 17 ॥
सर्वायुध धरः पौत्रान् मयूरेशो वतात् सदा । कपिलो जानुकं पातु गजाश्वान् विकटोवतु ॥ 18 ॥
भूर्जपत्रे लिखित्वेदं यः कंठे धारयेत् सुधीः । न भयं जायते तस्य यक्ष रक्षः पिशाचतः ॥ 19 ॥
त्रिसंध्यं जपते यस्तु वज्रसार तनुर्भवेत् । यात्राकाले पठेद्यस्तु निर्विघ्नेन फलं लभेत् ॥ 20 ॥
युद्धकाले पठेद्यस्तु विजयं चाप्नुयाद्ध्रुवम् । मारणोच्चाटनाकर्ष स्तंभ मोहन कर्मणि ॥ 21 ॥
सप्तवारं जपेदेतद्दनानामेकविंशतिः । तत्तत्फलमवाप्नोति साधको नात्र संशयः ॥ 22 ॥
एकविंशतिवारं च पठेत्तावद्दिनानि यः । कारागृहगतं सद्यो राज्ञावध्यं च मोचयोत् ॥ 23 ॥
राजदर्शन वेलायां पठेदेतत् त्रिवारतः । स राजानं वशं नीत्वा प्रकृतीश्च सभां जयेत् ॥ 24 ॥
इदं गणेशकवचं कश्यपेन सविरितम् । मुद्गलाय च ते नाथ मांडव्याय महर्षये ॥ 25 ॥
मह्यं स प्राह कृपया कवचं सर्व सिद्धिदम् । न देयं भक्तिहीनाय देयं श्रद्धावते शुभम् ॥ 26 ॥
अनेनास्य कृता रक्षा न बाधास्य भवेत् व्याचित् । राक्षसासुर बेताल दैत्य दानव संभवाः ॥ 27 ॥
॥ इति श्री गणेशपुराणे श्री गणेश कवचं संपूर्णम् ॥
Browse Related Categories: