Navagraha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
शृणु नामानि जप्यानि केतो रथ महामते । केतुः स्थूलशिराश्चैव शिरोमात्रो ध्वजाकृतिः ॥ 1 ॥
नवग्रहयुतः सिंहिकासुरीगर्भसंभवः । महाभीतिकरश्चित्रवर्णो वै पिंगलाक्षकः ॥ 2 ॥
स फलोधूम्रसंकाशः तीक्ष्णदंष्ट्रो महोरगः । रक्तनेत्रश्चित्रकारी तीव्रकोपो महासुरः ॥ 3 ॥
क्रूरकंठः क्रोधनिधिश्छायाग्रहविशेषकः । अंत्यग्रहो महाशीर्षो सूर्यारिः पुष्पवद्ग्रही ॥ 4 ॥
वरहस्तो गदापाणिश्चित्रवस्त्रधरस्तथा । चित्रध्वजपताकश्च घोरश्चित्ररथः शिखी ॥ 5 ॥
कुलुत्थभक्षकश्चैव वैडूर्याभरणस्तथा । उत्पातजनकः शुक्रमित्रं मंदसखस्तथा ॥ 6 ॥
गदाधरः नाकपतिः अंतर्वेदीश्वरस्तथा । जैमिनीगोत्रजश्चित्रगुप्तात्मा दक्षिणामुखः ॥ 7 ॥
मुकुंदवरपात्रं च महासुरकुलोद्भवः । घनवर्णो लंबदेहो मृत्युपुत्रस्तथैव च ॥ 8 ॥
उत्पातरूपधारी चाऽदृश्यः कालाग्निसन्निभः । नृपीडो ग्रहकारी च सर्वोपद्रवकारकः ॥ 9 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
चित्रप्रसूतो ह्यनलः सर्वव्याधिविनाशकः । अपसव्यप्रचारी च नवमे पापदायकः ॥ 10 ॥
पंचमे शोकदश्चोपरागखेचर एव च । अतिपुरुषकर्मा च तुरीये (तु) सुखप्रदः ॥ 11 ॥
तृतीये वैरदः पापग्रहश्च स्फोटकारकः । प्राणनाथः पंचमे तु श्रमकारक एव च ॥ 12 ॥
द्वितीयेऽस्फुटवाग्दाता विषाकुलितवक्त्रकः । कामरूपी सिंहदंतः सत्येप्यनृतवानपि ॥ 13 ॥
चतुर्थे मातृनाशश्च नवमे पितृनाशकः । अंत्ये वैरप्रदश्चैव सुतानंदनबंधकः ॥ 14 ॥
सर्पाक्षिजातोऽनंगश्च कर्मराश्युद्भवस्तथा । उपांते कीर्तिदश्चैव सप्तमे कलहप्रदः ॥ 15 ॥
अष्टमे व्याधिकर्ता च धने बहुसुखप्रदः । जनने रोगदश्चोर्ध्वमूर्धजो ग्रहनायकः ॥ 16 ॥
पापदृष्टिः खेचरश्च शांभवोऽशेषपूजितः । शाश्वतश्च नटश्चैव शुभाऽशुभफलप्रदः ॥ 17 ॥
धूम्रश्चैव सुधापायी ह्यजितो भक्तवत्सलः । सिंहासनः केतुमूर्ती रवींदुद्युतिनाशकः ॥ 18 ॥
अमरः पीडकोऽमर्त्यो विष्णुदृष्टोऽसुरेश्वरः । भक्तरक्षोऽथ वैचित्र्यकपटस्यंदनस्तथा ॥ 19 ॥
विचित्रफलदायी च भक्ताभीष्टफलप्रदः । एतत्केतुग्रहस्योक्तं नाम्नामष्टोत्तरं शतम् ॥ 20 ॥
यो भक्त्येदं जपेत्केतुर्नाम्नामष्टोत्तरं शतम् । स तु केतोः प्रसादेन सर्वाभीष्टं समाप्नुयात् ॥ 21 ॥
इति श्री केतु अष्टोत्तरशतनाम स्तोत्रम् ।
Browse Related Categories: