Kanda 6 - Krishna Yajurveda Taittiriya Samhita · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
1) यदु॒भा वु॒भौ य-द्यदु॒भौ । 2) उ॒भौ वि॒मुच्य॑ वि॒मुच्यो॒भा वु॒भौ वि॒मुच्य॑ । 3) वि॒मुच्या॑ ति॒थ्य मा॑ति॒थ्यम् ँवि॒मुच्य॑ वि॒मुच्या॑ ति॒थ्यम् । 3) वि॒मुच्येति॑ वि - मुच्य॑ । 4) आ॒ति॒थ्य-ङ्गृ॑ह्णी॒या-द्गृ॑ह्णी॒या दा॑ति॒थ्य मा॑ति॒थ्य-ङ्गृ॑ह्णी॒यात् । 5) गृ॒ह्णी॒या-द्य॒ज्ञं-यँ॒ज्ञ-ङ्गृ॑ह्णी॒या-द्गृ॑ह्णी॒या-द्य॒ज्ञम् । 6) य॒ज्ञं-विँ वि य॒ज्ञं-यँ॒ज्ञं-विँ । 7) वि च्छि॑न्द्याच् छिन्द्यात्-द्वि वि च्छि॑न्द्यात् । 8) छि॒न्द्या॒-द्य-द्यच् छि॑न्द्याच् छिन्द्या॒-द्यत् । 9) यदु॒भा वु॒भौ य-द्यदु॒भौ । 10) उ॒भा ववि॑मु॒च्या वि॑मुच्यो॒भा वु॒भा ववि॑मुच्य । 11) अवि॑मुच्य॒ यथा॒ यथा ऽवि॑मु॒च्या वि॑मुच्य॒ यथा᳚ । 11) अवि॑मु॒च्येत्यवि॑ - मु॒च्य॒ । 12) यथा ऽना॑गता॒या ना॑गताय॒ यथा॒ यथा ऽना॑गताय । 13) अना॑गताया ति॒थ्य मा॑ति॒थ्य मना॑गता॒या ना॑गताया ति॒थ्यम् । 13) अना॑गता॒येत्यना᳚ - ग॒ता॒य॒ । 14) आ॒ति॒थ्य-ङ्क्रि॒यते᳚ क्रि॒यत॑ आति॒थ्य मा॑ति॒थ्य-ङ्क्रि॒यते᳚ । 15) क्रि॒यते॑ ता॒दृ-क्ता॒दृक् क्रि॒यते᳚ क्रि॒यते॑ ता॒दृक् । 16) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व । 17) ए॒व त-त्तदे॒वैव तत् । 18) त-द्विमु॑क्तो॒ विमु॑क्त॒ स्त-त्त-द्विमु॑क्तः । 19) विमु॑क्तो॒ ऽन्यो᳚ ऽन्यो विमु॑क्तो॒ विमु॑क्तो॒ ऽन्यः । 19) विमु॑क्त॒ इति॒ वि - मु॒क्तः॒ । 20) अ॒न्यो॑ ऽन॒ड्वा न॑न॒ड्वा न॒न्यो᳚(1॒) ऽन्यो॑ ऽन॒ड्वान् । 21) अ॒न॒ड्वा-न्भव॑ति॒ भव॑ त्यन॒ड्वा न॑न॒ड्वा-न्भव॑ति । 22) भव॒ त्यवि॑मु॒क्तो ऽवि॑मुक्तो॒ भव॑ति॒ भव॒ त्यवि॑मुक्तः । 23) अवि॑मुक्तो॒ ऽन्यो᳚ ऽन्यो ऽवि॑मु॒क्तो ऽवि॑मुक्तो॒ ऽन्यः । 23) अवि॑मुक्त॒ इत्यवि॑ - मु॒क्तः॒ । 24) अ॒न्यो ऽथाथा॒ न्यो᳚ ऽन्यो ऽथ॑ । 25) अथा॑ति॒थ्य मा॑ति॒थ्य मथाथा॑ ति॒थ्यम् । 26) आ॒ति॒थ्य-ङ्गृ॑ह्णाति गृह्णा त्याति॒थ्य मा॑ति॒थ्य-ङ्गृ॑ह्णाति । 27) गृ॒ह्णा॒ति॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ गृह्णाति गृह्णाति य॒ज्ञस्य॑ । 28) य॒ज्ञस्य॒ सन्त॑त्यै॒ सन्त॑त्यै य॒ज्ञस्य॑ य॒ज्ञस्य॒ सन्त॑त्यै । 29) सन्त॑त्यै॒ पत्नी॒ पत्नी॒ सन्त॑त्यै॒ सन्त॑त्यै॒ पत्नी᳚ । 29) सन्त॑त्या॒ इति॒ सं - त॒त्यै॒ । 30) पत्न्य॒न्वार॑भते॒ ऽन्वार॑भते॒ पत्नी॒ पत्न्य॒न्वार॑भते । 31) अ॒न्वार॑भते॒ पत्नी॒ पत्न्य॒न्वार॑भते॒ ऽन्वार॑भते॒ पत्नी᳚ । 31) अ॒न्वार॑भत॒ इत्य॑नु - आर॑भते । 32) पत्नी॒ हि हि पत्नी॒ पत्नी॒ हि । 33) हि पारी॑णह्यस्य॒ पारी॑णह्यस्य॒ हि हि पारी॑णह्यस्य । 34) पारी॑णह्य॒स्येश॒ ईशे॒ पारी॑णह्यस्य॒ पारी॑णह्य॒स्येशे᳚ । 34) पारी॑णह्य॒स्येति॒ पारि॑ - न॒ह्य॒स्य॒ । 35) ईशे॒ पत्नि॑या॒ पत्नि॒येश॒ ईशे॒ पत्नि॑या । 36) पत्नि॑ यै॒वैव पत्नि॑या॒ पत्नि॑ यै॒व । 37) ए॒वा नु॑मत॒ मनु॑मत मे॒वैवा नु॑मतम् । 38) अनु॑मत॒-न्नि-र्णिरनु॑मत॒ मनु॑मत॒-न्निः । 38) अनु॑मत॒मित्यनु॑ - म॒त॒म् । 39) नि-र्व॑पति वपति॒ नि-र्णि-र्व॑पति । 40) व॒प॒ति॒ य-द्य-द्व॑पति वपति॒ यत् । 41) य-द्वै वै य-द्य-द्वै । 42) वै पत्नी॒ पत्नी॒ वै वै पत्नी᳚ । 43) पत्नी॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ पत्नी॒ पत्नी॑ य॒ज्ञस्य॑ । 44) य॒ज्ञस्य॑ क॒रोति॑ क॒रोति॑ य॒ज्ञस्य॑ य॒ज्ञस्य॑ क॒रोति॑ । 45) क॒रोति॑ मिथु॒न-म्मि॑थु॒न-ङ्क॒रोति॑ क॒रोति॑ मिथु॒नम् । 46) मि॒थु॒न-न्त-त्त-न्मि॑थु॒न-म्मि॑थु॒न-न्तत् । 47) तदथो॒ अथो॒ त-त्तदथो᳚ । 48) अथो॒ पत्नि॑याः॒ पत्नि॑या॒ अथो॒ अथो॒ पत्नि॑याः । 48) अथो॒ इत्यथो᳚ । 49) पत्नि॑या ए॒वैव पत्नि॑याः॒ पत्नि॑या ए॒व । 50) ए॒वैष ए॒ष ए॒वैवैषः । ॥ 1 ॥ (50/60)
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
1) ए॒ष य॒ज्ञस्य॑ य॒ज्ञस्यै॒ष ए॒ष य॒ज्ञस्य॑ । 2) य॒ज्ञस्या᳚ न्वार॒म्भो᳚ ऽन्वार॒म्भो य॒ज्ञस्य॑ य॒ज्ञस्या᳚ न्वार॒म्भः । 3) अ॒न्वा॒र॒म्भो ऽन॑वच्छित्त्या॒ अन॑वच्छित्त्या अन्वार॒म्भो᳚ ऽन्वार॒म्भो ऽन॑वच्छित्त्यै । 3) अ॒न्वा॒र॒म्भ इत्य॑नु - आ॒र॒म्भः । 4) अन॑वच्छित्त्यै॒ याव॑द्भि॒-र्याव॑द्भि॒ रन॑वच्छित्त्या॒ अन॑वच्छित्त्यै॒ याव॑द्भिः । 4) अन॑वच्छित्त्या॒ इत्यन॑व - छि॒त्त्यै॒ । 5) याव॑द्भि॒-र्वै वै याव॑द्भि॒-र्याव॑द्भि॒-र्वै । 5) याव॑द्भि॒रिति॒ याव॑त् - भिः॒ । 6) वै राजा॒ राजा॒ वै वै राजा᳚ । 7) राजा॑ ऽनुच॒रै र॑नुच॒रै राजा॒ राजा॑ ऽनुच॒रैः । 8) अ॒नु॒च॒रै रा॒गच्छ॑ त्या॒गच्छ॑ त्यनुच॒रै र॑नुच॒रै रा॒गच्छ॑ति । 8) अ॒नु॒च॒रैरित्य॑नु - च॒रैः । 9) आ॒गच्छ॑ति॒ सर्वे᳚भ्य॒-स्सर्वे᳚भ्य आ॒गच्छ॑ त्या॒गच्छ॑ति॒ सर्वे᳚भ्यः । 9) आ॒गच्छ॒तीत्या᳚ - गच्छ॑ति । 10) सर्वे᳚भ्यो॒ वै वै सर्वे᳚भ्य॒-स्सर्वे᳚भ्यो॒ वै । 11) वै तेभ्य॒ स्तेभ्यो॒ वै वै तेभ्यः॑ । 12) तेभ्य॑ आति॒थ्य मा॑ति॒थ्य-न्तेभ्य॒ स्तेभ्य॑ आति॒थ्यम् । 13) आ॒ति॒थ्य-ङ्क्रि॑यते क्रियत आति॒थ्य मा॑ति॒थ्य-ङ्क्रि॑यते । 14) क्रि॒य॒ते॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि क्रियते क्रियते॒ छन्दाग्ं॑सि । 15) छन्दाग्ं॑सि॒ खलु॒ खलु॒ छन्दाग्ं॑सि॒ छन्दाग्ं॑सि॒ खलु॑ । 16) खलु॒ वै वै खलु॒ खलु॒ वै । 17) वै सोम॑स्य॒ सोम॑स्य॒ वै वै सोम॑स्य । 18) सोम॑स्य॒ राज्ञो॒ राज्ञ॒-स्सोम॑स्य॒ सोम॑स्य॒ राज्ञः॑ । 19) राज्ञो॑ ऽनुच॒रा ण्य॑नुच॒राणि॒ राज्ञो॒ राज्ञो॑ ऽनुच॒राणि॑ । 20) अ॒नु॒च॒रा ण्य॒ग्ने र॒ग्ने र॑नुच॒रा ण्य॑नुच॒रा ण्य॒ग्नेः । 20) अ॒नु॒च॒राणीत्य॑नु - च॒राणि॑ । 21) अ॒ग्ने रा॑ति॒थ्य मा॑ति॒थ्य म॒ग्ने र॒ग्ने रा॑ति॒थ्यम् । 22) आ॒ति॒थ्य म॑स्यस्या ति॒थ्य मा॑ति॒थ्य म॑सि । 23) अ॒सि॒ विष्ण॑वे॒ विष्ण॑वे ऽस्यसि॒ विष्ण॑वे । 24) विष्ण॑वे त्वा त्वा॒ विष्ण॑वे॒ विष्ण॑वे त्वा । 25) त्वेतीति॑ त्वा॒ त्वेति॑ । 26) इत्या॑हा॒हे तीत्या॑ह । 27) आ॒ह॒ गा॒य॒त्रि॒यै गा॑यत्रि॒या आ॑हाह गायत्रि॒यै । 28) गा॒य॒त्रि॒या ए॒वैव गा॑यत्रि॒यै गा॑यत्रि॒या ए॒व । 29) ए॒वैते नै॒ते नै॒वै वैतेन॑ । 30) ए॒तेन॑ करोति करो त्ये॒ते नै॒तेन॑ करोति । 31) क॒रो॒ति॒ सोम॑स्य॒ सोम॑स्य करोति करोति॒ सोम॑स्य । 32) सोम॑स्या ति॒थ्य मा॑ति॒थ्यग्ं सोम॑स्य॒ सोम॑स्या ति॒थ्यम् । 33) आ॒ति॒थ्य म॑स्यस्या ति॒थ्य मा॑ति॒थ्य म॑सि । 34) अ॒सि॒ विष्ण॑वे॒ विष्ण॑वे ऽस्यसि॒ विष्ण॑वे । 35) विष्ण॑वे त्वा त्वा॒ विष्ण॑वे॒ विष्ण॑वे त्वा । 36) त्वेतीति॑ त्वा॒ त्वेति॑ । 37) इत्या॑हा॒हे तीत्या॑ह । 38) आ॒ह॒ त्रि॒ष्टुभे᳚ त्रि॒ष्टुभ॑ आहाह त्रि॒ष्टुभे᳚ । 39) त्रि॒ष्टुभ॑ ए॒वैव त्रि॒ष्टुभे᳚ त्रि॒ष्टुभ॑ ए॒व । 40) ए॒वैते नै॒ते नै॒वै वैतेन॑ । 41) ए॒तेन॑ करोति करो त्ये॒ते नै॒तेन॑ करोति । 42) क॒रो॒ त्यति॑थे॒ रति॑थेः करोति करो॒ त्यति॑थेः । 43) अति॑थे राति॒थ्य मा॑ति॒थ्य मति॑थे॒ रति॑थे राति॒थ्यम् । 44) आ॒ति॒थ्य म॑स्यस्या ति॒थ्य मा॑ति॒थ्य म॑सि । 45) अ॒सि॒ विष्ण॑वे॒ विष्ण॑वे ऽस्यसि॒ विष्ण॑वे । 46) विष्ण॑वे त्वा त्वा॒ विष्ण॑वे॒ विष्ण॑वे त्वा । 47) त्वेतीति॑ त्वा॒ त्वेति॑ । 48) इत्या॑हा॒हे तीत्या॑ह । 49) आ॒ह॒ जग॑त्यै॒ जग॑त्या आहाह॒ जग॑त्यै । 50) जग॑त्या ए॒वैव जग॑त्यै॒ जग॑त्या ए॒व । ॥ 2 ॥ (50/56)
1) ए॒वैते नै॒ते नै॒वै वैतेन॑ । 2) ए॒तेन॑ करोति करो त्ये॒ते नै॒तेन॑ करोति । 3) क॒रो॒ त्य॒ग्नये॒ ऽग्नये॑ करोति करो त्य॒ग्नये᳚ । 4) अ॒ग्नये᳚ त्वा त्वा॒ ऽग्नये॒ ऽग्नये᳚ त्वा । 5) त्वा॒ रा॒य॒स्पो॒ष॒दावंने॑ रायस्पोष॒दावंने᳚ त्वा त्वा रायस्पोष॒दावंने᳚ । 6) रा॒य॒स्पो॒ष॒दावंने॒ विष्ण॑वे॒ विष्ण॑वे रायस्पोष॒दावंने॑ रायस्पोष॒दावंने॒ विष्ण॑वे । 6) रा॒य॒स्पो॒ष॒दावंन॒ इति॑ रायस्पोष - दावंने᳚ । 7) विष्ण॑वे त्वा त्वा॒ विष्ण॑वे॒ विष्ण॑वे त्वा । 8) त्वेतीति॑ त्वा॒ त्वेति॑ । 9) इत्या॑हा॒हे तीत्या॑ह । 10) आ॒हा॒ नु॒ष्टुभे॑ ऽनु॒ष्टुभ॑ आहाहा नु॒ष्टुभे᳚ । 11) अ॒नु॒ष्टुभ॑ ए॒वैवा नु॒ष्टुभे॑ ऽनु॒ष्टुभ॑ ए॒व । 11) अ॒नु॒ष्टुभ॒ इत्य॑नु - स्तुभे᳚ । 12) ए॒वैते नै॒ते नै॒वै वैतेन॑ । 13) ए॒तेन॑ करोति करो त्ये॒ते नै॒तेन॑ करोति । 14) क॒रो॒ति॒ श्ये॒नाय॑ श्ये॒नाय॑ करोति करोति श्ये॒नाय॑ । 15) श्ये॒नाय॑ त्वा त्वा श्ये॒नाय॑ श्ये॒नाय॑ त्वा । 16) त्वा॒ सो॒म॒भृते॑ सोम॒भृते᳚ त्वा त्वा सोम॒भृते᳚ । 17) सो॒म॒भृते॒ विष्ण॑वे॒ विष्ण॑वे सोम॒भृते॑ सोम॒भृते॒ विष्ण॑वे । 17) सो॒म॒भृत॒ इति॑ सोम - भृते᳚ । 18) विष्ण॑वे त्वा त्वा॒ विष्ण॑वे॒ विष्ण॑वे त्वा । 19) त्वेतीति॑ त्वा॒ त्वेति॑ । 20) इत्या॑हा॒हे तीत्या॑ह । 21) आ॒ह॒ गा॒य॒त्रि॒यै गा॑यत्रि॒या आ॑हाह गायत्रि॒यै । 22) गा॒य॒त्रि॒या ए॒वैव गा॑यत्रि॒यै गा॑यत्रि॒या ए॒व । 23) ए॒वैते नै॒ते नै॒वै वैतेन॑ । 24) ए॒तेन॑ करोति करो त्ये॒ते नै॒तेन॑ करोति । 25) क॒रो॒ति॒ पञ्च॒ पञ्च॑ करोति करोति॒ पञ्च॑ । 26) पञ्च॒ कृत्वः॒ कृत्वः॒ पञ्च॒ पञ्च॒ कृत्वः॑ । 27) कृत्वो॑ गृह्णाति गृह्णाति॒ कृत्वः॒ कृत्वो॑ गृह्णाति । 28) गृ॒ह्णा॒ति॒ पञ्चा᳚क्षरा॒ पञ्चा᳚क्षरा गृह्णाति गृह्णाति॒ पञ्चा᳚क्षरा । 29) पञ्चा᳚क्षरा प॒ङ्क्तिः प॒ङ्क्तिः पञ्चा᳚क्षरा॒ पञ्चा᳚क्षरा प॒ङ्क्तिः । 29) पञ्चा᳚क्ष॒रेति॒ पञ्च॑ - अ॒क्ष॒रा॒ । 30) प॒ङ्क्तिः पाङ्क्तः॒ पाङ्क्तः॑ प॒ङ्क्तिः प॒ङ्क्तिः पाङ्क्तः॑ । 31) पाङ्क्तो॑ य॒ज्ञो य॒ज्ञः पाङ्क्तः॒ पाङ्क्तो॑ य॒ज्ञः । 32) य॒ज्ञो य॒ज्ञं-यँ॒ज्ञं-यँ॒ज्ञो य॒ज्ञो य॒ज्ञम् । 33) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व । 34) ए॒वावा वै॒वै वाव॑ । 35) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 36) रु॒न्धे॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनो॑ रुन्धे रुन्धे ब्रह्मवा॒दिनः॑ । 37) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 37) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 38) व॒द॒न्ति॒ कस्मा॒-त्कस्मा᳚-द्वदन्ति वदन्ति॒ कस्मा᳚त् । 39) कस्मा᳚-थ्स॒त्या-थ्स॒त्या-त्कस्मा॒-त्कस्मा᳚-थ्स॒त्यात् । 40) स॒त्या-द्गा॑यत्रि॒यै गा॑यत्रि॒यै स॒त्या-थ्स॒त्या-द्गा॑यत्रि॒यै । 41) गा॒य॒त्रि॒या उ॑भ॒यत॑ उभ॒यतो॑ गायत्रि॒यै गा॑यत्रि॒या उ॑भ॒यतः॑ । 42) उ॒भ॒यत॑ आति॒थ्यस्या॑ ति॒थ्य स्यो॑भ॒यत॑ उभ॒यत॑ आति॒थ्यस्य॑ । 43) आ॒ति॒थ्यस्य॑ क्रियते क्रियत आति॒थ्यस्या॑ ति॒थ्यस्य॑ क्रियते । 44) क्रि॒य॒त॒ इतीति॑ क्रियते क्रियत॒ इति॑ । 45) इति॒ य-द्यदितीति॒ यत् । 46) यदे॒वैव य-द्यदे॒व । 47) ए॒वादो॑ ऽद ए॒वैवादः । 48) अ॒द-स्सोम॒ग्ं॒ सोम॑ म॒दो॑ ऽद-स्सोम᳚म् । 49) सोम॒ मा सोम॒ग्ं॒ सोम॒ मा । 50) आ ऽह॑र॒ दह॑र॒ दा-ऽह॑रत् । ॥ 3 ॥ (50/55)
1) अह॑र॒-त्तस्मा॒-त्तस्मा॒ दह॑र॒ दह॑र॒-त्तस्मा᳚त् । 2) तस्मा᳚-द्गायत्रि॒यै गा॑यत्रि॒यै तस्मा॒-त्तस्मा᳚-द्गायत्रि॒यै । 3) गा॒य॒त्रि॒या उ॑भ॒यत॑ उभ॒यतो॑ गायत्रि॒यै गा॑यत्रि॒या उ॑भ॒यतः॑ । 4) उ॒भ॒यत॑ आति॒थ्यस्या॑ ति॒थ्यस्यो॑भ॒यत॑ उभ॒यत॑ आति॒थ्यस्य॑ । 5) आ॒ति॒थ्यस्य॑ क्रियते क्रियत आति॒थ्यस्या॑ ति॒थ्यस्य॑ क्रियते । 6) क्रि॒य॒ते॒ पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्क्रियते क्रियते पु॒रस्ता᳚त् । 7) पु॒रस्ता᳚च् च च पु॒रस्ता᳚-त्पु॒रस्ता᳚च् च । 8) चो॒परि॑ष्टा दु॒परि॑ष्टाच् च चो॒परि॑ष्टात् । 9) उ॒परि॑ष्टाच् च चो॒परि॑ष्टा दु॒परि॑ष्टाच् च । 10) च॒ शिर॒-श्शिर॑श्च च॒ शिरः॑ । 11) शिरो॒ वै वै शिर॒-श्शिरो॒ वै । 12) वा ए॒त दे॒त-द्वै वा ए॒तत् । 13) ए॒त-द्य॒ज्ञस्य॑ य॒ज्ञ स्यै॒त दे॒त-द्य॒ज्ञस्य॑ । 14) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् । 15) यदा॑ति॒थ्य मा॑ति॒थ्यं-यँ-द्यदा॑ति॒थ्यम् । 16) आ॒ति॒थ्य-न्नव॑कपालो॒ नव॑कपाल आति॒थ्य मा॑ति॒थ्य-न्नव॑कपालः । 17) नव॑कपालः पुरो॒डाशः॑ पुरो॒डाशो॒ नव॑कपालो॒ नव॑कपालः पुरो॒डाशः॑ । 17) नव॑कपाल॒ इति॒ नव॑ - क॒पा॒लः॒ । 18) पु॒रो॒डाशो॑ भवति भवति पुरो॒डाशः॑ पुरो॒डाशो॑ भवति । 19) भ॒व॒ति॒ तस्मा॒-त्तस्मा᳚-द्भवति भवति॒ तस्मा᳚त् । 20) तस्मा᳚-न्नव॒धा न॑व॒धा तस्मा॒-त्तस्मा᳚-न्नव॒धा । 21) न॒व॒धा शिर॒-श्शिरो॑ नव॒धा न॑व॒धा शिरः॑ । 21) न॒व॒धेति॑ नव - धा । 22) शिरो॒ विष्यू॑तं॒-विँष्यू॑त॒ग्ं॒ शिर॒-श्शिरो॒ विष्यू॑तम् । 23) विष्यू॑त॒-न्नव॑कपालो॒ नव॑कपालो॒ विष्यू॑तं॒-विँष्यू॑त॒-न्नव॑कपालः । 23) विष्यू॑त॒मिति॒ वि - स्यू॒त॒म् । 24) नव॑कपालः पुरो॒डाशः॑ पुरो॒डाशो॒ नव॑कपालो॒ नव॑कपालः पुरो॒डाशः॑ । 24) नव॑कपाल॒ इति॒ नव॑ - क॒पा॒लः॒ । 25) पु॒रो॒डाशो॑ भवति भवति पुरो॒डाशः॑ पुरो॒डाशो॑ भवति । 26) भ॒व॒ति॒ ते ते भ॑वति भवति॒ ते । 27) ते त्रय॒ स्त्रय॒ स्ते ते त्रयः॑ । 28) त्रय॑ स्त्रिकपा॒ला स्त्रि॑कपा॒ला स्त्रय॒ स्त्रय॑ स्त्रिकपा॒लाः । 29) त्रि॒क॒पा॒ला स्त्रि॒वृता᳚ त्रि॒वृता᳚ त्रिकपा॒ला स्त्रि॑कपा॒ला स्त्रि॒वृता᳚ । 29) त्रि॒क॒पा॒ला इति॑ त्रि - क॒पा॒लाः । 30) त्रि॒वृता॒ स्तोमे॑न॒ स्तोमे॑न त्रि॒वृता᳚ त्रि॒वृता॒ स्तोमे॑न । 30) त्रि॒वृतेति॑ त्रि - वृता᳚ । 31) स्तोमे॑न॒ सम्मि॑ता॒-स्सम्मि॑ता॒-स्स्तोमे॑न॒ स्तोमे॑न॒ सम्मि॑ताः । 32) सम्मि॑ता॒ स्तेज॒ स्तेज॒-स्सम्मि॑ता॒-स्सम्मि॑ता॒ स्तेजः॑ । 32) सम्मि॑ता॒ इति॒ सं - मि॒ताः॒ । 33) तेज॑ स्त्रि॒वृ-त्त्रि॒वृ-त्तेज॒ स्तेज॑ स्त्रि॒वृत् । 34) त्रि॒वृ-त्तेज॒ स्तेज॑ स्त्रि॒वृ-त्त्रि॒वृ-त्तेजः॑ । 34) त्रि॒वृदिति॑ त्रि - वृत् । 35) तेज॑ ए॒वैव तेज॒ स्तेज॑ ए॒व । 36) ए॒व य॒ज्ञस्य॑ य॒ज्ञ स्यै॒वैव य॒ज्ञस्य॑ । 37) य॒ज्ञस्य॑ शी॒र्॒ष-ञ्छी॒र्॒षन्. य॒ज्ञस्य॑ य॒ज्ञस्य॑ शी॒र्॒षन्न् । 38) शी॒र्॒ष-न्द॑धाति दधाति शी॒र्॒ष-ञ्छी॒र्॒ष-न्द॑धाति । 39) द॒धा॒ति॒ नव॑कपालो॒ नव॑कपालो दधाति दधाति॒ नव॑कपालः । 40) नव॑कपालः पुरो॒डाशः॑ पुरो॒डाशो॒ नव॑कपालो॒ नव॑कपालः पुरो॒डाशः॑ । 40) नव॑कपाल॒ इति॒ नव॑ - क॒पा॒लः॒ । 41) पु॒रो॒डाशो॑ भवति भवति पुरो॒डाशः॑ पुरो॒डाशो॑ भवति । 42) भ॒व॒ति॒ ते ते भ॑वति भवति॒ ते । 43) ते त्रय॒ स्त्रय॒ स्ते ते त्रयः॑ । 44) त्रय॑ स्त्रिकपा॒ला स्त्रि॑कपा॒ला स्त्रय॒ स्त्रय॑ स्त्रिकपा॒लाः । 45) त्रि॒क॒पा॒ला स्त्रि॒वृता᳚ त्रि॒वृता᳚ त्रिकपा॒ला स्त्रि॑कपा॒ला स्त्रि॒वृता᳚ । 45) त्रि॒क॒पा॒ला इति॑ त्रि - क॒पा॒लाः । 46) त्रि॒वृता᳚ प्रा॒णेन॑ प्रा॒णेन॑ त्रि॒वृता᳚ त्रि॒वृता᳚ प्रा॒णेन॑ । 46) त्रि॒वृतेति॑ त्रि - वृता᳚ । 47) प्रा॒णेन॒ सम्मि॑ता॒-स्सम्मि॑ताः प्रा॒णेन॑ प्रा॒णेन॒ सम्मि॑ताः । 47) प्रा॒णेनेति॑ प्र - अ॒नेन॑ । 48) सम्मि॑ता स्त्रि॒वृ-त्त्रि॒वृ-थ्सम्मि॑ता॒-स्सम्मि॑ता स्त्रि॒वृत् । 48) सम्मि॑ता॒ इति॒ सं - मि॒ताः॒ । 49) त्रि॒वृ-द्वै वै त्रि॒वृ-त्त्रि॒वृ-द्वै । 49) त्रि॒वृदिति॑ त्रि - वृत् । 50) वै प्रा॒णः प्रा॒णो वै वै प्रा॒णः । ॥ 4 ॥ (50/64)
1) प्रा॒ण स्त्रि॒वृत॑-न्त्रि॒वृत॑-म्प्रा॒णः प्रा॒ण स्त्रि॒वृत᳚म् । 1) प्रा॒ण इति॑ प्र - अ॒नः । 2) त्रि॒वृत॑ मे॒वैव त्रि॒वृत॑-न्त्रि॒वृत॑ मे॒व । 2) त्रि॒वृत॒मिति॑ त्रि - वृत᳚म् । 3) ए॒व प्रा॒ण-म्प्रा॒ण मे॒वैव प्रा॒णम् । 4) प्रा॒ण म॑भिपू॒र्व म॑भिपू॒र्व-म्प्रा॒ण-म्प्रा॒ण म॑भिपू॒र्वम् । 4) प्रा॒णमिति॑ प्र - अ॒नम् । 5) अ॒भि॒पू॒र्वं-यँ॒ज्ञस्य॑ य॒ज्ञस्या॑ भिपू॒र्व म॑भिपू॒र्वं-यँ॒ज्ञस्य॑ । 5) अ॒भि॒पू॒र्वमित्य॑भि - पू॒र्वम् । 6) य॒ज्ञस्य॑ शी॒र्॒ष-ञ्छी॒र्॒षन्. य॒ज्ञस्य॑ य॒ज्ञस्य॑ शी॒र्॒षन्न् । 7) शी॒र्॒ष-न्द॑धाति दधाति शी॒र्॒ष-ञ्छी॒र्॒ष-न्द॑धाति । 8) द॒धा॒ति॒ प्र॒जाप॑तेः प्र॒जाप॑ते-र्दधाति दधाति प्र॒जाप॑तेः । 9) प्र॒जाप॑ते॒-र्वै वै प्र॒जाप॑तेः प्र॒जाप॑ते॒-र्वै । 9) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । 10) वा ए॒ता न्ये॒तानि॒ वै वा ए॒तानि॑ । 11) ए॒तानि॒ पक्ष्मा॑णि॒ पक्ष्मा᳚ ण्ये॒ता न्ये॒तानि॒ पक्ष्मा॑णि । 12) पक्ष्मा॑णि॒ य-द्य-त्पक्ष्मा॑णि॒ पक्ष्मा॑णि॒ यत् । 13) यद॑श्ववा॒ला अ॑श्ववा॒ला य-द्यद॑श्ववा॒लाः । 14) अ॒श्व॒वा॒ला ऐ᳚क्ष॒वी ऐ᳚क्ष॒वी अ॑श्ववा॒ला अ॑श्ववा॒ला ऐ᳚क्ष॒वी । 14) अ॒श्व॒वा॒ला इत्य॑श्व - वा॒लाः । 15) ऐ॒क्ष॒वी ति॒रश्ची॑ ति॒रश्ची॑ ऐक्ष॒वी ऐ᳚क्ष॒वी ति॒रश्ची᳚ । 15) ऐ॒क्ष॒वी इत्यै᳚क्ष॒वी । 16) ति॒रश्ची॒ य-द्य-त्ति॒रश्ची॑ ति॒रश्ची॒ यत् । 16) ति॒रश्ची॒ इति॑ ति॒रश्ची᳚ । 17) यदाश्व॑वाल॒ आश्व॑वालो॒ य-द्यदाश्व॑वालः । 18) आश्व॑वालः प्रस्त॒रः प्र॑स्त॒र आश्व॑वाल॒ आश्व॑वालः प्रस्त॒रः । 18) आश्व॑वाल॒ इत्याश्व॑ - वा॒लः॒ । 19) प्र॒स्त॒रो भव॑ति॒ भव॑ति प्रस्त॒रः प्र॑स्त॒रो भव॑ति । 19) प्र॒स्त॒र इति॑ प्र - स्त॒रः । 20) भव॑ त्यैक्ष॒वी ऐ᳚क्ष॒वी भव॑ति॒ भव॑ त्यैक्ष॒वी । 21) ऐ॒क्ष॒वी ति॒रश्ची॑ ति॒रश्ची॑ ऐक्ष॒वी ऐ᳚क्ष॒वी ति॒रश्ची᳚ । 21) ऐ॒क्ष॒वी इत्यै᳚क्ष॒वी । 22) ति॒रश्ची᳚ प्र॒जाप॑तेः प्र॒जाप॑ते स्ति॒रश्ची॑ ति॒रश्ची᳚ प्र॒जाप॑तेः । 22) ति॒रश्ची॒ इति॑ ति॒रश्ची᳚ । 23) प्र॒जाप॑ते रे॒वैव प्र॒जाप॑तेः प्र॒जाप॑ते रे॒व । 23) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । 24) ए॒व त-त्तदे॒वैव तत् । 25) तच् चक्षु॒ श्चक्षु॒ स्त-त्तच् चक्षुः॑ । 26) चक्षु॒-स्सग्ं स-ञ्चक्षु॒ श्चक्षु॒-स्सम् । 27) स-म्भ॑रति भरति॒ सग्ं स-म्भ॑रति । 28) भ॒र॒ति॒ दे॒वा दे॒वा भ॑रति भरति दे॒वाः । 29) दे॒वा वै वै दे॒वा दे॒वा वै । 30) वै या या वै वै याः । 31) या आहु॑ती॒ राहु॑ती॒-र्या या आहु॑तीः । 32) आहु॑ती॒ रजु॑हवु॒ रजु॑हवु॒ राहु॑ती॒ राहु॑ती॒ रजु॑हवुः । 32) आहु॑ती॒रित्या - हु॒तीः॒ । 33) अजु॑हवु॒ स्ता स्ता अजु॑हवु॒ रजु॑हवु॒ स्ताः । 34) ता असु॑रा॒ असु॑रा॒ स्ता स्ता असु॑राः । 35) असु॑रा नि॒ष्काव॑-न्नि॒ष्काव॒ मसु॑रा॒ असु॑रा नि॒ष्काव᳚म् । 36) नि॒ष्काव॑ माद-न्नाद-न्नि॒ष्काव॑-न्नि॒ष्काव॑ मादन्न् । 37) आ॒द॒-न्ते त आ॑द-न्नाद॒-न्ते । 38) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 39) दे॒वाः का᳚र्ष्म॒र्य॑-ङ्कार्ष्म॒र्य॑-न्दे॒वा दे॒वाः का᳚र्ष्म॒र्य᳚म् । 40) का॒र्ष्म॒र्य॑ मपश्य-न्नपश्यन् कार्ष्म॒र्य॑-ङ्कार्ष्म॒र्य॑ मपश्यन्न् । 41) अ॒प॒श्य॒न् क॒र्म॒ण्यः॑ कर्म॒ण्यो॑ ऽपश्य-न्नपश्यन् कर्म॒ण्यः॑ । 42) क॒र्म॒ण्यो॑ वै वै क॑र्म॒ण्यः॑ कर्म॒ण्यो॑ वै । 43) वै कर्म॒ कर्म॒ वै वै कर्म॑ । 44) कर्मै॑ नेनैनेन॒ कर्म॒ कर्मै॑नेन । 45) ए॒ने॒न॒ कु॒र्वी॒त॒ कु॒र्वी॒ तै॒ने॒ नै॒ने॒न॒ कु॒र्वी॒त॒ । 46) कु॒र्वी॒ते तीति॑ कुर्वीत कुर्वी॒तेति॑ । 47) इति॒ ते त इतीति॒ ते । 48) ते का᳚र्ष्मर्य॒मया᳚न् कार्ष्मर्य॒मया॒-न्ते ते का᳚र्ष्मर्य॒मयान्॑ । 49) का॒र्ष्म॒र्य॒मया᳚-न्परि॒धी-न्प॑रि॒धीन् का᳚र्ष्मर्य॒मया᳚न् कार्ष्मर्य॒मया᳚-न्परि॒धीन् । 49) का॒र्ष्म॒र्य॒मया॒निति॑ कार्ष्मर्य - मयान्॑ । 50) प॒रि॒धी न॑कुर्वता कुर्वत परि॒धी-न्प॑रि॒धी न॑कुर्वत । 50) प॒रि॒धीनिति॑ परि - धीन् । ॥ 5 ॥ (50/66)
1) अ॒कु॒र्व॒त॒ तै स्तै र॑कुर्वता कुर्वत॒ तैः । 2) तै-र्वै वै तै स्तै-र्वै । 3) वै ते ते वै वै ते । 4) ते रक्षाग्ं॑सि॒ रक्षाग्ं॑सि॒ ते ते रक्षाग्ं॑सि । 5) रक्षा॒ग्॒ स्यपाप॒ रक्षाग्ं॑सि॒ रक्षा॒ग्॒ स्यप॑ । 6) अपा᳚ घ्नता घ्न॒ता पापा᳚ घ्नत । 7) अ॒घ्न॒त॒ य-द्यद॑घ्नता घ्नत॒ यत् । 8) य-त्का᳚र्ष्मर्य॒मयाः᳚ कार्ष्मर्य॒मया॒ य-द्य-त्का᳚र्ष्मर्य॒मयाः᳚ । 9) का॒र्ष्म॒र्य॒मयाः᳚ परि॒धयः॑ परि॒धयः॑ कार्ष्मर्य॒मयाः᳚ कार्ष्मर्य॒मयाः᳚ परि॒धयः॑ । 9) का॒र्ष्म॒र्य॒मया॒ इति॑ कार्ष्मर्य - मयाः᳚ । 10) प॒रि॒धयो॒ भव॑न्ति॒ भव॑न्ति परि॒धयः॑ परि॒धयो॒ भव॑न्ति । 10) प॒रि॒धय॒ इति॑ परि - धयः॑ । 11) भव॑न्ति॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒-म्भव॑न्ति॒ भव॑न्ति॒ रक्ष॑साम् । 12) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै । 13) अप॑हत्यै॒ सग्ं स मप॑हत्या॒ अप॑हत्यै॒ सम् । 13) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । 14) सग्ग् स्प॑र्शयति स्पर्शयति॒ सग्ं सग्ग् स्प॑र्शयति । 15) स्प॒र्॒श॒य॒ति॒ रक्ष॑सा॒ग्ं॒ रक्ष॑साग् स्पर्शयति स्पर्शयति॒ रक्ष॑साम् । 16) रक्ष॑सा॒ मन॑न्ववचारा॒या न॑न्ववचाराय॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मन॑न्ववचाराय । 17) अन॑न्ववचाराय॒ न नान॑न्ववचारा॒या न॑न्ववचाराय॒ न । 17) अन॑न्ववचारा॒येत्यन॑नु - अ॒व॒चा॒रा॒य॒ । 18) न पु॒रस्ता᳚-त्पु॒रस्ता॒-न्न न पु॒रस्ता᳚त् । 19) पु॒रस्ता॒-त्परि॒ परि॑ पु॒रस्ता᳚-त्पु॒रस्ता॒-त्परि॑ । 20) परि॑ दधाति दधाति॒ परि॒ परि॑ दधाति । 21) द॒धा॒ त्या॒दि॒त्य आ॑दि॒त्यो द॑धाति दधा त्यादि॒त्यः । 22) आ॒दि॒त्यो हि ह्या॑दि॒त्य आ॑दि॒त्यो हि । 23) ह्ये॑वैव हि ह्ये॑व । 24) ए॒वोद्य-न्नु॒द्य-न्ने॒वैवोद्यन्न् । 25) उ॒द्य-न्पु॒रस्ता᳚-त्पु॒रस्ता॑ दु॒द्य-न्नु॒द्य-न्पु॒रस्ता᳚त् । 25) उ॒द्यन्नित्यु॑त् - यन्न् । 26) पु॒रस्ता॒-द्रक्षाग्ं॑सि॒ रक्षाग्ं॑सि पु॒रस्ता᳚-त्पु॒रस्ता॒-द्रक्षाग्ं॑सि । 27) रक्षाग्॑ स्यप॒ह-न्त्य॑प॒हन्ति॒ रक्षाग्ं॑सि॒ रक्षाग्॑ स्यप॒हन्ति॑ । 28) अ॒प॒ह-न्त्यू॒र्ध्वे ऊ॒र्ध्वे अ॑प॒ह-न्त्य॑प॒ह-न्त्यू॒र्ध्वे । 28) अ॒प॒हन्तीत्य॑प - हन्ति॑ । 29) ऊ॒र्ध्वे स॒मिधौ॑ स॒मिधा॑ वू॒र्ध्वे ऊ॒र्ध्वे स॒मिधौ᳚ । 29) ऊ॒र्ध्वे इत्यू॒र्ध्वे । 30) स॒मिधा॒ वा स॒मिधौ॑ स॒मिधा॒ वा । 30) स॒मिधा॒विति॑ सं - इधौ᳚ । 31) आ द॑धाति दधा॒ त्याद॑धाति । 32) द॒धा॒ त्यु॒परि॑ष्टा दु॒परि॑ष्टा-द्दधाति दधा त्यु॒परि॑ष्टात् । 33) उ॒परि॑ष्टा दे॒वैवोपरि॑ष्टा दु॒परि॑ष्टा दे॒व । 34) ए॒व रक्षाग्ं॑सि॒ रक्षाग्॑ स्ये॒वैव रक्षाग्ं॑सि । 35) रक्षा॒ग्॒ स्यपाप॒ रक्षाग्ं॑सि॒ रक्षा॒ग्॒ स्यप॑ । 36) अप॑ हन्ति ह॒-न्त्यपाप॑ हन्ति । 37) ह॒न्ति॒ यजु॑षा॒ यजु॑षा हन्ति हन्ति॒ यजु॑षा । 38) यजु॑षा॒ ऽन्या म॒न्यां-यँजु॑षा॒ यजु॑षा॒ ऽन्याम् । 39) अ॒न्या-न्तू॒ष्णी-न्तू॒ष्णी म॒न्या म॒न्या-न्तू॒ष्णीम् । 40) तू॒ष्णी म॒न्या म॒न्या-न्तू॒ष्णी-न्तू॒ष्णी म॒न्याम् । 41) अ॒न्या-म्मि॑थुन॒त्वाय॑ मिथुन॒त्वाया॒ न्या म॒न्या-म्मि॑थुन॒त्वाय॑ । 42) मि॒थु॒न॒त्वाय॒ द्वे द्वे मि॑थुन॒त्वाय॑ मिथुन॒त्वाय॒ द्वे । 42) मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ । 43) द्वे आ द्वे द्वे आ । 43) द्वे इति॒ द्वे । 44) आ द॑धाति दधा॒त्या द॑धाति । 45) द॒धा॒ति॒ द्वि॒पा-द्द्वि॒पा-द्द॑धाति दधाति द्वि॒पात् । 46) द्वि॒पा-द्यज॑मानो॒ यज॑मानो द्वि॒पा-द्द्वि॒पा-द्यज॑मानः । 46) द्वि॒पादिति॑ द्वि - पात् । 47) यज॑मानः॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै॒ यज॑मानो॒ यज॑मानः॒ प्रति॑ष्ठित्यै । 48) प्रति॑ष्ठित्यै ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनः॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै ब्रह्मवा॒दिनः॑ । 48) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 49) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 49) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 50) व॒द॒ न्त्य॒ग्नि र॒ग्नि-र्व॑दन्ति वद न्त्य॒ग्निः । ॥ 6 ॥ (50/63)
1) अ॒ग्निश्च॑ चा॒ग्नि र॒ग्निश्च॑ । 2) च॒ वै वै च॑ च॒ वै । 3) वा ए॒ता वे॒तौ वै वा ए॒तौ । 4) ए॒तौ सोम॒-स्सोम॑ ए॒ता वे॒तौ सोमः॑ । 5) सोम॑श्च च॒ सोम॒-स्सोम॑श्च । 6) च॒ क॒था क॒था च॑ च क॒था । 7) क॒था सोमा॑य॒ सोमा॑य क॒था क॒था सोमा॑य । 8) सोमा॑याति॒थ्य मा॑ति॒थ्यग्ं सोमा॑य॒ सोमा॑याति॒थ्यम् । 9) आ॒ति॒थ्य-ङ्क्रि॒यते᳚ क्रि॒यत॑ आति॒थ्य मा॑ति॒थ्य-ङ्क्रि॒यते᳚ । 10) क्रि॒यते॒ न न क्रि॒यते᳚ क्रि॒यते॒ न । 11) नाग्नये॒ ऽग्नये॒ न नाग्नये᳚ । 12) अ॒ग्नय॒ इती त्य॒ग्नये॒ ऽग्नय॒ इति॑ । 13) इति॒ य-द्यदितीति॒ यत् । 14) यद॒ग्ना व॒ग्नौ य-द्यद॒ग्नौ । 15) अ॒ग्ना व॒ग्नि म॒ग्नि म॒ग्ना व॒ग्ना व॒ग्निम् । 16) अ॒ग्नि-म्म॑थि॒त्वा म॑थि॒त्वा ऽग्नि म॒ग्नि-म्म॑थि॒त्वा । 17) म॒थि॒त्वा प्र॒हर॑ति प्र॒हर॑ति मथि॒त्वा म॑थि॒त्वा प्र॒हर॑ति । 18) प्र॒हर॑ति॒ तेन॒ तेन॑ प्र॒हर॑ति प्र॒हर॑ति॒ तेन॑ । 18) प्र॒हर॒तीति॑ प्र - हर॑ति । 19) तेनै॒वैव तेन॒ तेनै॒व । 20) ए॒वाग्नये॒ ऽग्नय॑ ए॒वैवाग्नये᳚ । 21) अ॒ग्नय॑ आति॒थ्य मा॑ति॒थ्य म॒ग्नये॒ ऽग्नय॑ आति॒थ्यम् । 22) आ॒ति॒थ्य-ङ्क्रि॑यते क्रियत आति॒थ्य मा॑ति॒थ्य-ङ्क्रि॑यते । 23) क्रि॒य॒ते ऽथो॒ अथो᳚ क्रियते क्रिय॒ते ऽथो᳚ । 24) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ । 24) अथो॒ इत्यथो᳚ । 25) खल्वा॑हु राहुः॒ खलु॒ खल्वा॑हुः । 26) आ॒हु॒ र॒ग्नि र॒ग्नि रा॑हु राहु र॒ग्निः । 27) अ॒ग्नि-स्सर्वा॒-स्सर्वा॑ अ॒ग्नि र॒ग्नि-स्सर्वाः᳚ । 28) सर्वा॑ दे॒वता॑ दे॒वता॒-स्सर्वा॒-स्सर्वा॑ दे॒वताः᳚ । 29) दे॒वता॒ इतीति॑ दे॒वता॑ दे॒वता॒ इति॑ । 30) इति॒ य-द्यदितीति॒ यत् । 31) यद्ध॒विर्-ह॒वि-र्य-द्यद्ध॒विः । 32) ह॒वि रा॒साद्या॒ साद्य॑ ह॒विर्-ह॒वि रा॒साद्य॑ । 33) आ॒साद्या॒ ग्नि म॒ग्नि मा॒साद्या॒ साद्या॒ ग्निम् । 33) आ॒साद्येत्या᳚ - साद्य॑ । 34) अ॒ग्नि-म्मन्थ॑ति॒ मन्थ॑ त्य॒ग्नि म॒ग्नि-म्मन्थ॑ति । 35) मन्थ॑ति ह॒व्याय॑ ह॒व्याय॒ मन्थ॑ति॒ मन्थ॑ति ह॒व्याय॑ । 36) ह॒व्या यै॒वैव ह॒व्याय॑ ह॒व्यायै॒व । 37) ए॒वा स॑न्ना॒या स॑न्ना यै॒वैवास॑न्नाय । 38) आस॑न्नाय॒ सर्वा॒-स्सर्वा॒ आस॑न्ना॒या स॑न्नाय॒ सर्वाः᳚ । 38) आस॑न्ना॒येत्या - स॒न्ना॒य॒ । 39) सर्वा॑ दे॒वता॑ दे॒वता॒-स्सर्वा॒-स्सर्वा॑ दे॒वताः᳚ । 40) दे॒वता॑ जनयति जनयति दे॒वता॑ दे॒वता॑ जनयति । 41) ज॒न॒य॒तीति॑ जनयति । ॥ 7 ॥ (41/45) ॥ अ. 1 ॥
1) दे॒वा॒सु॒रा-स्संयँ॑त्ता॒-स्संयँ॑त्ता देवासु॒रा दे॑वासु॒रा-स्संयँ॑त्ताः । 1) दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः । 2) संयँ॑त्ता आस-न्नास॒-न्थ्संयँ॑त्ता॒-स्संयँ॑त्ता आसन्न् । 2) संयँ॑त्ता॒ इति॒ सं - य॒त्ताः॒ । 3) आ॒स॒-न्ते त आ॑स-न्नास॒-न्ते । 4) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 5) दे॒वा मि॒थो मि॒थो दे॒वा दे॒वा मि॒थः । 6) मि॒थो विप्रि॑या॒ विप्रि॑या मि॒थो मि॒थो विप्रि॑याः । 7) विप्रि॑या आस-न्नास॒न्॒. विप्रि॑या॒ विप्रि॑या आसन्न् । 7) विप्रि॑या॒ इति॒ वि - प्रि॒याः॒ । 8) आ॒स॒-न्ते त आ॑स-न्नास॒-न्ते । 9) ते᳚(1॒) ऽन्यो᳚ ऽन्य स्ते ते᳚ ऽन्यः । 10) अ॒न्यो᳚ ऽन्यस्मा॑ अ॒न्यस्मा॑ अ॒न्यो᳚(1॒) ऽन्यो᳚ ऽन्यस्मै᳚ । 11) अ॒न्यस्मै॒ ज्यैष्ठ्या॑य॒ ज्यैष्ठ्या॑या॒ न्यस्मा॑ अ॒न्यस्मै॒ ज्यैष्ठ्या॑य । 12) ज्यैष्ठ्या॒या ति॑ष्ठमाना॒ अति॑ष्ठमाना॒ ज्यैष्ठ्या॑य॒ ज्यैष्ठ्या॒या ति॑ष्ठमानाः । 13) अति॑ष्ठमानाः पञ्च॒धा प॑ञ्च॒धा ऽति॑ष्ठमाना॒ अति॑ष्ठमानाः पञ्च॒धा । 14) प॒ञ्च॒धा वि वि प॑ञ्च॒धा प॑ञ्च॒धा वि । 14) प॒ञ्च॒धेति॑ पञ्च - धा । 15) व्य॑क्राम-न्नक्राम॒न्॒. वि व्य॑क्रामन्न् । 16) अ॒क्रा॒म॒-न्न॒ग्नि र॒ग्नि र॑क्राम-न्नक्राम-न्न॒ग्निः । 17) अ॒ग्नि-र्वसु॑भि॒-र्वसु॑भि र॒ग्नि र॒ग्नि-र्वसु॑भिः । 18) वसु॑भि॒-स्सोम॒-स्सोमो॒ वसु॑भि॒-र्वसु॑भि॒-स्सोमः॑ । 18) वसु॑भि॒रिति॒ वसु॑ - भिः॒ । 19) सोमो॑ रु॒द्रै रु॒द्रै-स्सोम॒-स्सोमो॑ रु॒द्रैः । 20) रु॒द्रै रिन्द्र॒ इन्द्रो॑ रु॒द्रै रु॒द्रै रिन्द्रः॑ । 21) इन्द्रो॑ म॒रुद्भि॑-र्म॒रुद्भि॒ रिन्द्र॒ इन्द्रो॑ म॒रुद्भिः॑ । 22) म॒रुद्भि॒-र्वरु॑णो॒ वरु॑णो म॒रुद्भि॑-र्म॒रुद्भि॒-र्वरु॑णः । 22) म॒रुद्भि॒रिति॑ म॒रुत् - भिः॒ । 23) वरु॑ण आदि॒त्यै रा॑दि॒त्यै-र्वरु॑णो॒ वरु॑ण आदि॒त्यैः । 24) आ॒दि॒त्यै-र्बृह॒स्पति॒-र्बृह॒स्पति॑ रादि॒त्यै रा॑दि॒त्यै-र्बृह॒स्पतिः॑ । 25) बृह॒स्पति॒-र्विश्वै॒-र्विश्वै॒-र्बृह॒स्पति॒-र्बृह॒स्पति॒-र्विश्वैः᳚ । 26) विश्वै᳚-र्दे॒वै-र्दे॒वै-र्विश्वै॒-र्विश्वै᳚-र्दे॒वैः । 27) दे॒वै स्ते ते दे॒वै-र्दे॒वै स्ते । 28) ते॑ ऽमन्यन्ता मन्यन्त॒ ते ते॑ ऽमन्यन्त । 29) अ॒म॒न्य॒न्ता सु॑रे॒भ्यो ऽसु॑रेभ्यो ऽमन्यन्ता मन्य॒न्ता सु॑रेभ्यः । 30) असु॑रेभ्यो॒ वै वा असु॑रे॒भ्यो ऽसु॑रेभ्यो॒ वै । 31) वा इ॒द मि॒दं-वैँ वा इ॒दम् । 32) इ॒द-म्भ्रातृ॑व्येभ्यो॒ भ्रातृ॑व्येभ्य इ॒द मि॒द-म्भ्रातृ॑व्येभ्यः । 33) भ्रातृ॑व्येभ्यो रद्ध्यामो रद्ध्यामो॒ भ्रातृ॑व्येभ्यो॒ भ्रातृ॑व्येभ्यो रद्ध्यामः । 34) र॒द्ध्या॒मो॒ य-द्य-द्र॑द्ध्यामो रद्ध्यामो॒ यत् । 35) य-न्मि॒थो मि॒थो य-द्य-न्मि॒थः । 36) मि॒थो विप्रि॑या॒ विप्रि॑या मि॒थो मि॒थो विप्रि॑याः । 37) विप्रि॑या॒-स्स्म-स्स्मो विप्रि॑या॒ विप्रि॑या॒-स्स्मः । 37) विप्रि॑या॒ इति॒ वि - प्रि॒याः॒ । 38) स्मो या या-स्स्म-स्स्मो याः । 39) या नो॑ नो॒ या या नः॑ । 40) न॒ इ॒मा इ॒मा नो॑ न इ॒माः । 41) इ॒माः प्रि॒याः प्रि॒या इ॒मा इ॒माः प्रि॒याः । 42) प्रि॒या स्त॒नुव॑ स्त॒नुवः॑ प्रि॒याः प्रि॒या स्त॒नुवः॑ । 43) त॒नुव॒ स्ता स्ता स्त॒नुव॑ स्त॒नुव॒ स्ताः । 44) ता-स्स॒मव॑द्यामहै स॒मव॑द्यामहै॒ ता स्ता-स्स॒मव॑द्यामहै । 45) स॒मव॑द्यामहै॒ ताभ्य॒ स्ताभ्य॑-स्स॒मव॑द्यामहै स॒मव॑द्यामहै॒ ताभ्यः॑ । 45) स॒मव॑द्यामहा॒ इति॑ सं - अव॑द्यामहै । 46) ताभ्य॒-स्स स ताभ्य॒ स्ताभ्य॒-स्सः । 47) स नि-र्णि-स्स स निः । 48) निर्-ऋ॑च्छा दृच्छा॒-न्नि-र्णिर्-ऋ॑च्छात् । 49) ऋ॒च्छा॒-द्यो य ऋ॑च्छा दृच्छा॒-द्यः । 50) यो नो॑ नो॒ यो यो नः॑ । ॥ 8 ॥ (50/58)
1) नः॒ प्र॒थ॒मः प्र॑थ॒मो नो॑ नः प्रथ॒मः । 2) प्र॒थ॒मो᳚(1॒) ऽन्यो᳚ ऽन्यः प्र॑थ॒मः प्र॑थ॒मो᳚ ऽन्यः । 3) अ॒न्यो᳚ ऽन्यस्मा॑ अ॒न्यस्मा॑ अ॒न्यो᳚(1॒) ऽन्यो᳚ ऽन्यस्मै᳚ । 4) अ॒न्यस्मै॒ द्रुह्या॒-द्द्रुह्या॑ द॒न्यस्मा॑ अ॒न्यस्मै॒ द्रुह्या᳚त् । 5) द्रुह्या॒ दितीति॒ द्रुह्या॒-द्द्रुह्या॒दिति॑ । 6) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् । 7) तस्मा॒-द्यो य स्तस्मा॒-त्तस्मा॒-द्यः । 8) य-स्सता॑नूनप्त्रिणा॒ग्ं॒ सता॑नूनप्त्रिणां॒-योँ य-स्सता॑नूनप्त्रिणाम् । 9) सता॑नूनप्त्रिणा-म्प्रथ॒मः प्र॑थ॒म-स्सता॑नूनप्त्रिणा॒ग्ं॒ सता॑नूनप्त्रिणा-म्प्रथ॒मः । 9) सता॑नूनप्त्रिणा॒मिति॒ स - ता॒नू॒न॒प्त्रि॒णा॒म् । 10) प्र॒थ॒मो द्रुह्य॑ति॒ द्रुह्य॑ति प्रथ॒मः प्र॑थ॒मो द्रुह्य॑ति । 11) द्रुह्य॑ति॒ स स द्रुह्य॑ति॒ द्रुह्य॑ति॒ सः । 12) स आर्ति॒ मार्ति॒ग्ं॒ स स आर्ति᳚म् । 13) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा । 14) आर्च्छ॑ त्यृच्छ॒ त्यार्च्छ॑ति । 15) ऋ॒च्छ॒ति॒ य-द्यदृ॑च्छ त्यृच्छति॒ यत् । 16) य-त्ता॑नून॒प्त्र-न्ता॑नून॒प्त्रं-यँ-द्य-त्ता॑नून॒प्त्रम् । 17) ता॒नू॒न॒प्त्रग्ं स॑मव॒द्यति॑ समव॒द्यति॑ तानून॒प्त्र-न्ता॑नून॒प्त्रग्ं स॑मव॒द्यति॑ । 17) ता॒नू॒न॒प्त्रमिति॑ तानू - न॒प्त्रम् । 18) स॒म॒व॒द्यति॒ भ्रातृ॑व्याभिभूत्यै॒ भ्रातृ॑व्याभिभूत्यै समव॒द्यति॑ समव॒द्यति॒ भ्रातृ॑व्याभिभूत्यै । 18) स॒म॒व॒द्यतीति॑ सं - अ॒व॒द्यति॑ । 19) भ्रातृ॑व्याभिभूत्यै॒ भव॑ति॒ भव॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑ति । 19) भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य - अ॒भि॒भू॒त्यै॒ । 20) भव॑ त्या॒त्मना॒ ऽऽत्मना॒ भव॑ति॒ भव॑ त्या॒त्मना᳚ । 21) आ॒त्मना॒ परा॒ परा॒ ऽऽत्मना॒ ऽऽत्मना॒ परा᳚ । 22) परा᳚ ऽस्यास्य॒ परा॒ परा᳚ ऽस्य । 23) अ॒स्य॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो ऽस्यास्य॒ भ्रातृ॑व्यः । 24) भ्रातृ॑व्यो भवति भवति॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो भवति । 25) भ॒व॒ति॒ पञ्च॒ पञ्च॑ भवति भवति॒ पञ्च॑ । 26) पञ्च॒ कृत्वः॒ कृत्वः॒ पञ्च॒ पञ्च॒ कृत्वः॑ । 27) कृत्वो ऽवाव॒ कृत्वः॒ कृत्वो ऽव॑ । 28) अव॑ द्यति द्य॒ त्यवाव॑ द्यति । 29) द्य॒ति॒ प॒ञ्च॒धा प॑ञ्च॒धा द्य॑ति द्यति पञ्च॒धा । 30) प॒ञ्च॒धा हि हि प॑ञ्च॒धा प॑ञ्च॒धा हि । 30) प॒ञ्च॒धेति॑ पञ्च - धा । 31) हि ते ते हि हि ते । 32) ते त-त्त-त्ते ते तत् । 33) त-थ्स॑म॒वाद्य॑न्त सम॒वाद्य॑न्त॒ त-त्त-थ्स॑म॒वाद्य॑न्त । 34) स॒म॒वाद्य॒न्ताथो॒ अथो॑ सम॒वाद्य॑न्त सम॒वाद्य॒न्ताथो᳚ । 34) स॒म॒वाद्य॒न्तेति॑ सं - अ॒वाद्य॑न्त । 35) अथो॒ पञ्चा᳚क्षरा॒ पञ्चा᳚क्ष॒रा ऽथो॒ अथो॒ पञ्चा᳚क्षरा । 35) अथो॒ इत्यथो᳚ । 36) पञ्चा᳚क्षरा प॒ङ्क्तिः प॒ङ्क्तिः पञ्चा᳚क्षरा॒ पञ्चा᳚क्षरा प॒ङ्क्तिः । 36) पञ्चा᳚क्ष॒रेति॒ पञ्च॑ - अ॒क्ष॒रा॒ । 37) प॒ङ्क्तिः पाङ्क्तः॒ पाङ्क्तः॑ प॒ङ्क्तिः प॒ङ्क्तिः पाङ्क्तः॑ । 38) पाङ्क्तो॑ य॒ज्ञो य॒ज्ञः पाङ्क्तः॒ पाङ्क्तो॑ य॒ज्ञः । 39) य॒ज्ञो य॒ज्ञं-यँ॒ज्ञं-यँ॒ज्ञो य॒ज्ञो य॒ज्ञम् । 40) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व । 41) ए॒वावा वै॒वै वाव॑ । 42) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 43) रु॒न्ध॒ आप॑तय॒ आप॑तये रुन्धे रुन्ध॒ आप॑तये । 44) आप॑तये त्वा॒ त्वा ऽऽप॑तय॒ आप॑तये त्वा । 44) आप॑तय॒ इत्या - प॒त॒ये॒ । 45) त्वा॒ गृ॒ह्णा॒मि॒ गृ॒ह्णा॒मि॒ त्वा॒ त्वा॒ गृ॒ह्णा॒मि॒ । 46) गृ॒ह्णा॒मीतीति॑ गृह्णामि गृह्णा॒मीति॑ । 47) इत्या॑हा॒हे तीत्या॑ह । 48) आ॒ह॒ प्रा॒णः प्रा॒ण आ॑हाह प्रा॒णः । 49) प्रा॒णो वै वै प्रा॒णः प्रा॒णो वै । 49) प्रा॒ण इति॑ प्र - अ॒नः । 50) वा आप॑ति॒ राप॑ति॒-र्वै वा आप॑तिः । ॥ 9 ॥ (50/60)
1) आप॑तिः प्रा॒ण-म्प्रा॒ण माप॑ति॒ राप॑तिः प्रा॒णम् । 1) आप॑ति॒रित्या - प॒तिः॒ । 2) प्रा॒ण मे॒वैव प्रा॒ण-म्प्रा॒ण मे॒व । 2) प्रा॒णमिति॑ प्र - अ॒नम् । 3) ए॒व प्री॑णाति प्रीणा त्ये॒वैव प्री॑णाति । 4) प्री॒णा॒ति॒ परि॑पतये॒ परि॑पतये प्रीणाति प्रीणाति॒ परि॑पतये । 5) परि॑पतय॒ इतीति॒ परि॑पतये॒ परि॑पतय॒ इति॑ । 5) परि॑पतय॒ इति॒ परि॑ - प॒त॒ये॒ । 6) इत्या॑हा॒हे तीत्या॑ह । 7) आ॒ह॒ मनो॒ मन॑ आहाह॒ मनः॑ । 8) मनो॒ वै वै मनो॒ मनो॒ वै । 9) वै परि॑पतिः॒ परि॑पति॒-र्वै वै परि॑पतिः । 10) परि॑पति॒-र्मनो॒ मनः॒ परि॑पतिः॒ परि॑पति॒-र्मनः॑ । 10) परि॑पति॒रिति॒ परि॑ - प॒तिः॒ । 11) मन॑ ए॒वैव मनो॒ मन॑ ए॒व । 12) ए॒व प्री॑णाति प्रीणा त्ये॒वैव प्री॑णाति । 13) प्री॒णा॒ति॒ तनू॒नप्त्रे॒ तनू॒नप्त्रे᳚ प्रीणाति प्रीणाति॒ तनू॒नप्त्रे᳚ । 14) तनू॒नप्त्र॒ इतीति॒ तनू॒नप्त्रे॒ तनू॒नप्त्र॒ इति॑ । 14) तनू॒नप्त्र॒ इति॒ तनू᳚ - नप्त्रे᳚ । 15) इत्या॑हा॒हे तीत्या॑ह । 16) आ॒ह॒ त॒नुव॑ स्त॒नुव॑ आहाह त॒नुवः॑ । 17) त॒नुवो॒ हि हि त॒नुव॑ स्त॒नुवो॒ हि । 18) हि ते ते हि हि ते । 19) ते ता स्ता स्ते ते ताः । 20) ता-स्स॑म॒वाद्य॑न्त सम॒वाद्य॑न्त॒ ता स्ता-स्स॑म॒वाद्य॑न्त । 21) स॒म॒वाद्य॑न्त शाक्व॒राय॑ शाक्व॒राय॑ सम॒वाद्य॑न्त सम॒वाद्य॑न्त शाक्व॒राय॑ । 21) स॒म॒वाद्य॒न्तेति॑ सं - अ॒वाद्य॑न्त । 22) शा॒क्व॒राये तीति॑ शाक्व॒राय॑ शाक्व॒रायेति॑ । 23) इत्या॑हा॒हे तीत्या॑ह । 24) आ॒ह॒ शक्त्यै॒ शक्त्या॑ आहाह॒ शक्त्यै᳚ । 25) शक्त्यै॒ हि हि शक्त्यै॒ शक्त्यै॒ हि । 26) हि ते ते हि हि ते । 27) ते ता स्ता स्ते ते ताः । 28) ता-स्स॑म॒वाद्य॑न्त सम॒वाद्य॑न्त॒ ता स्ता-स्स॑म॒वाद्य॑न्त । 29) स॒म॒वाद्य॑न्त॒ शक्म॒-ञ्छक्मन्᳚ थ्सम॒वाद्य॑न्त सम॒वाद्य॑न्त॒ शक्मन्न्॑ । 29) स॒म॒वाद्य॒न्तेति॑ सं - अ॒वाद्य॑न्त । 30) शक्म॒-न्नोजि॑ष्ठा॒ यौजि॑ष्ठाय॒ शक्म॒-ञ्छक्म॒-न्नोजि॑ष्ठाय । 31) ओजि॑ष्ठा॒ये तीत्योजि॑ष्ठा॒ यौजि॑ष्ठा॒येति॑ । 32) इत्या॑हा॒हे तीत्या॑ह । 33) आ॒हौजि॑ष्ठ॒ मोजि॑ष्ठ माहा॒ हौजि॑ष्ठम् । 34) ओजि॑ष्ठ॒ग्ं॒ हि ह्योजि॑ष्ठ॒ मोजि॑ष्ठ॒ग्ं॒ हि । 35) हि ते ते हि हि ते । 36) ते त-त्त-त्ते ते तत् । 37) तदा॒त्मन॑ आ॒त्मन॒ स्त-त्तदा॒त्मनः॑ । 38) आ॒त्मन॑-स्सम॒वाद्य॑न्त सम॒वाद्य॑न्ता॒ त्मन॑ आ॒त्मन॑-स्सम॒वाद्य॑न्त । 39) स॒म॒वाद्य॒न्ता ना॑धृष्ट॒ मना॑धृष्टग्ं सम॒वाद्य॑न्त सम॒वाद्य॒न्ता ना॑धृष्टम् । 39) स॒म॒वाद्य॒न्तेति॑ सं - अ॒वाद्य॑न्त । 40) अना॑धृष्ट मस्य॒ स्यना॑धृष्ट॒ मना॑धृष्ट मसि । 40) अना॑धृष्ट॒मित्यना᳚ - धृ॒ष्ट॒म् । 41) अ॒स्य॒ना॒धृ॒ष्य म॑नाधृ॒ष्य म॑स्य स्यनाधृ॒ष्यम् । 42) अ॒ना॒धृ॒ष्य मिती त्य॑नाधृ॒ष्य म॑नाधृ॒ष्य मिति॑ । 42) अ॒ना॒धृ॒ष्यमित्य॑ना - धृ॒ष्यम् । 43) इत्या॑हा॒हे तीत्या॑ह । 44) आ॒हाना॑धृष्ट॒ मना॑धृष्ट माहा॒हा ना॑धृष्टम् । 45) अना॑धृष्ट॒ग्ं॒ हि ह्यना॑धृष्ट॒ मना॑धृष्ट॒ग्ं॒ हि । 45) अना॑धृष्ट॒मित्यना᳚ - धृ॒ष्ट॒म् । 46) ह्ये॑ तदे॒त द्धि ह्ये॑तत् । 47) ए॒त द॑नाधृ॒ष्य म॑नाधृ॒ष्य मे॒त दे॒त द॑नाधृ॒ष्यम् । 48) अ॒ना॒धृ॒ष्य-न्दे॒वाना᳚-न्दे॒वाना॑ मनाधृ॒ष्य म॑नाधृ॒ष्य-न्दे॒वाना᳚म् । 48) अ॒ना॒धृ॒ष्यमित्य॑ना - धृ॒ष्यम् । 49) दे॒वाना॒ मोज॒ ओजो॑ दे॒वाना᳚-न्दे॒वाना॒ मोजः॑ । 50) ओज॒ इती त्योज॒ ओज॒ इति॑ । ॥ 10 ॥ (50/62)
1) इत्या॑हा॒हे तीत्या॑ह । 2) आ॒ह॒ दे॒वाना᳚-न्दे॒वाना॑ माहाह दे॒वाना᳚म् । 3) दे॒वाना॒ग्ं॒ हि हि दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ हि । 4) ह्ये॑त दे॒त द्धि ह्ये॑तत् । 5) ए॒त दोज॒ ओज॑ ए॒त दे॒त दोजः॑ । 6) ओजो॑ ऽभिशस्ति॒पा अ॑भिशस्ति॒पा ओज॒ ओजो॑ ऽभिशस्ति॒पाः । 7) अ॒भि॒श॒स्ति॒पा अ॑नभिशस्ते॒न्य म॑नभिशस्ते॒न्य म॑भिशस्ति॒पा अ॑भिशस्ति॒पा अ॑नभिशस्ते॒न्यम् । 7) अ॒भि॒श॒स्ति॒पा इत्य॑भिशस्ति - पाः । 8) अ॒न॒भि॒श॒स्ते॒न्य मितीत्य॑नभिशस्ते॒न्य म॑नभिशस्ते॒न्य मिति॑ । 8) अ॒न॒भि॒श॒स्ते॒न्यमित्य॑नभि - श॒स्ते॒न्यम् । 9) इत्या॑हा॒हे तीत्या॑ह । 10) आ॒हा॒ भि॒श॒स्ति॒पा अ॑भिशस्ति॒पा आ॑हाहा भिशस्ति॒पाः । 11) अ॒भि॒श॒स्ति॒पा हि ह्य॑भिशस्ति॒पा अ॑भिशस्ति॒पा हि । 11) अ॒भि॒श॒स्ति॒पा इत्य॑भिशस्ति - पाः । 12) ह्ये॑ तदे॒त द्धि ह्ये॑तत् । 13) ए॒त द॑नभिशस्ते॒न्य म॑नभिशस्ते॒न्य मे॒त दे॒त द॑नभिशस्ते॒न्यम् । 14) अ॒न॒भि॒श॒स्ते॒न्य मन् वन् व॑नभिशस्ते॒न्य म॑नभिशस्ते॒न्य मनु॑ । 14) अ॒न॒भि॒श॒स्ते॒न्यमित्य॑नभि - श॒स्ते॒न्यम् । 15) अनु॑ मे॒ मे ऽन्वनु॑ मे । 16) मे॒ दी॒क्षा-न्दी॒क्षा-म्मे॑ मे दी॒क्षाम् । 17) दी॒क्षा-न्दी॒क्षाप॑ति-र्दी॒क्षाप॑ति-र्दी॒क्षा-न्दी॒क्षा-न्दी॒क्षाप॑तिः । 18) दी॒क्षाप॑ति-र्मन्यता-म्मन्यता-न्दी॒क्षाप॑ति-र्दी॒क्षाप॑ति-र्मन्यताम् । 18) दी॒क्षाप॑ति॒रिति॑ दी॒क्षा - प॒तिः॒ । 19) म॒न्य॒ता॒ मितीति॑ मन्यता-म्मन्यता॒ मिति॑ । 20) इत्या॑हा॒हे तीत्या॑ह । 21) आ॒ह॒ य॒था॒य॒जु-र्य॑थाय॒जु रा॑हाह यथाय॒जुः । 22) य॒था॒य॒जु रे॒वैव य॑थाय॒जु-र्य॑थाय॒जु रे॒व । 22) य॒था॒य॒जुरिति॑ यथा - य॒जुः । 23) ए॒वैत दे॒त दे॒वै वैतत् । 24) ए॒त-द्घृ॒त-ङ्घृ॒त मे॒त दे॒त-द्घृ॒तम् । 25) घृ॒तं-वैँ वै घृ॒त-ङ्घृ॒तं-वैँ । 26) वै दे॒वा दे॒वा वै वै दे॒वाः । 27) दे॒वा वज्रं॒-वँज्र॑-न्दे॒वा दे॒वा वज्र᳚म् । 28) वज्र॑-ङ्कृ॒त्वा कृ॒त्वा वज्रं॒-वँज्र॑-ङ्कृ॒त्वा । 29) कृ॒त्वा सोम॒ग्ं॒ सोम॑-ङ्कृ॒त्वा कृ॒त्वा सोम᳚म् । 30) सोम॑ मघ्न-न्नघ्न॒-न्थ्सोम॒ग्ं॒ सोम॑ मघ्नन्न् । 31) अ॒घ्न॒-न्न॒न्ति॒क म॑न्ति॒क म॑घ्न-न्नघ्न-न्नन्ति॒कम् । 32) अ॒न्ति॒क मि॑वे वान्ति॒क म॑न्ति॒क मि॑व । 33) इ॒व॒ खलु॒ खल्वि॑वेव॒ खलु॑ । 34) खलु॒ वै वै खलु॒ खलु॒ वै । 35) वा अ॑स्यास्य॒ वै वा अ॑स्य । 36) अ॒स्यै॒त दे॒त द॑स्या स्यै॒तत् । 37) ए॒तच् च॑रन्ति चर न्त्ये॒त दे॒तच् च॑रन्ति । 38) च॒र॒न्ति॒ य-द्यच् च॑रन्ति चरन्ति॒ यत् । 39) य-त्ता॑नून॒प्त्रेण॑ तानून॒प्त्रेण॒ य-द्य-त्ता॑नून॒प्त्रेण॑ । 40) ता॒नू॒न॒प्त्रेण॑ प्र॒चर॑न्ति प्र॒चर॑न्ति तानून॒प्त्रेण॑ तानून॒प्त्रेण॑ प्र॒चर॑न्ति । 40) ता॒नू॒न॒प्त्रेणेति॑ तानू - न॒प्त्रेण॑ । 41) प्र॒चर॑ न्त्य॒ग्ं॒शुरग्ं॑शु र॒ग्ं॒शुरग्ं॑शुः प्र॒चर॑न्ति प्र॒चर॑ न्त्य॒ग्ं॒शुरग्ं॑शुः । 41) प्र॒चर॒न्तीति॑ प्र - चर॑न्ति । 42) अ॒ग्ं॒शुरग्ं॑शु स्ते ते अ॒ग्ं॒शुरग्ं॑शु र॒ग्ं॒शुरग्ं॑शु स्ते । 42) अ॒ग्ं॒शुरग्ं॑शु॒रित्य॒ग्ं॒शुः - अ॒ग्ं॒शुः॒ । 43) ते॒ दे॒व॒ दे॒व॒ ते॒ ते॒ दे॒व॒ । 44) दे॒व॒ सो॒म॒ सो॒म॒ दे॒व॒ दे॒व॒ सो॒म॒ । 45) सो॒मा सो॑म सो॒मा । 46) आ प्या॑यता-म्प्यायता॒ मा प्या॑यताम् । 47) प्या॒य॒ता॒ मितीति॑ प्यायता-म्प्यायता॒ मिति॑ । 48) इत्या॑हा॒हे तीत्या॑ह । 49) आ॒ह॒ य-द्यदा॑हाह॒ यत् । 50) यदे॒वैव य-द्यदे॒व । ॥ 11 ॥ (50/59)
1) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 2) अ॒स्या॒ पु॒वा॒यते॑ ऽपुवा॒यते᳚ ऽस्या स्यापुवा॒यते᳚ । 3) अ॒पु॒वा॒यते॒ य-द्यद॑पुवा॒यते॑ ऽपुवा॒यते॒ यत् । 4) य-न्मीय॑ते॒ मीय॑ते॒ य-द्य-न्मीय॑ते । 5) मीय॑ते॒ त-त्त-न्मीय॑ते॒ मीय॑ते॒ तत् । 6) तदे॒वैव त-त्तदे॒व । 7) ए॒वास्या᳚ स्यै॒वैवास्य॑ । 8) अ॒स्यै॒ते नै॒तेना᳚ स्या स्यै॒तेन॑ । 9) ए॒ते नैते नै॒तेना । 10) आ प्या॑ययति प्यायय॒त्या प्या॑ययति । 11) प्या॒य॒य॒त्या प्या॑ययति प्यायय॒त्या । 12) आ तुभ्य॒-न्तुभ्य॒ मा तुभ्य᳚म् । 13) तुभ्य॒ मिन्द्र॒ इन्द्र॒ स्तुभ्य॒-न्तुभ्य॒ मिन्द्रः॑ । 14) इन्द्रः॑ प्यायता-म्प्यायता॒ मिन्द्र॒ इन्द्रः॑ प्यायताम् । 15) प्या॒य॒ता॒ मा प्या॑यता-म्प्यायता॒ मा । 16) आ त्व-न्त्व मा त्वम् । 17) त्व मिन्द्रा॒ येन्द्रा॑य॒ त्व-न्त्व मिन्द्रा॑य । 18) इन्द्रा॑य प्यायस्व प्याय॒ स्वेन्द्रा॒ येन्द्रा॑य प्यायस्व । 19) प्या॒य॒स्वे तीति॑ प्यायस्व प्याय॒स्वेति॑ । 20) इत्या॑हा॒हे तीत्या॑ह । 21) आ॒हो॒भा वु॒भा वा॑हाहो॒भौ । 22) उ॒भा वे॒वैवोभा वु॒भा वे॒व । 23) ए॒वेन्द्र॒ मिन्द्र॑ मे॒वैवेन्द्र᳚म् । 24) इन्द्र॑-ञ्च॒ चेन्द्र॒ मिन्द्र॑-ञ्च । 25) च॒ सोम॒ग्ं॒ सोम॑-ञ्च च॒ सोम᳚म् । 26) सोम॑-ञ्च च॒ सोम॒ग्ं॒ सोम॑-ञ्च । 27) चा च॒ चा । 28) आ प्या॑ययति प्यायय॒त्या प्या॑ययति । 29) प्या॒य॒य॒त्या प्या॑ययति प्यायय॒त्या । 30) आ प्या॑यय प्याय॒या प्या॑यय । 31) प्या॒य॒य॒ सखी॒-न्थ्सखी᳚-न्प्यायय प्यायय॒ सखीन्॑ । 32) सखी᳚-न्थ्स॒न्या स॒न्या सखी॒-न्थ्सखी᳚-न्थ्स॒न्या । 33) स॒न्या मे॒धया॑ मे॒धया॑ स॒न्या स॒न्या मे॒धया᳚ । 34) मे॒धयेतीति॑ मे॒धया॑ मे॒धयेति॑ । 35) इत्या॑हा॒हे तीत्या॑ह । 36) आ॒ह॒ र्त्विज॑ ऋ॒त्विज॑ आहाह॒ र्त्विजः॑ । 37) ऋ॒त्विजो॒ वै वा ऋ॒त्विज॑ ऋ॒त्विजो॒ वै । 38) वा अ॑स्यास्य॒ वै वा अ॑स्य । 39) अ॒स्य॒ सखा॑य॒-स्सखा॑यो ऽस्यास्य॒ सखा॑यः । 40) सखा॑य॒ स्ताग् स्ता-न्थ्सखा॑य॒-स्सखा॑य॒ स्तान् । 41) ता ने॒वैव ताग् स्ता ने॒व । 42) ए॒वै वैवा । 43) आ प्या॑ययति प्यायय॒त्या प्या॑ययति । 44) प्या॒य॒य॒ति॒ स्व॒स्ति स्व॒स्ति प्या॑ययति प्याययति स्व॒स्ति । 45) स्व॒स्ति ते॑ ते स्व॒स्ति स्व॒स्ति ते᳚ । 46) ते॒ दे॒व॒ दे॒व॒ ते॒ ते॒ दे॒व॒ । 47) दे॒व॒ सो॒म॒ सो॒म॒ दे॒व॒ दे॒व॒ सो॒म॒ । 48) सो॒म॒ सु॒त्याग्ं सु॒त्याग्ं सो॑म सोम सु॒त्याम् । 49) सु॒त्या म॑शीया शीय सु॒त्याग्ं सु॒त्या म॑शीय । 50) अ॒शी॒येती त्य॑शीया शी॒येति॑ । ॥ 12 ॥ (50/50)
1) इत्या॑हा॒हे तीत्या॑ह । 2) आ॒हा॒शिष॑ मा॒शिष॑ माहा हा॒शिष᳚म् । 3) आ॒शिष॑ मे॒वै वाशिष॑ मा॒शिष॑ मे॒व । 3) आ॒शिष॒मित्या᳚ - शिष᳚म् । 4) ए॒वैता मे॒ता मे॒वै वैताम् । 5) ए॒ता मैता मे॒ता मा । 6) आ शा᳚स्ते शास्त॒ आ शा᳚स्ते । 7) शा॒स्ते॒ प्र प्र शा᳚स्ते शास्ते॒ प्र । 8) प्र वै वै प्र प्र वै । 9) वा ए॒त ए॒ते वै वा ए॒ते । 10) ए॒ते᳚ ऽस्मा द॒स्मा दे॒त ए॒ते᳚ ऽस्मात् । 11) अ॒स्मा ल्लो॒का ल्लो॒का द॒स्मा द॒स्मा ल्लो॒कात् । 12) लो॒काच् च्य॑वन्ते च्यवन्ते लो॒का ल्लो॒काच् च्य॑वन्ते । 13) च्य॒व॒न्ते॒ ये ये च्य॑वन्ते च्यवन्ते॒ ये । 14) ये सोम॒ग्ं॒ सोमं॒-येँ ये सोम᳚म् । 15) सोम॑ माप्या॒यय॑ न्त्याप्या॒यय॑न्ति॒ सोम॒ग्ं॒ सोम॑ माप्या॒यय॑न्ति । 16) आ॒प्या॒यय॑ न्त्यन्तरिक्षदेव॒त्यो᳚ ऽन्तरिक्षदेव॒त्य॑ आप्या॒यय॑ न्त्याप्या॒यय॑ न्त्यन्तरिक्षदेव॒त्यः॑ । 16) आ॒प्या॒यय॒न्तीत्या᳚ - प्या॒यय॑न्ति । 17) अ॒न्त॒रि॒क्ष॒दे॒व॒त्यो॑ हि ह्य॑न्तरिक्षदेव॒त्यो᳚ ऽन्तरिक्षदेव॒त्यो॑ हि । 17) अ॒न्त॒रि॒क्ष॒दे॒व॒त्य॑ इत्य॑न्तरिक्ष - दे॒व॒त्यः॑ । 18) हि सोम॒-स्सोमो॒ हि हि सोमः॑ । 19) सोम॒ आप्या॑यित॒ आप्या॑यित॒-स्सोम॒-स्सोम॒ आप्या॑यितः । 20) आप्या॑यित॒ एष्ट॒ रेष्ट॒ राप्या॑यित॒ आप्या॑यित॒ एष्टः॑ । 20) आप्या॑यित॒ इत्या - प्या॒यि॒तः॒ । 21) एष्टा॒ रायो॒ राय॒ एष्ट॒ रेष्टा॒ रायः॑ । 22) रायः॒ प्र प्र रायो॒ रायः॒ प्र । 23) प्रेष इ॒षे प्र प्रेषे । 24) इ॒षे भगा॑य॒ भगा॑ये॒ ष इ॒षे भगा॑य । 25) भगा॒ये तीति॒ भगा॑य॒ भगा॒येति॑ । 26) इत्या॑हा॒हे तीत्या॑ह । 27) आ॒ह॒ द्यावा॑पृथि॒वीभ्या॒-न्द्यावा॑पृथि॒वीभ्या॑ माहाह॒ द्यावा॑पृथि॒वीभ्या᳚म् । 28) द्यावा॑पृथि॒वीभ्या॑ मे॒वैव द्यावा॑पृथि॒वीभ्या॒-न्द्यावा॑पृथि॒वीभ्या॑ मे॒व । 28) द्यावा॑पृथि॒वीभ्या॒मिति॒ द्यावा᳚ - पृ॒थि॒वीभ्या᳚म् । 29) ए॒व न॑म॒स्कृत्य॑ नम॒स्कृ त्यै॒वैव न॑म॒स्कृत्य॑ । 30) न॒म॒स्कृ त्या॒स्मि-न्न॒स्मि-न्न॑म॒स्कृत्य॑ नम॒स्कृ त्या॒स्मिन्न् । 30) न॒म॒स्कृत्येति॑ नमः - कृत्य॑ । 31) अ॒स्मिन् ँलो॒के लो॒के᳚ ऽस्मि-न्न॒स्मिन् ँलो॒के । 32) लो॒के प्रति॒ प्रति॑ लो॒के लो॒के प्रति॑ । 33) प्रति॑ तिष्ठन्ति तिष्ठन्ति॒ प्रति॒ प्रति॑ तिष्ठन्ति । 34) ति॒ष्ठ॒न्ति॒ दे॒वा॒सु॒रा दे॑वासु॒रा स्ति॑ष्ठन्ति तिष्ठन्ति देवासु॒राः । 35) दे॒वा॒सु॒रा-स्संयँ॑त्ता॒-स्संयँ॑त्ता देवासु॒रा दे॑वासु॒रा-स्संयँ॑त्ताः । 35) दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः । 36) संयँ॑त्ता आस-न्नास॒-न्थ्संयँ॑त्ता॒-स्संयँ॑त्ता आसन्न् । 36) संयँ॑त्ता॒ इति॒ सं - य॒त्ताः॒ । 37) आ॒स॒-न्ते त आ॑स-न्नास॒-न्ते । 38) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 39) दे॒वा बिभ्य॑तो॒ बिभ्य॑तो दे॒वा दे॒वा बिभ्य॑तः । 40) बिभ्य॑तो॒ ऽग्नि म॒ग्नि-म्बिभ्य॑तो॒ बिभ्य॑तो॒ ऽग्निम् । 41) अ॒ग्नि-म्प्र प्राग्नि म॒ग्नि-म्प्र । 42) प्रावि॑श-न्नविश॒-न्प्र प्रावि॑शन्न् । 43) अ॒वि॒श॒-न्तस्मा॒-त्तस्मा॑ दविश-न्नविश॒-न्तस्मा᳚त् । 44) तस्मा॑ दाहु राहु॒ स्तस्मा॒-त्तस्मा॑ दाहुः । 45) आ॒हु॒ र॒ग्नि र॒ग्नि रा॑हु राहु र॒ग्निः । 46) अ॒ग्नि-स्सर्वा॒-स्सर्वा॑ अ॒ग्नि र॒ग्नि-स्सर्वाः᳚ । 47) सर्वा॑ दे॒वता॑ दे॒वता॒-स्सर्वा॒-स्सर्वा॑ दे॒वताः᳚ । 48) दे॒वता॒ इतीति॑ दे॒वता॑ दे॒वता॒ इति॑ । 49) इति॒ ते त इतीति॒ ते । 50) ते᳚ ऽग्नि म॒ग्नि-न्ते ते᳚ ऽग्निम् । ॥ 13 ॥ (50/58)
1) अ॒ग्नि मे॒वैवाग्नि म॒ग्नि मे॒व । 2) ए॒व वरू॑थं॒-वँरू॑थ मे॒वैव वरू॑थम् । 3) वरू॑थ-ङ्कृ॒त्वा कृ॒त्वा वरू॑थं॒-वँरू॑थ-ङ्कृ॒त्वा । 4) कृ॒त्वा ऽसु॑रा॒ नसु॑रान् कृ॒त्वा कृ॒त्वा ऽसु॑रान् । 5) असु॑रा न॒भ्य॑भ्यसु॑रा॒ नसु॑रा न॒भि । 6) अ॒भ्य॑भव-न्नभव-न्न॒भ्या᳚(1॒)भ्य॑भवन्न् । 7) अ॒भ॒व॒-न्न॒ग्नि म॒ग्नि म॑भव-न्नभव-न्न॒ग्निम् । 8) अ॒ग्नि मि॑वे वा॒ग्नि म॒ग्नि मि॑व । 9) इ॒व॒ खलु॒ खल्वि॑वे व॒ खलु॑ । 10) खलु॒ वै वै खलु॒ खलु॒ वै । 11) वा ए॒ष ए॒ष वै वा ए॒षः । 12) ए॒ष प्र प्रैष ए॒ष प्र । 13) प्र वि॑शति विशति॒ प्र प्र वि॑शति । 14) वि॒श॒ति॒ यो यो वि॑शति विशति॒ यः । 15) यो॑ ऽवान्तरदी॒क्षा म॑वान्तरदी॒क्षां-योँ यो॑ ऽवान्तरदी॒क्षाम् । 16) अ॒वा॒न्त॒र॒दी॒क्षा मु॒पै त्यु॒पैत्य॑वान्तरदी॒क्षा म॑वान्तरदी॒क्षा मु॒पैति॑ । 16) अ॒वा॒न्त॒र॒दी॒क्षामित्य॑वान्तर - दी॒क्षाम् । 17) उ॒पैति॒ भ्रातृ॑व्याभिभूत्यै॒ भ्रातृ॑व्याभिभूत्या उ॒पै त्यु॒पैति॒ भ्रातृ॑व्याभिभूत्यै । 17) उ॒पैतीत्यु॑प - एति॑ । 18) भ्रातृ॑व्याभिभूत्यै॒ भव॑ति॒ भव॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑ति । 18) भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य - अ॒भि॒भू॒त्यै॒ । 19) भव॑ त्या॒त्मना॒ ऽऽत्मना॒ भव॑ति॒ भव॑ त्या॒त्मना᳚ । 20) आ॒त्मना॒ परा॒ परा॒ ऽऽत्मना॒ ऽऽत्मना॒ परा᳚ । 21) परा᳚ ऽस्यास्य॒ परा॒ परा᳚ ऽस्य । 22) अ॒स्य॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो ऽस्यास्य॒ भ्रातृ॑व्यः । 23) भ्रातृ॑व्यो भवति भवति॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो भवति । 24) भ॒व॒ त्या॒त्मान॑ मा॒त्मान॑-म्भवति भव त्या॒त्मान᳚म् । 25) आ॒त्मान॑ मे॒वैवात्मान॑ मा॒त्मान॑ मे॒व । 26) ए॒व दी॒क्षया॑ दी॒क्ष यै॒वैव दी॒क्षया᳚ । 27) दी॒क्षया॑ पाति पाति दी॒क्षया॑ दी॒क्षया॑ पाति । 28) पा॒ति॒ प्र॒जा-म्प्र॒जा-म्पा॑ति पाति प्र॒जाम् । 29) प्र॒जा म॑वान्तरदी॒क्षया॑ ऽवान्तरदी॒क्षया᳚ प्र॒जा-म्प्र॒जा म॑वान्तरदी॒क्षया᳚ । 29) प्र॒जामिति॑ प्र - जाम् । 30) अ॒वा॒न्त॒र॒दी॒क्षया॑ सन्त॒राग्ं स॑न्त॒रा म॑वान्तरदी॒क्षया॑ ऽवान्तरदी॒क्षया॑ सन्त॒राम् । 30) अ॒वा॒न्त॒र॒दी॒क्षयेत्य॑वान्तर - दी॒क्षया᳚ । 31) स॒न्त॒रा-म्मेख॑ला॒-म्मेख॑लाग्ं सन्त॒राग्ं स॑न्त॒रा-म्मेख॑लाम् । 31) स॒न्त॒रामिति॑ सं - त॒राम् । 32) मेख॑लाग्ं स॒माय॑च्छते स॒माय॑च्छते॒ मेख॑ला॒-म्मेख॑लाग्ं स॒माय॑च्छते । 33) स॒माय॑च्छते प्र॒जा प्र॒जा स॒माय॑च्छते स॒माय॑च्छते प्र॒जा । 33) स॒माय॑च्छत॒ इति॑ सं - आय॑च्छते । 34) प्र॒जा हि हि प्र॒जा प्र॒जा हि । 34) प्र॒जेति॑ प्र - जा । 35) ह्या᳚त्मन॑ आ॒त्मनो॒ हि ह्या᳚त्मनः॑ । 36) आ॒त्मनो ऽन्त॑रत॒रा ऽन्त॑रतरा॒ ऽऽत्मन॑ आ॒त्मनो ऽन्त॑रतरा । 37) अन्त॑रतरा त॒प्तव्र॑त स्त॒प्तव्र॒तो ऽन्त॑रत॒रा ऽन्त॑रतरा त॒प्तव्र॑तः । 37) अन्त॑रत॒रेत्यन्त॑र - त॒रा॒ । 38) त॒प्तव्र॑तो भवति भवति त॒प्तव्र॑त स्त॒प्तव्र॑तो भवति । 38) त॒प्तव्र॑त॒ इति॑ त॒प्त - व्र॒तः॒ । 39) भ॒व॒ति॒ मद॑न्तीभि॒-र्मद॑न्तीभि-र्भवति भवति॒ मद॑न्तीभिः । 40) मद॑न्तीभि-र्मार्जयते मार्जयते॒ मद॑न्तीभि॒-र्मद॑न्तीभि-र्मार्जयते । 41) मा॒र्ज॒य॒ते॒ नि-र्णि-र्मा᳚र्जयते मार्जयते॒ निः । 42) निर्-हि हि नि-र्णिर्-हि । 43) ह्य॑ग्नि र॒ग्निर्-हि ह्य॑ग्निः । 44) अ॒ग्नि-श्शी॒तेन॑ शी॒तेना॒ग्नि र॒ग्नि-श्शी॒तेन॑ । 45) शी॒तेन॒ वाय॑ति॒ वाय॑ति शी॒तेन॑ शी॒तेन॒ वाय॑ति । 46) वाय॑ति॒ समि॑द्ध्यै॒ समि॑द्ध्यै॒ वाय॑ति॒ वाय॑ति॒ समि॑द्ध्यै । 47) समि॑द्ध्यै॒ या या समि॑द्ध्यै॒ समि॑द्ध्यै॒ या । 47) समि॑द्ध्या॒ इति॒ सं - इ॒द्ध्यै॒ । 48) या ते॑ ते॒ या या ते᳚ । 49) ते॒ अ॒ग्ने॒ ऽग्ने॒ ते॒ ते॒ अ॒ग्ने॒ । 50) अ॒ग्ने॒ रुद्रि॑या॒ रुद्रि॑या ऽग्ने ऽग्ने॒ रुद्रि॑या । 51) रुद्रि॑या त॒नू स्त॒नू रुद्रि॑या॒ रुद्रि॑या त॒नूः । 52) त॒नू रितीति॑ त॒नू स्त॒नू रिति॑ । 53) इत्या॑हा॒हे तीत्या॑ह । 54) आ॒ह॒ स्वया॒ स्वया॑ ऽऽहाह॒ स्वया᳚ । 55) स्वयै॒वैव स्वया॒ स्वयै॒व । 56) ए॒वैन॑ देन दे॒वै वैन॑त् । 57) ए॒न॒-द्दे॒वत॑या दे॒वत॑ यैन देन-द्दे॒वत॑या । 58) दे॒वत॑या व्रतयति व्रतयति दे॒वत॑या दे॒वत॑या व्रतयति । 59) व्र॒त॒य॒ति॒ स॒यो॒नि॒त्वाय॑ सयोनि॒त्वाय॑ व्रतयति व्रतयति सयोनि॒त्वाय॑ । 60) स॒यो॒नि॒त्वाय॒ शान्त्यै॒ शान्त्यै॑ सयोनि॒त्वाय॑ सयोनि॒त्वाय॒ शान्त्यै᳚ । 60) स॒यो॒नि॒त्वायेति॑ सयोनि - त्वाय॑ । 61) शान्त्या॒ इति॒ शान्त्यै᳚ । ॥ 14 ॥ (61/73) ॥ अ. 2 ॥
1) तेषा॒ मसु॑राणा॒ मसु॑राणा॒-न्तेषा॒-न्तेषा॒ मसु॑राणाम् । 2) असु॑राणा-न्ति॒स्र स्ति॒स्रो ऽसु॑राणा॒ मसु॑राणा-न्ति॒स्रः । 3) ति॒स्रः पुरः॒ पुर॑ स्ति॒स्र स्ति॒स्रः पुरः॑ । 4) पुर॑ आस-न्नास॒-न्पुरः॒ पुर॑ आसन्न् । 5) आ॒स॒-न्न॒य॒स्म य्य॑य॒स्म य्या॑स-न्नास-न्नय॒स्मयी᳚ । 6) अ॒य॒स्म य्य॑व॒मा ऽव॒मा ऽय॒स्म य्य॑य॒स्म य्य॑व॒मा । 7) अ॒व॒मा ऽथाथा॑ व॒मा ऽव॒मा ऽथ॑ । 8) अथ॑ रज॒ता र॑ज॒ता ऽथाथ॑ रज॒ता । 9) र॒ज॒ता ऽथाथ॑ रज॒ता र॑ज॒ता ऽथ॑ । 10) अथ॒ हरि॑णी॒ हरि॒ ण्यथाथ॒ हरि॑णी । 11) हरि॑णी॒ ता स्ता हरि॑णी॒ हरि॑णी॒ ताः । 12) ता दे॒वा दे॒वा स्ता स्ता दे॒वाः । 13) दे॒वा जेतु॒-ञ्जेतु॑-न्दे॒वा दे॒वा जेतु᳚म् । 14) जेतु॒न्न न जेतु॒-ञ्जेतु॒न्न । 15) नाश॑क्नुव-न्नशक्नुव॒-न्न नाश॑क्नुवन्न् । 16) अ॒श॒क्नु॒व॒-न्ता स्ता अ॑शक्नुव-न्नशक्नुव॒-न्ताः । 17) ता उ॑प॒स दो॑प॒सदा॒ ता स्ता उ॑प॒सदा᳚ । 18) उ॒प॒स दै॒वै वोप॒स दो॑प॒स दै॒व । 18) उ॒प॒सदेत्यु॑प - सदा᳚ । 19) ए॒वाजि॑गीष-न्नजिगीष-न्ने॒वैवाजि॑गीषन्न् । 20) अ॒जि॒गी॒ष॒-न्तस्मा॒-त्तस्मा॑ दजिगीष-न्नजिगीष॒-न्तस्मा᳚त् । 21) तस्मा॑ दाहु राहु॒ स्तस्मा॒-त्तस्मा॑ दाहुः । 22) आ॒हु॒-र्यो य आ॑हु राहु॒-र्यः । 23) यश्च॑ च॒ यो यश्च॑ । 24) चै॒व मे॒व-ञ्च॑ चै॒वम् । 25) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 26) वेद॒ यो यो वेद॒ वेद॒ यः । 27) यश्च॑ च॒ यो यश्च॑ । 28) च॒ न न च॑ च॒ न । 29) नोप॒स दो॑प॒सदा॒ न नोप॒सदा᳚ । 30) उ॒प॒सदा॒ वै वा उ॑प॒स दो॑प॒सदा॒ वै । 30) उ॒प॒सदेत्यु॑प - सदा᳚ । 31) वै म॑हापु॒र-म्म॑हापु॒रं-वैँ वै म॑हापु॒रम् । 32) म॒हा॒पु॒र-ञ्ज॑यन्ति जयन्ति महापु॒र-म्म॑हापु॒र-ञ्ज॑यन्ति । 32) म॒हा॒पु॒रमिति॑ महा - पु॒रम् । 33) ज॒य॒न्तीतीति॑ जयन्ति जय॒न्तीति॑ । 34) इति॒ ते त इतीति॒ ते । 35) त इषु॒ मिषु॒-न्ते त इषु᳚म् । 36) इषु॒ग्ं॒ सग्ं स मिषु॒ मिषु॒ग्ं॒ सम् । 37) स म॑स्कुर्वता कुर्वत॒ सग्ं स म॑स्कुर्वत । 38) अ॒कु॒र्व॒ता॒ग्नि म॒ग्नि म॑कुर्वता कुर्वता॒ग्निम् । 39) अ॒ग्नि मनी॑क॒ मनी॑क म॒ग्नि म॒ग्नि मनी॑कम् । 40) अनी॑क॒ग्ं॒ सोम॒ग्ं॒ सोम॒ मनी॑क॒ मनी॑क॒ग्ं॒ सोम᳚म् । 41) सोमग्ं॑ श॒ल्यग्ं श॒ल्यग्ं सोम॒ग्ं॒ सोमग्ं॑ श॒ल्यम् । 42) श॒ल्यं-विँष्णुं॒-विँष्णुग्ं॑ श॒ल्यग्ं श॒ल्यं-विँष्णु᳚म् । 43) विष्णु॒-न्तेज॑न॒-न्तेज॑नं॒-विँष्णुं॒-विँष्णु॒-न्तेज॑नम् । 44) तेज॑न॒-न्ते ते तेज॑न॒-न्तेज॑न॒-न्ते । 45) ते᳚ ऽब्रुव-न्नब्रुव॒-न्ते ते᳚ ऽब्रुवन्न् । 46) अ॒ब्रु॒व॒न् कः को᳚ ऽब्रुव-न्नब्रुव॒न् कः । 47) क इ॒मा मि॒मा-ङ्कः क इ॒माम् । 48) इ॒मा म॑सिष्य त्यसिष्यती॒मा मि॒मा म॑सिष्यति । 49) अ॒सि॒ष्य॒तीती त्य॑सिष्य त्यसिष्य॒तीति॑ । 50) इति॑ रु॒द्रो रु॒द्र इतीति॑ रु॒द्रः । ॥ 15 ॥ (50/53)
1) रु॒द्र इतीति॑ रु॒द्रो रु॒द्र इति॑ । 2) इत्य॑ब्रुव-न्नब्रुव॒-न्निती त्य॑ब्रुवन्न् । 3) अ॒ब्रु॒व॒-न्रु॒द्रो रु॒द्रो᳚ ऽब्रुव-न्नब्रुव-न्रु॒द्रः । 4) रु॒द्रो वै वै रु॒द्रो रु॒द्रो वै । 5) वै क्रू॒रः क्रू॒रो वै वै क्रू॒रः । 6) क्रू॒र-स्स स क्रू॒रः क्रू॒र-स्सः । 7) सो᳚ ऽस्य त्वस्यतु॒ स सो᳚ ऽस्यतु । 8) अ॒स्य॒ त्विती त्य॑स्य त्वस्य॒त्विति॑ । 9) इति॒ स स इतीति॒ सः । 10) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् । 11) अ॒ब्र॒वी॒-द्वरं॒-वँर॑ मब्रवी दब्रवी॒-द्वर᳚म् । 12) वरं॑-वृँणै वृणै॒ वरं॒-वँरं॑-वृँणै । 13) वृ॒णा॒ अ॒ह म॒हं-वृँ॑णै वृणा अ॒हम् । 14) अ॒ह मे॒वैवाह म॒ह मे॒व । 15) ए॒व प॑शू॒ना-म्प॑शू॒ना मे॒वैव प॑शू॒नाम् । 16) प॒शू॒ना मधि॑पति॒ रधि॑पतिः पशू॒ना-म्प॑शू॒ना मधि॑पतिः । 17) अधि॑पति रसा न्यसा॒ न्यधि॑पति॒ रधि॑पति रसानि । 17) अधि॑पति॒रित्यधि॑ - प॒तिः॒ । 18) अ॒सा॒नीती त्य॑सा न्यसा॒नीति॑ । 19) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् । 20) तस्मा᳚-द्रु॒द्रो रु॒द्र स्तस्मा॒-त्तस्मा᳚-द्रु॒द्रः । 21) रु॒द्रः प॑शू॒ना-म्प॑शू॒नाग्ं रु॒द्रो रु॒द्रः प॑शू॒नाम् । 22) प॒शू॒ना मधि॑पति॒ रधि॑पतिः पशू॒ना-म्प॑शू॒ना मधि॑पतिः । 23) अधि॑पति॒ स्ता-न्ता मधि॑पति॒ रधि॑पति॒ स्ताम् । 23) अधि॑पति॒रित्यधि॑ - प॒तिः॒ । 24) ताग्ं रु॒द्रो रु॒द्र स्ता-न्ताग्ं रु॒द्रः । 25) रु॒द्रो ऽवाव॑ रु॒द्रो रु॒द्रो ऽव॑ । 26) अवा॑सृज दसृज॒ दवावा॑ सृजत् । 27) अ॒सृ॒ज॒-थ्स सो॑ ऽसृज दसृज॒-थ्सः । 28) स ति॒स्र स्ति॒स्र-स्स स ति॒स्रः । 29) ति॒स्रः पुरः॒ पुर॑ स्ति॒स्र स्ति॒स्रः पुरः॑ । 30) पुरो॑ भि॒त्वा भि॒त्वा पुरः॒ पुरो॑ भि॒त्वा । 31) भि॒त्वैभ्य ए॒भ्यो भि॒त्वा भि॒त्वैभ्यः । 32) ए॒भ्यो लो॒केभ्यो॑ लो॒केभ्य॑ ए॒भ्य ए॒भ्यो लो॒केभ्यः॑ । 33) लो॒केभ्यो ऽसु॑रा॒ नसु॑रान् ँलो॒केभ्यो॑ लो॒केभ्यो ऽसु॑रान् । 34) असु॑रा॒-न्प्र प्रासु॑रा॒ नसु॑रा॒-न्प्र । 35) प्राणु॑दता नुदत॒ प्र प्राणु॑दत । 36) अ॒नु॒द॒त॒ य-द्यद॑नुदता नुदत॒ यत् । 37) यदु॑प॒सद॑ उप॒सदो॒ य-द्यदु॑प॒सदः॑ । 38) उ॒प॒सद॑ उपस॒द्यन्त॑ उपस॒द्यन्त॑ उप॒सद॑ उप॒सद॑ उपस॒द्यन्ते᳚ । 38) उ॒प॒सद॒ इत्यु॑प - सदः॑ । 39) उ॒प॒स॒द्यन्ते॒ भ्रातृ॑व्यपराणुत्यै॒ भ्रातृ॑व्यपराणुत्या उपस॒द्यन्त॑ उपस॒द्यन्ते॒ भ्रातृ॑व्यपराणुत्यै । 39) उ॒प॒स॒द्यन्त॒ इत्यु॑प - स॒द्यन्ते᳚ । 40) भ्रातृ॑व्यपराणुत्यै॒ न न भ्रातृ॑व्यपराणुत्यै॒ भ्रातृ॑व्यपराणुत्यै॒ न । 40) भ्रातृ॑व्यपराणुत्या॒ इति॒ भ्रातृ॑व्य - प॒रा॒णु॒त्यै॒ । 41) नान्या म॒न्यान्न नान्याम् । 42) अ॒न्या माहु॑ति॒ माहु॑ति म॒न्या म॒न्या माहु॑तिम् । 43) आहु॑ति-म्पु॒रस्ता᳚-त्पु॒रस्ता॒ दाहु॑ति॒ माहु॑ति-म्पु॒रस्ता᳚त् । 43) आहु॑ति॒मित्या - हु॒ति॒म् । 44) पु॒रस्ता᳚ज् जुहुयाज् जुहुया-त्पु॒रस्ता᳚-त्पु॒रस्ता᳚ज् जुहुयात् । 45) जु॒हु॒या॒-द्य-द्यज् जु॑हुयाज् जुहुया॒-द्यत् । 46) यद॒न्या म॒न्यां-यँ-द्यद॒न्याम् । 47) अ॒न्या माहु॑ति॒ माहु॑ति म॒न्या म॒न्या माहु॑तिम् । 48) आहु॑ति-म्पु॒रस्ता᳚-त्पु॒रस्ता॒ दाहु॑ति॒ माहु॑ति-म्पु॒रस्ता᳚त् । 48) आहु॑ति॒मित्या - हु॒ति॒म् । 49) पु॒रस्ता᳚ज् जुहु॒याज् जु॑हु॒या-त्पु॒रस्ता᳚-त्पु॒रस्ता᳚ज् जुहु॒यात् । 50) जु॒हु॒या द॒न्य द॒न्यज् जु॑हु॒याज् जु॑हु॒या द॒न्यत् । ॥ 16 ॥ (50/57)
1) अ॒न्य-न्मुख॒-म्मुख॑ म॒न्य द॒न्य-न्मुख᳚म् । 2) मुख॑-ङ्कुर्या-त्कुर्या॒-न्मुख॒-म्मुख॑-ङ्कुर्यात् । 3) कु॒र्या॒-थ्स्रु॒वेण॑ स्रु॒वेण॑ कुर्या-त्कुर्या-थ्स्रु॒वेण॑ । 4) स्रु॒वेणा॑घा॒र मा॑घा॒रग्ग् स्रु॒वेण॑ स्रु॒वेणा॑घा॒रम् । 5) आ॒घा॒र मा ऽऽघा॒र मा॑घा॒र मा । 5) आ॒घा॒रमित्या᳚ - घा॒रम् । 6) आ घा॑रयति घारय॒त्या घा॑रयति । 7) घा॒र॒य॒ति॒ य॒ज्ञस्य॑ य॒ज्ञस्य॑ घारयति घारयति य॒ज्ञस्य॑ । 8) य॒ज्ञस्य॒ प्रज्ञा᳚त्यै॒ प्रज्ञा᳚त्यै य॒ज्ञस्य॑ य॒ज्ञस्य॒ प्रज्ञा᳚त्यै । 9) प्रज्ञा᳚त्यै॒ परा॒-म्परा॒-म्प्रज्ञा᳚त्यै॒ प्रज्ञा᳚त्यै॒ परां॑ । 9) प्रज्ञा᳚त्या॒ इति॒ प्र - ज्ञा॒त्यै॒ । 10) परा॑ ंअति॒क्रम्या॑ ति॒क्रम्य॒ परा॒-म्परा॑ ंअति॒क्रम्य॑ । 11) अ॒ति॒क्रम्य॑ जुहोति जुहो त्यति॒क्रम्या॑ ति॒क्रम्य॑ जुहोति । 11) अ॒ति॒क्रम्येत्य॑ति - क्रम्य॑ । 12) जु॒हो॒ति॒ परा॑चः॒ परा॑चो जुहोति जुहोति॒ परा॑चः । 13) परा॑च ए॒वैव परा॑चः॒ परा॑च ए॒व । 14) ए॒वैभ्य ए॒भ्य ए॒वैवैभ्यः । 15) ए॒भ्यो लो॒केभ्यो॑ लो॒केभ्य॑ ए॒भ्य ए॒भ्यो लो॒केभ्यः॑ । 16) लो॒केभ्यो॒ यज॑मानो॒ यज॑मानो लो॒केभ्यो॑ लो॒केभ्यो॒ यज॑मानः । 17) यज॑मानो॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒न्॒. यज॑मानो॒ यज॑मानो॒ भ्रातृ॑व्यान् । 18) भ्रातृ॑व्या॒-न्प्र प्र भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒-न्प्र । 19) प्र णु॑दते नुदते॒ प्र प्र णु॑दते । 20) नु॒द॒ते॒ पुनः॒ पुन॑-र्नुदते नुदते॒ पुनः॑ । 21) पुन॑ रत्या॒क्रम्या᳚ त्या॒क्रम्य॒ पुनः॒ पुन॑ रत्या॒क्रम्य॑ । 22) अ॒त्या॒क्र म्यो॑प॒सद॑ मुप॒सद॑ मत्या॒क्र म्या᳚त्या॒क्र म्यो॑प॒सद᳚म् । 22) अ॒त्या॒क्रम्येत्य॑ति - आ॒क्रम्य॑ । 23) उ॒प॒सद॑-ञ्जुहोति जुहो त्युप॒सद॑ मुप॒सद॑-ञ्जुहोति । 23) उ॒प॒सद॒मित्यु॑प - सद᳚म् । 24) जु॒हो॒ति॒ प्र॒णुद्य॑ प्र॒णुद्य॑ जुहोति जुहोति प्र॒णुद्य॑ । 25) प्र॒णुद्यै॒वैव प्र॒णुद्य॑ प्र॒णुद्यै॒व । 25) प्र॒णुद्येति॑ प्र - नुद्य॑ । 26) ए॒वैभ्य ए॒भ्य ए॒वैवैभ्यः । 27) ए॒भ्यो लो॒केभ्यो॑ लो॒केभ्य॑ ए॒भ्य ए॒भ्यो लो॒केभ्यः॑ । 28) लो॒केभ्यो॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्यान् ँलो॒केभ्यो॑ लो॒केभ्यो॒ भ्रातृ॑व्यान् । 29) भ्रातृ॑व्यान् जि॒त्वा जि॒त्वा भ्रातृ॑व्या॒-न्भ्रातृ॑व्यान् जि॒त्वा । 30) जि॒त्वा भ्रा॑तृव्यलो॒क-म्भ्रा॑तृव्यलो॒क-ञ्जि॒त्वा जि॒त्वा भ्रा॑तृव्यलो॒कम् । 31) भ्रा॒तृ॒व्य॒लो॒क म॒भ्यारो॑ह त्य॒भ्यारो॑हति भ्रातृव्यलो॒क-म्भ्रा॑तृव्यलो॒क म॒भ्यारो॑हति । 31) भ्रा॒तृ॒व्य॒लो॒कमिति॑ भ्रातृव्य - लो॒कम् । 32) अ॒भ्यारो॑हति दे॒वा दे॒वा अ॒भ्यारो॑ह त्य॒भ्यारो॑हति दे॒वाः । 32) अ॒भ्यारो॑ह॒तीत्य॑भि - आरो॑हति । 33) दे॒वा वै वै दे॒वा दे॒वा वै । 34) वै या या वै वै याः । 35) याः प्रा॒तः प्रा॒त-र्या याः प्रा॒तः । 36) प्रा॒त रु॑प॒सद॑ उप॒सदः॑ प्रा॒तः प्रा॒त रु॑प॒सदः॑ । 37) उ॒प॒सद॑ उ॒पासी॑द-न्नु॒पासी॑द-न्नुप॒सद॑ उप॒सद॑ उ॒पासी॑दन्न् । 37) उ॒प॒सद॒ इत्यु॑प - सदः॑ । 38) उ॒पासी॑द॒-न्नह्नो ऽह्न॑ उ॒पासी॑द-न्नु॒पासी॑द॒-न्नह्नः॑ । 38) उ॒पासी॑द॒न्नित्यु॑प - असी॑दन्न् । 39) अह्न॒ स्ताभि॒ स्ताभि॒ रह्नो ऽह्न॒ स्ताभिः॑ । 40) ताभि॒ रसु॑रा॒ नसु॑रा॒-न्ताभि॒ स्ताभि॒ रसु॑रान् । 41) असु॑रा॒-न्प्र प्रासु॑रा॒ नसु॑रा॒-न्प्र । 42) प्राणु॑दन्ता नुदन्त॒ प्र प्राणु॑दन्त । 43) अ॒नु॒द॒न्त॒ या या अ॑नुदन्ता नुदन्त॒ याः । 44) या-स्सा॒यग्ं सा॒यं-याँ या-स्सा॒यम् । 45) सा॒यग्ं रात्रि॑यै॒ रात्रि॑यै सा॒यग्ं सा॒यग्ं रात्रि॑यै । 46) रात्रि॑यै॒ ताभि॒ स्ताभी॒ रात्रि॑यै॒ रात्रि॑यै॒ ताभिः॑ । 47) ताभि॒-र्य-द्य-त्ताभि॒ स्ताभि॒-र्यत् । 48) य-थ्सा॒यम्प्रा॑त-स्सा॒यम्प्रा॑त॒-र्य-द्य-थ्सा॒यम्प्रा॑तः । 49) सा॒यम्प्रा॑त रुप॒सद॑ उप॒सद॑-स्सा॒यम्प्रा॑त-स्सा॒यम्प्रा॑त रुप॒सदः॑ । 49) सा॒यम्प्रा॑त॒रिति॑ सा॒यम् - प्रा॒तः॒ । 50) उ॒प॒सद॑ उपस॒द्यन्त॑ उपस॒द्यन्त॑ उप॒सद॑ उप॒सद॑ उपस॒द्यन्ते᳚ । 50) उ॒प॒सद॒ इत्यु॑प - सदः॑ । ॥ 17 ॥ (50/62)
1) उ॒प॒स॒द्यन्ते॑ ऽहोरा॒त्राभ्या॑ महोरा॒त्राभ्या॑ मुपस॒द्यन्त॑ उपस॒द्यन्ते॑ ऽहोरा॒त्राभ्या᳚म् । 1) उ॒प॒स॒द्यन्त॒ इत्यु॑प - स॒द्यन्ते᳚ । 2) अ॒हो॒रा॒त्राभ्या॑ मे॒वैवाहो॑रा॒त्राभ्या॑ महोरा॒त्राभ्या॑ मे॒व । 2) अ॒हो॒रा॒त्राभ्या॒मित्य॑हः - रा॒त्राभ्या᳚म् । 3) ए॒व त-त्तदे॒वैव तत् । 4) त-द्यज॑मानो॒ यज॑मान॒ स्त-त्त-द्यज॑मानः । 5) यज॑मानो॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒न्॒. यज॑मानो॒ यज॑मानो॒ भ्रातृ॑व्यान् । 6) भ्रातृ॑व्या॒-न्प्र प्र भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒-न्प्र । 7) प्र णु॑दते नुदते॒ प्र प्र णु॑दते । 8) नु॒द॒ते॒ या या नु॑दते नुदते॒ याः । 9) याः प्रा॒तः प्रा॒त-र्या याः प्रा॒तः । 10) प्रा॒त-र्या॒ज्या॑ या॒ज्याः᳚ प्रा॒तः प्रा॒त-र्या॒ज्याः᳚ । 11) या॒ज्या᳚-स्स्यु-स्स्यु-र्या॒ज्या॑ या॒ज्या᳚-स्स्युः । 12) स्यु स्ता स्ता-स्स्यु-स्स्युस्ताः । 13) ता-स्सा॒यग्ं सा॒य-न्ता स्ता-स्सा॒यम् । 14) सा॒य-म्पु॑रोनुवा॒क्याः᳚ पुरोनुवा॒क्या᳚-स्सा॒यग्ं सा॒य-म्पु॑रोनुवा॒क्याः᳚ । 15) पु॒रो॒नु॒वा॒क्याः᳚ कुर्या-त्कुर्या-त्पुरोनुवा॒क्याः᳚ पुरोनुवा॒क्याः᳚ कुर्यात् । 15) पु॒रो॒नु॒वा॒क्या॑ इति॑ पुरः - अ॒नु॒वा॒क्याः᳚ । 16) कु॒र्या॒ दया॑तयामत्वा॒या या॑तयामत्वाय कुर्या-त्कुर्या॒ दया॑तयामत्वाय । 17) अया॑तयामत्वाय ति॒स्र स्ति॒स्रो ऽया॑तयामत्वा॒या या॑तयामत्वाय ति॒स्रः । 17) अया॑तयामत्वा॒येत्यया॑तयाम - त्वा॒य॒ । 18) ति॒स्र उ॑प॒सद॑ उप॒सद॑ स्ति॒स्र स्ति॒स्र उ॑प॒सदः॑ । 19) उ॒प॒सद॒ उपोपो॑प॒सद॑ उप॒सद॒ उप॑ । 19) उ॒प॒सद॒ इत्यु॑प - सदः॑ । 20) उपै᳚ त्ये॒ त्युपोपै॑ति । 21) ए॒ति॒ त्रय॒ स्त्रय॑ एत्येति॒ त्रयः॑ । 22) त्रय॑ इ॒म इ॒मे त्रय॒ स्त्रय॑ इ॒मे । 23) इ॒मे लो॒का लो॒का इ॒म इ॒मे लो॒काः । 24) लो॒का इ॒मा नि॒मान् ँलो॒का लो॒का इ॒मान् । 25) इ॒मा ने॒वैवे मा नि॒मा ने॒व । 26) ए॒व लो॒कान् ँलो॒का ने॒वैव लो॒कान् । 27) लो॒का-न्प्री॑णाति प्रीणाति लो॒कान् ँलो॒का-न्प्री॑णाति । 28) प्री॒णा॒ति॒ ष-ट्थ्षट् प्री॑णाति प्रीणाति॒ षट् । 29) ष-ट्थ्सग्ं सग्ं ष-ट्थ्ष-ट्थ्सम् । 30) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते । 31) प॒द्य॒न्ते॒ ष-ट्थ्षट् प॑द्यन्ते पद्यन्ते॒ षट् । 32) ष-ड्वै वै ष-ट्थ्ष-ड्वै । 33) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ । 34) ऋ॒तव॑ ऋ॒तू नृ॒तू नृ॒तव॑ ऋ॒तव॑ ऋ॒तून् । 35) ऋ॒तू ने॒वैव र्तू नृ॒तू ने॒व । 36) ए॒व प्री॑णाति प्रीणा त्ये॒वैव प्री॑णाति । 37) प्री॒णा॒ति॒ द्वाद॑श॒ द्वाद॑श प्रीणाति प्रीणाति॒ द्वाद॑श । 38) द्वाद॑शा॒हीने॒ ऽहीने॒ द्वाद॑श॒ द्वाद॑शा॒हीने᳚ । 39) अ॒हीने॒ सोमे॒ सोमे॒ ऽहीने॒ ऽहीने॒ सोमे᳚ । 40) सोम॒ उपोप॒ सोमे॒ सोम॒ उप॑ । 41) उपै᳚त्ये॒ त्युपोपै॑ति । 42) ए॒ति॒ द्वाद॑श॒ द्वाद॑ शैत्येति॒ द्वाद॑श । 43) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ । 44) मासा᳚-स्संवँथ्स॒र-स्सं॑वँथ्स॒रो मासा॒ मासा᳚-स्संवँथ्स॒रः । 45) सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒रग्ं सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रम् । 45) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 46) सं॒वँ॒थ्स॒र मे॒वैव सं॑वँथ्स॒रग्ं सं॑वँथ्स॒र मे॒व । 46) सं॒वँ॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । 47) ए॒व प्री॑णाति प्रीणा त्ये॒वैव प्री॑णाति । 48) प्री॒णा॒ति॒ चतु॑र्विग्ंशति॒ श्चतु॑र्विग्ंशतिः प्रीणाति प्रीणाति॒ चतु॑र्विग्ंशतिः । 49) चतु॑र्विग्ंशति॒-स्सग्ं स-ञ्चतु॑र्विग्ंशति॒ श्चतु॑र्विग्ंशति॒-स्सम् । 49) चतु॑र्विग्ंशति॒रिति॒ चतुः॑ - वि॒ग्ं॒श॒तिः॒ । 50) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते । ॥ 18 ॥ (50/58)
1) प॒द्य॒न्ते॒ चतु॑र्विग्ंशति॒ श्चतु॑र्विग्ंशतिः पद्यन्ते पद्यन्ते॒ चतु॑र्विग्ंशतिः । 2) चतु॑र्विग्ंशति रर्धमा॒सा अ॑र्धमा॒सा श्चतु॑र्विग्ंशति॒ श्चतु॑र्विग्ंशति रर्धमा॒साः । 2) चतु॑र्विग्ंशति॒रिति॒ चतुः॑ - वि॒ग्ं॒श॒तिः॒ । 3) अ॒र्ध॒मा॒सा अ॑र्धमा॒सा न॑र्धमा॒सा न॑र्धमा॒सा अ॑र्धमा॒सा अ॑र्धमा॒सान् । 3) अ॒र्ध॒मा॒सा इत्य॑र्ध - मा॒साः । 4) अ॒र्ध॒मा॒सा ने॒वैवार्ध॑मा॒सा न॑र्धमा॒सा ने॒व । 4) अ॒र्ध॒मा॒सानित्य॑र्ध - मा॒सान् । 5) ए॒व प्री॑णाति प्रीणा त्ये॒वैव प्री॑णाति । 6) प्री॒णा॒ त्यारा᳚ग्रा॒ मारा᳚ग्रा-म्प्रीणाति प्रीणा॒ त्यारा᳚ग्राम् । 7) आरा᳚ग्रा मवान्तरदी॒क्षा म॑वान्तरदी॒क्षा मारा᳚ग्रा॒ मारा᳚ग्रा मवान्तरदी॒क्षाम् । 7) आरा᳚ग्रा॒मित्यारा᳚ - अ॒ग्रा॒म् । 8) अ॒वा॒न्त॒र॒दी॒क्षा मुपोपा॑वान्तरदी॒क्षा म॑वान्तरदी॒क्षा मुप॑ । 8) अ॒वा॒न्त॒र॒दी॒क्षामित्य॑वान्तर - दी॒क्षाम् । 9) उपे॑या दिया॒ दुपोपे॑यात् । 10) इ॒या॒-द्यो य इ॑या दिया॒-द्यः । 11) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त । 12) का॒मये॑ता॒ स्मि-न्न॒स्मिन् का॒मये॑त का॒मये॑ता॒ स्मिन्न् । 13) अ॒स्मि-न्मे॑ मे॒ ऽस्मि-न्न॒स्मि-न्मे᳚ । 14) मे॒ लो॒के लो॒के मे॑ मे लो॒के । 15) लो॒के ऽर्धु॑क॒ मर्धु॑कम् ँलो॒के लो॒के ऽर्धु॑कम् । 16) अर्धु॑कग्ग् स्या-थ्स्या॒ दर्धु॑क॒ मर्धु॑कग्ग् स्यात् । 17) स्या॒ दितीति॑ स्या-थ्स्या॒ दिति॑ । 18) इत्येक॒ मेक॒ मिती त्येक᳚म् । 19) एक॒ मग्रे ऽग्र॒ एक॒ मेक॒ मग्रे᳚ । 20) अग्रे ऽथाथाग्रे ऽग्रे ऽथ॑ । 21) अथ॒ द्वौ द्वा वथाथ॒ द्वौ । 22) द्वा वथाथ॒ द्वौ द्वा वथ॑ । 23) अथ॒ त्रीग् स्त्री नथाथ॒ त्रीन् । 24) त्री नथाथ॒ त्रीग् स्त्री नथ॑ । 25) अथ॑ च॒तुर॑ श्च॒तुरो ऽथाथ॑ च॒तुरः॑ । 26) च॒तुर॑ ए॒षैषा च॒तुर॑ श्च॒तुर॑ ए॒षा । 27) ए॒षा वै वा ए॒षैषा वै । 28) वा आरा॒ग्रा ऽऽरा᳚ग्रा॒ वै वा आरा᳚ग्रा । 29) आरा᳚ग्रा ऽवान्तरदी॒क्षा ऽवा᳚न्तरदी॒क्षा ऽऽरा॒ग्रा ऽऽरा᳚ग्रा ऽवान्तरदी॒क्षा । 29) आरा॒ग्रेत्यारा᳚ - अ॒ग्रा॒ । 30) अ॒वा॒न्त॒र॒दी॒क्षा ऽस्मि-न्न॒स्मि-न्न॑वान्तरदी॒क्षा ऽवा᳚न्तरदी॒क्षा ऽस्मिन्न् । 30) अ॒वा॒न्त॒र॒दी॒क्षेत्य॑वान्तर - दी॒क्षा । 31) अ॒स्मि-न्ने॒वैवास्मि-न्न॒स्मि-न्ने॒व । 32) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 33) अ॒स्मै॒ लो॒के लो॒के᳚ ऽस्मा अस्मै लो॒के । 34) लो॒के ऽर्धु॑क॒ मर्धु॑कम् ँलो॒के लो॒के ऽर्धु॑कम् । 35) अर्धु॑क-म्भवति भव॒ त्यर्धु॑क॒ मर्धु॑क-म्भवति । 36) भ॒व॒ति॒ प॒रोव॑रीयसी-म्प॒रोव॑रीयसी-म्भवति भवति प॒रोव॑रीयसीम् । 37) प॒रोव॑रीयसी मवान्तरदी॒क्षा म॑वान्तरदी॒क्षा-म्प॒रोव॑रीयसी-म्प॒रोव॑रीयसी मवान्तरदी॒क्षाम् । 37) प॒रोव॑रीयसी॒मिति॑ प॒रः - व॒री॒य॒सी॒म् । 38) अ॒वा॒न्त॒र॒दी॒क्षा मुपोपा॑वान्तरदी॒क्षा म॑वान्तरदी॒क्षा मुप॑ । 38) अ॒वा॒न्त॒र॒दी॒क्षामित्य॑वान्तर - दी॒क्षाम् । 39) उपे॑या दिया॒ दुपोपे॑यात् । 40) इ॒या॒-द्यो य इ॑या दिया॒-द्यः । 41) यः का॒मये॑त का॒मये॑त॒ यो यः का॒मये॑त । 42) का॒मये॑ता॒ मुष्मि॑-न्न॒मुष्मि॑न् का॒मये॑त का॒मये॑ता॒ मुष्मिन्न्॑ । 43) अ॒मुष्मि॑-न्मे मे॒ ऽमुष्मि॑-न्न॒मुष्मि॑-न्मे । 44) मे॒ लो॒के लो॒के मे॑ मे लो॒के । 45) लो॒के ऽर्धु॑क॒ मर्धु॑कम् ँलो॒के लो॒के ऽर्धु॑कम् । 46) अर्धु॑कग्ग् स्या-थ्स्या॒ दर्धु॑क॒ मर्धु॑कग्ग् स्यात् । 47) स्या॒ दितीति॑ स्या-थ्स्या॒ दिति॑ । 48) इति॑ च॒तुर॑ श्च॒तुर॒ इतीति॑ च॒तुरः॑ । 49) च॒तुरो ऽग्रे ऽग्रे॑ च॒तुर॑ श्च॒तुरो ऽग्रे᳚ । 50) अग्रे ऽथाथाग्रे ऽग्रे ऽथ॑ । 51) अथ॒ त्रीग् स्त्री नथाथ॒ त्रीन् । 52) त्री नथाथ॒ त्रीग् स्त्री नथ॑ । 53) अथ॒ द्वौ द्वा वथाथ॒ द्वौ । 54) द्वा वथाथ॒ द्वौ द्वा वथ॑ । 55) अथैक॒ मेक॒ मथाथैक᳚म् । 56) एक॑ मे॒षैषैक॒ मेक॑ मे॒षा । 57) ए॒षा वै वा ए॒षैषा वै । 58) वै प॒रोव॑रीयसी प॒रोव॑रीयसी॒ वै वै प॒रोव॑रीयसी । 59) प॒रोव॑रीय स्यवान्तरदी॒क्षा ऽवा᳚न्तरदी॒क्षा प॒रोव॑रीयसी प॒रोव॑रीय स्यवान्तरदी॒क्षा । 59) प॒रोव॑रीय॒सीति॑ प॒रः - व॒री॒य॒सी॒ । 60) अ॒वा॒न्त॒र॒दी॒क्षा ऽमुष्मि॑-न्न॒मुष्मि॑-न्नवान्तरदी॒क्षा ऽवा᳚न्तरदी॒क्षा ऽमुष्मिन्न्॑ । 60) अ॒वा॒न्त॒र॒दी॒क्षेत्य॑वान्तर - दी॒क्षा । 61) अ॒मुष्मि॑-न्ने॒वैवामुष्मि॑-न्न॒मुष्मि॑-न्ने॒व । 62) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 63) अ॒स्मै॒ लो॒के लो॒के᳚ ऽस्मा अस्मै लो॒के । 64) लो॒के ऽर्धु॑क॒ मर्धु॑कम् ँलो॒के लो॒के ऽर्धु॑कम् । 65) अर्धु॑क-म्भवति भव॒ त्यर्धु॑क॒ मर्धु॑क-म्भवति । 66) भ॒व॒तीति॑ भवति । ॥ 19 ॥ (66/77) ॥ अ. 3 ॥
1) सु॒व॒र्गं-वैँ वै सु॑व॒र्गग्ं सु॑व॒र्गं-वैँ । 1) सु॒व॒र्गमिति॑ सुवः - गम् । 2) वा ए॒त ए॒ते वै वा ए॒ते । 3) ए॒ते लो॒कम् ँलो॒क मे॒त ए॒ते लो॒कम् । 4) लो॒कं-यँ॑न्ति यन्ति लो॒कम् ँलो॒कं-यँ॑न्ति । 5) य॒न्ति॒ ये ये य॑न्ति यन्ति॒ ये । 6) य उ॑प॒सद॑ उप॒सदो॒ ये य उ॑प॒सदः॑ । 7) उ॒प॒सद॑ उप॒य न्त्यु॑प॒य न्त्यु॑प॒सद॑ उप॒सद॑ उप॒यन्ति॑ । 7) उ॒प॒सद॒ इत्यु॑प - सदः॑ । 8) उ॒प॒यन्ति॒ तेषा॒-न्तेषा॑ मुप॒य न्त्यु॑प॒यन्ति॒ तेषा᳚म् । 8) उ॒प॒यन्तीयु॑प - यन्ति॑ । 9) तेषां॒-योँ य स्तेषा॒-न्तेषां॒-यः ँ। 10) य उ॒न्नय॑त उ॒न्नय॑ते॒ यो य उ॒न्नय॑ते । 11) उ॒न्नय॑ते॒ हीय॑ते॒ हीय॑त उ॒न्नय॑त उ॒न्नय॑ते॒ हीय॑ते । 11) उ॒न्नय॑त॒ इत्यु॑त् - नय॑ते । 12) हीय॑त ए॒वैव हीय॑ते॒ हीय॑त ए॒व । 13) ए॒व स स ए॒वैव सः । 14) स न न स स न । 15) नोदु-न्न नोत् । 16) उद॑नेष्य ने॒ष्यु दुद॑नेषि । 17) अ॒ने॒षीत् ईत्य॑ नेष्य ने॒षीति॑ । 18) इती॒ सू᳚न्नीय॒ग्ं॒ सू᳚न्नीय॒ मितीती॒ सू᳚न्नीयम् । 19) सू᳚न्नीय मिवे॒व सू᳚न्नीय॒ग्ं॒ सू᳚न्नीय मिव । 19) सू᳚न्नीय॒मिति॒ सु - उ॒न्नी॒य॒म् । 20) इ॒व॒ यो य इ॑वेव॒ यः । 21) यो वै वै यो यो वै । 22) वै स्वा॒र्थेताग्॑ स्वा॒र्थेतां॒-वैँ वै स्वा॒र्थेता᳚म् । 23) स्वा॒र्थेतां᳚-यँ॒तां-यँ॒ताग् स्वा॒र्थेताग्॑ स्वा॒र्थेतां᳚-यँ॒ताम् । 23) स्वा॒र्थेता॒मिति॑ स्वार्थ - इता᳚म् । 24) य॒ताग् श्रा॒न्त-श्श्रा॒न्तो य॒तां-यँ॒ताग् श्रा॒न्तः । 25) श्रा॒न्तो हीय॑ते॒ हीय॑ते श्रा॒न्त-श्श्रा॒न्तो हीय॑ते । 26) हीय॑त उ॒तोत हीय॑ते॒ हीय॑त उ॒त । 27) उ॒त स स उ॒तोत सः । 28) स नि॒ष्ट्याय॑ नि॒ष्ट्याय॒ स स नि॒ष्ट्याय॑ । 29) नि॒ष्ट्याय॑ स॒ह स॒ह नि॒ष्ट्याय॑ नि॒ष्ट्याय॑ स॒ह । 30) स॒ह व॑सति वसति स॒ह स॒ह व॑सति । 31) व॒स॒ति॒ तस्मा॒-त्तस्मा᳚-द्वसति वसति॒ तस्मा᳚त् । 32) तस्मा᳚-थ्स॒कृ-थ्स॒कृ-त्तस्मा॒-त्तस्मा᳚-थ्स॒कृत् । 33) स॒कृ दु॒न्नी यो॒न्नीय॑ स॒कृ-थ्स॒कृ दु॒न्नीय॑ । 34) उ॒न्नीय॒ न नोन्नी यो॒न्नीय॒ न । 34) उ॒न्नीयेत्यु॑त् - नीय॑ । 35) नाप॑र॒ मप॑र॒न्न नाप॑रम् । 36) अप॑र॒ मुदु दप॑र॒ मप॑र॒ मुत् । 37) उ-न्न॑येत नये॒तोदु-न्न॑येत । 38) न॒ये॒त॒ द॒द्ध्ना द॒द्ध्ना न॑येत नयेत द॒द्ध्ना । 39) द॒द्ध्नोदु-द्द॒द्ध्ना द॒द्ध्नोत् । 40) उ-न्न॑येत नये॒तोदु-न्न॑येत । 41) न॒ये॒ तै॒त दे॒त-न्न॑येत नयेतै॒तत् । 42) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 43) वै प॑शू॒ना-म्प॑शू॒नां-वैँ वै प॑शू॒नाम् । 44) प॒शू॒नाग्ं रू॒पग्ं रू॒प-म्प॑शू॒ना-म्प॑शू॒नाग्ं रू॒पम् । 45) रू॒पग्ं रू॒पेण॑ रू॒पेण॑ रू॒पग्ं रू॒पग्ं रू॒पेण॑ । 46) रू॒पेणै॒वैव रू॒पेण॑ रू॒पेणै॒व । 47) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् । 48) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ । 49) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 50) रु॒न्धे॒ य॒ज्ञो य॒ज्ञो रु॑न्धे रुन्धे य॒ज्ञः । ॥ 20 ॥ (50/57)
1) य॒ज्ञो दे॒वेभ्यो॑ दे॒वेभ्यो॑ य॒ज्ञो य॒ज्ञो दे॒वेभ्यः॑ । 2) दे॒वेभ्यो॒ निला॑यत॒ निला॑यत दे॒वेभ्यो॑ दे॒वेभ्यो॒ निला॑यत । 3) निला॑यत॒ विष्णु॒-र्विष्णु॒-र्निला॑यत॒ निला॑यत॒ विष्णुः॑ । 4) विष्णू॑ रू॒पग्ं रू॒पं-विँष्णु॒-र्विष्णू॑ रू॒पम् । 5) रू॒प-ङ्कृ॒त्वा कृ॒त्वा रू॒पग्ं रू॒प-ङ्कृ॒त्वा । 6) कृ॒त्वा स स कृ॒त्वा कृ॒त्वा सः । 7) स पृ॑थि॒वी-म्पृ॑थि॒वीग्ं स स पृ॑थि॒वीम् । 8) पृ॒थि॒वी-म्प्र प्र पृ॑थि॒वी-म्पृ॑थि॒वी-म्प्र । 9) प्रावि॑श दविश॒-त्प्र प्रावि॑शत् । 10) अ॒वि॒श॒-त्त-न्त म॑विश दविश॒-त्तम् । 11) त-न्दे॒वा दे॒वा स्त-न्त-न्दे॒वाः । 12) दे॒वा हस्ता॒न्॒. हस्ता᳚-न्दे॒वा दे॒वा हस्तान्॑ । 13) हस्ता᳚-न्थ्स॒ग्ं॒रभ्य॑ स॒ग्ं॒रभ्य॒ हस्ता॒न्॒. हस्ता᳚-न्थ्स॒ग्ं॒रभ्य॑ । 14) स॒ग्ं॒रभ्यै᳚च्छ-न्नैच्छ-न्थ्स॒ग्ं॒रभ्य॑ स॒ग्ं॒रभ्यै᳚च्छन्न् । 14) स॒ग्ं॒रभ्येति॑ सं - रभ्य॑ । 15) ऐ॒च्छ॒-न्त-न्त मै᳚च्छ-न्नैच्छ॒-न्तम् । 16) त मिन्द्र॒ इन्द्र॒ स्त-न्त मिन्द्रः॑ । 17) इन्द्र॑ उ॒पर्यु॑प-र्यु॒पर्यु॑प॒ रीन्द्र॒ इन्द्र॑ उ॒पर्यु॑परि । 18) उ॒पर्यु॑प॒-र्यत्य त्यु॒पर्यु॑प-र्यु॒पर्यु॑प॒-र्यति॑ । 18) उ॒पर्यु॑प॒रीत्यु॒परि॑ - उ॒प॒रि॒ । 19) अत्य॑क्राम दक्राम॒ दत्य त्य॑क्रामत् । 20) अ॒क्रा॒म॒-थ्स सो᳚ ऽक्राम दक्राम॒-थ्सः । 21) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् । 22) अ॒ब्र॒वी॒-त्कः को᳚ ऽब्रवी दब्रवी॒-त्कः । 23) को मा॑ मा॒ कः को मा᳚ । 24) मा॒ ऽय म॒य-म्मा॑ मा॒ ऽयम् । 25) अ॒य मु॒पर्यु॑प-र्यु॒पर्यु॑प-र्य॒य म॒य मु॒पर्यु॑परि । 26) उ॒पर्यु॑प॒-र्यत्य त्यु॒पर्यु॑प-र्यु॒पर्यु॑प॒-र्यति॑ । 26) उ॒पर्यु॑प॒रीत्यु॒परि॑ - उ॒प॒रि॒ । 27) अत्य॑क्रमी दक्रमी॒ दत्य त्य॑क्रमीत् । 28) अ॒क्र॒मी॒ दिती त्य॑क्रमी दक्रमी॒ दिति॑ । 29) इत्य॒ह म॒ह मिती त्य॒हम् । 30) अ॒ह-न्दु॒र्गे दु॒र्गे॑ ऽह म॒ह-न्दु॒र्गे । 31) दु॒र्गे हन्ता॒ हन्ता॑ दु॒र्गे दु॒र्गे हन्ता᳚ । 31) दु॒र्ग इति॑ दुः - गे । 32) हन्तेतीति॒ हन्ता॒ हन्तेति॑ । 33) इत्यथाथे तीत्यथ॑ । 34) अथ॒ कः को ऽथाथ॒ कः । 35) क स्त्व-न्त्व-ङ्कः क स्त्वम् । 36) त्व मितीति॒ त्व-न्त्व मिति॑ । 37) इत्य॒ह म॒ह मिती त्य॒हम् । 38) अ॒ह-न्दु॒र्गा-द्दु॒र्गा द॒ह म॒ह-न्दु॒र्गात् । 39) दु॒र्गा दाह॒र्ता ऽऽह॑र्ता दु॒र्गा-द्दु॒र्गा दाह॑र्ता । 39) दु॒र्गादिति॑ दुः - गात् । 40) आह॒र्तेती त्याह॒र्ता ऽऽह॒र्तेति॑ । 40) आह॒र्तेत्या - ह॒र्ता॒ । 41) इति॒ स स इतीति॒ सः । 42) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् । 43) अ॒ब्र॒वी॒-द्दु॒र्गे दु॒र्गे᳚ ऽब्रवी दब्रवी-द्दु॒र्गे । 44) दु॒र्गे वै वै दु॒र्गे दु॒र्गे वै । 44) दु॒र्ग इति॑ दुः - गे । 45) वै हन्ता॒ हन्ता॒ वै वै हन्ता᳚ । 46) हन्ता॑ ऽवोचथा अवोचथा॒ हन्ता॒ हन्ता॑ ऽवोचथाः । 47) अ॒वो॒च॒था॒ व॒रा॒हो व॑रा॒हो॑ ऽवोचथा अवोचथा वरा॒हः । 48) व॒रा॒हो॑ ऽय म॒यं-वँ॑रा॒हो व॑रा॒हो॑ ऽयम् । 49) अ॒यं-वाँ॑ममो॒षो वा॑ममो॒षो॑ ऽय म॒यं-वाँ॑ममो॒षः । 50) वा॒म॒मो॒ष-स्स॑प्ता॒नाग्ं स॑प्ता॒नां-वाँ॑ममो॒षो वा॑ममो॒ष-स्स॑प्ता॒नाम् । 50) वा॒म॒मो॒ष इति॑ वाम - मो॒षः । ॥ 21 ॥ (50/58)
1) स॒प्ता॒ना-ङ्गि॑री॒णा-ङ्गि॑री॒णाग्ं स॑प्ता॒नाग्ं स॑प्ता॒ना-ङ्गि॑री॒णाम् । 2) गि॒री॒णा-म्प॒रस्ता᳚-त्प॒रस्ता᳚-द्गिरी॒णा-ङ्गि॑री॒णा-म्प॒रस्ता᳚त् । 3) प॒रस्ता᳚-द्वि॒त्तं-विँ॒त्त-म्प॒रस्ता᳚-त्प॒रस्ता᳚-द्वि॒त्तम् । 4) वि॒त्तं-वेँद्यं॒-वेँद्यं॑-विँ॒त्तं-विँ॒त्तं-वेँद्य᳚म् । 5) वेद्य॒ मसु॑राणा॒ मसु॑राणां॒-वेँद्यं॒-वेँद्य॒ मसु॑राणाम् । 6) असु॑राणा-म्बिभर्ति बिभ॒-र्त्यसु॑राणा॒ मसु॑राणा-म्बिभर्ति । 7) बि॒भ॒र्ति॒ त-न्त-म्बि॑भर्ति बिभर्ति॒ तम् । 8) त-ञ्ज॑हि जहि॒ त-न्त-ञ्ज॑हि । 9) ज॒हि॒ यदि॒ यदि॑ जहि जहि॒ यदि॑ । 10) यदि॑ दु॒र्गे दु॒र्गे यदि॒ यदि॑ दु॒र्गे । 11) दु॒र्गे हन्ता॒ हन्ता॑ दु॒र्गे दु॒र्गे हन्ता᳚ । 11) दु॒र्ग इति॑ दुः - गे । 12) हन्ता ऽस्यसि॒ हन्ता॒ हन्ता ऽसि॑ । 13) असीती त्यस्यसीति॑ । 14) इति॒ स स इतीति॒ सः । 15) स द॑र्भपुञ्जी॒ल-न्द॑र्भपुञ्जी॒लग्ं स स द॑र्भपुञ्जी॒लम् । 16) द॒र्भ॒पु॒ञ्जी॒ल मु॒द्वृ ह्यो॒द्वृह्य॑ दर्भपुञ्जी॒ल-न्द॑र्भपुञ्जी॒ल मु॒द्वृह्य॑ । 16) द॒र्भ॒पु॒ञ्जी॒लमिति॑ दर्भ - पु॒ञ्जी॒लम् । 17) उ॒द्वृह्य॑ स॒प्त स॒प्तोद्वृ ह्यो॒द्वृह्य॑ स॒प्त । 17) उ॒द्वृह्येत्यु॑त् - वृह्य॑ । 18) स॒प्त गि॒री-न्गि॒री-न्थ्स॒प्त स॒प्त गि॒रीन् । 19) गि॒री-न्भि॒त्वा भि॒त्वा गि॒री-न्गि॒री-न्भि॒त्वा । 20) भि॒त्वा त-न्त-म्भि॒त्वा भि॒त्वा तम् । 21) त म॑ह-न्नह॒-न्त-न्त म॑हन्न् । 22) अ॒ह॒-न्थ्स सो॑ ऽह-न्नह॒-न्थ्सः । 23) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् । 24) अ॒ब्र॒वी॒-द्दु॒र्गा-द्दु॒र्गा द॑ब्रवी दब्रवी-द्दु॒र्गात् । 25) दु॒र्गा-द्वै वै दु॒र्गा-द्दु॒र्गा-द्वै । 25) दु॒र्गादिति॑ दुः - गात् । 26) वा आह॒र्ता ऽऽह॑र्ता॒ वै वा आह॑र्ता । 27) आह॑र्ता ऽवोचथा अवोचथा॒ आह॒र्ता ऽऽह॑र्ता ऽवोचथाः । 27) आह॒र्तेत्या - ह॒र्ता॒ । 28) अ॒वो॒च॒था॒ ए॒त मे॒त म॑वोचथा अवोचथा ए॒तम् । 29) ए॒त मैत मे॒त मा । 30) आ ह॑र ह॒रा ह॑र । 31) ह॒रे तीति॑ हर ह॒रेति॑ । 32) इति॒ त-न्त मितीति॒ तम् । 33) त मे᳚भ्य एभ्य॒ स्त-न्त मे᳚भ्यः । 34) ए॒भ्यो॒ य॒ज्ञो य॒ज्ञ ए᳚भ्य एभ्यो य॒ज्ञः । 35) य॒ज्ञ ए॒वैव य॒ज्ञो य॒ज्ञ ए॒व । 36) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् । 37) य॒ज्ञ मा य॒ज्ञं-यँ॒ज्ञ मा । 38) आ ऽह॑र दहर॒दा ऽह॑रत् । 39) अ॒ह॒र॒-द्य-द्यद॑हर दहर॒-द्यत् । 40) य-त्त-त्त-द्य-द्य-त्तत् । 41) त-द्वि॒त्तं-विँ॒त्त-न्त-त्त-द्वि॒त्तम् । 42) वि॒त्तं-वेँद्यं॒-वेँद्यं॑-विँ॒त्तं-विँ॒त्तं-वेँद्य᳚म् । 43) वेद्य॒ मसु॑राणा॒ मसु॑राणां॒-वेँद्यं॒-वेँद्य॒ मसु॑राणाम् । 44) असु॑राणा॒ मवि॑न्द॒न्ता वि॑न्द॒न्ता सु॑राणा॒ मसु॑राणा॒ मवि॑न्दन्त । 45) अवि॑न्दन्त॒ त-त्तदवि॑न्द॒न्ता वि॑न्दन्त॒ तत् । 46) तदेक॒ मेक॒-न्त-त्तदेक᳚म् । 47) एकं॒-वेँद्यै॒ वेद्या॒ एक॒ मेकं॒-वेँद्यै᳚ । 48) वेद्यै॑ वेदि॒त्वं-वेँ॑दि॒त्वं-वेँद्यै॒ वेद्यै॑ वेदि॒त्वम् । 49) वे॒दि॒त्व मसु॑राणा॒ मसु॑राणां-वेँदि॒त्वं-वेँ॑दि॒त्व मसु॑राणाम् । 49) वे॒दि॒त्वमिति॑ वेदि - त्वम् । 50) असु॑राणां॒-वैँ वा असु॑राणा॒ मसु॑राणां॒-वैँ । ॥ 22 ॥ (50/56)
1) वा इ॒य मि॒यं-वैँ वा इ॒यम् । 2) इ॒य मग्रे ऽग्र॑ इ॒य मि॒य मग्रे᳚ । 3) अग्र॑ आसी दासी॒ दग्रे ऽग्र॑ आसीत् । 4) आ॒सी॒-द्याव॒-द्याव॑ दासी दासी॒-द्याव॑त् । 5) याव॒ दासी॑न॒ आसी॑नो॒ याव॒-द्याव॒ दासी॑नः । 6) आसी॑नः परा॒पश्य॑ति परा॒पश्य॒ त्यासी॑न॒ आसी॑नः परा॒पश्य॑ति । 7) प॒रा॒पश्य॑ति॒ ताव॒-त्ताव॑-त्परा॒पश्य॑ति परा॒पश्य॑ति॒ ताव॑त् । 7) प॒रा॒पश्य॒तीति॑ परा - पश्य॑ति । 8) ताव॑-द्दे॒वाना᳚-न्दे॒वाना॒-न्ताव॒-त्ताव॑-द्दे॒वाना᳚म् । 9) दे॒वाना॒-न्ते ते दे॒वाना᳚-न्दे॒वाना॒-न्ते । 10) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 11) दे॒वा अ॑ब्रुव-न्नब्रुव-न्दे॒वा दे॒वा अ॑ब्रुवन्न् । 12) अ॒ब्रु॒व॒-न्नस्त्व स्त्व॑ब्रुव-न्नब्रुव॒-न्नस्तु॑ । 13) अस्त्वे॒ वैवास्त्व स्त्वे॒व । 14) ए॒व नो॑ न ए॒वैव नः॑ । 15) नो॒ ऽस्या म॒स्यान्नो॑ नो॒ ऽस्याम् । 16) अ॒स्या मप्य प्य॒स्या म॒स्या मपि॑ । 17) अपीती त्यप्यपीति॑ । 18) इति॒ किय॒-त्किय॒ दितीति॒ किय॑त् । 19) किय॑-द्वो वः॒ किय॒-त्किय॑-द्वः । 20) वो॒ दा॒स्या॒मो॒ दा॒स्या॒मो॒ वो॒ वो॒ दा॒स्या॒मः॒ । 21) दा॒स्या॒म॒ इतीति॑ दास्यामो दास्याम॒ इति॑ । 22) इति॒ याव॒-द्याव॒ दितीति॒ याव॑त् । 23) याव॑दि॒य मि॒यं-याँव॒-द्याव॑ दि॒यम् । 24) इ॒यग्ं स॑लावृ॒की स॑लावृ॒कीय मि॒यग्ं स॑लावृ॒की । 25) स॒ला॒वृ॒की त्रि स्त्रि-स्स॑लावृ॒की स॑लावृ॒की त्रिः । 26) त्रिः प॑रि॒क्राम॑ति परि॒क्राम॑ति॒ त्रि स्त्रिः प॑रि॒क्राम॑ति । 27) प॒रि॒क्राम॑ति॒ ताव॒-त्ताव॑-त्परि॒क्राम॑ति परि॒क्राम॑ति॒ ताव॑त् । 27) प॒रि॒क्राम॒तीति॑ परि - क्राम॑ति । 28) ताव॑-न्नो न॒ स्ताव॒-त्ताव॑-न्नः । 29) नो॒ द॒त्त॒ द॒त्त॒ नो॒ नो॒ द॒त्त॒ । 30) द॒त्ते तीति॑ दत्त द॒त्तेति॑ । 31) इति॒ स स इतीति॒ सः । 32) स इन्द्र॒ इन्द्र॒-स्स स इन्द्रः॑ । 33) इन्द्र॑-स्सलावृ॒की स॑लावृ॒कीन्द्र॒ इन्द्र॑-स्सलावृ॒की । 34) स॒ला॒वृ॒की रू॒पग्ं रू॒पग्ं स॑लावृ॒की स॑लावृ॒की रू॒पम् । 35) रू॒प-ङ्कृ॒त्वा कृ॒त्वा रू॒पग्ं रू॒प-ङ्कृ॒त्वा । 36) कृ॒त्वेमा मि॒मा-ङ्कृ॒त्वा कृ॒त्वेमाम् । 37) इ॒मा-न्त्रि स्त्रि रि॒मा मि॒मा-न्त्रिः । 38) त्रि-स्स॒र्वत॑-स्स॒र्वत॒ स्त्रि स्त्रि-स्स॒र्वतः॑ । 39) स॒र्वतः॒ परि॒ परि॑ स॒र्वत॑-स्स॒र्वतः॒ परि॑ । 40) पर्य॑क्राम दक्राम॒-त्परि॒ पर्य॑क्रामत् । 41) अ॒क्रा॒म॒-त्त-त्तद॑क्राम दक्राम॒-त्तत् । 42) तदि॒मा मि॒मा-न्त-त्तदि॒माम् । 43) इ॒मा म॑विन्दन्ता विन्दन्ते॒ मा मि॒मा म॑विन्दन्त । 44) अ॒वि॒न्द॒न्त॒ य-द्यद॑विन्दन्ता विन्दन्त॒ यत् । 45) यदि॒मा मि॒मां-यँ-द्यदि॒माम् । 46) इ॒मा मवि॑न्द॒न्ता वि॑न्दन्ते॒ मा मि॒मा मवि॑न्दन्त । 47) अवि॑न्दन्त॒ त-त्तदवि॑न्द॒न्ता वि॑न्दन्त॒ तत् । 48) त-द्वेद्यै॒ वेद्यै॒ त-त्त-द्वेद्यै᳚ । 49) वेद्यै॑ वेदि॒त्वं-वेँ॑दि॒त्वं-वेँद्यै॒ वेद्यै॑ वेदि॒त्वम् । 50) वे॒दि॒त्वग्ं सा सा वे॑दि॒त्वं-वेँ॑दि॒त्वग्ं सा । 50) वे॒दि॒त्वमिति॑ वेदि - त्वम् । ॥ 23 ॥ (50/53)
1) सा वै वै सा सा वै । 2) वा इ॒य मि॒यं-वैँ वा इ॒यम् । 3) इ॒यग्ं सर्वा॒ सर्वे॒य मि॒यग्ं सर्वा᳚ । 4) सर्वै॒वैव सर्वा॒ सर्वै॒व । 5) ए॒व वेदि॒-र्वेदि॑ रे॒वैव वेदिः॑ । 6) वेदि॒ रिय॒तीय॑ति॒ वेदि॒-र्वेदि॒ रिय॑ति । 7) इय॑ति शक्ष्यामि शक्ष्या॒मी य॒ती य॑ति शक्ष्यामि । 8) श॒क्ष्या॒मी तीति॑ शक्ष्यामि शक्ष्या॒मीति॑ । 9) इति॒ तु त्वितीति॒ तु । 10) त्वै वै तुत् वै । 11) वा अ॑व॒माया॑ व॒माय॒ वै वा अ॑व॒माय॑ । 12) अ॒व॒माय॑ यजन्ते यजन्ते ऽव॒माया॑ व॒माय॑ यजन्ते । 12) अ॒व॒मायेत्य॑व - माय॑ । 13) य॒ज॒न्ते॒ त्रि॒ग्ं॒श-त्त्रि॒ग्ं॒श-द्य॑जन्ते यजन्ते त्रि॒ग्ं॒शत् । 14) त्रि॒ग्ं॒श-त्प॒दानि॑ प॒दानि॑ त्रि॒ग्ं॒श-त्त्रि॒ग्ं॒श-त्प॒दानि॑ । 15) प॒दानि॑ प॒श्चा-त्प॒श्चा-त्प॒दानि॑ प॒दानि॑ प॒श्चात् । 16) प॒श्चा-त्ति॒रश्ची॑ ति॒रश्ची॑ प॒श्चा-त्प॒श्चा-त्ति॒रश्ची᳚ । 17) ति॒रश्ची॑ भवति भवति ति॒रश्ची॑ ति॒रश्ची॑ भवति । 18) भ॒व॒ति॒ षट्त्रिग्ं॑श॒-थ्षट्त्रिग्ं॑श-द्भवति भवति॒ षट्त्रिग्ं॑शत् । 19) षट्त्रिग्ं॑श॒-त्प्राची॒ प्राची॒ षट्त्रिग्ं॑श॒-थ्षट्त्रिग्ं॑श॒-त्प्राची᳚ । 19) षट्त्रिग्ं॑श॒दिति॒ षट् - त्रि॒ग्ं॒श॒त् । 20) प्राची॒ चतु॑र्विग्ंशति॒ श्चतु॑र्विग्ंशतिः॒ प्राची॒ प्राची॒ चतु॑र्विग्ंशतिः । 21) चतु॑र्विग्ंशतिः पु॒रस्ता᳚-त्पु॒रस्ता॒च् चतु॑र्विग्ंशति॒ श्चतु॑र्विग्ंशतिः पु॒रस्ता᳚त् । 21) चतु॑र्विग्ंशति॒रिति॒ चतुः॑ - वि॒ग्ं॒श॒तिः॒ । 22) पु॒रस्ता᳚-त्ति॒रश्ची॑ ति॒रश्ची॑ पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्ति॒रश्ची᳚ । 23) ति॒रश्ची॒ दश॑दश॒ दश॑दश ति॒रश्ची॑ ति॒रश्ची॒ दश॑दश । 24) दश॑दश॒ सग्ं स-न्दश॑दश॒ दश॑दश॒ सम् । 24) दश॑द॒शेति॒ दश॑ - द॒श॒ । 25) स-म्प॑द्यन्ते पद्यन्ते॒ सग्ं स-म्प॑द्यन्ते । 26) प॒द्य॒न्ते॒ दशा᳚क्षरा॒ दशा᳚क्षरा पद्यन्ते पद्यन्ते॒ दशा᳚क्षरा । 27) दशा᳚क्षरा वि॒रा-ड्वि॒रा-ड्दशा᳚क्षरा॒ दशा᳚क्षरा वि॒राट् । 27) दशा᳚क्ष॒रेति॒ दश॑ - अ॒क्ष॒रा॒ । 28) वि॒रा डन्न॒ मन्नं॑-विँ॒रा-ड्वि॒रा डन्न᳚म् । 28) वि॒राडिति॑ वि - राट् । 29) अन्नं॑-विँ॒रा-ड्वि॒रा डन्न॒ मन्नं॑-विँ॒राट् । 30) वि॒रा-ड्वि॒राजा॑ वि॒राजा॑ वि॒रा-ड्वि॒रा-ड्वि॒राजा᳚ । 30) वि॒राडिति॑ वि - राट् । 31) वि॒राजै॒वैव वि॒राजा॑ वि॒राजै॒व । 31) वि॒राजेति॑ वि - राजा᳚ । 32) ए॒वा न्नाद्य॑ म॒न्नाद्य॑ मे॒वैवा न्नाद्य᳚म् । 33) अ॒न्नाद्य॒ मवावा॒ न्नाद्य॑ म॒न्नाद्य॒ मव॑ । 33) अ॒न्नाद्य॒मित्य॑न्न - अद्य᳚म् । 34) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 35) रु॒न्ध॒ उदु-द्रु॑न्धे रुन्ध॒ उत् । 36) उद्ध॑न्ति ह॒न्त्युदु द्ध॑न्ति । 37) ह॒न्ति॒ य-द्यद्ध॑न्ति हन्ति॒ यत् । 38) यदे॒वैव य-द्यदे॒व । 39) ए॒वास्या॑ अस्या ए॒वैवास्याः᳚ । 40) अ॒स्या॒ अ॒मे॒द्ध्य म॑मे॒द्ध्य म॑स्या अस्या अमे॒द्ध्यम् । 41) अ॒मे॒द्ध्य-न्त-त्तद॑मे॒द्ध्य म॑मे॒द्ध्य-न्तत् । 42) तदपाप॒ त-त्तदप॑ । 43) अप॑ हन्ति ह॒न्त्यपाप॑ हन्ति । 44) ह॒न्त्युदु द्ध॑न्ति ह॒न्त्युत् । 45) उद्ध॑न्ति ह॒न्त्युदु द्ध॑न्ति । 46) ह॒न्ति॒ तस्मा॒-त्तस्मा᳚ द्धन्ति हन्ति॒ तस्मा᳚त् । 47) तस्मा॒ दोष॑धय॒ ओष॑धय॒ स्तस्मा॒-त्तस्मा॒ दोष॑धयः । 48) ओष॑धयः॒ परा॒ परौष॑धय॒ ओष॑धयः॒ परा᳚ । 49) परा॑ भवन्ति भवन्ति॒ परा॒ परा॑ भवन्ति । 50) भ॒व॒न्ति॒ ब॒र्॒हि-र्ब॒र्॒हि-र्भ॑वन्ति भवन्ति ब॒र्॒हिः । 51) ब॒र्॒हि-स्स्तृ॑णाति स्तृणाति ब॒र्॒हि-र्ब॒र्॒हि-स्स्तृ॑णाति । 52) स्तृ॒णा॒ति॒ तस्मा॒-त्तस्मा᳚-थ्स्तृणाति स्तृणाति॒ तस्मा᳚त् । 53) तस्मा॒ दोष॑धय॒ ओष॑धय॒ स्तस्मा॒-त्तस्मा॒ दोष॑धयः । 54) ओष॑धयः॒ पुनः॒ पुन॒ रोष॑धय॒ ओष॑धयः॒ पुनः॑ । 55) पुन॒ रा पुनः॒ पुन॒ रा । 56) आ भ॑वन्ति भव॒न्त्या भ॑वन्ति । 57) भ॒व॒ न्त्युत्त॑र॒ मुत्त॑र-म्भवन्ति भव॒ न्त्युत्त॑रम् । 58) उत्त॑र-म्ब॒र्॒हिषो॑ ब॒र्॒हिष॒ उत्त॑र॒ मुत्त॑र-म्ब॒र्॒हिषः॑ । 58) उत्त॑र॒मित्युत् - त॒र॒म् । 59) ब॒र्॒हिष॑ उत्तरब॒र्॒हि रु॑त्तरब॒र्॒हि-र्ब॒र्॒हिषो॑ ब॒र्॒हिष॑ उत्तरब॒र्॒हिः । 60) उ॒त्त॒र॒ब॒र्॒हि-स्स्तृ॑णाति स्तृणा त्युत्तरब॒र्॒हि रु॑त्तरब॒र्॒हि-स्स्तृ॑णाति । 60) उ॒त्त॒र॒ब॒र्॒हिरित्यु॑त्तर - ब॒र्॒हिः । 61) स्तृ॒णा॒ति॒ प्र॒जाः प्र॒जा-स्स्तृ॑णाति स्तृणाति प्र॒जाः । 62) प्र॒जा वै वै प्र॒जाः प्र॒जा वै । 62) प्र॒जा इति॑ प्र - जाः । 63) वै ब॒र्॒हि-र्ब॒र्॒हि-र्वै वै ब॒र्॒हिः । 64) ब॒र्॒हि-र्यज॑मानो॒ यज॑मानो ब॒र्॒हि-र्ब॒र्॒हि-र्यज॑मानः । 65) यज॑मान उत्तरब॒र्॒हि रु॑त्तरब॒र्॒हि-र्यज॑मानो॒ यज॑मान उत्तरब॒र्॒हिः । 66) उ॒त्त॒र॒ब॒र्॒हि-र्यज॑मानं॒-यँज॑मान मुत्तरब॒र्॒हि रु॑त्तरब॒र्॒हि-र्यज॑मानम् । 66) उ॒त्त॒र॒ब॒र॒ःइरित्यु॑त्तर - ब॒र॒ःइः । 67) यज॑मान मे॒वैव यज॑मानं॒-यँज॑मान मे॒व । 68) ए॒वा य॑जमाना॒ दय॑जमाना दे॒वैवा य॑जमानात् । 69) अय॑जमाना॒ दुत्त॑र॒ मुत्त॑र॒ मय॑जमाना॒ दय॑जमाना॒ दुत्त॑रम् । 70) उत्त॑र-ङ्करोति करो॒ त्युत्त॑र॒ मुत्त॑र-ङ्करोति । 70) उत्त॑र॒मित्युत् - त॒र॒म् । 71) क॒रो॒ति॒ तस्मा॒-त्तस्मा᳚-त्करोति करोति॒ तस्मा᳚त् । 72) तस्मा॒-द्यज॑मानो॒ यज॑मान॒ स्तस्मा॒-त्तस्मा॒-द्यज॑मानः । 73) यज॑मा॒नो ऽय॑जमाना॒ दय॑जमाना॒-द्यज॑मानो॒ यज॑मा॒नो ऽय॑जमानात् । 74) अय॑जमाना॒ दुत्त॑र॒ उत्त॒रो ऽय॑जमाना॒ दय॑जमाना॒ दुत्त॑रः । 75) उत्त॑र॒ इत्युत् - त॒रः॒ । ॥ 24 ॥ (75/89) ॥ अ. 4 ॥
1) य-द्वै वै य-द्य-द्वै । 2) वा अनी॑शा॒नो ऽनी॑शानो॒ वै वा अनी॑शानः । 3) अनी॑शानो भा॒र-म्भा॒र मनी॑शा॒नो ऽनी॑शानो भा॒रम् । 4) भा॒र मा॑द॒त्त आ॑द॒त्ते भा॒र-म्भा॒र मा॑द॒त्ते । 5) आ॒द॒त्ते वि व्या॑द॒त्त आ॑द॒त्ते वि । 5) आ॒द॒त्त इत्या᳚ - द॒त्ते । 6) वि वै वै वि वि वै । 7) वै स स वै वै सः । 8) स लि॑शते लिशते॒ स स लि॑शते । 9) लि॒श॒ते॒ य-द्यल्लि॑शते लिशते॒ यत् । 10) य-द्द्वाद॑श॒ द्वाद॑श॒ य-द्य-द्द्वाद॑श । 11) द्वाद॑श सा॒ह्नस्य॑ सा॒ह्नस्य॒ द्वाद॑श॒ द्वाद॑श सा॒ह्नस्य॑ । 12) सा॒ह्न स्यो॑प॒सद॑ उप॒सद॑-स्सा॒ह्नस्य॑ सा॒ह्न स्यो॑प॒सदः॑ । 12) सा॒ह्नस्येति॑ स - अ॒ह्नस्य॑ । 13) उ॒प॒सद॒-स्स्यु-स्स्यु रु॑प॒सद॑ उप॒सद॒-स्स्युः । 13) उ॒प॒सद॒ इत्यु॑प - सदः॑ । 14) स्यु स्ति॒स्र स्ति॒स्र-स्स्यु-स्स्यु स्ति॒स्रः । 15) ति॒स्रो॑ ऽहीन॑स्या॒ हीन॑स्य ति॒स्र स्ति॒स्रो॑ ऽहीन॑स्य । 16) अ॒हीन॑स्य य॒ज्ञस्य॑ य॒ज्ञस्या॒ हीन॑स्या॒ हीन॑स्य य॒ज्ञस्य॑ । 17) य॒ज्ञस्य॒ विलो॑म॒ विलो॑म य॒ज्ञस्य॑ य॒ज्ञस्य॒ विलो॑म । 18) विलो॑म क्रियेत क्रियेत॒ विलो॑म॒ विलो॑म क्रियेत । 18) विलो॒मेति॒ वि - लो॒म॒ । 19) क्रि॒ये॒त॒ ति॒स्र स्ति॒स्रः क्रि॑येत क्रियेत ति॒स्रः । 20) ति॒स्र ए॒वैव ति॒स्र स्ति॒स्र ए॒व । 21) ए॒व सा॒ह्नस्य॑ सा॒ह्न स्यै॒वैव सा॒ह्नस्य॑ । 22) सा॒ह्न स्यो॑प॒सद॑ उप॒सद॑-स्सा॒ह्नस्य॑ सा॒ह्न स्यो॑प॒सदः॑ । 22) सा॒ह्नस्येति॑ स - अ॒ह्नस्य॑ । 23) उ॒प॒सदो॒ द्वाद॑श॒ द्वाद॑शोप॒सद॑ उप॒सदो॒ द्वाद॑श । 23) उ॒प॒सद॒ इत्यु॑प - सदः॑ । 24) द्वाद॑शा॒ हीन॑स्या॒ हीन॑स्य॒ द्वाद॑श॒ द्वाद॑शा॒ हीन॑स्य । 25) अ॒हीन॑स्य य॒ज्ञस्य॑ य॒ज्ञस्या॒ हीन॑स्या॒ हीन॑स्य य॒ज्ञस्य॑ । 26) य॒ज्ञस्य॑ सवीर्य॒त्वाय॑ सवीर्य॒त्वाय॑ य॒ज्ञस्य॑ य॒ज्ञस्य॑ सवीर्य॒त्वाय॑ । 27) स॒वी॒र्य॒त्वायाथो॒ अथो॑ सवीर्य॒त्वाय॑ सवीर्य॒त्वायाथो᳚ । 27) स॒वी॒र्य॒त्वायेति॑ सवीर्य - त्वाय॑ । 28) अथो॒ सलो॑म॒ सलो॒माथो॒ अथो॒ सलो॑म । 28) अथो॒ इत्यथो᳚ । 29) सलो॑म क्रियते क्रियते॒ सलो॑म॒ सलो॑म क्रियते । 29) सलो॒मेति॒ स - लो॒म॒ । 30) क्रि॒य॒ते॒ व॒थ्सस्य॑ व॒थ्सस्य॑ क्रियते क्रियते व॒थ्सस्य॑ । 31) व॒थ्सस्यैक॒ एको॑ व॒थ्सस्य॑ व॒थ्सस्यैकः॑ । 32) एक॒-स्स्तन॒-स्स्तन॒ एक॒ एक॒-स्स्तनः॑ । 33) स्तनो॑ भा॒गी भा॒गी स्तन॒-स्स्तनो॑ भा॒गी । 34) भा॒गी हि हि भा॒गी भा॒गी हि । 35) हि स स हि हि सः । 36) सो ऽथाथ॒ स सो ऽथ॑ । 37) अथैक॒ मेक॒ मथाथैक᳚म् । 38) एक॒ग्ग्॒ स्तन॒ग्ग्॒ स्तन॒ मेक॒ मेक॒ग्ग्॒ स्तन᳚म् । 39) स्तनं॑-व्रँ॒तं-व्रँ॒तग्ग् स्तन॒ग्ग्॒ स्तनं॑-व्रँ॒तम् । 40) व्र॒त मुपोप॑ व्र॒तं-व्रँ॒त मुप॑ । 41) उपै᳚त्ये॒ त्युपोपै॑ति । 42) ए॒त्यथा थै᳚त्ये॒ त्यथ॑ । 43) अथ॒ द्वौ द्वा वथाथ॒ द्वौ । 44) द्वा वथाथ॒ द्वौ द्वा वथ॑ । 45) अथ॒ त्रीग् स्त्री नथाथ॒ त्रीन् । 46) त्री नथाथ॒ त्रीग् स्त्री नथ॑ । 47) अथ॑ च॒तुर॑ श्च॒तुरो ऽथाथ॑ च॒तुरः॑ । 48) च॒तुर॑ ए॒त दे॒तच् च॒तुर॑ श्च॒तुर॑ ए॒तत् । 49) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 50) वै क्षु॒रप॑वि क्षु॒रप॑वि॒ वै वै क्षु॒रप॑वि । ॥ 25 ॥ (50/59)
1) क्षु॒रप॑वि॒ नाम॒ नाम॑ क्षु॒रप॑वि क्षु॒रप॑वि॒ नाम॑ । 1) क्षु॒रप॒वीति॑ क्षु॒र - प॒वि॒ । 2) नाम॑ व्र॒तं-व्रँ॒त-न्नाम॒ नाम॑ व्र॒तम् । 3) व्र॒तं-येँन॒ येन॑ व्र॒तं-व्रँ॒तं-येँन॑ । 4) येन॒ प्र प्र येन॒ येन॒ प्र । 5) प्र जा॒तान् जा॒ता-न्प्र प्र जा॒तान् । 6) जा॒ता-न्भ्रातृ॑व्या॒-न्भ्रातृ॑व्यान् जा॒तान् जा॒ता-न्भ्रातृ॑व्यान् । 7) भ्रातृ॑व्या-न्नु॒दते॑ नु॒दते॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या-न्नु॒दते᳚ । 8) नु॒दते॒ प्रति॒ प्रति॑ नु॒दते॑ नु॒दते॒ प्रति॑ । 9) प्रति॑ जनि॒ष्यमा॑णान् जनि॒ष्यमा॑णा॒-न्प्रति॒ प्रति॑ जनि॒ष्यमा॑णान् । 10) ज॒नि॒ष्यमा॑णा॒ नथो॒ अथो॑ जनि॒ष्यमा॑णान् जनि॒ष्यमा॑णा॒ नथो᳚ । 11) अथो॒ कनी॑यसा॒ कनी॑य॒सा ऽथो॒ अथो॒ कनी॑यसा । 11) अथो॒ इत्यथो᳚ । 12) कनी॑य सै॒वैव कनी॑यसा॒ कनी॑य सै॒व । 13) ए॒व भूयो॒ भूय॑ ए॒वैव भूयः॑ । 14) भूय॒ उपोप॒ भूयो॒ भूय॒ उप॑ । 15) उपै᳚त्ये॒ त्युपोपै॑ति । 16) ए॒ति॒ च॒तुर॑ श्च॒तुर॑ एत्येति च॒तुरः॑ । 17) च॒तुरो ऽग्रे ऽग्रे॑ च॒तुर॑ श्च॒तुरो ऽग्रे᳚ । 18) अग्रे॒ स्तना॒-न्थ्स्तना॒ नग्रे ऽग्रे॒ स्तनान्॑ । 19) स्तना᳚न् व्र॒तं-व्रँ॒तग्ग् स्तना॒-न्थ्स्तना᳚न् व्र॒तम् । 20) व्र॒त मुपोप॑ व्र॒तं-व्रँ॒त मुप॑ । 21) उपै᳚त्ये॒ त्युपोपै॑ति । 22) ए॒त्यथा थै᳚त्ये॒ त्यथ॑ । 23) अथ॒ त्रीग् स्त्री नथाथ॒ त्रीन् । 24) त्री नथाथ॒ त्रीग् स्त्री नथ॑ । 25) अथ॒ द्वौ द्वा वथाथ॒ द्वौ । 26) द्वा वथाथ॒ द्वौ द्वा वथ॑ । 27) अथैक॒ मेक॒ मथाथैक᳚म् । 28) एक॑ मे॒त दे॒त देक॒ मेक॑ मे॒तत् । 29) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 30) वै सु॑जघ॒नग्ं सु॑जघ॒नं-वैँ वै सु॑जघ॒नम् । 31) सु॒ज॒घ॒न-न्नाम॒ नाम॑ सुजघ॒नग्ं सु॑जघ॒न-न्नाम॑ । 31) सु॒ज॒घ॒नमिति॑ सु - ज॒घ॒नम् । 32) नाम॑ व्र॒तं-व्रँ॒त-न्नाम॒ नाम॑ व्र॒तम् । 33) व्र॒त-न्त॑प॒स्य॑-न्तप॒स्यं॑-व्रँ॒तं-व्रँ॒त-न्त॑प॒स्य᳚म् । 34) त॒प॒स्यग्ं॑ सुव॒र्ग्यग्ं॑ सुव॒र्ग्य॑-न्तप॒स्य॑-न्तप॒स्यग्ं॑ सुव॒र्ग्य᳚म् । 35) सु॒व॒र्ग्य॑ मथो॒ अथो॑ सुव॒र्ग्यग्ं॑ सुव॒र्ग्य॑ मथो᳚ । 35) सु॒व॒र्ग्य॑मिति॑ सुवः - ग्य᳚म् । 36) अथो॒ प्र प्राथो॒ अथो॒ प्र । 36) अथो॒ इत्यथो᳚ । 37) प्रैवैव प्र प्रैव । 38) ए॒व जा॑यते जायत ए॒वैव जा॑यते । 39) जा॒य॒ते॒ प्र॒जया᳚ प्र॒जया॑ जायते जायते प्र॒जया᳚ । 40) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ । 40) प्र॒जयेति॑ प्र - जया᳚ । 41) प॒शुभि॑-र्यवा॒गू-र्य॑वा॒गूः प॒शुभिः॑ प॒शुभि॑-र्यवा॒गूः । 41) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 42) य॒वा॒गू रा॑ज॒न्य॑स्य राज॒न्य॑स्य यवा॒गू-र्य॑वा॒गू रा॑ज॒न्य॑स्य । 43) रा॒ज॒न्य॑स्य व्र॒तं-व्रँ॒तग्ं रा॑ज॒न्य॑स्य राज॒न्य॑स्य व्र॒तम् । 44) व्र॒त-ङ्क्रू॒रा क्रू॒रा व्र॒तं-व्रँ॒त-ङ्क्रू॒रा । 45) क्रू॒रेवे॑व क्रू॒रा क्रू॒रेव॑ । 46) इ॒व॒ वै वा इ॑वेव॒ वै । 47) वै य॑वा॒गू-र्य॑वा॒गू-र्वै वै य॑वा॒गूः । 48) य॒वा॒गूः क्रू॒रः क्रू॒रो य॑वा॒गू-र्य॑वा॒गूः क्रू॒रः । 49) क्रू॒र इ॑वेव क्रू॒रः क्रू॒र इ॑व । 50) इ॒व॒ रा॒ज॒न्यो॑ राज॒न्य॑ इवेव राज॒न्यः॑ । ॥ 26 ॥ (50/57)
1) रा॒ज॒न्यो॑ वज्र॑स्य॒ वज्र॑स्य राज॒न्यो॑ राज॒न्यो॑ वज्र॑स्य । 2) वज्र॑स्य रू॒पग्ं रू॒पं-वँज्र॑स्य॒ वज्र॑स्य रू॒पम् । 3) रू॒पग्ं समृ॑द्ध्यै॒ समृ॑द्ध्यै रू॒पग्ं रू॒पग्ं समृ॑द्ध्यै । 4) समृ॑द्ध्या आ॒मिक्षा॒ ऽऽमिक्षा॒ समृ॑द्ध्यै॒ समृ॑द्ध्या आ॒मिक्षा᳚ । 4) समृ॑द्ध्या॒ इति॒ सं - ऋ॒द्ध्यै॒ । 5) आ॒मिक्षा॒ वैश्य॑स्य॒ वैश्य॑स्या॒ मिक्षा॒ ऽऽमिक्षा॒ वैश्य॑स्य । 6) वैश्य॑स्य पाकय॒ज्ञस्य॑ पाकय॒ज्ञस्य॒ वैश्य॑स्य॒ वैश्य॑स्य पाकय॒ज्ञस्य॑ । 7) पा॒क॒य॒ज्ञस्य॑ रू॒पग्ं रू॒प-म्पा॑कय॒ज्ञस्य॑ पाकय॒ज्ञस्य॑ रू॒पम् । 7) पा॒क॒य॒ज्ञस्येति॑ पाक - य॒ज्ञस्य॑ । 8) रू॒प-म्पुष्ट्यै॒ पुष्ट्यै॑ रू॒पग्ं रू॒प-म्पुष्ट्यै᳚ । 9) पुष्ट्यै॒ पयः॒ पयः॒ पुष्ट्यै॒ पुष्ट्यै॒ पयः॑ । 10) पयो᳚ ब्राह्म॒णस्य॑ ब्राह्म॒णस्य॒ पयः॒ पयो᳚ ब्राह्म॒णस्य॑ । 11) ब्रा॒ह्म॒णस्य॒ तेज॒ स्तेजो᳚ ब्राह्म॒णस्य॑ ब्राह्म॒णस्य॒ तेजः॑ । 12) तेजो॒ वै वै तेज॒ स्तेजो॒ वै । 13) वै ब्रा᳚ह्म॒णो ब्रा᳚ह्म॒णो वै वै ब्रा᳚ह्म॒णः । 14) ब्रा॒ह्म॒ण स्तेज॒ स्तेजो᳚ ब्राह्म॒णो ब्रा᳚ह्म॒ण स्तेजः॑ । 15) तेजः॒ पयः॒ पय॒ स्तेज॒ स्तेजः॒ पयः॑ । 16) पय॒ स्तेज॑सा॒ तेज॑सा॒ पयः॒ पय॒ स्तेज॑सा । 17) तेज॑सै॒वैव तेज॑सा॒ तेज॑सै॒व । 18) ए॒व तेज॒ स्तेज॑ ए॒वैव तेजः॑ । 19) तेजः॒ पयः॒ पय॒ स्तेज॒ स्तेजः॒ पयः॑ । 20) पय॑ आ॒त्म-न्ना॒त्म-न्पयः॒ पय॑ आ॒त्मन्न् । 21) आ॒त्म-न्ध॑त्ते धत्त आ॒त्म-न्ना॒त्म-न्ध॑त्ते । 22) ध॒त्ते ऽथो॒ अथो॑ धत्ते ध॒त्ते ऽथो᳚ । 23) अथो॒ पय॑सा॒ पय॒सा ऽथो॒ अथो॒ पय॑सा । 23) अथो॒ इत्यथो᳚ । 24) पय॑सा॒ वै वै पय॑सा॒ पय॑सा॒ वै । 25) वै गर्भा॒ गर्भा॒ वै वै गर्भाः᳚ । 26) गर्भा॑ वर्धन्ते वर्धन्ते॒ गर्भा॒ गर्भा॑ वर्धन्ते । 27) व॒र्ध॒न्ते॒ गर्भो॒ गर्भो॑ वर्धन्ते वर्धन्ते॒ गर्भः॑ । 28) गर्भ॑ इवेव॒ गर्भो॒ गर्भ॑ इव । 29) इ॒व॒ खलु॒ खल्वि॑वेव॒ खलु॑ । 30) खलु॒ वै वै खलु॒ खलु॒ वै । 31) वा ए॒ष ए॒ष वै वा ए॒षः । 32) ए॒ष य-द्यदे॒ष ए॒ष यत् । 33) य-द्दी᳚क्षि॒तो दी᳚क्षि॒तो य-द्य-द्दी᳚क्षि॒तः । 34) दी॒क्षि॒तो य-द्य-द्दी᳚क्षि॒तो दी᳚क्षि॒तो यत् । 35) यद॑स्यास्य॒ य-द्यद॑स्य । 36) अ॒स्य॒ पयः॒ पयो᳚ ऽस्यास्य॒ पयः॑ । 37) पयो᳚ व्र॒तं-व्रँ॒त-म्पयः॒ पयो᳚ व्र॒तम् । 38) व्र॒त-म्भव॑ति॒ भव॑ति व्र॒तं-व्रँ॒त-म्भव॑ति । 39) भव॑ त्या॒त्मान॑ मा॒त्मान॒-म्भव॑ति॒ भव॑ त्या॒त्मान᳚म् । 40) आ॒त्मान॑ मे॒वैवात्मान॑ मा॒त्मान॑ मे॒व । 41) ए॒व त-त्तदे॒वैव तत् । 42) त-द्व॑र्धयति वर्धयति॒ त-त्त-द्व॑र्धयति । 43) व॒र्ध॒य॒ति॒ त्रिव्र॑त॒ स्त्रिव्र॑तो वर्धयति वर्धयति॒ त्रिव्र॑तः । 44) त्रिव्र॑तो॒ वै वै त्रिव्र॑त॒ स्त्रिव्र॑तो॒ वै । 44) त्रिव्र॑त॒ इति॒ त्रि - व्र॒तः॒ । 45) वै मनु॒-र्मनु॒-र्वै वै मनुः॑ । 46) मनु॑ रासी दासी॒-न्मनु॒-र्मनु॑ रासीत् । 47) आ॒सी॒-द्द्विव्र॑ता॒ द्विव्र॑ता आसी दासी॒-द्द्विव्र॑ताः । 48) द्विव्र॑ता॒ असु॑रा॒ असु॑रा॒ द्विव्र॑ता॒ द्विव्र॑ता॒ असु॑राः । 48) द्विव्र॑ता॒ इति॒ द्वि - व्र॒ताः॒ । 49) असु॑रा॒ एक॑व्रता॒ एक॑व्रता॒ असु॑रा॒ असु॑रा॒ एक॑व्रताः । 50) एक॑व्रता दे॒वा दे॒वा एक॑व्रता॒ एक॑व्रता दे॒वाः । 50) एक॑व्रता॒ इत्येक॑ - व्र॒ताः॒ । ॥ 27 ॥ (50/56)
1) दे॒वाः प्रा॒तः प्रा॒त-र्दे॒वा दे॒वाः प्रा॒तः । 2) प्रा॒त-र्म॒द्ध्यन्दि॑ने म॒द्ध्यन्दि॑ने प्रा॒तः प्रा॒त-र्म॒द्ध्यन्दि॑ने । 3) म॒द्ध्यन्दि॑ने सा॒यग्ं सा॒य-म्म॒द्ध्यन्दि॑ने म॒द्ध्यन्दि॑ने सा॒यम् । 4) सा॒य-न्त-त्त-थ्सा॒यग्ं सा॒य-न्तत् । 5) त-न्मनो॒-र्मनो॒ स्त-त्त-न्मनोः᳚ । 6) मनो᳚-र्व्र॒तं-व्रँ॒त-म्मनो॒-र्मनो᳚-र्व्र॒तम् । 7) व्र॒त मा॑सी दासी-द्व्र॒तं-व्रँ॒त मा॑सीत् । 8) आ॒सी॒-त्पा॒क॒य॒ज्ञस्य॑ पाकय॒ज्ञस्या॑सी दासी-त्पाकय॒ज्ञस्य॑ । 9) पा॒क॒य॒ज्ञस्य॑ रू॒पग्ं रू॒प-म्पा॑कय॒ज्ञस्य॑ पाकय॒ज्ञस्य॑ रू॒पम् । 9) पा॒क॒य॒ज्ञस्येति॑ पाक - य॒ज्ञस्य॑ । 10) रू॒प-म्पुष्ट्यै॒ पुष्ट्यै॑ रू॒पग्ं रू॒प-म्पुष्ट्यै᳚ । 11) पुष्ट्यै᳚ प्रा॒तः प्रा॒तः पुष्ट्यै॒ पुष्ट्यै᳚ प्रा॒तः । 12) प्रा॒तश्च॑ च प्रा॒तः प्रा॒तश्च॑ । 13) च॒ सा॒यग्ं सा॒य-ञ्च॑ च सा॒यम् । 14) सा॒य-ञ्च॑ च सा॒यग्ं सा॒य-ञ्च॑ । 15) चासु॑राणा॒ मसु॑राणा-ञ्च॒ चासु॑राणाम् । 16) असु॑राणा-न्निर्म॒द्ध्य-न्नि॑र्म॒द्ध्य मसु॑राणा॒ मसु॑राणा-न्निर्म॒द्ध्यम् । 17) नि॒र्म॒द्ध्य-ङ्क्षु॒धः, क्षु॒धो नि॑र्म॒द्ध्य-न्नि॑र्म॒द्ध्य-ङ्क्षु॒धः । 17) नि॒र्म॒द्ध्यमिति॑ निः - म॒द्ध्यम् । 18) क्षु॒धो रू॒पग्ं रू॒प-ङ्क्षु॒धः, क्षु॒धो रू॒पम् । 19) रू॒प-न्तत॒ स्ततो॑ रू॒पग्ं रू॒प-न्ततः॑ । 20) तत॒स्ते ते तत॒ स्तत॒ स्ते । 21) ते परा॒ परा॒ ते ते परा᳚ । 22) परा॑ ऽभव-न्नभव॒-न्परा॒ परा॑ ऽभवन्न् । 23) अ॒भ॒व॒-न्म॒द्ध्यन्दि॑ने म॒द्ध्यन्दि॑ने ऽभव-न्नभव-न्म॒द्ध्यन्दि॑ने । 24) म॒द्ध्यन्दि॑ने मद्ध्यरा॒त्रे म॑द्ध्यरा॒त्रे म॒द्ध्यन्दि॑ने म॒द्ध्यन्दि॑ने मद्ध्यरा॒त्रे । 25) म॒द्ध्य॒रा॒त्रे दे॒वाना᳚-न्दे॒वाना᳚-म्मद्ध्यरा॒त्रे म॑द्ध्यरा॒त्रे दे॒वाना᳚म् । 25) म॒द्ध्य॒रा॒त्र इति॑ मद्ध्य - रा॒त्रे । 26) दे॒वाना॒-न्तत॒ स्ततो॑ दे॒वाना᳚-न्दे॒वाना॒-न्ततः॑ । 27) तत॒ स्ते ते तत॒ स्तत॒ स्ते । 28) ते॑ ऽभव-न्नभव॒-न्ते ते॑ ऽभवन्न् । 29) अ॒भ॒व॒-न्थ्सु॒व॒र्गग्ं सु॑व॒र्ग म॑भव-न्नभव-न्थ्सुव॒र्गम् । 30) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 30) सु॒व॒र्गमिति॑ सुवः - गम् । 31) लो॒क मा॑य-न्नायन् ँलो॒कम् ँलो॒क मा॑यन्न् । 32) आ॒य॒न्॒. य-द्यदा॑य-न्नाय॒न्॒. यत् । 33) यद॑स्यास्य॒ य-द्यद॑स्य । 34) अ॒स्य॒ म॒द्ध्यन्दि॑ने म॒द्ध्यन्दि॑ने ऽस्यास्य म॒द्ध्यन्दि॑ने । 35) म॒द्ध्यन्दि॑ने मद्ध्यरा॒त्रे म॑द्ध्यरा॒त्रे म॒द्ध्यन्दि॑ने म॒द्ध्यन्दि॑ने मद्ध्यरा॒त्रे । 36) म॒द्ध्य॒रा॒त्रे व्र॒तं-व्रँ॒त-म्म॑द्ध्यरा॒त्रे म॑द्ध्यरा॒त्रे व्र॒तम् । 36) म॒द्ध्य॒रा॒त्र इति॑ मद्ध्य - रा॒त्रे । 37) व्र॒त-म्भव॑ति॒ भव॑ति व्र॒तं-व्रँ॒त-म्भव॑ति । 38) भव॑ति मद्ध्य॒तो म॑द्ध्य॒तो भव॑ति॒ भव॑ति मद्ध्य॒तः । 39) म॒द्ध्य॒तो वै वै म॑द्ध्य॒तो म॑द्ध्य॒तो वै । 40) वा अन्ने॒ना न्ने॑न॒ वै वा अन्ने॑न । 41) अन्ने॑न भुञ्जते भुञ्ज॒ते ऽन्ने॒ना न्ने॑न भुञ्जते । 42) भु॒ञ्ज॒ते॒ म॒द्ध्य॒तो म॑द्ध्य॒तो भु॑ञ्जते भुञ्जते मद्ध्य॒तः । 43) म॒द्ध्य॒त ए॒वैव म॑द्ध्य॒तो म॑द्ध्य॒त ए॒व । 44) ए॒व त-त्तदे॒वैव तत् । 45) तदूर्ज॒ मूर्ज॒-न्त-त्तदूर्ज᳚म् । 46) ऊर्ज॑-न्धत्ते धत्त॒ ऊर्ज॒ मूर्ज॑-न्धत्ते । 47) ध॒त्ते॒ भ्रातृ॑व्याभिभूत्यै॒ भ्रातृ॑व्याभिभूत्यै धत्ते धत्ते॒ भ्रातृ॑व्याभिभूत्यै । 48) भ्रातृ॑व्याभिभूत्यै॒ भव॑ति॒ भव॑ति॒ भ्रातृ॑व्याभिभूत्यै॒ भ्रातृ॑व्याभिभूत्यै॒ भव॑ति । 48) भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य - अ॒भि॒भू॒त्यै॒ । 49) भव॑ त्या॒त्मना॒ ऽऽत्मना॒ भव॑ति॒ भव॑ त्या॒त्मना᳚ । 50) आ॒त्मना॒ परा॒ परा॒ ऽऽत्मना॒ ऽऽत्मना॒ परा᳚ । ॥ 28 ॥ (50/56)
1) परा᳚ ऽस्यास्य॒ परा॒ परा᳚ ऽस्य । 2) अ॒स्य॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो ऽस्यास्य॒ भ्रातृ॑व्यः । 3) भ्रातृ॑व्यो भवति भवति॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्यो भवति । 4) भ॒व॒ति॒ गर्भो॒ गर्भो॑ भवति भवति॒ गर्भः॑ । 5) गर्भो॒ वै वै गर्भो॒ गर्भो॒ वै । 6) वा ए॒ष ए॒ष वै वा ए॒षः । 7) ए॒ष य-द्यदे॒ष ए॒ष यत् । 8) य-द्दी᳚क्षि॒तो दी᳚क्षि॒तो य-द्य-द्दी᳚क्षि॒तः । 9) दी॒क्षि॒तो योनि॒-र्योनि॑-र्दीक्षि॒तो दी᳚क्षि॒तो योनिः॑ । 10) योनि॑-र्दीक्षितविमि॒त-न्दी᳚क्षितविमि॒तं-योँनि॒-र्योनि॑-र्दीक्षितविमि॒तम् । 11) दी॒क्षि॒त॒वि॒मि॒तं-यँ-द्य-द्दी᳚क्षितविमि॒त-न्दी᳚क्षितविमि॒तं-यँत् । 11) दी॒क्षि॒त॒वि॒मि॒तमिति॑ दीक्षित - वि॒मि॒तम् । 12) य-द्दी᳚क्षि॒तो दी᳚क्षि॒तो य-द्य-द्दी᳚क्षि॒तः । 13) दी॒क्षि॒तो दी᳚क्षितविमि॒ता-द्दी᳚क्षितविमि॒ता-द्दी᳚क्षि॒तो दी᳚क्षि॒तो दी᳚क्षितविमि॒तात् । 14) दी॒क्षि॒त॒वि॒मि॒ता-त्प्र॒वसे᳚-त्प्र॒वसे᳚-द्दीक्षितविमि॒ता-द्दी᳚क्षितविमि॒ता-त्प्र॒वसे᳚त् । 14) दी॒क्षि॒त॒वि॒मि॒तादिति॑ दीक्षित - वि॒मि॒तात् । 15) प्र॒वसे॒-द्यथा॒ यथा᳚ प्र॒वसे᳚-त्प्र॒वसे॒-द्यथा᳚ । 15) प्र॒वसे॒दिति॑ प्र - वसे᳚त् । 16) यथा॒ योने॒-र्योने॒-र्यथा॒ यथा॒ योनेः᳚ । 17) योने॒-र्गर्भो॒ गर्भो॒ योने॒-र्योने॒-र्गर्भः॑ । 18) गर्भ॒-स्स्कन्द॑ति॒ स्कन्द॑ति॒ गर्भो॒ गर्भ॒-स्स्कन्द॑ति । 19) स्कन्द॑ति ता॒दृ-क्ता॒दृ-ख्स्कन्द॑ति॒ स्कन्द॑ति ता॒दृक् । 20) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व । 21) ए॒व त-त्तदे॒वैव तत् । 22) त-न्न न त-त्त-न्न । 23) न प्र॑वस्त॒व्य॑-म्प्रवस्त॒व्य॑-न्न न प्र॑वस्त॒व्य᳚म् । 24) प्र॒व॒स्त॒व्य॑ मा॒त्मन॑ आ॒त्मनः॑ प्रवस्त॒व्य॑-म्प्रवस्त॒व्य॑ मा॒त्मनः॑ । 24) प्र॒व॒स्त॒व्य॑मिति॑ प्र - व॒स्त॒व्य᳚म् । 25) आ॒त्मनो॑ गोपी॒थाय॑ गोपी॒थाया॒ त्मन॑ आ॒त्मनो॑ गोपी॒थाय॑ । 26) गो॒पी॒था यै॒ष ए॒ष गो॑पी॒थाय॑ गोपी॒था यै॒षः । 27) ए॒ष वै वा ए॒ष ए॒ष वै । 28) वै व्या॒घ्रो व्या॒घ्रो वै वै व्या॒घ्रः । 29) व्या॒घ्रः कु॑लगो॒पः कु॑लगो॒पो व्या॒घ्रो व्या॒घ्रः कु॑लगो॒पः । 30) कु॒ल॒गो॒पो य-द्य-त्कु॑लगो॒पः कु॑लगो॒पो यत् । 30) कु॒ल॒गो॒प इति॑ कुल - गो॒पः । 31) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः । 32) अ॒ग्नि स्तस्मा॒-त्तस्मा॑ द॒ग्नि र॒ग्नि स्तस्मा᳚त् । 33) तस्मा॒-द्य-द्य-त्तस्मा॒-त्तस्मा॒-द्यत् । 34) य-द्दी᳚क्षि॒तो दी᳚क्षि॒तो य-द्य-द्दी᳚क्षि॒तः । 35) दी॒क्षि॒तः प्र॒वसे᳚-त्प्र॒वसे᳚-द्दीक्षि॒तो दी᳚क्षि॒तः प्र॒वसे᳚त् । 36) प्र॒वसे॒-थ्स स प्र॒वसे᳚-त्प्र॒वसे॒-थ्सः । 36) प्र॒वसे॒दिति॑ प्र - वसे᳚त् । 37) स ए॑न मेन॒ग्ं॒ स स ए॑नम् । 38) ए॒न॒ मी॒श्व॒र ई᳚श्व॒र ए॑न मेन मीश्व॒रः । 39) ई॒श्व॒रो॑ ऽनू॒त्थाया॑ नू॒त्था ये᳚श्व॒र ई᳚श्व॒रो॑ ऽनू॒त्थाय॑ । 40) अ॒नू॒त्थाय॒ हन्तो॒र्॒ हन्तो॑ रनू॒त्थाया॑ नू॒त्थाय॒ हन्तोः᳚ । 40) अ॒नू॒त्थायेत्य॑नु - उ॒त्थाय॑ । 41) हन्तो॒-र्न न हन्तो॒र्॒ हन्तो॒-र्न । 42) न प्र॑वस्त॒व्य॑-म्प्रवस्त॒व्य॑-न्न न प्र॑वस्त॒व्य᳚म् । 43) प्र॒व॒स्त॒व्य॑ मा॒त्मन॑ आ॒त्मनः॑ प्रवस्त॒व्य॑-म्प्रवस्त॒व्य॑ मा॒त्मनः॑ । 43) प्र॒व॒स्त॒व्य॑मिति॑ प्र - व॒स्त॒व्य᳚म् । 44) आ॒त्मनो॒ गुप्त्यै॒ गुप्त्या॑ आ॒त्मन॑ आ॒त्मनो॒ गुप्त्यै᳚ । 45) गुप्त्यै॑ दक्षिण॒तो द॑क्षिण॒तो गुप्त्यै॒ गुप्त्यै॑ दक्षिण॒तः । 46) द॒क्षि॒ण॒त-श्श॑ये शये दक्षिण॒तो द॑क्षिण॒त-श्श॑ये । 47) श॒य॒ ए॒त दे॒त च्छ॑ये शय ए॒तत् । 48) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 49) वै यज॑मानस्य॒ यज॑मानस्य॒ वै वै यज॑मानस्य । 50) यज॑मानस्या॒ यत॑न मा॒यत॑नं॒-यँज॑मानस्य॒ यज॑मानस्या॒ यत॑नम् । 51) आ॒यत॑न॒ग्ग्॒ स्वे स्व आ॒यत॑न मा॒यत॑न॒ग्ग्॒ स्वे । 51) आ॒यत॑न॒मित्या᳚ - यत॑नम् । 52) स्व ए॒वैव स्वे स्व ए॒व । 53) ए॒वायत॑न आ॒यत॑न ए॒वैवायत॑ने । 54) आ॒यत॑ने शये शय आ॒यत॑न आ॒यत॑ने शये । 54) आ॒यत॑न॒ इत्या᳚ - यत॑ने । 55) श॒ये॒ ऽग्नि म॒ग्निग्ं श॑ये शये॒ ऽग्निम् । 56) अ॒ग्नि म॑भ्या॒वृत्या᳚ भ्या॒वृत्या॒ग्नि म॒ग्नि म॑भ्या॒वृत्य॑ । 57) अ॒भ्या॒वृत्य॑ शये शये ऽभ्या॒वृत्या᳚ भ्या॒वृत्य॑ शये । 57) अ॒भ्या॒वृत्येत्य॑भि - आ॒वृत्य॑ । 58) श॒ये॒ दे॒वता॑ दे॒वता᳚-श्शये शये दे॒वताः᳚ । 59) दे॒वता॑ ए॒वैव दे॒वता॑ दे॒वता॑ ए॒व । 60) ए॒व य॒ज्ञं-यँ॒ज्ञ मे॒वैव य॒ज्ञम् । 61) य॒ज्ञ म॑भ्या॒वृत्या᳚ भ्या॒वृत्य॑ य॒ज्ञं-यँ॒ज्ञ म॑भ्या॒वृत्य॑ । 62) अ॒भ्या॒वृत्य॑ शये शये ऽभ्या॒वृत्या᳚ भ्या॒वृत्य॑ शये । 62) अ॒भ्या॒वृत्येत्य॑भि - आ॒वृत्य॑ । 63) श॒य॒ इति॑ शये । ॥ 29 ॥ (63/75) ॥ अ. 5 ॥
1) पु॒रोह॑विषि देव॒यज॑ने देव॒यज॑ने पु॒रोह॑विषि पु॒रोह॑विषि देव॒यज॑ने । 1) पु॒रोह॑वि॒षीति॑ पु॒रः - ह॒वि॒षि॒ । 2) दे॒व॒यज॑ने याजये-द्याजये-द्देव॒यज॑ने देव॒यज॑ने याजयेत् । 2) दे॒व॒यज॑न॒ इति॑ देव - यज॑ने । 3) या॒ज॒ये॒-द्यं-यंँ या॑जये-द्याजये॒-द्यम् । 4) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त । 5) का॒मये॒तोपोप॑ का॒मये॑त का॒मये॒तोप॑ । 6) उपै॑न मेन॒ मुपोपै॑नम् । 7) ए॒न॒ मुत्त॑र॒ उत्त॑र एन मेन॒ मुत्त॑रः । 8) उत्त॑रो य॒ज्ञो य॒ज्ञ उत्त॑र॒ उत्त॑रो य॒ज्ञः । 8) उत्त॑र॒ इत्युत् - त॒रः॒ । 9) य॒ज्ञो न॑मे-न्नमे-द्य॒ज्ञो य॒ज्ञो न॑मेत् । 10) न॒मे॒ द॒भ्य॑भि न॑मे-न्नमे द॒भि । 11) अ॒भि सु॑व॒र्गग्ं सु॑व॒र्ग म॒भ्य॑भि सु॑व॒र्गम् । 12) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 12) सु॒व॒र्गमिति॑ सुवः - गम् । 13) लो॒क-ञ्ज॑येज् जये ल्लो॒कम् ँलो॒क-ञ्ज॑येत् । 14) ज॒ये॒ दितीति॑ जयेज् जये॒ दिति॑ । 15) इत्ये॒त दे॒त दितीत्ये॒तत् । 16) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 17) वै पु॒रोह॑विः पु॒रोह॑वि॒-र्वै वै पु॒रोह॑विः । 18) पु॒रोह॑वि-र्देव॒यज॑न-न्देव॒यज॑न-म्पु॒रोह॑विः पु॒रोह॑वि-र्देव॒यज॑नम् । 18) पु॒रोह॑वि॒रिति॑ पु॒रः - ह॒विः॒ । 19) दे॒व॒यज॑नं॒-यँस्य॒ यस्य॑ देव॒यज॑न-न्देव॒यज॑नं॒-यँस्य॑ । 19) दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् । 20) यस्य॒ होता॒ होता॒ यस्य॒ यस्य॒ होता᳚ । 21) होता᳚ प्रातरनुवा॒क-म्प्रा॑तरनुवा॒कग्ं होता॒ होता᳚ प्रातरनुवा॒कम् । 22) प्रा॒त॒र॒नु॒वा॒क म॑नुब्रु॒व-न्न॑नुब्रु॒व-न्प्रा॑तरनुवा॒क-म्प्रा॑तरनुवा॒क म॑नुब्रु॒वन्न् । 22) प्रा॒त॒र॒नु॒वा॒कमिति॑ प्रातः - अ॒नु॒वा॒कम् । 23) अ॒नु॒ब्रु॒व-न्न॒ग्नि म॒ग्नि म॑नुब्रु॒व-न्न॑नुब्रु॒व-न्न॒ग्निम् । 23) अ॒नु॒ब्रु॒वन्नित्य॑नु - ब्रु॒वन्न् । 24) अ॒ग्नि म॒पो᳚(1॒) ऽपो᳚ ऽग्नि म॒ग्नि म॒पः । 25) अ॒प आ॑दि॒त्य मा॑दि॒त्य म॒पो॑ ऽप आ॑दि॒त्यम् । 26) आ॒दि॒त्य म॒भ्या᳚(1॒)भ्या॑दि॒त्य मा॑दि॒त्य म॒भि । 27) अ॒भि वि॒पश्य॑ति वि॒पश्य॑ त्य॒भ्य॑भि वि॒पश्य॑ति । 28) वि॒पश्य॒ त्युपोप॑ वि॒पश्य॑ति वि॒पश्य॒ त्युप॑ । 28) वि॒पश्य॒तीति॑ वि - पश्य॑ति । 29) उपै॑न मेन॒ मुपोपै॑नम् । 30) ए॒न॒ मुत्त॑र॒ उत्त॑र एन मेन॒ मुत्त॑रः । 31) उत्त॑रो य॒ज्ञो य॒ज्ञ उत्त॑र॒ उत्त॑रो य॒ज्ञः । 31) उत्त॑र॒ इत्युत् - त॒रः॒ । 32) य॒ज्ञो न॑मति नमति य॒ज्ञो य॒ज्ञो न॑मति । 33) न॒म॒ त्य॒भ्य॑भि न॑मति नम त्य॒भि । 34) अ॒भि सु॑व॒र्गग्ं सु॑व॒र्ग म॒भ्य॑भि सु॑व॒र्गम् । 35) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 35) सु॒व॒र्गमिति॑ सुवः - गम् । 36) लो॒क-ञ्ज॑यति जयति लो॒कम् ँलो॒क-ञ्ज॑यति । 37) ज॒य॒ त्या॒प्त आ॒प्ते ज॑यति जय त्या॒प्ते । 38) आ॒प्ते दे॑व॒यज॑ने देव॒यज॑न आ॒प्त आ॒प्ते दे॑व॒यज॑ने । 39) दे॒व॒यज॑ने याजये-द्याजये-द्देव॒यज॑ने देव॒यज॑ने याजयेत् । 39) दे॒व॒यज॑न॒ इति॑ देव - यज॑ने । 40) या॒ज॒ये॒-द्भ्रातृ॑व्यवन्त॒-म्भ्रातृ॑व्यवन्तं-याँजये-द्याजये॒-द्भ्रातृ॑व्यवन्तम् । 41) भ्रातृ॑व्यवन्त॒-म्पन्था॒-म्पन्था॒-म्भ्रातृ॑व्यवन्त॒-म्भ्रातृ॑व्यवन्त॒-म्पन्था᳚म् । 41) भ्रातृ॑व्यवन्त॒मिति॒ भ्रातृ॑व्य - व॒न्त॒म् । 42) पन्थां᳚-वाँ वा॒ पन्था॒-म्पन्थां᳚-वाँ । 43) वा॒ ऽधि॒स्प॒र्॒शये॑ दधिस्प॒र्॒शये᳚-द्वा वा ऽधिस्प॒र्॒शये᳚त् । 44) अ॒धि॒स्प॒र्॒शये᳚-त्क॒र्त-ङ्क॒र्त म॑धिस्प॒र्॒शये॑ दधिस्प॒र्॒शये᳚-त्क॒र्तम् । 44) अ॒धि॒स्प॒र्॒॒शये॒दित्य॑धि - स्प॒र्॒शये᳚त् । 45) क॒र्तं-वाँ॑ वा क॒र्त-ङ्क॒र्तं-वाँ᳚ । 46) वा॒ याव॒-द्याव॑-द्वा वा॒ याव॑त् । 47) याव॒-न्न न याव॒-द्याव॒-न्न । 48) ना न॒से ऽन॑से॒ न ना न॑से । 49) अन॑से॒ यात॒वै यात॒वा अन॒से ऽन॑से॒ यात॒वै । 50) यात॒वै न न यात॒वै यात॒वै न । ॥ 30 ॥ (50/64)
1) न रथा॑य॒ रथा॑य॒ न न रथा॑य । 2) रथा॑ यै॒त दे॒त-द्रथा॑य॒ रथा॑ यै॒तत् । 3) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 4) वा आ॒प्त मा॒प्तं-वैँ वा आ॒प्तम् । 5) आ॒प्त-न्दे॑व॒यज॑न-न्देव॒यज॑न मा॒प्त मा॒प्त-न्दे॑व॒यज॑नम् । 6) दे॒व॒यज॑न मा॒प्नो त्या॒प्नोति॑ देव॒यज॑न-न्देव॒यज॑न मा॒प्नोति॑ । 6) दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् । 7) आ॒प्नो त्ये॒वैवा प्नो त्या॒प्नो त्ये॒व । 8) ए॒व भ्रातृ॑व्य॒-म्भ्रातृ॑व्य मे॒वैव भ्रातृ॑व्यम् । 9) भ्रातृ॑व्य॒न्न न भ्रातृ॑व्य॒-म्भ्रातृ॑व्य॒न्न । 10) नैन॑ मेन॒न्न नैन᳚म् । 11) ए॒न॒-म्भ्रातृ॑व्यो॒ भ्रातृ॑व्य एन मेन॒-म्भ्रातृ॑व्यः । 12) भ्रातृ॑व्य आप्नो त्याप्नोति॒ भ्रातृ॑व्यो॒ भ्रातृ॑व्य आप्नोति । 13) आ॒प्नो॒ त्येको᳚न्नत॒ एको᳚न्नत आप्नो त्याप्नो॒ त्येको᳚न्नते । 14) एको᳚न्नते देव॒यज॑ने देव॒यज॑न॒ एको᳚न्नत॒ एको᳚न्नते देव॒यज॑ने । 14) एको᳚न्नत॒ इत्येक॑ - उ॒न्न॒ते॒ । 15) दे॒व॒यज॑ने याजये-द्याजये-द्देव॒यज॑ने देव॒यज॑ने याजयेत् । 15) दे॒व॒यज॑न॒ इति॑ देव - यज॑ने । 16) या॒ज॒ये॒-त्प॒शुका॑म-म्प॒शुका॑मं-याँजये-द्याजये-त्प॒शुका॑मम् । 17) प॒शुका॑म॒ मेको᳚न्नता॒देको᳚न्नता-त्प॒शुका॑म-म्प॒शुका॑म॒ मेको᳚न्नतात् । 17) प॒शुका॑म॒मिति॑ प॒शु - का॒म॒म् । 18) एको᳚न्नता॒-द्वै वा एको᳚न्नता॒ देको᳚न्नता॒-द्वै । 18) एको᳚न्नता॒दित्येक॑ - उ॒न्न॒ता॒त् । 19) वै दे॑व॒यज॑ना-द्देव॒यज॑ना॒-द्वै वै दे॑व॒यज॑नात् । 20) दे॒व॒यज॑ना॒ दङ्गि॑र॒सो ऽङ्गि॑रसो देव॒यज॑ना-द्देव॒यज॑ना॒ दङ्गि॑रसः । 20) दे॒व॒यज॑ना॒दिति॑ देव - यज॑नात् । 21) अङ्गि॑रसः प॒शू-न्प॒शू नङ्गि॑र॒सो ऽङ्गि॑रसः प॒शून् । 22) प॒शू न॑सृजन्ता सृजन्त प॒शू-न्प॒शू न॑सृजन्त । 23) अ॒सृ॒ज॒न्ता॒ न्त॒रा ऽन्त॒रा ऽसृ॑जन्ता सृजन्ता न्त॒रा । 24) अ॒न्त॒रा स॑दोहविर्धा॒ने स॑दोहविर्धा॒ने अ॑न्त॒रा ऽन्त॒रा स॑दोहविर्धा॒ने । 25) स॒दो॒ह॒वि॒र्धा॒ने उ॑न्न॒त मु॑न्न॒तग्ं स॑दोहविर्धा॒ने स॑दोहविर्धा॒ने उ॑न्न॒तम् । 25) स॒दो॒ह॒वि॒र्धा॒ने इति॑ सदः - ह॒वि॒र्धा॒ने । 26) उ॒न्न॒तग्ग् स्या᳚-थ्स्या दुन्न॒त मु॑न्न॒तग्ग् स्या᳚त् । 26) उ॒न्न॒तमित्यु॑त् - न॒तम् । 27) स्या॒ दे॒त दे॒त-थ्स्या᳚-थ्स्या दे॒तत् । 28) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 29) वा एको᳚न्नत॒ मेको᳚न्नतं॒-वैँ वा एको᳚न्नतम् । 30) एको᳚न्नत-न्देव॒यज॑न-न्देव॒यज॑न॒ मेको᳚न्नत॒ मेको᳚न्नत-न्देव॒यज॑नम् । 30) एको᳚न्नत॒मित्येक॑ - उ॒न्न॒त॒म् । 31) दे॒व॒यज॑न-म्पशु॒मा-न्प॑शु॒मा-न्दे॑व॒यज॑न-न्देव॒यज॑न-म्पशु॒मान् । 31) दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् । 32) प॒शु॒मा ने॒वैव प॑शु॒मा-न्प॑शु॒मा ने॒व । 32) प॒शु॒मानिति॑ पशु - मान् । 33) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 34) भ॒व॒ति॒ त्र्यु॑न्नते॒ त्र्यु॑न्नते भवति भवति॒ त्र्यु॑न्नते । 35) त्र्यु॑न्नते देव॒यज॑ने देव॒यज॑ने॒ त्र्यु॑न्नते॒ त्र्यु॑न्नते देव॒यज॑ने । 35) त्र्यु॑न्नत॒ इति॒ त्रि - उ॒न्न॒ते॒ । 36) दे॒व॒यज॑ने याजये-द्याजये-द्देव॒यज॑ने देव॒यज॑ने याजयेत् । 36) दे॒व॒यज॑न॒ इति॑ देव - यज॑ने । 37) या॒ज॒ये॒-थ्सु॒व॒र्गका॑मग्ं सुव॒र्गका॑मं-याँजये-द्याजये-थ्सुव॒र्गका॑मम् । 38) सु॒व॒र्गका॑म॒-न्त्र्यु॑न्नता॒-त्त्र्यु॑न्नता-थ्सुव॒र्गका॑मग्ं सुव॒र्गका॑म॒-न्त्र्यु॑न्नतात् । 38) सु॒व॒र्गका॑म॒मिति॑ सुव॒र्ग - का॒म॒म् । 39) त्र्यु॑न्नता॒-द्वै वै त्र्यु॑न्नता॒-त्त्र्यु॑न्नता॒-द्वै । 39) त्र्यु॑न्नता॒दिति॒ त्रि - उ॒न्न॒ता॒त् । 40) वै दे॑व॒यज॑ना-द्देव॒यज॑ना॒-द्वै वै दे॑व॒यज॑नात् । 41) दे॒व॒यज॑ना॒ दङ्गि॑र॒सो ऽङ्गि॑रसो देव॒यज॑ना-द्देव॒यज॑ना॒ दङ्गि॑रसः । 41) दे॒व॒यज॑ना॒दिति॑ देव - यज॑नात् । 42) अङ्गि॑रस-स्सुव॒र्गग्ं सु॑व॒र्ग मङ्गि॑र॒सो ऽङ्गि॑रस-स्सुव॒र्गम् । 43) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 43) सु॒व॒र्गमिति॑ सुवः - गम् । 44) लो॒क मा॑य-न्नायन् ँलो॒कम् ँलो॒क मा॑यन्न् । 45) आ॒य॒-न्न॒न्त॒रा ऽन्त॒रा ऽऽय॑-न्नाय-न्नन्त॒रा । 46) अ॒न्त॒रा ऽऽह॑व॒नीय॑ माहव॒नीय॑ मन्त॒रा ऽन्त॒रा ऽऽह॑व॒नीय᳚म् । 47) आ॒ह॒व॒नीय॑-ञ्च चाहव॒नीय॑ माहव॒नीय॑-ञ्च । 47) आ॒ह॒व॒नीय॒मित्या᳚ - ह॒व॒नीय᳚म् । 48) च॒ ह॒वि॒र्धानग्ं॑ हवि॒र्धान॑-ञ्च च हवि॒र्धान᳚म् । 49) ह॒वि॒र्धान॑-ञ्च च हवि॒र्धानग्ं॑ हवि॒र्धान॑-ञ्च । 49) ह॒वि॒र्धान॒मिति॑ हविः - धान᳚म् । 50) चो॒न्न॒त मु॑न्न॒त-ञ्च॑ चोन्न॒तम् । ॥ 31 ॥ (50/69)
1) उ॒न्न॒तग्ग् स्या᳚-थ्स्या दुन्न॒त मु॑न्न॒तग्ग् स्या᳚त् । 1) उ॒न्न॒तमित्यु॑त् - न॒तम् । 2) स्या॒ द॒न्त॒रा ऽन्त॒रा स्या᳚-थ्स्या दन्त॒रा । 3) अ॒न्त॒रा ह॑वि॒र्धानग्ं॑ हवि॒र्धान॑ मन्त॒रा ऽन्त॒रा ह॑वि॒र्धान᳚म् । 4) ह॒वि॒र्धान॑-ञ्च च हवि॒र्धानग्ं॑ हवि॒र्धान॑-ञ्च । 4) ह॒वि॒र्धान॒मिति॑ हविः - धान᳚म् । 5) च॒ सद॒-स्सद॑श्च च॒ सदः॑ । 6) सद॑श्च च॒ सद॒-स्सद॑श्च । 7) चा॒न्त॒रा ऽन्त॒रा च॑ चान्त॒रा । 8) अ॒न्त॒रा सद॒-स्सदो᳚ ऽन्त॒रा ऽन्त॒रा सदः॑ । 9) सद॑श्च च॒ सद॒-स्सद॑श्च । 10) च॒ गार्ह॑पत्य॒-ङ्गार्ह॑पत्य-ञ्च च॒ गार्ह॑पत्यम् । 11) गार्ह॑पत्य-ञ्च च॒ गार्ह॑पत्य॒-ङ्गार्ह॑पत्य-ञ्च । 11) गार्ह॑पत्य॒मिति॒ गार्ह॑ - प॒त्य॒म् । 12) चै॒त दे॒तच् च॑ चै॒तत् । 13) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 14) वै त्र्यु॑न्नत॒-न्त्र्यु॑न्नतं॒-वैँ वै त्र्यु॑न्नतम् । 15) त्र्यु॑न्नत-न्देव॒यज॑न-न्देव॒यज॑न॒-न्त्र्यु॑न्नत॒-न्त्र्यु॑न्नत-न्देव॒यज॑नम् । 15) त्र्यु॑न्नत॒मिति॒ त्रि - उ॒न्न॒त॒म् । 16) दे॒व॒यज॑नग्ं सुव॒र्गग्ं सु॑व॒र्ग-न्दे॑व॒यज॑न-न्देव॒यज॑नग्ं सुव॒र्गम् । 16) दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् । 17) सु॒व॒र्ग मे॒वैव सु॑व॒र्गग्ं सु॑व॒र्ग मे॒व । 17) सु॒व॒र्गमिति॑ सुवः - गम् । 18) ए॒व लो॒कम् ँलो॒क मे॒वैव लो॒कम् । 19) लो॒क मे᳚त्येति लो॒कम् ँलो॒क मे॑ति । 20) ए॒ति॒ प्रति॑ष्ठिते॒ प्रति॑ष्ठित एत्येति॒ प्रति॑ष्ठिते । 21) प्रति॑ष्ठिते देव॒यज॑ने देव॒यज॑ने॒ प्रति॑ष्ठिते॒ प्रति॑ष्ठिते देव॒यज॑ने । 21) प्रति॑ष्ठित॒ इति॒ प्रति॑ - स्थि॒ते॒ । 22) दे॒व॒यज॑ने याजये-द्याजये-द्देव॒यज॑ने देव॒यज॑ने याजयेत् । 22) दे॒व॒यज॑न॒ इति॑ देव - यज॑ने । 23) या॒ज॒ये॒-त्प्र॒ति॒ष्ठाका॑म-म्प्रति॒ष्ठाका॑मं-याँजये-द्याजये-त्प्रति॒ष्ठाका॑मम् । 24) प्र॒ति॒ष्ठाका॑म मे॒त दे॒त-त्प्र॑ति॒ष्ठाका॑म-म्प्रति॒ष्ठाका॑म मे॒तत् । 24) प्र॒ति॒ष्ठाका॑म॒मिति॑ प्रति॒ष्ठा - का॒म॒म् । 25) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 26) वै प्रति॑ष्ठित॒-म्प्रति॑ष्ठितं॒-वैँ वै प्रति॑ष्ठितम् । 27) प्रति॑ष्ठित-न्देव॒यज॑न-न्देव॒यज॑न॒-म्प्रति॑ष्ठित॒-म्प्रति॑ष्ठित-न्देव॒यज॑नम् । 27) प्रति॑ष्ठित॒मिति॒ प्रति॑ - स्थि॒त॒म् । 28) दे॒व॒यज॑नं॒-यँ-द्य-द्दे॑व॒यज॑न-न्देव॒यज॑नं॒-यँत् । 28) दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् । 29) य-थ्स॒र्वत॑-स्स॒र्वतो॒ य-द्य-थ्स॒र्वतः॑ । 30) स॒र्वत॑-स्स॒मग्ं स॒मग्ं स॒र्वत॑-स्स॒र्वत॑-स्स॒मम् । 31) स॒म-म्प्रति॒ प्रति॑ स॒मग्ं स॒म-म्प्रति॑ । 32) प्रत्ये॒वैव प्रति॒ प्रत्ये॒व । 33) ए॒व ति॑ष्ठति तिष्ठ त्ये॒वैव ति॑ष्ठति । 34) ति॒ष्ठ॒ति॒ यत्र॒ यत्र॑ तिष्ठति तिष्ठति॒ यत्र॑ । 35) यत्रा॒ न्याअ॑न्या अ॒न्याअ॑न्या॒ यत्र॒ यत्रा॒ न्याअ॑न्याः । 36) अ॒न्याअ॑न्या॒ ओष॑धय॒ ओष॑धयो॒ ऽन्याअ॑न्या अ॒न्याअ॑न्या॒ ओष॑धयः । 36) अ॒न्याअ॑न्या॒ इत्य॒न्याः - अ॒न्याः॒ । 37) ओष॑धयो॒ व्यति॑षक्ता॒ व्यति॑षक्ता॒ ओष॑धय॒ ओष॑धयो॒ व्यति॑षक्ताः । 38) व्यति॑षक्ता॒-स्स्यु-स्स्यु-र्व्यति॑षक्ता॒ व्यति॑षक्ता॒-स्स्युः । 38) व्यति॑षक्ता॒ इति॑ वि - अति॑षक्ताः । 39) स्यु स्त-त्त-थ्स्यु-स्स्यु स्तत् । 40) त-द्या॑जये-द्याजये॒-त्त-त्त-द्या॑जयेत् । 41) या॒ज॒ये॒-त्प॒शुका॑म-म्प॒शुका॑मं-याँजये-द्याजये-त्प॒शुका॑मम् । 42) प॒शुका॑म मे॒त दे॒त-त्प॒शुका॑म-म्प॒शुका॑म मे॒तत् । 42) प॒शुका॑म॒मिति॑ प॒शु - का॒म॒म् । 43) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 44) वै प॑शू॒ना-म्प॑शू॒नां-वैँ वै प॑शू॒नाम् । 45) प॒शू॒नाग्ं रू॒पग्ं रू॒प-म्प॑शू॒ना-म्प॑शू॒नाग्ं रू॒पम् । 46) रू॒पग्ं रू॒पेण॑ रू॒पेण॑ रू॒पग्ं रू॒पग्ं रू॒पेण॑ । 47) रू॒पे णै॒वैव रू॒पेण॑ रू॒पेणै॒व । 48) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 49) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् । 50) प॒शू नवाव॑ प॒शू-न्प॒शू नव॑ । ॥ 32 ॥ (50/64)
1) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 2) रु॒न्धे॒ प॒शु॒मा-न्प॑शु॒मा-न्रु॑न्धे रुन्धे पशु॒मान् । 3) प॒शु॒मा ने॒वैव प॑शु॒मा-न्प॑शु॒मा ने॒व । 3) प॒शु॒मानिति॑ पशु - मान् । 4) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 5) भ॒व॒ति॒ निर्-ऋ॑तिगृहीते॒ निर्-ऋ॑तिगृहीते भवति भवति॒ निर्-ऋ॑तिगृहीते । 6) निर्-ऋ॑तिगृहीते देव॒यज॑ने देव॒यज॑ने॒ निर्-ऋ॑तिगृहीते॒ निर्-ऋ॑तिगृहीते देव॒यज॑ने । 6) निर्-ऋ॑तिगृहीत॒ इति॒ निर्-ऋ॑ति - गृ॒ही॒ते॒ । 7) दे॒व॒यज॑ने याजये-द्याजये-द्देव॒यज॑ने देव॒यज॑ने याजयेत् । 7) दे॒व॒यज॑न॒ इति॑ देव - यज॑ने । 8) या॒ज॒ये॒-द्यं-यंँ या॑जये-द्याजये॒-द्यम् । 9) य-ङ्का॒मये॑त का॒मये॑त॒ यं-यँ-ङ्का॒मये॑त । 10) का॒मये॑त॒ निर्-ऋ॑त्या॒ निर्-ऋ॑त्या का॒मये॑त का॒मये॑त॒ निर्-ऋ॑त्या । 11) निर्-ऋ॑त्या ऽस्यास्य॒ निर्-ऋ॑त्या॒ निर्-ऋ॑त्या ऽस्य । 11) निर्-ऋ॒त्येति॒ निः - ऋ॒त्या॒ । 12) अ॒स्य॒ य॒ज्ञं-यँ॒ज्ञ म॑स्यास्य य॒ज्ञम् । 13) य॒ज्ञ-ङ्ग्रा॑हयेय-ङ्ग्राहयेयं-यँ॒ज्ञं-यँ॒ज्ञ-ङ्ग्रा॑हयेयम् । 14) ग्रा॒ह॒ये॒य॒ मितीति॑ ग्राहयेय-ङ्ग्राहयेय॒ मिति॑ । 15) इत्ये॒त दे॒त दिती त्ये॒तत् । 16) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 17) वै निर्-ऋ॑तिगृहीत॒-न्निर्-ऋ॑तिगृहीतं॒-वैँ वै निर्-ऋ॑तिगृहीतम् । 18) निर्-ऋ॑तिगृहीत-न्देव॒यज॑न-न्देव॒यज॑न॒-न्निर्-ऋ॑तिगृहीत॒-न्निर्-ऋ॑तिगृहीत-न्देव॒यज॑नम् । 18) निर्-ऋ॑तिगृहीत॒मिति॒ निर्-ऋ॑ति - गृ॒ही॒त॒म् । 19) दे॒व॒यज॑नं॒-यँ-द्य-द्दे॑व॒यज॑न-न्देव॒यज॑नं॒-यँत् । 19) दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् । 20) य-थ्स॒दृश्यै॑ स॒दृश्यै॒ य-द्य-थ्स॒दृश्यै᳚ । 21) स॒दृश्यै॑ स॒त्या᳚-स्स॒त्या᳚-स्स॒दृश्यै॑ स॒दृश्यै॑ स॒त्याः᳚ । 22) स॒त्या॑ ऋ॒क्ष मृ॒क्षग्ं स॒त्या᳚-स्स॒त्या॑ ऋ॒क्षम् । 23) ऋ॒क्ष-न्निर्-ऋ॑त्या॒ निर्-ऋ॑त्य॒ र्क्ष मृ॒क्ष-न्निर्-ऋ॑त्या । 24) निर्-ऋ॑ त्यै॒वैव निर्-ऋ॑त्या॒ निर्-ऋ॑ त्यै॒व । 24) निर्-ऋ॒त्येति॒ निः - ऋ॒त्या॒ । 25) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 26) अ॒स्य॒ य॒ज्ञं-यँ॒ज्ञ म॑स्यास्य य॒ज्ञम् । 27) य॒ज्ञ-ङ्ग्रा॑हयति ग्राहयति य॒ज्ञं-यँ॒ज्ञ-ङ्ग्रा॑हयति । 28) ग्रा॒ह॒य॒ति॒ व्यावृ॑त्ते॒ व्यावृ॑त्ते ग्राहयति ग्राहयति॒ व्यावृ॑त्ते । 29) व्यावृ॑त्ते देव॒यज॑ने देव॒यज॑ने॒ व्यावृ॑त्ते॒ व्यावृ॑त्ते देव॒यज॑ने । 29) व्यावृ॑त्त॒ इति॑ वि - आवृ॑त्ते । 30) दे॒व॒यज॑ने याजये-द्याजये-द्देव॒यज॑ने देव॒यज॑ने याजयेत् । 30) दे॒व॒यज॑न॒ इति॑ देव - यज॑ने । 31) या॒ज॒ये॒-द्व्या॒वृत्का॑मं-व्याँ॒वृत्का॑मं-याँजये-द्याजये-द्व्या॒वृत्का॑मम् । 32) व्या॒वृत्का॑मं॒-यंँ यं-व्याँ॒वृत्का॑मं-व्याँ॒वृत्का॑मं॒-यँम् । 32) व्या॒वृत्का॑म॒मिति॑ व्या॒वृत् - का॒म॒म् । 33) य-म्पात्रे॒ पात्रे॒ यं-यँ-म्पात्रे᳚ । 34) पात्रे॑ वा वा॒ पात्रे॒ पात्रे॑ वा । 35) वा॒ तल्पे॒ तल्पे॑ वा वा॒ तल्पे᳚ । 36) तल्पे॑ वा वा॒ तल्पे॒ तल्पे॑ वा । 37) वा॒ मीमाग्ं॑सेर॒-न्मीमाग्ं॑सेरन्. वा वा॒ मीमाग्ं॑सेरन्न् । 38) मीमाग्ं॑सेर-न्प्रा॒चीन॑-म्प्रा॒चीन॒-म्मीमाग्ं॑सेर॒-न्मीमाग्ं॑सेर-न्प्रा॒चीन᳚म् । 39) प्रा॒चीन॑ माहव॒नीया॑ दाहव॒नीया᳚-त्प्रा॒चीन॑-म्प्रा॒चीन॑ माहव॒नीया᳚त् । 40) आ॒ह॒व॒नीया᳚-त्प्रव॒ण-म्प्र॑व॒ण मा॑हव॒नीया॑ दाहव॒नीया᳚-त्प्रव॒णम् । 40) आ॒ह॒व॒नीया॒दित्या᳚ - ह॒व॒नीया᳚त् । 41) प्र॒व॒णग्ग् स्या᳚-थ्स्या-त्प्रव॒ण-म्प्र॑व॒णग्ग् स्या᳚त् । 41) प्र॒व॒णमिति॑ प्र - व॒नम् । 42) स्या॒-त्प्र॒ती॒चीन॑-म्प्रती॒चीनग्ग्॑ स्या-थ्स्या-त्प्रती॒चीन᳚म् । 43) प्र॒ती॒चीन॒-ङ्गार्ह॑पत्या॒-द्गार्ह॑पत्या-त्प्रती॒चीन॑-म्प्रती॒चीन॒-ङ्गार्ह॑पत्यात् । 44) गार्ह॑पत्या दे॒त दे॒त-द्गार्ह॑पत्या॒-द्गार्ह॑पत्या दे॒तत् । 44) गार्ह॑पत्या॒दिति॒ गार्ह॑ - प॒त्या॒त् । 45) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 46) वै व्यावृ॑त्तं॒-व्याँवृ॑त्तं॒-वैँ वै व्यावृ॑त्तम् । 47) व्यावृ॑त्त-न्देव॒यज॑न-न्देव॒यज॑नं॒-व्याँवृ॑त्तं॒-व्याँवृ॑त्त-न्देव॒यज॑नम् । 47) व्यावृ॑त्त॒मिति॑ वि - आवृ॑त्तम् । 48) दे॒व॒यज॑नं॒-विँ वि दे॑व॒यज॑न-न्देव॒यज॑नं॒-विँ । 48) दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् । 49) वि पा॒प्मना॑ पा॒प्मना॒ वि वि पा॒प्मना᳚ । 50) पा॒प्मना॒ भ्रातृ॑व्येण॒ भ्रातृ॑व्येण पा॒प्मना॑ पा॒प्मना॒ भ्रातृ॑व्येण । 51) भ्रातृ॑व्ये॒णा भ्रातृ॑व्येण॒ भ्रातृ॑व्ये॒णा । 52) आ व॑र्तते वर्तत॒ आ व॑र्तते । 53) व॒र्त॒ते॒ न न व॑र्तते वर्तते॒ न । 54) नैन॑ मेन॒न्न नैन᳚म् । 55) ए॒न॒-म्पात्रे॒ पात्र॑ एन मेन॒-म्पात्रे᳚ । 56) पात्रे॒ न न पात्रे॒ पात्रे॒ न । 57) न तल्पे॒ तल्पे॒ न न तल्पे᳚ । 58) तल्पे॑ मीमाग्ंसन्ते मीमाग्ंसन्ते॒ तल्पे॒ तल्पे॑ मीमाग्ंसन्ते । 59) मी॒मा॒ग्ं॒स॒न्ते॒ का॒र्ये॑ का॒र्ये॑ मीमाग्ंसन्ते मीमाग्ंसन्ते का॒र्ये᳚ । 60) का॒र्ये॑ देव॒यज॑ने देव॒यज॑ने का॒र्ये॑ का॒र्ये॑ देव॒यज॑ने । 61) दे॒व॒यज॑ने याजये-द्याजये-द्देव॒यज॑ने देव॒यज॑ने याजयेत् । 61) दे॒व॒यज॑न॒ इति॑ देव - यज॑ने । 62) या॒ज॒ये॒-द्भूति॑काम॒-म्भूति॑कामं-याँजये-द्याजये॒-द्भूति॑कामम् । 63) भूति॑काम-ङ्का॒र्यः॑ का॒र्यो॑ भूति॑काम॒-म्भूति॑काम-ङ्का॒र्यः॑ । 63) भूति॑काम॒मिति॒ भूति॑ - का॒म॒म् । 64) का॒र्यो॑ वै वै का॒र्यः॑ का॒र्यो॑ वै । 65) वै पुरु॑षः॒ पुरु॑षो॒ वै वै पुरु॑षः । 66) पुरु॑षो॒ भव॑ति॒ भव॑ति॒ पुरु॑षः॒ पुरु॑षो॒ भव॑ति । 67) भव॑ त्ये॒वैव भव॑ति॒ भव॑ त्ये॒व । 68) ए॒वेत्ये॒व । ॥ 33 ॥ (68/85) ॥ अ. 6 ॥
1) तेभ्य॑ उत्तरवे॒दि रु॑त्तरवे॒दि स्तेभ्य॒ स्तेभ्य॑ उत्तरवे॒दिः । 2) उ॒त्त॒र॒वे॒दि-स्सि॒ग्ं॒ही-स्सि॒ग्ं॒ही रु॑त्तरवे॒दि रु॑त्तरवे॒दि-स्सि॒ग्ं॒हीः । 2) उ॒त्त॒र॒वे॒दिरित्यु॑त्तर - वे॒दिः । 3) सि॒ग्ं॒ही रू॒पग्ं रू॒पग्ं सि॒ग्ं॒ही-स्सि॒ग्ं॒ही रू॒पम् । 4) रू॒प-ङ्कृ॒त्वा कृ॒त्वा रू॒पग्ं रू॒प-ङ्कृ॒त्वा । 5) कृ॒त्वोभया॑ नु॒भया᳚न् कृ॒त्वा कृ॒त्वोभयान्॑ । 6) उ॒भया॑ नन्त॒रा ऽन्त॒रोभया॑ नु॒भया॑ नन्त॒रा । 7) अ॒न्त॒रा ऽप॒क्रम्या॑ प॒क्रम्या᳚ न्त॒रा ऽन्त॒रा ऽप॒क्रम्य॑ । 8) अ॒प॒क्रम्या॑ तिष्ठ दतिष्ठ दप॒क्रम्या॑ प॒क्रम्या॑ति ष्ठत् । 8) अ॒प॒क्रम्येत्य॑प - क्रम्य॑ । 9) अ॒ति॒ष्ठ॒-त्ते ते॑ ऽतिष्ठ दतिष्ठ॒-त्ते । 10) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 11) दे॒वा अ॑मन्यन्ता मन्यन्त दे॒वा दे॒वा अ॑मन्यन्त । 12) अ॒म॒न्य॒न्त॒ य॒त॒रान्. य॑त॒रा न॑मन्यन्ता मन्यन्त यत॒रान् । 13) य॒त॒रान्. वै वै य॑त॒रान्. य॑त॒रान्. वै । 14) वा इ॒य मि॒यं-वैँ वा इ॒यम् । 15) इ॒य मु॑पाव॒र्थ्स्य त्यु॑पाव॒र्थ्स्यती॒य मि॒य मु॑पाव॒र्थ्स्यति॑ । 16) उ॒पा॒व॒र्थ्स्यति॒ ते त उ॑पाव॒र्थ्स्य त्यु॑पाव॒र्थ्स्यति॒ ते । 16) उ॒पा॒व॒र्थ्स्यतीत्यु॑प - आ॒व॒र्थ्स्यति॑ । 17) त इ॒द मि॒द-न्ते त इ॒दम् । 18) इ॒द-म्भ॑विष्यन्ति भविष्यन्ती॒द मि॒द-म्भ॑विष्यन्ति । 19) भ॒वि॒ष्य॒न्तीतीति॑ भविष्यन्ति भविष्य॒न्तीति॑ । 20) इति॒ ता-न्ता मितीति॒ ताम् । 21) ता मुपोप॒ ता-न्ता मुप॑ । 22) उपा॑ मन्त्रयन्ता मन्त्रय॒ न्तोपोपा॑ मन्त्रयन्त । 23) अ॒म॒न्त्र॒य॒न्त॒ सा सा ऽम॑न्त्रयन्ता मन्त्रयन्त॒ सा । 24) सा ऽब्र॑वी दब्रवी॒-थ्सा सा ऽब्र॑वीत् । 25) अ॒ब्र॒वी॒-द्वरं॒-वँर॑ मब्रवी दब्रवी॒-द्वर᳚म् । 26) वरं॑-वृँणै वृणै॒ वरं॒-वँरं॑-वृँणै । 27) वृ॒णै॒ सर्वा॒-न्थ्सर्वा᳚न् वृणै वृणै॒ सर्वान्॑ । 28) सर्वा॒-न्मया॒ मया॒ सर्वा॒-न्थ्सर्वा॒-न्मया᳚ । 29) मया॒ कामा॒न् कामा॒-न्मया॒ मया॒ कामान्॑ । 30) कामा॒न्॒. वि वि कामा॒न् कामा॒न्॒. वि । 31) व्य॑श्ञवथा श्ञवथ॒ वि व्य॑श्ञवथ । 32) अ॒श्ञ॒व॒थ॒ पूर्वा॒-म्पूर्वा॑ मश्ञवथा श्ञवथ॒ पूर्वा᳚म् । 33) पूर्वा॒-न्तु तु पूर्वा॒-म्पूर्वा॒-न्तु । 34) तु मा॑ मा॒ तु तु मा᳚ । 35) मा॒ ऽग्ने र॒ग्ने-र्मा॑ मा॒ ऽग्नेः । 36) अ॒ग्ने राहु॑ति॒ राहु॑ति र॒ग्ने र॒ग्ने राहु॑तिः । 37) आहु॑ति रश्ञवता अश्ञवता॒ आहु॑ति॒ राहु॑ति रश्ञवतै । 37) आहु॑ति॒रित्या - हु॒तिः॒ । 38) अ॒श्ञ॒व॒ता॒ इती त्य॑श्ञवता अश्ञवता॒ इति॑ । 39) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् । 40) तस्मा॑ दुत्तरवे॒दि मु॑त्तरवे॒दि-न्तस्मा॒-त्तस्मा॑ दुत्तरवे॒दिम् । 41) उ॒त्त॒र॒वे॒दि-म्पूर्वा॒-म्पूर्वा॑ मुत्तरवे॒दि मु॑त्तरवे॒दि-म्पूर्वा᳚म् । 41) उ॒त्त॒र॒वे॒दिमित्यु॑त्तर - वे॒दिम् । 42) पूर्वा॑ म॒ग्ने र॒ग्नेः पूर्वा॒-म्पूर्वा॑ म॒ग्नेः । 43) अ॒ग्ने-र्व्याघा॑रयन्ति॒ व्याघा॑रय न्त्य॒ग्ने र॒ग्ने-र्व्याघा॑रयन्ति । 44) व्याघा॑रयन्ति॒ वारे॑वृतं॒-वाँरे॑वृतं॒-व्याँघा॑रयन्ति॒ व्याघा॑रयन्ति॒ वारे॑वृतम् । 44) व्याघा॑रय॒न्तीति॑ वि - आघा॑रयन्ति । 45) वारे॑वृत॒ग्ं॒ हि हि वारे॑वृतं॒-वाँरे॑वृत॒ग्ं॒ हि । 45) वारे॑वृत॒मिति॒ वारे᳚ - वृ॒त॒म् । 46) ह्य॑स्या अस्यै॒ हि ह्य॑स्यै । 47) अ॒स्यै॒ शम्य॑या॒ शम्य॑या ऽस्या अस्यै॒ शम्य॑या । 48) शम्य॑या॒ परि॒ परि॒ शम्य॑या॒ शम्य॑या॒ परि॑ । 49) परि॑ मिमीते मिमीते॒ परि॒ परि॑ मिमीते । 50) मि॒मी॒ते॒ मात्रा॒ मात्रा॑ मिमीते मिमीते॒ मात्रा᳚ । ॥ 34 ॥ (50/57)
1) मात्रै॒वैव मात्रा॒ मात्रै॒व । 2) ए॒वास्या॑ अस्या ए॒वैवास्यै᳚ । 3) अ॒स्यै॒ सा सा ऽस्या॑ अस्यै॒ सा । 4) सा ऽथो॒ अथो॒ सा सा ऽथो᳚ । 5) अथो॑ यु॒क्तेन॑ यु॒क्तेनाथो॒ अथो॑ यु॒क्तेन॑ । 5) अथो॒ इत्यथो᳚ । 6) यु॒क्ते नै॒वैव यु॒क्तेन॑ यु॒क्ते नै॒व । 7) ए॒व यु॒क्तं-युँ॒क्त मे॒वैव यु॒क्तम् । 8) यु॒क्त मवाव॑ यु॒क्तं-युँ॒क्त मव॑ । 9) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 10) रु॒न्धे॒ वि॒त्ताय॑नी वि॒त्ताय॑नी रुन्धे रुन्धे वि॒त्ताय॑नी । 11) वि॒त्ताय॑नी मे मे वि॒त्ताय॑नी वि॒त्ताय॑नी मे । 11) वि॒त्ताय॒नीति॑ वित्त - अय॑नी । 12) मे॒ ऽस्य॒सि॒ मे॒ मे॒ ऽसि॒ । 13) अ॒सीती त्य॑स्य॒सीति॑ । 14) इत्या॑हा॒हे तीत्या॑ह । 15) आ॒ह॒ वि॒त्ता वि॒त्ता ऽऽहा॑ह वि॒त्ता । 16) वि॒त्ता हि हि वि॒त्ता वि॒त्ता हि । 17) ह्ये॑ना नेना॒न्॒. हि ह्ये॑नान् । 18) ए॒ना॒ नाव॒ दाव॑ देना नेना॒ नाव॑त् । 19) आव॑-त्ति॒क्ताय॑नी ति॒क्ताय॒ न्याव॒ दाव॑-त्ति॒क्ताय॑नी । 20) ति॒क्ताय॑नी मे मे ति॒क्ताय॑नी ति॒क्ताय॑नी मे । 20) ति॒क्ताय॒नीति॑ तिक्त - अय॑नी । 21) मे॒ ऽस्य॒सि॒ मे॒ मे॒ ऽसि॒ । 22) अ॒सीती त्य॑स्य॒सीति॑ । 23) इत्या॑हा॒हे तीत्या॑ह । 24) आ॒ह॒ ति॒क्ता-न्ति॒क्ता ना॑हाह ति॒क्तान् । 25) ति॒क्तान्. हि हि ति॒क्ता-न्ति॒क्तान्. हि । 26) ह्ये॑ना नेना॒न्॒. हि ह्ये॑नान् । 27) ए॒ना॒ नाव॒ दाव॑ देना नेना॒ नाव॑त् । 28) आव॒ दव॑ता॒ दव॑ता॒ दाव॒ दाव॒ दव॑तात् । 29) अव॑ता-न्मा॒ मा ऽव॑ता॒ दव॑ता-न्मा । 30) मा॒ ना॒थि॒त-न्ना॑थि॒त-म्मा॑ मा नाथि॒तम् । 31) ना॒थि॒त मितीति॑ नाथि॒त-न्ना॑थि॒त मिति॑ । 32) इत्या॑हा॒हे तीत्या॑ह । 33) आ॒ह॒ ना॒थि॒ता-न्ना॑थि॒ता ना॑हाह नाथि॒तान् । 34) ना॒थि॒तान्. हि हि ना॑थि॒ता-न्ना॑थि॒तान्. हि । 35) ह्ये॑ना नेना॒न्॒. हि ह्ये॑नान् । 36) ए॒ना॒ नाव॒ दाव॑ देना नेना॒ नाव॑त् । 37) आव॒ दव॑ता॒ दव॑ता॒ दाव॒ दाव॒ दव॑तात् । 38) अव॑ता-न्मा॒ मा ऽव॑ता॒ दव॑ता-न्मा । 39) मा॒ व्य॒थि॒तं-व्यँ॑थि॒त-म्मा॑ मा व्यथि॒तम् । 40) व्य॒थि॒त मितीति॑ व्यथि॒तं-व्यँ॑थि॒त मिति॑ । 41) इत्या॑हा॒हे तीत्या॑ह । 42) आ॒ह॒ व्य॒थि॒तान् व्य॑थि॒ता ना॑हाह व्यथि॒तान् । 43) व्य॒थि॒तान्. हि हि व्य॑थि॒तान् व्य॑थि॒तान्. हि । 44) ह्ये॑ना नेना॒न्॒. हि ह्ये॑नान् । 45) ए॒ना॒ नाव॒ दाव॑ देना नेना॒ नाव॑त् । 46) आव॑-द्वि॒दे-र्वि॒दे राव॒ दाव॑-द्वि॒देः । 47) वि॒दे र॒ग्नि र॒ग्नि-र्वि॒दे-र्वि॒दे र॒ग्निः । 48) अ॒ग्नि-र्नभो॒ नभो॒ ऽग्नि र॒ग्नि-र्नभः॑ । 49) नभो॒ नाम॒ नाम॒ नभो॒ नभो॒ नाम॑ । 50) नामाग्ने ऽग्ने॒ नाम॒ नामाग्ने᳚ । ॥ 35 ॥ (50/53)
1) अग्ने॑ अङ्गिरो अङ्गि॒रो ऽग्ने ऽग्ने॑ अङ्गिरः । 2) अ॒ङ्गि॒र॒ इती त्य॑ङ्गिरो अङ्गिर॒ इति॑ । 3) इति॒ त्रि स्त्रि रितीति॒ त्रिः । 4) त्रिर्-ह॑रति हरति॒ त्रि स्त्रिर्-ह॑रति । 5) ह॒र॒ति॒ ये ये ह॑रति हरति॒ ये । 6) य ए॒वैव ये य ए॒व । 7) ए॒वै ष्वे᳚(1॒)ष्वे॑ वैवैषु । 8) ए॒षु लो॒केषु॑ लो॒के ष्वे॒ष्वे॑षु लो॒केषु॑ । 9) लो॒के ष्व॒ग्नयो॒ ऽग्नयो॑ लो॒केषु॑ लो॒के ष्व॒ग्नयः॑ । 10) अ॒ग्नय॒ स्ताग् स्ता न॒ग्नयो॒ ऽग्नय॒ स्तान् । 11) ता ने॒वैव ताग् स्ता ने॒व । 12) ए॒वावा वै॒वै वाव॑ । 13) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 14) रु॒न्धे॒ तू॒ष्णी-न्तू॒ष्णीग्ं रु॑न्धे रुन्धे तू॒ष्णीम् । 15) तू॒ष्णी-ञ्च॑तु॒र्थ-ञ्च॑तु॒र्थ-न्तू॒ष्णी-न्तू॒ष्णी-ञ्च॑तु॒र्थम् । 16) च॒तु॒र्थग्ं ह॑रति हरति चतु॒र्थ-ञ्च॑तु॒र्थग्ं ह॑रति । 17) ह॒र॒ त्यनि॑रुक्त॒ मनि॑रुक्तग्ं हरति हर॒ त्यनि॑रुक्तम् । 18) अनि॑रुक्त मे॒वैवा नि॑रुक्त॒ मनि॑रुक्त मे॒व । 18) अनि॑रुक्त॒मित्यनिः॑ - उ॒क्त॒म् । 19) ए॒वावा वै॒वै वाव॑ । 20) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 21) रु॒न्धे॒ सि॒ग्ं॒ही-स्सि॒ग्ं॒ही रु॑न्धे रुन्धे सि॒ग्ं॒हीः । 22) सि॒ग्ं॒ही र॑स्यसि सि॒ग्ं॒ही-स्सि॒ग्ं॒ही र॑सि । 23) अ॒सि॒ म॒हि॒षी-र्म॑हि॒षी र॑स्यसि महि॒षीः । 24) म॒हि॒षी र॑स्यसि महि॒षी-र्म॑हि॒षी र॑सि । 25) अ॒सीती त्य॑स्य॒सीति॑ । 26) इत्या॑हा॒हे तीत्या॑ह । 27) आ॒ह॒ सि॒ग्ं॒ही-स्सि॒ग्ं॒ही रा॑हाह सि॒ग्ं॒हीः । 28) सि॒ग्ं॒हीर्-हि हि सि॒ग्ं॒ही-स्सि॒ग्ं॒हीर्-हि । 29) ह्ये॑षैषा हि ह्ये॑षा । 30) ए॒षा रू॒पग्ं रू॒प मे॒षैषा रू॒पम् । 31) रू॒प-ङ्कृ॒त्वा कृ॒त्वा रू॒पग्ं रू॒प-ङ्कृ॒त्वा । 32) कृ॒त्वोभया॑ नु॒भया᳚न् कृ॒त्वा कृ॒त्वोभयान्॑ । 33) उ॒भया॑ नन्त॒रा ऽन्त॒रोभया॑ नु॒भया॑ नन्त॒रा । 34) अ॒न्त॒रा ऽप॒क्रम्या॑ प॒क्रम्या᳚ न्त॒रा ऽन्त॒रा ऽप॒क्रम्य॑ । 35) अ॒प॒क्रम्या ति॑ष्ठ॒ दति॑ष्ठ दप॒क्रम्या॑प् अ॒क्रम्या ति॑ष्ठत् । 35) अ॒प॒क्रम्येत्य॑प - क्रम्य॑ । 36) अति॑ष्ठ दु॒रू᳚र्व ति॑ष्ठ॒ दति॑ष्ठ दु॒रु । 37) उ॒रु प्र॑थस्व प्रथस्वो॒रू॑रु प्र॑थस्व । 38) प्र॒थ॒स्वो॒रू॑रु प्र॑थस्व प्रथस्वो॒रु । 39) उ॒रु ते॑ त उ॒रू॑रु ते᳚ । 40) ते॒ य॒ज्ञप॑ति-र्य॒ज्ञप॑ति स्ते ते य॒ज्ञप॑तिः । 41) य॒ज्ञप॑तिः प्रथता-म्प्रथतां-यँ॒ज्ञप॑ति-र्य॒ज्ञप॑तिः प्रथताम् । 41) य॒ज्ञप॑ति॒रिति॑ य॒ज्ञ - प॒तिः॒ । 42) प्र॒थ॒ता॒ मितीति॑ प्रथता-म्प्रथता॒ मिति॑ । 43) इत्या॑हा॒हे तीत्या॑ह । 44) आ॒ह॒ यज॑मानं॒-यँज॑मान माहाह॒ यज॑मानम् । 45) यज॑मान मे॒वैव यज॑मानं॒-यँज॑मान मे॒व । 46) ए॒व प्र॒जया᳚ प्र॒ज यै॒वैव प्र॒जया᳚ । 47) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ । 47) प्र॒जयेति॑ प्र - जया᳚ । 48) प॒शुभिः॑ प्रथयति प्रथयति प॒शुभिः॑ प॒शुभिः॑ प्रथयति । 48) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 49) प्र॒थ॒य॒ति॒ ध्रु॒वा ध्रु॒वा प्र॑थयति प्रथयति ध्रु॒वा । 50) ध्रु॒वा ऽस्य॑सि ध्रु॒वा ध्रु॒वा ऽसि॑ । ॥ 36 ॥ (50/55)
1) अ॒सीती त्य॑स्य॒सीति॑ । 2) इति॒ सग्ं स मितीति॒ सम् । 3) सग्ं ह॑न्ति हन्ति॒ सग्ं सग्ं ह॑न्ति । 4) ह॒न्ति॒ धृत्यै॒ धृत्यै॑ हन्ति हन्ति॒ धृत्यै᳚ । 5) धृत्यै॑ दे॒वेभ्यो॑ दे॒वेभ्यो॒ धृत्यै॒ धृत्यै॑ दे॒वेभ्यः॑ । 6) दे॒वेभ्य॑-श्शुन्धस्व शुन्धस्व दे॒वेभ्यो॑ दे॒वेभ्य॑-श्शुन्धस्व । 7) शु॒न्ध॒स्व॒ दे॒वेभ्यो॑ दे॒वेभ्य॑-श्शुन्धस्व शुन्धस्व दे॒वेभ्यः॑ । 8) दे॒वेभ्य॑-श्शुम्भस्व शुम्भस्व दे॒वेभ्यो॑ दे॒वेभ्य॑-श्शुम्भस्व । 9) शु॒म्भ॒स्वे तीति॑ शुम्भस्व शुम्भ॒स्वेति॑ । 10) इत्यवावे तीत्यव॑ । 11) अव॑ च॒ चावाव॑ च । 12) चो॒क्ष त्यु॒क्षति॑ च चो॒क्षति॑ । 13) उ॒क्षति॒ प्र प्रोक्ष त्यु॒क्षति॒ प्र । 14) प्र च॑ च॒ प्र प्र च॑ । 15) च॒ कि॒र॒ति॒ कि॒र॒ति॒ च॒ च॒ कि॒र॒ति॒ । 16) कि॒र॒ति॒ शुद्ध्यै॒ शुद्ध्यै॑ किरति किरति॒ शुद्ध्यै᳚ । 17) शुद्ध्या॑ इन्द्रघो॒ष इ॑न्द्रघो॒ष-श्शुद्ध्यै॒ शुद्ध्या॑ इन्द्रघो॒षः । 18) इ॒न्द्र॒घो॒ष स्त्वा᳚ त्वेन्द्रघो॒ष इ॑न्द्रघो॒ष स्त्वा᳚ । 18) इ॒न्द्र॒घो॒ष इती᳚न्द्र - घो॒षः । 19) त्वा॒ वसु॑भि॒-र्वसु॑भि स्त्वा त्वा॒ वसु॑भिः । 20) वसु॑भिः पु॒रस्ता᳚-त्पु॒रस्ता॒-द्वसु॑भि॒-र्वसु॑भिः पु॒रस्ता᳚त् । 20) वसु॑भि॒रिति॒ वसु॑ - भिः॒ । 21) पु॒रस्ता᳚-त्पातु पातु पु॒रस्ता᳚-त्पु॒रस्ता᳚-त्पातु । 22) पा॒त्वितीति॑ पातु पा॒त्विति॑ । 23) इत्या॑हा॒हे तीत्या॑ह । 24) आ॒ह॒ दि॒ग्भ्यो दि॒ग्भ्य आ॑हाह दि॒ग्भ्यः । 25) दि॒ग्भ्य ए॒वैव दि॒ग्भ्यो दि॒ग्भ्य ए॒व । 25) दि॒ग्भ्य इति॑ दिक् - भ्यः । 26) ए॒वैना॑ मेना मे॒वैवैना᳚म् । 27) ए॒ना॒-म्प्र प्रैना॑ मेना॒-म्प्र । 28) प्रोक्ष॑ त्युक्षति॒ प्र प्रोक्ष॑ति । 29) उ॒क्ष॒ति॒ दे॒वा-न्दे॒वा नु॑क्ष त्युक्षति दे॒वान् । 30) दे॒वाग्श्च॑ च दे॒वा-न्दे॒वाग्श्च॑ । 31) चे दिच् च॒ चे त् । 32) इदु॑त्तरवे॒दि रु॑त्तरवे॒दि रिदि दु॑त्तरवे॒दिः । 33) उ॒त्त॒र॒वे॒दि रु॒पाव॑व-र्त्यु॒पाव॑व-र्त्युत्तरवे॒दि रु॑त्तरवे॒दि रु॒पाव॑वर्ति । 33) उ॒त्त॒र॒वे॒दिरित्यु॑त्तर - वे॒दिः । 34) उ॒पाव॑वर्ती॒हे होपाव॑व-र्त्यु॒पाव॑वर्ती॒ह । 34) उ॒पाव॑व॒र्तीत्यु॑प - आव॑वर्ति । 35) इ॒हैवैवे हेहैव । 36) ए॒व वि व्ये॑वैव वि । 37) वि ज॑यामहै जयामहै॒ वि वि ज॑यामहै । 38) ज॒या॒म॒हा॒ इतीति॑ जयामहै जयामहा॒ इति॑ । 39) इत्यसु॑रा॒ असु॑रा॒ इती त्यसु॑राः । 40) असु॑रा॒ वज्रं॒-वँज्र॒ मसु॑रा॒ असु॑रा॒ वज्र᳚म् । 41) वज्र॑ मु॒द्य त्यो॒द्यत्य॒ वज्रं॒-वँज्र॑ मु॒द्यत्य॑ । 42) उ॒द्यत्य॑ दे॒वा-न्दे॒वा नु॒द्य त्यो॒द्यत्य॑ दे॒वान् । 42) उ॒द्यत्येत्यु॑त् - यत्य॑ । 43) दे॒वा न॒भ्य॑भि दे॒वा-न्दे॒वा न॒भि । 44) अ॒भ्या॑ यन्ता यन्ता॒ भ्या᳚(1॒)भ्या॑ यन्त । 45) आ॒य॒न्त॒ ताग् स्ता ना॑यन्ता यन्त॒ तान् । 46) ता नि॑न्द्रघो॒ष इ॑न्द्रघो॒ष स्ताग् स्ता नि॑न्द्रघो॒षः । 47) इ॒न्द्र॒घो॒षो वसु॑भि॒-र्वसु॑भि रिन्द्रघो॒ष इ॑न्द्रघो॒षो वसु॑भिः । 47) इ॒न्द्र॒घो॒ष इती᳚न्द्र - घो॒षः । 48) वसु॑भिः पु॒रस्ता᳚-त्पु॒रस्ता॒-द्वसु॑भि॒-र्वसु॑भिः पु॒रस्ता᳚त् । 48) वसु॑भि॒रिति॒ वसु॑ - भिः॒ । 49) पु॒रस्ता॒ दपाप॑ पु॒रस्ता᳚-त्पु॒रस्ता॒ दप॑ । 50) अपा॑ नुदता नुद॒ता पापा॑ नुदत । ॥ 37 ॥ (50/58)
1) अ॒नु॒द॒त॒ मनो॑जवा॒ मनो॑जवा अनुदता नुदत॒ मनो॑जवाः । 2) मनो॑जवाः पि॒तृभिः॑ पि॒तृभि॒-र्मनो॑जवा॒ मनो॑जवाः पि॒तृभिः॑ । 2) मनो॑जवा॒ इति॒ मनः॑ - ज॒वाः॒ । 3) पि॒तृभि॑-र्दक्षिण॒तो द॑क्षिण॒तः पि॒तृभिः॑ पि॒तृभि॑-र्दक्षिण॒तः । 3) पि॒तृभि॒रिति॑ पि॒तृ - भिः॒ । 4) द॒क्षि॒ण॒तः प्रचे॑ताः॒ प्रचे॑ता दक्षिण॒तो द॑क्षिण॒तः प्रचे॑ताः । 5) प्रचे॑ता रु॒द्रै रु॒द्रैः प्रचे॑ताः॒ प्रचे॑ता रु॒द्रैः । 5) प्रचे॑ता॒ इति॒ प्र - चे॒ताः॒ । 6) रु॒द्रैः प॒श्चा-त्प॒श्चा-द्रु॒द्रै रु॒द्रैः प॒श्चात् । 7) प॒श्चा-द्वि॒श्वक॑र्मा वि॒श्वक॑र्मा प॒श्चा-त्प॒श्चा-द्वि॒श्वक॑र्मा । 8) वि॒श्वक॑र्मा ऽऽदि॒त्यै रा॑दि॒त्यै-र्वि॒श्वक॑र्मा वि॒श्वक॑र्मा ऽऽदि॒त्यैः । 8) वि॒श्वक॒र्मेति॑ वि॒श्व - क॒र्मा॒ । 9) आ॒दि॒त्यै रु॑त्तर॒त उ॑त्तर॒त आ॑दि॒त्यै रा॑दि॒त्यै रु॑त्तर॒तः । 10) उ॒त्त॒र॒तो य-द्यदु॑त्तर॒त उ॑त्तर॒तो यत् । 10) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 11) यदे॒व मे॒वं-यँ-द्यदे॒वम् । 12) ए॒व मु॑त्तरवे॒दि मु॑त्तरवे॒दि मे॒व मे॒व मु॑त्तरवे॒दिम् । 13) उ॒त्त॒र॒वे॒दि-म्प्रो॒क्षति॑ प्रो॒क्ष त्यु॑त्तरवे॒दि मु॑त्तरवे॒दि-म्प्रो॒क्षति॑ । 13) उ॒त्त॒र॒वे॒दिमित्यु॑त्तर - वे॒दिम् । 14) प्रो॒क्षति॑ दि॒ग्भ्यो दि॒ग्भ्यः प्रो॒क्षति॑ प्रो॒क्षति॑ दि॒ग्भ्यः । 14) प्रो॒क्षतीति॑ प्र - उ॒क्षति॑ । 15) दि॒ग्भ्य ए॒वैव दि॒ग्भ्यो दि॒ग्भ्य ए॒व । 15) दि॒ग्भ्य इति॑ दिक् - भ्यः । 16) ए॒व त-त्तदे॒वैव तत् । 17) त-द्यज॑मानो॒ यज॑मान॒ स्त-त्त-द्यज॑मानः । 18) यज॑मानो॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒न्॒. यज॑मानो॒ यज॑मानो॒ भ्रातृ॑व्यान् । 19) भ्रातृ॑व्या॒-न्प्र प्र भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒-न्प्र । 20) प्र णु॑दते नुदते॒ प्र प्र णु॑दते । 21) नु॒द॒त॒ इन्द्र॒ इन्द्रो॑ नुदते नुदत॒ इन्द्रः॑ । 22) इन्द्रो॒ यती॒न्॒. यती॒ निन्द्र॒ इन्द्रो॒ यतीन्॑ । 23) यती᳚-न्थ्सालावृ॒केभ्य॑-स्सालावृ॒केभ्यो॒ यती॒न्॒. यती᳚-न्थ्सालावृ॒केभ्यः॑ । 24) सा॒ला॒वृ॒केभ्यः॒ प्र प्र सा॑लावृ॒केभ्य॑-स्सालावृ॒केभ्यः॒ प्र । 25) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् । 26) अ॒य॒च्छ॒-त्ताग् स्ता न॑यच्छ दयच्छ॒-त्तान् । 27) ता-न्द॑क्षिण॒तो द॑क्षिण॒त स्ताग् स्ता-न्द॑क्षिण॒तः । 28) द॒क्षि॒ण॒त उ॑त्तरवे॒द्या उ॑त्तरवे॒द्या द॑क्षिण॒तो द॑क्षिण॒त उ॑त्तरवे॒द्याः । 29) उ॒त्त॒र॒वे॒द्या आ॑द-न्नाद-न्नुत्तरवे॒द्या उ॑त्तरवे॒द्या आ॑दन्न् । 29) उ॒त्त॒र॒वे॒द्या इत्यु॑त्तर - वे॒द्याः । 30) आ॒द॒न्॒. य-द्यदा॑द-न्नाद॒न्॒. यत् । 31) य-त्प्रोक्ष॑णीना॒-म्प्रोक्ष॑णीनां॒-यँ-द्य-त्प्रोक्ष॑णीनाम् । 32) प्रोक्ष॑णीना मु॒च्छिष्ये॑ तो॒च्छिष्ये॑त॒ प्रोक्ष॑णीना॒-म्प्रोक्ष॑णीना मु॒च्छिष्ये॑त । 32) प्रोक्ष॑णीना॒मिति॑ प्र - उक्ष॑णीनाम् । 33) उ॒च्छिष्ये॑त॒ त-त्तदु॒च्छिष्ये॑ तो॒च्छिष्ये॑त॒ तत् । 33) उ॒च्छिष्ये॒तेत्यु॑त् - शिष्ये॑त । 34) त-द्द॑क्षिण॒तो द॑क्षिण॒त स्त-त्त-द्द॑क्षिण॒तः । 35) द॒क्षि॒ण॒त उ॑त्तरवे॒द्या उ॑त्तरवे॒द्यै द॑क्षिण॒तो द॑क्षिण॒त उ॑त्तरवे॒द्यै । 36) उ॒त्त॒र॒वे॒द्यै नि न्यु॑त्तरवे॒द्या उ॑त्तरवे॒द्यै नि । 36) उ॒त्त॒र॒वे॒द्या इत्यु॑त्तर - वे॒द्यै । 37) नि न॑ये-न्नये॒-न्नि नि न॑येत् । 38) न॒ये॒-द्य-द्य-न्न॑ये-न्नये॒-द्यत् । 39) यदे॒वैव य-द्यदे॒व । 40) ए॒व तत्र॒ तत्रै॒वैव तत्र॑ । 41) तत्र॑ क्रू॒र-ङ्क्रू॒र-न्तत्र॒ तत्र॑ क्रू॒रम् । 42) क्रू॒र-न्त-त्त-त्क्रू॒र-ङ्क्रू॒र-न्तत् । 43) त-त्तेन॒ तेन॒ त-त्त-त्तेन॑ । 44) तेन॑ शमयति शमयति॒ तेन॒ तेन॑ शमयति । 45) श॒म॒य॒ति॒ यं-यँग्ं श॑मयति शमयति॒ यम् । 46) य-न्द्वि॒ष्या-द्द्वि॒ष्या-द्यं-यँ-न्द्वि॒ष्यात् । 47) द्वि॒ष्या-त्त-न्त-न्द्वि॒ष्या-द्द्वि॒ष्या-त्तम् । 48) त-न्ध्या॑ये-द्ध्याये॒-त्त-न्त-न्ध्या॑येत् । 49) ध्या॒ये॒च्छु॒चा शु॒चा ध्या॑ये-द्ध्याये च्छु॒चा । 50) शु॒चैवैव शु॒चा शु॒चैव । 51) ए॒वैन॑ मेन मे॒वैवैन᳚म् । 52) ए॒न॒ म॒र्प॒य॒ त्य॒र्प॒य॒ त्ये॒न॒ मे॒न॒ म॒र्प॒य॒ति॒ । 53) अ॒र्प॒य॒तीत्य॑र्पयति । ॥ 38 ॥ (53/65) ॥ अ. 7 ॥
1) सोत्त॑रवे॒दि रु॑त्तरवे॒दि-स्सा सोत्त॑रवे॒दिः । 2) उ॒त्त॒र॒वे॒दि र॑ब्रवीदब्रवी दुत्तरवे॒दि रु॑त्तरवे॒दि र॑ब्रवीत् । 2) उ॒त्त॒र॒वे॒दिरित्यु॑त्तर - वे॒दिः । 3) अ॒ब्र॒वी॒-थ्सर्वा॒-न्थ्सर्वा॑ नब्रवी दब्रवी॒-थ्सर्वान्॑ । 4) सर्वा॒-न्मया॒ मया॒ सर्वा॒-न्थ्सर्वा॒-न्मया᳚ । 5) मया॒ कामा॒न् कामा॒-न्मया॒ मया॒ कामान्॑ । 6) कामा॒न्॒. वि वि कामा॒न् कामा॒न्॒. वि । 7) व्य॑श्ञवथा श्ञवथ॒ वि व्य॑श्ञवथ । 8) अ॒श्ञ॒व॒थे तीत्य॑श्ञवथा श्ञव॒थेति॑ । 9) इति॒ ते त इतीति॒ ते । 10) ते दे॒वा दे॒वा स्ते ते दे॒वाः । 11) दे॒वा अ॑कामयन्ता कामयन्त दे॒वा दे॒वा अ॑कामयन्त । 12) अ॒का॒म॒य॒न्ता सु॑रा॒ नसु॑रा नकामयन्ता कामय॒न्ता सु॑रान् । 13) असु॑रा॒-न्भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒ नसु॑रा॒ नसु॑रा॒-न्भ्रातृ॑व्यान् । 14) भ्रातृ॑व्या न॒भ्य॑भि भ्रातृ॑व्या॒-न्भ्रातृ॑व्या न॒भि । 15) अ॒भि भ॑वेम भवेमा॒भ्य॑भि भ॑वेम । 16) भ॒वे॒मे तीति॑ भवेम भवे॒मेति॑ । 17) इति॒ ते त इतीति॒ ते । 18) ते॑ ऽजुहवु रजुहवु॒ स्ते ते॑ ऽजुहवुः । 19) अ॒जु॒ह॒वु॒-स्सि॒ग्ं॒ही-स्सि॒ग्ं॒ही र॑जुहवु रजुहवु-स्सि॒ग्ं॒हीः । 20) सि॒ग्ं॒ही र॑स्यसि सि॒ग्ं॒ही-स्सि॒ग्ं॒ही र॑सि । 21) अ॒सि॒ स॒प॒त्न॒सा॒ही स॑पत्नसा॒ह्य॑स्यसि सपत्नसा॒ही । 22) स॒प॒त्न॒सा॒ही स्वाहा॒ स्वाहा॑ सपत्नसा॒ही स॑पत्नसा॒ही स्वाहा᳚ । 22) स॒प॒त्न॒सा॒हीति॑ सपत्न - सा॒ही । 23) स्वाहेतीति॒ स्वाहा॒ स्वाहेति॑ । 24) इति॒ ते त इतीति॒ ते । 25) ते ऽसु॑रा॒ नसु॑रा॒-न्ते ते ऽसु॑रान् । 26) असु॑रा॒-न्भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒ नसु॑रा॒ नसु॑रा॒-न्भ्रातृ॑व्यान् । 27) भ्रातृ॑व्या न॒भ्य॑भि भ्रातृ॑व्या॒-न्भ्रातृ॑व्या न॒भि । 28) अ॒भ्य॑भव-न्नभव-न्न॒भ्या᳚(1॒)भ्य॑भवन्न् । 29) अ॒भ॒व॒-न्ते ते॑ ऽभव-न्नभव॒-न्ते । 30) ते ऽसु॑रा॒ नसु॑रा॒-न्ते ते ऽसु॑रान् । 31) असु॑रा॒-न्भ्रातृ॑व्या॒-न्भ्रातृ॑व्या॒ नसु॑रा॒ नसु॑रा॒-न्भ्रातृ॑व्यान् । 32) भ्रातृ॑व्या नभि॒भूया॑ भि॒भूय॒ भ्रातृ॑व्या॒-न्भ्रातृ॑व्या नभि॒भूय॑ । 33) अ॒भि॒भूया॑ कामयन्ता कामयन्ता भि॒भूया॑ भि॒भूया॑ कामयन्त । 33) अ॒भि॒भूयेत्य॑भि - भूय॑ । 34) अ॒का॒म॒य॒न्त॒ प्र॒जा-म्प्र॒जा म॑कामयन्ता कामयन्त प्र॒जाम् । 35) प्र॒जां-विँ॑न्देमहि विन्देमहि प्र॒जा-म्प्र॒जां-विँ॑न्देमहि । 35) प्र॒जामिति॑ प्र - जाम् । 36) वि॒न्दे॒म॒हीतीति॑ विन्देमहि विन्देम॒हीति॑ । 37) इति॒ ते त इतीति॒ ते । 38) ते॑ ऽजुहवु रजुहवु॒ स्ते ते॑ ऽजुहवुः । 39) अ॒जु॒ह॒वु॒-स्सि॒ग्ं॒ही-स्सि॒ग्ं॒ही र॑जुहवु रजुहवु-स्सि॒ग्ं॒हीः । 40) सि॒ग्ं॒ही र॑स्यसि सि॒ग्ं॒ही-स्सि॒ग्ं॒ही र॑सि । 41) अ॒सि॒ सु॒प्र॒जा॒वनि॑-स्सुप्रजा॒वनि॑ रस्यसि सुप्रजा॒वनिः॑ । 42) सु॒प्र॒जा॒वनि॒-स्स्वाहा॒ स्वाहा॑ सुप्रजा॒वनि॑-स्सुप्रजा॒वनि॒-स्स्वाहा᳚ । 42) सु॒प्र॒जा॒वनि॒रिति॑ सुप्रजा - वनिः॑ । 43) स्वाहेतीति॒ स्वाहा॒ स्वाहेति॑ । 44) इति॒ ते त इतीति॒ ते । 45) ते प्र॒जा-म्प्र॒जा-न्ते ते प्र॒जाम् । 46) प्र॒जा म॑विन्दन्ता विन्दन्त प्र॒जा-म्प्र॒जा म॑विन्दन्त । 46) प्र॒जामिति॑ प्र - जाम् । 47) अ॒वि॒न्द॒न्त॒ ते ते॑ ऽविन्दन्ता विन्दन्त॒ ते । 48) ते प्र॒जा-म्प्र॒जा-न्ते ते प्र॒जाम् । 49) प्र॒जां-विँ॒त्त्वा वि॒त्त्वा प्र॒जा-म्प्र॒जां-विँ॒त्त्वा । 49) प्र॒जामिति॑ प्र - जाम् । 50) वि॒त्त्वा ऽका॑मयन्ता कामयन्त वि॒त्त्वा वि॒त्त्वा ऽका॑मयन्त । ॥ 39 ॥ (50/57)
1) अ॒का॒म॒य॒न्त॒ प॒शू-न्प॒शू न॑कामयन्ता कामयन्त प॒शून् । 2) प॒शून्. वि॑न्देमहि विन्देमहि प॒शू-न्प॒शून्. वि॑न्देमहि । 3) वि॒न्दे॒म॒हीतीति॑ विन्देमहि विन्देम॒हीति॑ । 4) इति॒ ते त इतीति॒ ते । 5) ते॑ ऽजुहवु रजुहवु॒ स्ते ते॑ ऽजुहवुः । 6) अ॒जु॒ह॒वु॒-स्सि॒ग्ं॒ही-स्सि॒ग्ं॒ही र॑जुहवु रजुहवु-स्सि॒ग्ं॒हीः । 7) सि॒ग्ं॒ही र॑स्यसि सि॒ग्ं॒ही-स्सि॒ग्ं॒ही र॑सि । 8) अ॒सि॒ रा॒य॒स्पो॒ष॒वनी॑ रायस्पोष॒वनि॑ रस्यसि रायस्पोष॒वनिः॑ । 9) रा॒य॒स्पो॒ष॒वनि॒-स्स्वाहा॒ स्वाहा॑ रायस्पोष॒वनी॑ रायस्पोष॒वनि॒-स्स्वाहा᳚ । 9) रा॒य॒स्पो॒ष॒वनि॒रिति॑ रायस्पोष - वनिः॑ । 10) स्वाहेतीति॒ स्वाहा॒ स्वाहेति॑ । 11) इति॒ ते त इतीति॒ ते । 12) ते प॒शू-न्प॒शू-न्ते ते प॒शून् । 13) प॒शू न॑विन्दन्ता विन्दन्त प॒शू-न्प॒शू न॑विन्दन्त । 14) अ॒वि॒न्द॒न्त॒ ते ते॑ ऽविन्दन्ता विन्दन्त॒ ते । 15) ते प॒शू-न्प॒शू-न्ते ते प॒शून् । 16) प॒शून्. वि॒त्त्वा वि॒त्त्वा प॒शू-न्प॒शून्. वि॒त्त्वा । 17) वि॒त्त्वा ऽका॑मयन्ता कामयन्त वि॒त्त्वा वि॒त्त्वा ऽका॑मयन्त । 18) अ॒का॒म॒य॒न्त॒ प्र॒ति॒ष्ठा-म्प्र॑ति॒ष्ठा म॑कामयन्ता कामयन्त प्रति॒ष्ठाम् । 19) प्र॒ति॒ष्ठां-विँ॑न्देमहि विन्देमहि प्रति॒ष्ठा-म्प्र॑ति॒ष्ठां-विँ॑न्देमहि । 19) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । 20) वि॒न्दे॒म॒हीतीति॑ विन्देमहि विन्देम॒हीति॑ । 21) इति॒ ते त इतीति॒ ते । 22) ते॑ ऽजुहवु रजुहवु॒ स्ते ते॑ ऽजुहवुः । 23) अ॒जु॒ह॒वु॒-स्सि॒ग्ं॒ही-स्सि॒ग्ं॒ही र॑जुहवु रजुहवु-स्सि॒ग्ं॒हीः । 24) सि॒ग्ं॒ही र॑स्यसि सि॒ग्ं॒ही-स्सि॒ग्ं॒ही र॑सि । 25) अ॒स्या॒ दि॒त्य॒वनि॑ रादित्य॒वनि॑ रस्यस्या दित्य॒वनिः॑ । 26) आ॒दि॒त्य॒वनि॒-स्स्वाहा॒ स्वाहा॑ ऽऽदित्य॒वनि॑ रादित्य॒वनि॒-स्स्वाहा᳚ । 26) आ॒दि॒त्य॒वनि॒रित्या॑दित्य - वनिः॑ । 27) स्वाहेतीति॒ स्वाहा॒ स्वाहेति॑ । 28) इति॒ ते त इतीति॒ ते । 29) त इ॒मा मि॒मा-न्ते त इ॒माम् । 30) इ॒मा-म्प्र॑ति॒ष्ठा-म्प्र॑ति॒ष्ठा मि॒मा मि॒मा-म्प्र॑ति॒ष्ठाम् । 31) प्र॒ति॒ष्ठा म॑विन्दन्ता विन्दन्त प्रति॒ष्ठा-म्प्र॑ति॒ष्ठा म॑विन्दन्त । 31) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । 32) अ॒वि॒न्द॒न्त॒ ते ते॑ ऽविन्दन्ता विन्दन्त॒ ते । 33) त इ॒मा मि॒मा-न्ते त इ॒माम् । 34) इ॒मा-म्प्र॑ति॒ष्ठा-म्प्र॑ति॒ष्ठा मि॒मा मि॒मा-म्प्र॑ति॒ष्ठाम् । 35) प्र॒ति॒ष्ठां-विँ॒त्त्वा वि॒त्त्वा प्र॑ति॒ष्ठा-म्प्र॑ति॒ष्ठां-विँ॒त्त्वा । 35) प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । 36) वि॒त्त्वा ऽका॑मयन्ता कामयन्त वि॒त्त्वा वि॒त्त्वा ऽका॑मयन्त । 37) अ॒का॒म॒य॒न्त॒ दे॒वता॑ दे॒वता॑ अकामयन्ता कामयन्त दे॒वताः᳚ । 38) दे॒वता॑ आ॒शिष॑ आ॒शिषो॑ दे॒वता॑ दे॒वता॑ आ॒शिषः॑ । 39) आ॒शिष॒ उपोपा॒शिष॑ आ॒शिष॒ उप॑ । 39) आ॒शिष॒ इत्या᳚ - शिषः॑ । 40) उपे॑ यामे या॒मोपोपे॑ याम । 41) इ॒या॒मे तीती॑यामे या॒मेति॑ । 42) इति॒ ते त इतीति॒ ते । 43) ते॑ ऽजुहवु रजुहवु॒ स्ते ते॑ ऽजुहवुः । 44) अ॒जु॒ह॒वु॒-स्सि॒ग्ं॒ही-स्सि॒ग्ं॒ही र॑जुहवु रजुहवु-स्सि॒ग्ं॒हीः । 45) सि॒ग्ं॒ही र॑स्यसि सि॒ग्ं॒ही-स्सि॒ग्ं॒ही र॑सि । 46) अ॒स्या ऽस्य॒स्या । 47) आ व॑ह व॒हा व॑ह । 48) व॒ह॒ दे॒वा-न्दे॒वान्. व॑ह वह दे॒वान् । 49) दे॒वा-न्दे॑वय॒ते दे॑वय॒ते दे॒वा-न्दे॒वा-न्दे॑वय॒ते । 50) दे॒व॒य॒ते यज॑मानाय॒ यज॑मानाय देवय॒ते दे॑वय॒ते यज॑मानाय । 50) दे॒व॒य॒त इति॑ देव - य॒ते । ॥ 40 ॥ (50/57)
1) यज॑मानाय॒ स्वाहा॒ स्वाहा॒ यज॑मानाय॒ यज॑मानाय॒ स्वाहा᳚ । 2) स्वाहेतीति॒ स्वाहा॒ स्वाहेति॑ । 3) इति॒ ते त इतीति॒ ते । 4) ते दे॒वता॑ दे॒वता॒ स्ते ते दे॒वताः᳚ । 5) दे॒वता॑ आ॒शिष॑ आ॒शिषो॑ दे॒वता॑ दे॒वता॑ आ॒शिषः॑ । 6) आ॒शिष॒ उपोपा॒शिष॑ आ॒शिष॒ उप॑ । 6) आ॒शिष॒ इत्या᳚ - शिषः॑ । 7) उपा॑य-न्नाय॒-न्नुपोपा॑यन्न् । 8) आ॒य॒-न्पञ्च॒ पञ्चा॑य-न्नाय॒-न्पञ्च॑ । 9) पञ्च॒ कृत्वः॒ कृत्वः॒ पञ्च॒ पञ्च॒ कृत्वः॑ । 10) कृत्वो॒ व्याघा॑रयति॒ व्याघा॑रयति॒ कृत्वः॒ कृत्वो॒ व्याघा॑रयति । 11) व्याघा॑रयति॒ पञ्चा᳚क्षरा॒ पञ्चा᳚क्षरा॒ व्याघा॑रयति॒ व्याघा॑रयति॒ पञ्चा᳚क्षरा । 11) व्याघा॑रय॒तीति॑ वि - आघा॑रयति । 12) पञ्चा᳚क्षरा प॒ङ्क्तिः प॒ङ्क्तिः पञ्चा᳚क्षरा॒ पञ्चा᳚क्षरा प॒ङ्क्तिः । 12) पञ्चा᳚क्ष॒रेति॒ पञ्च॑ - अ॒क्ष॒रा॒ । 13) प॒ङ्क्तिः पाङ्क्तः॒ पाङ्क्तः॑ प॒ङ्क्तिः प॒ङ्क्तिः पाङ्क्तः॑ । 14) पाङ्क्तो॑ य॒ज्ञो य॒ज्ञः पाङ्क्तः॒ पाङ्क्तो॑ य॒ज्ञः । 15) य॒ज्ञो य॒ज्ञं-यँ॒ज्ञं-यँ॒ज्ञो य॒ज्ञो य॒ज्ञम् । 16) य॒ज्ञ मे॒वैव य॒ज्ञं-यँ॒ज्ञ मे॒व । 17) ए॒वावा वै॒वै वाव॑ । 18) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 19) रु॒न्धे॒ ऽक्ष्ण॒या ऽक्ष्ण॒या रु॑न्धे रुन्धे ऽक्ष्ण॒या । 20) अ॒क्ष्ण॒या व्याघा॑रयति॒ व्याघा॑रय त्यक्ष्ण॒या ऽक्ष्ण॒या व्याघा॑रयति । 21) व्याघा॑रयति॒ तस्मा॒-त्तस्मा॒-द्व्याघा॑रयति॒ व्याघा॑रयति॒ तस्मा᳚त् । 21) व्याघा॑रय॒तीति॑ वि - आघा॑रयति । 22) तस्मा॑ दक्ष्ण॒या ऽक्ष्ण॒या तस्मा॒-त्तस्मा॑ दक्ष्ण॒या । 23) अ॒क्ष्ण॒या प॒शवः॑ प॒शवो᳚ ऽक्ष्ण॒या ऽक्ष्ण॒या प॒शवः॑ । 24) प॒शवो ऽङ्गा॒ न्यङ्गा॑नि प॒शवः॑ प॒शवो ऽङ्गा॑नि । 25) अङ्गा॑नि॒ प्र प्राङ्गा॒ न्यङ्गा॑नि॒ प्र । 26) प्र ह॑रन्ति हरन्ति॒ प्र प्र ह॑रन्ति । 27) ह॒र॒न्ति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै हरन्ति हरन्ति॒ प्रति॑ष्ठित्यै । 28) प्रति॑ष्ठित्यै भू॒तेभ्यो॑ भू॒तेभ्यः॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै भू॒तेभ्यः॑ । 28) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 29) भू॒तेभ्य॑ स्त्वा त्वा भू॒तेभ्यो॑ भू॒तेभ्य॑ स्त्वा । 30) त्वेतीति॑ त्वा॒ त्वेति॑ । 31) इति॒ स्रुच॒ग्ग्॒ स्रुच॒ मितीति॒ स्रुच᳚म् । 32) स्रुच॒ मुदु-थ्स्रुच॒ग्ग्॒ स्रुच॒ मुत् । 33) उ-द्गृ॑ह्णाति गृह्णा॒ त्युदु-द्गृ॑ह्णाति । 34) गृ॒ह्णा॒ति॒ ये ये गृ॑ह्णाति गृह्णाति॒ ये । 35) य ए॒वैव ये य ए॒व । 36) ए॒व दे॒वा दे॒वा ए॒वैव दे॒वाः । 37) दे॒वा भू॒ता भू॒ता दे॒वा दे॒वा भू॒ताः । 38) भू॒ता स्तेषा॒-न्तेषा᳚-म्भू॒ता भू॒ता स्तेषा᳚म् । 39) तेषा॒-न्त-त्त-त्तेषा॒-न्तेषा॒-न्तत् । 40) त-द्भा॑ग॒धेय॑-म्भाग॒धेय॒-न्त-त्त-द्भा॑ग॒धेय᳚म् । 41) भा॒ग॒धेय॒-न्ताग् स्ता-न्भा॑ग॒धेय॑-म्भाग॒धेय॒-न्तान् । 41) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । 42) ता ने॒वैव ताग् स्ता ने॒व । 43) ए॒व तेन॒ तेनै॒वैव तेन॑ । 44) तेन॑ प्रीणाति प्रीणाति॒ तेन॒ तेन॑ प्रीणाति । 45) प्री॒णा॒ति॒ पौतु॑द्रवा॒-न्पौतु॑द्रवा-न्प्रीणाति प्रीणाति॒ पौतु॑द्रवान् । 46) पौतु॑द्रवा-न्परि॒धी-न्प॑रि॒धी-न्पौतु॑द्रवा॒-न्पौतु॑द्रवा-न्परि॒धीन् । 47) प॒रि॒धी-न्परि॒ परि॑ परि॒धी-न्प॑रि॒धी-न्परि॑ । 47) प॒रि॒धीनिति॑ परि - धीन् । 48) परि॑ दधाति दधाति॒ परि॒ परि॑ दधाति । 49) द॒धा॒ त्ये॒षा मे॒षा-न्द॑धाति दधा त्ये॒षाम् । 50) ए॒षाम् ँलो॒काना᳚म् ँलो॒काना॑ मे॒षा मे॒षाम् ँलो॒काना᳚म् । ॥ 41 ॥ (50/57)
1) लो॒कानां॒-विँधृ॑त्यै॒ विधृ॑त्यै लो॒काना᳚म् ँलो॒कानां॒-विँधृ॑त्यै । 2) विधृ॑त्या अ॒ग्ने र॒ग्ने-र्विधृ॑त्यै॒ विधृ॑त्या अ॒ग्नेः । 2) विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । 3) अ॒ग्ने स्त्रय॒ स्त्रयो॒ ऽग्ने र॒ग्ने स्त्रयः॑ । 4) त्रयो॒ ज्यायाग्ं॑सो॒ ज्यायाग्ं॑स॒ स्त्रय॒ स्त्रयो॒ ज्यायाग्ं॑सः । 5) ज्यायाग्ं॑सो॒ भ्रात॑रो॒ भ्रात॑रो॒ ज्यायाग्ं॑सो॒ ज्यायाग्ं॑सो॒ भ्रात॑रः । 6) भ्रात॑र आस-न्नास॒-न्भ्रात॑रो॒ भ्रात॑र आसन्न् । 7) आ॒स॒-न्ते त आ॑स-न्नास॒-न्ते । 8) ते दे॒वेभ्यो॑ दे॒वेभ्य॒ स्ते ते दे॒वेभ्यः॑ । 9) दे॒वेभ्यो॑ ह॒व्यग्ं ह॒व्य-न्दे॒वेभ्यो॑ दे॒वेभ्यो॑ ह॒व्यम् । 10) ह॒व्यं-वँह॑न्तो॒ वह॑न्तो ह॒व्यग्ं ह॒व्यं-वँह॑न्तः । 11) वह॑न्तः॒ प्र प्र वह॑न्तो॒ वह॑न्तः॒ प्र । 12) प्रामी॑यन्ता मीयन्त॒ प्र प्रामी॑यन्त । 13) अ॒मी॒य॒न्त॒ स सो॑ ऽमीयन्ता मीयन्त॒ सः । 14) सो᳚ ऽग्नि र॒ग्नि-स्स सो᳚ ऽग्निः । 15) अ॒ग्नि र॑बिभे दबिभे द॒ग्नि र॒ग्नि र॑बिभेत् । 16) अ॒बि॒भे॒ दि॒त्थ मि॒त्थ म॑बिभे दबिभे दि॒त्थम् । 17) इ॒त्थं-वाँव वावे त्थ मि॒त्थं-वाँव । 18) वाव स्य स्य वाव वाव स्यः । 19) स्य आर्ति॒ मार्ति॒ग्ग्॒ स्य स्य आर्ति᳚म् । 20) आर्ति॒ मा ऽऽर्ति॒ मार्ति॒ मा । 21) आ ऽरि॑ष्य त्यरिष्य॒त्या ऽरि॑ष्यति । 22) अ॒रि॒ष्य॒तीती त्य॑रिष्य त्यरिष्य॒तीति॑ । 23) इति॒ स स इतीति॒ सः । 24) स निला॑यत॒ निला॑यत॒ स स निला॑यत । 25) निला॑यत॒ स स निला॑यत॒ निला॑यत॒ सः । 26) स यां-याँग्ं स स याम् । 27) यां-वँन॒स्पति॑षु॒ वन॒स्पति॑षु॒ यां-यांँ वन॒स्पति॑षु । 28) वन॒स्पति॒ ष्वव॑स॒ दव॑स॒-द्वन॒स्पति॑षु॒ वन॒स्पति॒ ष्वव॑सत् । 29) अव॑स॒-त्ता-न्ता मव॑स॒ दव॑स॒-त्ताम् । 30) ता-म्पूतु॑द्रौ॒ पूतु॑द्रौ॒ ता-न्ता-म्पूतु॑द्रौ । 31) पूतु॑द्रौ॒ यां-याँ-म्पूतु॑द्रौ॒ पूतु॑द्रौ॒ याम् । 32) या मोष॑धी॒ ष्वोष॑धीषु॒ यां-याँ मोष॑धीषु । 33) ओष॑धीषु॒ ता-न्ता मोष॑धी॒ ष्वोष॑धीषु॒ ताम् । 34) ताग्ं सु॑गन्धि॒तेज॑ने सुगन्धि॒तेज॑ने॒ ता-न्ताग्ं सु॑गन्धि॒तेज॑ने । 35) सु॒ग॒न्धि॒तेज॑ने॒ यां-याँग्ं सु॑गन्धि॒तेज॑ने सुगन्धि॒तेज॑ने॒ याम् । 35) सु॒ग॒न्धि॒तेज॑न॒ इति॑ सुगन्धि - तेज॑ने । 36) या-म्प॒शुषु॑ प॒शुषु॒ यां-याँ-म्प॒शुषु॑ । 37) प॒शुषु॒ ता-न्ता-म्प॒शुषु॑ प॒शुषु॒ ताम् । 38) ता-म्पेत्व॑स्य॒ पेत्व॑स्य॒ ता-न्ता-म्पेत्व॑स्य । 39) पेत्व॑स्या न्त॒रा ऽन्त॒रा पेत्व॑स्य॒ पेत्व॑स्यान्त॒रा । 40) अ॒न्त॒रा शृङ्गे॒ शृङ्गे॑ अन्त॒रा ऽन्त॒रा शृङ्गे᳚ । 41) शृङ्गे॒ त-न्तग्ं शृङ्गे॒ शृङ्गे॒ तम् । 41) शृङ्गे॒ इति॒ शृङ्गे᳚ । 42) त-न्दे॒वता॑ दे॒वता॒ स्त-न्त-न्दे॒वताः᳚ । 43) दे॒वताः॒ प्रैष॒-म्प्रैष॑-न्दे॒वता॑ दे॒वताः॒ प्रैष᳚म् । 44) प्रैष॑ मैच्छ-न्नैच्छ॒-न्प्रैष॒-म्प्रैष॑ मैच्छन्न् । 44) प्रैष॒मिति॑ प्र - एष᳚म् । 45) ऐ॒च्छ॒-न्त-न्त मै᳚च्छ-न्नैच्छ॒-न्तम् । 46) त मन्वनु॒ त-न्त मनु॑ । 47) अन्व॑विन्द-न्नविन्द॒-न्नन् वन् व॑विन्दन्न् । 48) अ॒वि॒न्द॒-न्त-न्त म॑विन्द-न्नविन्द॒-न्तम् । 49) त म॑ब्रुव-न्नब्रुव॒-न्त-न्त म॑ब्रुवन्न् । 50) अ॒ब्रु॒व॒-न्नुपोपा᳚ब्रुव-न्नब्रुव॒-न्नुप॑ । ॥ 42 ॥ (50/54)
1) उप॑ नो न॒ उपोप॑ नः । 2) न॒ आ नो॑ न॒ आ । 3) आ व॑र्तस्व वर्त॒स्वा व॑र्तस्व । 4) व॒र्त॒स्व॒ ह॒व्यग्ं ह॒व्यं-वँ॑र्तस्व वर्तस्व ह॒व्यम् । 5) ह॒व्यन्नो॑ नो ह॒व्यग्ं ह॒व्यन्नः॑ । 6) नो॒ व॒ह॒ व॒ह॒ नो॒ नो॒ व॒ह॒ । 7) व॒हे तीति॑ वह व॒हेति॑ । 8) इति॒ स स इतीति॒ सः । 9) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् । 10) अ॒ब्र॒वी॒-द्वरं॒-वँर॑ मब्रवी दब्रवी॒-द्वर᳚म् । 11) वरं॑-वृँणै वृणै॒ वरं॒-वँरं॑-वृँणै । 12) वृ॒णै॒ य-द्य-द्वृ॑णै वृणै॒ यत् । 13) यदे॒वैव य-द्यदे॒व । 14) ए॒व गृ॑ही॒तस्य॑ गृही॒त स्यै॒वैव गृ॑ही॒तस्य॑ । 15) गृ॒ही॒तस्या हु॑त॒स्या हु॑तस्य गृही॒तस्य॑ गृही॒तस्या हु॑तस्य । 16) अहु॑तस्य बहिःपरि॒धि ब॑हिःपरि॒ ध्यहु॑त॒स्या हु॑तस्य बहिःपरि॒धि । 17) ब॒हिः॒प॒रि॒धि स्कन्दा॒-थ्स्कन्दा᳚-द्बहिःपरि॒धि ब॑हिःपरि॒धि स्कन्दा᳚त् । 17) ब॒हिः॒प॒रि॒धीति॑ बहिः - प॒रि॒धि । 18) स्कन्दा॒-त्त-त्त-थ्स्कन्दा॒-थ्स्कन्दा॒-त्तत् । 19) त-न्मे॑ मे॒ त-त्त-न्मे᳚ । 20) मे॒ भ्रातृ॑णा॒-म्भ्रातृ॑णा-म्मे मे॒ भ्रातृ॑णाम् । 21) भ्रातृ॑णा-म्भाग॒धेय॑-म्भाग॒धेय॒-म्भ्रातृ॑णा॒-म्भ्रातृ॑णा-म्भाग॒धेय᳚म् । 22) भा॒ग॒धेय॑ मस दस-द्भाग॒धेय॑-म्भाग॒धेय॑ मसत् । 22) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । 23) अ॒स॒दिती त्य॑स दस॒ दिति॑ । 24) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् । 25) तस्मा॒-द्य-द्य-त्तस्मा॒-त्तस्मा॒-द्यत् । 26) य-द्गृ॑ही॒तस्य॑ गृही॒तस्य॒ य-द्य-द्गृ॑ही॒तस्य॑ । 27) गृ॒ही॒तस्या हु॑त॒स्या हु॑तस्य गृही॒तस्य॑ गृही॒तस्या हु॑तस्य । 28) अहु॑तस्य बहिःपरि॒धि ब॑हिःपरि॒ ध्यहु॑त॒स्या हु॑तस्य बहिःपरि॒धि । 29) ब॒हिः॒प॒रि॒धि स्कन्द॑ति॒ स्कन्द॑ति बहिःपरि॒धि ब॑हिःपरि॒धि स्कन्द॑ति । 29) ब॒हिः॒प॒रि॒धीति॑ बहिः - प॒रि॒धि । 30) स्कन्द॑ति॒ तेषा॒-न्तेषा॒ग्॒ स्कन्द॑ति॒ स्कन्द॑ति॒ तेषा᳚म् । 31) तेषा॒-न्त-त्त-त्तेषा॒-न्तेषा॒-न्तत् । 32) त-द्भा॑ग॒धेय॑-म्भाग॒धेय॒-न्त-त्त-द्भा॑ग॒धेय᳚म् । 33) भा॒ग॒धेय॒-न्ताग् स्ता-न्भा॑ग॒धेय॑-म्भाग॒धेय॒-न्तान् । 33) भा॒ग॒धेय॒मिति॑ भाग - धेय᳚म् । 34) ता ने॒वैव ताग् स्ता ने॒व । 35) ए॒व तेन॒ तेनै॒वैव तेन॑ । 36) तेन॑ प्रीणाति प्रीणाति॒ तेन॒ तेन॑ प्रीणाति । 37) प्री॒णा॒ति॒ स स प्री॑णाति प्रीणाति॒ सः । 38) सो॑ ऽमन्यता मन्यत॒ स सो॑ ऽमन्यत । 39) अ॒म॒न्य॒ता॒ स्थ॒न्वन्तो᳚ ऽस्थ॒न्वन्तो॑ ऽमन्यता मन्यता स्थ॒न्वन्तः॑ । 40) अ॒स्थ॒न्वन्तो॑ मे मे ऽस्थ॒न्वन्तो᳚ ऽस्थ॒न्वन्तो॑ मे । 40) अ॒स्थ॒न्वन्त॒ इत्य॑स्थन्न् - वन्तः॑ । 41) मे॒ पूर्वे॒ पूर्वे॑ मे मे॒ पूर्वे᳚ । 42) पूर्वे॒ भ्रात॑रो॒ भ्रात॑रः॒ पूर्वे॒ पूर्वे॒ भ्रात॑रः । 43) भ्रात॑रः॒ प्र प्र भ्रात॑रो॒ भ्रात॑रः॒ प्र । 44) प्रामे॑षता मेषत॒ प्र प्रामे॑षत । 45) अ॒मे॒ष॒ता॒ स्था न्य॒स्था न्य॑मेषता मेषता॒ स्थानि॑ । 46) अ॒स्थानि॑ शातयै शातया अ॒स्था न्य॒स्थानि॑ शातयै । 47) शा॒त॒या॒ इतीति॑ शातयै शातया॒ इति॑ । 48) इति॒ स स इतीति॒ सः । 49) स यानि॒ यानि॒ स स यानि॑ । 50) यान्य॒स्था न्य॒स्थानि॒ यानि॒ यान्य॒स्थानि॑ । ॥ 43 ॥ (50/55)
1) अ॒स्था न्यशा॑तय॒ता शा॑तयता॒ स्था न्य॒स्था न्यशा॑तयत । 2) अशा॑तयत॒ त-त्तदशा॑तय॒ता शा॑तयत॒ तत् । 3) त-त्पूतु॑द्रु॒ पूतु॑द्रु॒ त-त्त-त्पूतु॑द्रु । 4) पूतु॑द्र्वभवब्दभव॒-त्पूतु॑द्रु॒ पूतु॑द्र्वभवत् । 5) अ॒भ॒व॒-द्य-द्यद॑भव दभव॒-द्यत् । 6) य-न्मा॒ग्ं॒स-म्मा॒ग्ं॒सं-यँ-द्य-न्मा॒ग्ं॒सम् । 7) मा॒ग्ं॒स मुप॑मृत॒ मुप॑मृत-म्मा॒ग्ं॒स-म्मा॒ग्ं॒स मुप॑मृतम् । 8) उप॑मृत॒-न्त-त्तदुप॑मृत॒ मुप॑मृत॒-न्तत् । 8) उप॑मृत॒मित्युप॑ - मृ॒त॒म् । 9) त-द्गुल्गु॑लु॒ गुल्गु॑लु॒ त-त्त-द्गुल्गु॑लु । 10) गुल्गु॑लु॒ य-द्य-द्गुल्गु॑लु॒ गुल्गु॑लु॒ यत् । 11) यदे॒ता ने॒तान्. य-द्यदे॒तान् । 12) ए॒ता-न्थ्स॑म्भा॒रा-न्थ्स॑म्भा॒रा ने॒ता ने॒ता-न्थ्स॑म्भा॒रान् । 13) स॒म्भा॒रा-न्थ्स॒म्भर॑ति स॒म्भर॑ति सम्भा॒रा-न्थ्स॑म्भा॒रा-न्थ्स॒म्भर॑ति । 13) स॒म्भा॒रानिति॑ सम् - भा॒रान् । 14) स॒म्भर॑ त्य॒ग्नि म॒ग्निग्ं स॒म्भर॑ति स॒म्भर॑ त्य॒ग्निम् । 14) स॒म्भर॒तीति॑ सं - भर॑ति । 15) अ॒ग्नि मे॒वैवाग्नि म॒ग्नि मे॒व । 16) ए॒व त-त्तदे॒वैव तत् । 17) त-थ्सग्ं स-न्त-त्त-थ्सम् । 18) स-म्भ॑रति भरति॒ सग्ं स-म्भ॑रति । 19) भ॒र॒ त्य॒ग्ने र॒ग्ने-र्भ॑रति भर त्य॒ग्नेः । 20) अ॒ग्नेः पुरी॑ष॒-म्पुरी॑ष म॒ग्ने र॒ग्नेः पुरी॑षम् । 21) पुरी॑ष मस्यसि॒ पुरी॑ष॒-म्पुरी॑ष मसि । 22) अ॒सीती त्य॑स्य॒सीति॑ । 23) इत्या॑हा॒हे तीत्या॑ह । 24) आ॒हा॒ग्ने र॒ग्ने रा॑हाहा॒ग्नेः । 25) अ॒ग्नेर्-हि ह्य॑ग्ने र॒ग्नेर्-हि । 26) ह्ये॑त दे॒त द्धि ह्ये॑तत् । 27) ए॒त-त्पुरी॑ष॒-म्पुरी॑ष मे॒त दे॒त-त्पुरी॑षम् । 28) पुरी॑षं॒-यँ-द्य-त्पुरी॑ष॒-म्पुरी॑षं॒-यँत् । 29) य-थ्स॑म्भा॒रा-स्स॑म्भा॒रा य-द्य-थ्स॑म्भा॒राः । 30) स॒म्भा॒रा अथो॒ अथो॑ सम्भा॒रा-स्स॑म्भा॒रा अथो᳚ । 30) स॒म्भा॒रा इति॑ सं - भा॒राः । 31) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ । 31) अथो॒ इत्यथो᳚ । 32) खल्वा॑हु राहुः॒ खलु॒ खल्वा॑हुः । 33) आ॒हु॒ रे॒त ए॒त आ॑हु राहु रे॒ते । 34) ए॒ते वाव वावैत ए॒ते वाव । 35) वावैन॑ मेनं॒-वाँव वावैन᳚म् । 36) ए॒न॒-न्ते त ए॑न मेन॒-न्ते । 37) ते भ्रात॑रो॒ भ्रात॑र॒ स्ते ते भ्रात॑रः । 38) भ्रात॑रः॒ परि॒ परि॒ भ्रात॑रो॒ भ्रात॑रः॒ परि॑ । 39) परि॑ शेरे शेरे॒ परि॒ परि॑ शेरे । 40) शे॒रे॒ य-द्यच्छे॑रे शेरे॒ यत् । 41) य-त्पौतु॑द्रवाः॒ पौतु॑द्रवा॒ य-द्य-त्पौतु॑द्रवाः । 42) पौतु॑द्रवाः परि॒धयः॑ परि॒धयः॒ पौतु॑द्रवाः॒ पौतु॑द्रवाः परि॒धयः॑ । 43) प॒रि॒धय॒ इतीति॑ परि॒धयः॑ परि॒धय॒ इति॑ । 43) प॒रि॒धय॒ इति॑ परि - धयः॑ । 44) इतीतीति॑ । ॥ 44 ॥ (44/50) ॥ अ. 8 ॥
1) ब॒द्ध मवाव॑ ब॒द्ध-म्ब॒द्ध मव॑ । 2) अव॑ स्यति स्य॒ त्यवाव॑ स्यति । 3) स्य॒ति॒ व॒रु॒ण॒पा॒शा-द्व॑रुणपा॒शा-थ्स्य॑ति स्यति वरुणपा॒शात् । 4) व॒रु॒ण॒पा॒शा दे॒वैव व॑रुणपा॒शा-द्व॑रुणपा॒शा दे॒व । 4) व॒रु॒ण॒पा॒शादिति॑ वरुण - पा॒शात् । 5) ए॒वैने॑ एने ए॒वैवैने᳚ । 6) ए॒ने॒ मु॒ञ्च॒ति॒ मु॒ञ्च॒ त्ये॒ने॒ ए॒ने॒ मु॒ञ्च॒ति॒ । 6) ए॒ने॒ इत्ये॑ने । 7) मु॒ञ्च॒ति॒ प्र प्र मु॑ञ्चति मुञ्चति॒ प्र । 8) प्र णे॑नेक्ति नेनेक्ति॒ प्र प्र णे॑नेक्ति । 9) ने॒ने॒क्ति॒ मेद्ध्ये॒ मेद्ध्ये॑ नेनेक्ति नेनेक्ति॒ मेद्ध्ये᳚ । 10) मेद्ध्ये॑ ए॒वैव मेद्ध्ये॒ मेद्ध्ये॑ ए॒व । 10) मेद्ध्ये॒ इति॒ मेद्ध्ये᳚ । 11) ए॒वैने॑ एने ए॒वैवैने᳚ । 12) ए॒ने॒ क॒रो॒ति॒ क॒रो॒ त्ये॒ने॒ ए॒ने॒ क॒रो॒ति॒ । 12) ए॒ने॒ इत्ये॑ने । 13) क॒रो॒ति॒ सा॒वि॒त्रि॒या सा॑वित्रि॒या क॑रोति करोति सावित्रि॒या । 14) सा॒वि॒त्रि॒य र्च र्चा सा॑वित्रि॒या सा॑वित्रि॒य र्चा । 15) ऋ॒चा हु॒त्वा हु॒त्व र्च र्चा हु॒त्वा । 16) हु॒त्वा ह॑वि॒र्धाने॑ हवि॒र्धाने॑ हु॒त्वा हु॒त्वा ह॑वि॒र्धाने᳚ । 17) ह॒वि॒र्धाने॒ प्र प्र ह॑वि॒र्धाने॑ हवि॒र्धाने॒ प्र । 17) ह॒वि॒र्धाने॒ इति॑ हविः - धाने᳚ । 18) प्र व॑र्तयति वर्तयति॒ प्र प्र व॑र्तयति । 19) व॒र्त॒य॒ति॒ स॒वि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूतो वर्तयति वर्तयति सवि॒तृप्र॑सूतः । 20) स॒वि॒तृप्र॑सूत ए॒वैव स॑वि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूत ए॒व । 20) स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ - प्र॒सू॒तः॒ । 21) ए॒वैने॑ एने ए॒वैवैने᳚ । 22) ए॒ने॒ प्र प्रैने॑ एने॒ प्र । 22) ए॒ने॒ इत्ये॑ने । 23) प्र व॑र्तयति वर्तयति॒ प्र प्र व॑र्तयति । 24) व॒र्त॒य॒ति॒ वरु॑णो॒ वरु॑णो वर्तयति वर्तयति॒ वरु॑णः । 25) वरु॑णो॒ वै वै वरु॑णो॒ वरु॑णो॒ वै । 26) वा ए॒ष ए॒ष वै वा ए॒षः । 27) ए॒ष दु॒र्वाग् दु॒र्वा गे॒ष ए॒ष दु॒र्वाक् । 28) दु॒र्वा गु॑भ॒यत॑ उभ॒यतो॑ दु॒र्वाग् दु॒र्वा गु॑भ॒यतः॑ । 28) दु॒र्वागिति॑ दुः - वाक् । 29) उ॒भ॒यतो॑ ब॒द्धो ब॒द्ध उ॑भ॒यत॑ उभ॒यतो॑ ब॒द्धः । 30) ब॒द्धो य-द्य-द्ब॒द्धो ब॒द्धो यत् । 31) यदक्षो ऽक्षो॒ य-द्यदक्षः॑ । 32) अक्ष॒-स्स सो ऽक्षो ऽक्ष॒-स्सः । 33) स य-द्य-थ्स स यत् । 34) यदु॒थ्सर्जे॑ दु॒थ्सर्जे॒-द्य-द्यदु॒थ्सर्जे᳚त् । 35) उ॒थ्सर्जे॒-द्यज॑मानस्य॒ यज॑मान स्यो॒थ्सर्जे॑ दु॒थ्सर्जे॒-द्यज॑मानस्य । 35) उ॒थ्सर्जे॒दित्यु॑त् - सर्जे᳚त् । 36) यज॑मानस्य गृ॒हा-न्गृ॒हान्. यज॑मानस्य॒ यज॑मानस्य गृ॒हान् । 37) गृ॒हा न॒भ्युथ्स॑र्जे द॒भ्युथ्स॑र्जे-द्गृ॒हा-न्गृ॒हा न॒भ्युथ्स॑र्जेत् । 38) अ॒भ्युथ्स॑र्जे-थ्सु॒वा-ख्सु॒वा ग॒भ्युथ्स॑र्जे द॒भ्युथ्स॑र्जे-थ्सु॒वाक् । 38) अ॒भ्युथ्स॑र्जे॒दित्य॑भि - उथ्स॑र्जेत् । 39) सु॒वाग् दे॑व देव सु॒वा-ख्सु॒वाग् दे॑व । 39) सु॒वागिति॑ सु - वाक् । 40) दे॒व॒ दुर्या॒-न्दुर्या᳚-न्देव देव॒ दुर्यान्॑ । 41) दुर्या॒ग्ं॒ आ दुर्या॒-न्दुर्या॒ग्ं॒ आ । 42) आ व॑द व॒दा व॑द । 43) व॒दे तीति॑ वद व॒देति॑ । 44) इत्या॑हा॒हे तीत्या॑ह । 45) आ॒ह॒ गृ॒हा गृ॒हा आ॑हाह गृ॒हाः । 46) गृ॒हा वै वै गृ॒हा गृ॒हा वै । 47) वै दुर्या॒ दुर्या॒ वै वै दुर्याः᳚ । 48) दुर्या॒-श्शान्त्यै॒ शान्त्यै॒ दुर्या॒ दुर्या॒-श्शान्त्यै᳚ । 49) शान्त्यै॒ पत्नी॒ पत्नी॒ शान्त्यै॒ शान्त्यै॒ पत्नी᳚ । 50) पत्न्युपोप॒ पत्नी॒ पत्न्युप॑ । ॥ 45 ॥ (50/61)
1) उपा॑ नक्त्य न॒क्त्युपोपा॑ नक्ति । 2) अ॒न॒क्ति॒ पत्नी॒ पत्न्य॑ नक्त्यनक्ति॒ पत्नी᳚ । 3) पत्नी॒ हि हि पत्नी॒ पत्नी॒ हि । 4) हि सर्व॑स्य॒ सर्व॑स्य॒ हि हि सर्व॑स्य । 5) सर्व॑स्य मि॒त्र-म्मि॒त्रग्ं सर्व॑स्य॒ सर्व॑स्य मि॒त्रम् । 6) मि॒त्र-म्मि॑त्र॒त्वाय॑ मित्र॒त्वाय॑ मि॒त्र-म्मि॒त्र-म्मि॑त्र॒त्वाय॑ । 7) मि॒त्र॒त्वाय॒ य-द्य-न्मि॑त्र॒त्वाय॑ मित्र॒त्वाय॒ यत् । 7) मि॒त्र॒त्वायेति॑ मित्र - त्वाय॑ । 8) य-द्वै वै य-द्य-द्वै । 9) वै पत्नी॒ पत्नी॒ वै वै पत्नी᳚ । 10) पत्नी॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ पत्नी॒ पत्नी॑ य॒ज्ञस्य॑ । 11) य॒ज्ञस्य॑ क॒रोति॑ क॒रोति॑ य॒ज्ञस्य॑ य॒ज्ञस्य॑ क॒रोति॑ । 12) क॒रोति॑ मिथु॒न-म्मि॑थु॒न-ङ्क॒रोति॑ क॒रोति॑ मिथु॒नम् । 13) मि॒थु॒न-न्त-त्त-न्मि॑थु॒न-म्मि॑थु॒न-न्तत् । 14) तदथो॒ अथो॒ त-त्तदथो᳚ । 15) अथो॒ पत्नि॑याः॒ पत्नि॑या॒ अथो॒ अथो॒ पत्नि॑याः । 15) अथो॒ इत्यथो᳚ । 16) पत्नि॑या ए॒वैव पत्नि॑याः॒ पत्नि॑या ए॒व । 17) ए॒वैष ए॒ष ए॒वैवैषः । 18) ए॒ष य॒ज्ञस्य॑ य॒ज्ञस्यै॒ष ए॒ष य॒ज्ञस्य॑ । 19) य॒ज्ञस्या᳚ न्वार॒म्भो᳚ ऽन्वार॒म्भो य॒ज्ञस्य॑ य॒ज्ञस्या᳚ न्वार॒म्भः । 20) अ॒न्वा॒र॒म्भो ऽन॑वच्छित्त्या॒ अन॑वच्छित्त्या अन्वार॒म्भो᳚ ऽन्वार॒म्भो ऽन॑वच्छित्त्यै । 20) अ॒न्वा॒र॒म्भ इत्य॑नु - आ॒र॒म्भः । 21) अन॑वच्छित्त्यै॒ वर्त्म॑ना॒ वर्त्म॒ना ऽन॑वच्छित्त्या॒ अन॑वच्छित्त्यै॒ वर्त्म॑ना । 21) अन॑वच्छित्त्या॒ इत्यन॑व - छि॒त्त्यै॒ । 22) वर्त्म॑ना॒ वै वै वर्त्म॑ना॒ वर्त्म॑ना॒ वै । 23) वा अ॒न्वित्या॒न् वित्य॒ वै वा अ॒न्वित्य॑ । 24) अ॒न्वित्य॑ य॒ज्ञं-यँ॒ज्ञ म॒न्वित्या॒न् वित्य॑ य॒ज्ञम् । 24) अ॒न्वित्येत्य॑नु - इत्य॑ । 25) य॒ज्ञग्ं रक्षाग्ं॑सि॒ रक्षाग्ं॑सि य॒ज्ञं-यँ॒ज्ञग्ं रक्षाग्ं॑सि । 26) रक्षाग्ं॑सि जिघाग्ंसन्ति जिघाग्ंसन्ति॒ रक्षाग्ं॑सि॒ रक्षाग्ं॑सि जिघाग्ंसन्ति । 27) जि॒घा॒ग्ं॒स॒न्ति॒ वै॒ष्ण॒वीभ्यां᳚-वैँष्ण॒वीभ्या᳚-ञ्जिघाग्ंसन्ति जिघाग्ंसन्ति वैष्ण॒वीभ्या᳚म् । 28) वै॒ष्ण॒वीभ्या॑ मृ॒ग्भ्या मृ॒ग्भ्यां-वैँ᳚ष्ण॒वीभ्यां᳚-वैँष्ण॒वीभ्या॑ मृ॒ग्भ्याम् । 29) ऋ॒ग्भ्यां-वँर्त्म॑नो॒-र्वर्त्म॑नोर्-ऋ॒ग्भ्या मृ॒ग्भ्यां-वँर्त्म॑नोः । 29) ऋ॒ग्भ्यामित्यृ॑क् - भ्याम् । 30) वर्त्म॑नो-र्जुहोति जुहोति॒ वर्त्म॑नो॒-र्वर्त्म॑नो-र्जुहोति । 31) जु॒हो॒ति॒ य॒ज्ञो य॒ज्ञो जु॑होति जुहोति य॒ज्ञः । 32) य॒ज्ञो वै वै य॒ज्ञो य॒ज्ञो वै । 33) वै विष्णु॒-र्विष्णु॒-र्वै वै विष्णुः॑ । 34) विष्णु॑-र्य॒ज्ञा-द्य॒ज्ञा-द्विष्णु॒-र्विष्णु॑-र्य॒ज्ञात् । 35) य॒ज्ञा दे॒वैव य॒ज्ञा-द्य॒ज्ञा दे॒व । 36) ए॒व रक्षाग्ं॑सि॒ रक्षाग्॑स्ये॒वैव रक्षाग्ं॑सि । 37) रक्षा॒ग्॒ स्यपाप॒ रक्षाग्ं॑सि॒ रक्षा॒ग्॒ स्यप॑ । 38) अप॑ हन्ति ह॒न्त्यपाप॑ हन्ति । 39) ह॒न्ति॒ य-द्यद्ध॑न्ति हन्ति॒ यत् । 40) यद॑द्ध्व॒र्यु र॑द्ध्व॒र्यु-र्य-द्यद॑द्ध्व॒र्युः । 41) अ॒द्ध्व॒र्यु र॑न॒ग्ना व॑न॒ग्ना व॑द्ध्व॒र्यु र॑द्ध्व॒र्यु र॑न॒ग्नौ । 42) अ॒न॒ग्ना वाहु॑ति॒ माहु॑ति मन॒ग्ना व॑न॒ग्ना वाहु॑तिम् । 43) आहु॑ति-ञ्जुहु॒याज् जु॑हु॒या दाहु॑ति॒ माहु॑ति-ञ्जुहु॒यात् । 43) आहु॑ति॒मित्या - हु॒ति॒म् । 44) जु॒हु॒या द॒न्धो᳚ ऽन्धो जु॑हु॒याज् जु॑हु॒या द॒न्धः । 45) अ॒न्धो᳚ ऽद्ध्व॒र्यु र॑द्ध्व॒र्यु र॒न्धो᳚(1॒) ऽन्धो᳚ ऽद्ध्व॒र्युः । 46) अ॒द्ध्व॒र्यु-स्स्या᳚-थ्स्या दद्ध्व॒र्यु र॑द्ध्व॒र्यु-स्स्या᳚त् । 47) स्या॒-द्रक्षाग्ं॑सि॒ रक्षाग्ं॑सि स्या-थ्स्या॒-द्रक्षाग्ं॑सि । 48) रक्षाग्ं॑सि य॒ज्ञं-यँ॒ज्ञग्ं रक्षाग्ं॑सि॒ रक्षाग्ं॑सि य॒ज्ञम् । 49) य॒ज्ञग्ं ह॑न्युर्-हन्यु-र्य॒ज्ञं-यँ॒ज्ञग्ं ह॑न्युः । 50) ह॒न्यु॒र्॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्यग्ं हन्युर्-हन्यु॒र्॒ हिर॑ण्यम् । ॥ 46 ॥ (50/57)
1) हिर॑ण्य मु॒पा स्यो॒पास्य॒ हिर॑ण्य॒ग्ं॒ हिर॑ण्य मु॒पास्य॑ । 2) उ॒पास्य॑ जुहोति जुहो त्यु॒पा स्यो॒पास्य॑ जुहोति । 2) उ॒पास्येत्यु॑प - अस्य॑ । 3) जु॒हो॒ त्य॒ग्नि॒व त्य॑ग्नि॒वति॑ जुहोति जुहो त्यग्नि॒वति॑ । 4) अ॒ग्नि॒व त्ये॒वैवा ग्नि॒व त्य॑ग्नि॒व त्ये॒व । 4) अ॒ग्नि॒वतीत्य॑ग्नि - वति॑ । 5) ए॒व जु॑होति जुहो त्ये॒वैव जु॑होति । 6) जु॒हो॒ति॒ न न जु॑होति जुहोति॒ न । 7) नान्धो᳚ ऽन्धो न नान्धः । 8) अ॒न्धो᳚ ऽद्ध्व॒र्यु र॑द्ध्व॒र्यु र॒न्धो᳚(1॒) ऽन्धो᳚ ऽद्ध्व॒र्युः । 9) अ॒द्ध्व॒र्यु-र्भव॑ति॒ भव॑ त्यद्ध्व॒र्यु र॑द्ध्व॒र्यु-र्भव॑ति । 10) भव॑ति॒ न न भव॑ति॒ भव॑ति॒ न । 11) न य॒ज्ञं-यँ॒ज्ञन्न न य॒ज्ञम् । 12) य॒ज्ञग्ं रक्षाग्ं॑सि॒ रक्षाग्ं॑सि य॒ज्ञं-यँ॒ज्ञग्ं रक्षाग्ं॑सि । 13) रक्षाग्ं॑सि घ्नन्ति घ्नन्ति॒ रक्षाग्ं॑सि॒ रक्षाग्ं॑सि घ्नन्ति । 14) घ्न॒न्ति॒ प्राची॒ प्राची᳚ घ्नन्ति घ्नन्ति॒ प्राची᳚ । 15) प्राची॒ प्र प्र प्राची॒ प्राची॒ प्र । 15) प्राची॒ इति॒ प्राची᳚ । 16) प्रेत॑ मित॒-म्प्र प्रेत᳚म् । 17) इ॒त॒ म॒द्ध्व॒र म॑द्ध्व॒र मि॑त मित मद्ध्व॒रम् । 18) अ॒द्ध्व॒र-ङ्क॒ल्पय॑न्ती क॒ल्पय॑न्ती अद्ध्व॒र म॑द्ध्व॒र-ङ्क॒ल्पय॑न्ती । 19) क॒ल्पय॑न्ती॒ इतीति॑ क॒ल्पय॑न्ती क॒ल्पय॑न्ती॒ इति॑ । 19) क॒ल्पय॑न्ती॒ इति॑ क॒ल्पय॑न्ती । 20) इत्या॑हा॒हे तीत्या॑ह । 21) आ॒ह॒ सु॒व॒र्गग्ं सु॑व॒र्ग मा॑हाह सुव॒र्गम् । 22) सु॒व॒र्ग मे॒वैव सु॑व॒र्गग्ं सु॑व॒र्ग मे॒व । 22) सु॒व॒र्गमिति॑ सुवः - गम् । 23) ए॒वैने॑ एने ए॒वैवैने᳚ । 24) ए॒ने॒ लो॒कम् ँलो॒क मे॑ने एने लो॒कम् । 24) ए॒ने॒ इत्ये॑ने । 25) लो॒क-ङ्ग॑मयति गमयति लो॒कम् ँलो॒क-ङ्ग॑मयति । 26) ग॒म॒य॒ त्यत्रात्र॑ गमयति गमय॒ त्यत्र॑ । 27) अत्र॑ रमेथाग्ं रमेथा॒ मत्रात्र॑ रमेथाम् । 28) र॒मे॒थां॒-वँर्ष्म॒न्॒. वर्ष्म॑-न्रमेथाग्ं रमेथां॒-वँर्ष्मन्न्॑ । 29) वर्ष्म॑-न्पृथि॒व्याः पृ॑थि॒व्या वर्ष्म॒न्॒. वर्ष्म॑-न्पृथि॒व्याः । 30) पृ॒थि॒व्या इतीति॑ पृथि॒व्याः पृ॑थि॒व्या इति॑ । 31) इत्या॑हा॒हे तीत्या॑ह । 32) आ॒ह॒ वर्ष्म॒ वर्ष्मा॑हाह॒ वर्ष्म॑ । 33) वर्ष्म॒ हि हि वर्ष्म॒ वर्ष्म॒ हि । 34) ह्ये॑त दे॒त द्धि ह्ये॑तत् । 35) ए॒त-त्पृ॑थि॒व्याः पृ॑थि॒व्या ए॒त दे॒त-त्पृ॑थि॒व्याः । 36) पृ॒थि॒व्या य-द्य-त्पृ॑थि॒व्याः पृ॑थि॒व्या यत् । 37) य-द्दे॑व॒यज॑न-न्देव॒यज॑नं॒-यँ-द्य-द्दे॑व॒यज॑नम् । 38) दे॒व॒यज॑न॒ग्ं॒ शिर॒-श्शिरो॑ देव॒यज॑न-न्देव॒यज॑न॒ग्ं॒ शिरः॑ । 38) दे॒व॒यज॑न॒मिति॑ देव - यज॑नम् । 39) शिरो॒ वै वै शिर॒-श्शिरो॒ वै । 40) वा ए॒त दे॒त-द्वै वा ए॒तत् । 41) ए॒त-द्य॒ज्ञस्य॑ य॒ज्ञ स्यै॒त दे॒त-द्य॒ज्ञस्य॑ । 42) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् । 43) यद्ध॑वि॒र्धानग्ं॑ हवि॒र्धानं॒-यँ-द्यद्ध॑वि॒र्धान᳚म् । 44) ह॒वि॒र्धान॑-न्दि॒वो दि॒वो ह॑वि॒र्धानग्ं॑ हवि॒र्धान॑-न्दि॒वः । 44) ह॒वि॒र्धान॒मिति॑ हविः - धान᳚म् । 45) दि॒वो वा॑ वा दि॒वो दि॒वो वा᳚ । 46) वा॒ वि॒ष्णो॒ वि॒ष्णो॒ वा॒ वा॒ वि॒ष्णो॒ । 47) वि॒ष्ण॒ वु॒तोत वि॑ष्णो विष्ण वु॒त । 48) उ॒त वा॑ वो॒तोत वा᳚ । 49) वा॒ पृ॒थि॒व्याः पृ॑थि॒व्या वा॑ वा पृथि॒व्याः । 50) पृ॒थि॒व्या इतीति॑ पृथि॒व्याः पृ॑थि॒व्या इति॑ । ॥ 47 ॥ (50/58)
1) इत्या॒शीर्प॑दया॒ ऽऽशीर्प॑द॒येती त्या॒शीर्प॑दया । 2) आ॒शीर्प॑दय॒ र्च र्चा ऽऽशीर्प॑दया॒ ऽऽशीर्प॑दय॒ र्चा । 2) आ॒शीर्प॑द॒येत्या॒शीः - प॒द॒या॒ । 3) ऋ॒चा दक्षि॑णस्य॒ दक्षि॑णस्य॒ र्च र्चा दक्षि॑णस्य । 4) दक्षि॑णस्य हवि॒र्धान॑स्य हवि॒र्धान॑स्य॒ दक्षि॑णस्य॒ दक्षि॑णस्य हवि॒र्धान॑स्य । 5) ह॒वि॒र्धान॑स्य मे॒थी-म्मे॒थीग्ं ह॑वि॒र्धान॑स्य हवि॒र्धान॑स्य मे॒थीम् । 5) ह॒वि॒र्धान॒स्येति॑ हविः - धान॑स्य । 6) मे॒थीन्नि नि मे॒थी-म्मे॒थीन्नि । 7) नि ह॑न्ति हन्ति॒ नि नि ह॑न्ति । 8) ह॒न्ति॒ शी॒र्॒ष॒त-श्शी॑र्ष॒तो ह॑न्ति हन्ति शीर्ष॒तः । 9) शी॒र्॒ष॒त ए॒वैव शी॑र्ष॒त-श्शी॑र्ष॒त ए॒व । 10) ए॒व य॒ज्ञस्य॑ य॒ज्ञ स्यै॒वैव य॒ज्ञस्य॑ । 11) य॒ज्ञस्य॒ यज॑मानो॒ यज॑मानो य॒ज्ञस्य॑ य॒ज्ञस्य॒ यज॑मानः । 12) यज॑मान आ॒शिष॑ आ॒शिषो॒ यज॑मानो॒ यज॑मान आ॒शिषः॑ । 13) आ॒शिषो ऽवावा॒ शिष॑ आ॒शिषो ऽव॑ । 13) आ॒शिष॒ इत्या᳚ - शिषः॑ । 14) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 15) रु॒न्धे॒ द॒ण्डो द॒ण्डो रु॑न्धे रुन्धे द॒ण्डः । 16) द॒ण्डो वै वै द॒ण्डो द॒ण्डो वै । 17) वा औ॑प॒र औ॑प॒रो वै वा औ॑प॒रः । 18) औ॒प॒र स्तृ॒तीय॑स्य तृ॒तीय॑ स्यौप॒र औ॑प॒र स्तृ॒तीय॑स्य । 19) तृ॒तीय॑स्य हवि॒र्धान॑स्य हवि॒र्धान॑स्य तृ॒तीय॑स्य तृ॒तीय॑स्य हवि॒र्धान॑स्य । 20) ह॒वि॒र्धान॑स्य वषट्का॒रेण॑ वषट्का॒रेण॑ हवि॒र्धान॑स्य हवि॒र्धान॑स्य वषट्का॒रेण॑ । 20) ह॒वि॒र्धान॒स्येति॑ हविः - धान॑स्य । 21) व॒ष॒ट्का॒रेणा क्ष॒ मक्षं॑-वँषट्का॒रेण॑ वषट्का॒रेणा क्ष᳚म् । 21) व॒ष॒ट्का॒रेणेति॑ वषट् - का॒रेण॑ । 22) अक्ष॑ मच्छिन दच्छिन॒ दक्ष॒ मक्ष॑ मच्छिनत् । 23) अ॒च्छि॒न॒-द्य-द्यद॑च्छिन दच्छिन॒-द्यत् । 24) य-त्तृ॒तीय॑-न्तृ॒तीयं॒-यँ-द्य-त्तृ॒तीय᳚म् । 25) तृ॒तीय॑-ञ्छ॒दि श्छ॒दि स्तृ॒तीय॑-न्तृ॒तीय॑-ञ्छ॒दिः । 26) छ॒दिर्-ह॑वि॒र्धान॑योर्-हवि॒र्धान॑यो श्छ॒दि श्छ॒दिर्-ह॑वि॒र्धान॑योः । 27) ह॒वि॒र्धान॑यो रुदाह्रि॒यत॑ उदाह्रि॒यते॑ हवि॒र्धान॑योर्-हवि॒र्धान॑यो रुदाह्रि॒यते᳚ । 27) ह॒वि॒र्धान॑यो॒रिति॑ हविः - धान॑योः । 28) उ॒दा॒ह्रि॒यते॑ तृ॒तीय॑स्य तृ॒तीय॑ स्योदाह्रि॒यत॑ उदाह्रि॒यते॑ तृ॒तीय॑स्य । 28) उ॒दा॒ह्रि॒यत॒ इत्यु॑त् - आ॒ह्रि॒यते᳚ । 29) तृ॒तीय॑स्य हवि॒र्धान॑स्य हवि॒र्धान॑स्य तृ॒तीय॑स्य तृ॒तीय॑स्य हवि॒र्धान॑स्य । 30) ह॒वि॒र्धान॒स्या व॑रुद्ध्या॒ अव॑रुद्ध्यै हवि॒र्धान॑स्य हवि॒र्धान॒स्या व॑रुद्ध्यै । 30) ह॒वि॒र्धान॒स्येति॑ हविः - धान॑स्य । 31) अव॑रुद्ध्यै॒ शिर॒-श्शिरो ऽव॑रुद्ध्या॒ अव॑रुद्ध्यै॒ शिरः॑ । 31) अव॑रुद्ध्या॒ इत्यव॑ - रु॒द्ध्यै॒ । 32) शिरो॒ वै वै शिर॒-श्शिरो॒ वै । 33) वा ए॒त दे॒त-द्वै वा ए॒तत् । 34) ए॒त-द्य॒ज्ञस्य॑ य॒ज्ञ स्यै॒त दे॒त-द्य॒ज्ञस्य॑ । 35) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् । 36) यद्ध॑वि॒र्धानग्ं॑ हवि॒र्धानं॒-यँ-द्यद्ध॑वि॒र्धान᳚म् । 37) ह॒वि॒र्धानं॒-विँष्णो॒-र्विष्णोर्॑. हवि॒र्धानग्ं॑ हवि॒र्धानं॒-विँष्णोः᳚ । 37) ह॒वि॒र्धान॒मिति॑ हविः - धान᳚म् । 38) विष्णो॑ र॒राटग्ं॑ र॒राटं॒-विँष्णो॒-र्विष्णो॑ र॒राट᳚म् । 39) र॒राट॑ मस्यसि र॒राटग्ं॑ र॒राट॑ मसि । 40) अ॒सि॒ विष्णो॒-र्विष्णो॑ रस्यसि॒ विष्णोः᳚ । 41) विष्णोः᳚ पृ॒ष्ठ-म्पृ॒ष्ठं-विँष्णो॒-र्विष्णोः᳚ पृ॒ष्ठम् । 42) पृ॒ष्ठ म॑स्यसि पृ॒ष्ठ-म्पृ॒ष्ठ म॑सि । 43) अ॒सीती त्य॑स्य॒सीति॑ । 44) इत्या॑हा॒हे तीत्या॑ह । 45) आ॒ह॒ तस्मा॒-त्तस्मा॑ दाहाह॒ तस्मा᳚त् । 46) तस्मा॑ देताव॒ द्धैता॑व॒द्धा तस्मा॒-त्तस्मा॑ देताव॒द्धा । 47) ए॒ता॒व॒द्धा शिर॒-श्शिर॑ एताव॒ द्धैता॑व॒द्धा शिरः॑ । 47) ए॒ता॒व॒द्धेत्ये॑तावत् - धा । 48) शिरो॒ विष्यू॑तं॒-विँष्यू॑त॒ग्ं॒ शिर॒-श्शिरो॒ विष्यू॑तम् । 49) विष्यू॑तं॒-विँष्णो॒-र्विष्णो॒-र्विष्यू॑तं॒-विँष्यू॑तं॒-विँष्णोः᳚ । 49) विष्यू॑त॒मिति॒ वि - स्यू॒त॒म् । 50) विष्णो॒-स्स्यू-स्स्यू-र्विष्णो॒-र्विष्णो॒-स्स्यूः । 51) स्यू र॑स्यसि॒ स्यू-स्स्यू र॑सि । 52) अ॒सि॒ विष्णो॒-र्विष्णो॑ रस्यसि॒ विष्णोः᳚ । 53) विष्णो᳚-र्ध्रु॒व-न्ध्रु॒वं-विँष्णो॒-र्विष्णो᳚-र्ध्रु॒वम् । 54) ध्रु॒व म॑स्यसि ध्रु॒व-न्ध्रु॒व म॑सि । 55) अ॒सीती त्य॑स्य॒सीति॑ । 56) इत्या॑हा॒हे तीत्या॑ह । 57) आ॒ह॒ वै॒ष्ण॒वं-वैँ᳚ष्ण॒व मा॑हाह वैष्ण॒वम् । 58) वै॒ष्ण॒वग्ं हि हि वै᳚ष्ण॒वं-वैँ᳚ष्ण॒वग्ं हि । 59) हि दे॒वत॑या दे॒वत॑या॒ हि हि दे॒वत॑या । 60) दे॒वत॑या हवि॒र्धानग्ं॑ हवि॒र्धान॑-न्दे॒वत॑या दे॒वत॑या हवि॒र्धान᳚म् । 61) ह॒वि॒र्धानं॒-यंँ यग्ं ह॑वि॒र्धानग्ं॑ हवि॒र्धानं॒-यँम् । 61) ह॒वि॒र्धान॒मिति॑ हविः - धान᳚म् । 62) य-म्प्र॑थ॒म-म्प्र॑थ॒मं-यंँ य-म्प्र॑थ॒मम् । 63) प्र॒थ॒म-ङ्ग्र॒न्थि-ङ्ग्र॒न्थि-म्प्र॑थ॒म-म्प्र॑थ॒म-ङ्ग्र॒न्थिम् । 64) ग्र॒न्थि-ङ्ग्र॑थ्नी॒या-द्ग्र॑थ्नी॒या-द्ग्र॒न्थि-ङ्ग्र॒न्थि-ङ्ग्र॑थ्नी॒यात् । 65) ग्र॒थ्नी॒या-द्य-द्य-द्ग्र॑थ्नी॒या-द्ग्र॑थ्नी॒या-द्यत् । 66) य-त्त-न्तं-यँ-द्य-त्तम् । 67) तन्न न त-न्तन्न । 68) न वि॑स्र॒ग्ं॒सये᳚-द्विस्र॒ग्ं॒सये॒-न्न न वि॑स्र॒ग्ं॒सये᳚त् । 69) वि॒स्र॒ग्ं॒सये॒ दमे॑हे॒ना मे॑हेन विस्र॒ग्ं॒सये᳚-द्विस्र॒ग्ं॒सये॒ दमे॑हेन । 69) वि॒स्र॒ग्ं॒सये॒दिति॑ वि - स्र॒ग्ं॒सये᳚त् । 70) अमे॑हेना द्ध्व॒र्यु र॑द्ध्व॒र्यु रमे॑हे॒ना मे॑हेना द्ध्व॒र्युः । 71) अ॒द्ध्व॒र्युः प्र प्राद्ध्व॒र्यु र॑द्ध्व॒र्युः प्र । 72) प्र मी॑येत मीयेत॒ प्र प्र मी॑येत । 73) मी॒ये॒त॒ तस्मा॒-त्तस्मा᳚-न्मीयेत मीयेत॒ तस्मा᳚त् । 74) तस्मा॒-थ्स स तस्मा॒-त्तस्मा॒-थ्सः । 75) स वि॒स्रस्यो॑ वि॒स्रस्य॒-स्स स वि॒स्रस्यः॑ । 76) वि॒स्रस्य॒ इति॑ वि - स्रस्यः॑ । ॥ 48 ॥ (76/90) ॥ अ. 9 ॥
1) दे॒वस्य॑ त्वा त्वा दे॒वस्य॑ दे॒वस्य॑ त्वा । 2) त्वा॒ स॒वि॒तु-स्स॑वि॒तु स्त्वा᳚ त्वा सवि॒तुः । 3) स॒वि॒तुः प्र॑स॒वे प्र॑स॒वे स॑वि॒तु-स्स॑वि॒तुः प्र॑स॒वे । 4) प्र॒स॒व इतीति॑ प्रस॒वे प्र॑स॒व इति॑ । 4) प्र॒स॒व इति॑ प्र - स॒वे । 5) इत्यभ्रि॒ मभ्रि॒ मिती त्यभ्रि᳚म् । 6) अभ्रि॒ मा ऽभ्रि॒ मभ्रि॒ मा । 7) आ द॑त्ते दत्त॒ आ द॑त्ते । 8) द॒त्ते॒ प्रसू᳚त्यै॒ प्रसू᳚त्यै दत्ते दत्ते॒ प्रसू᳚त्यै । 9) प्रसू᳚त्या अ॒श्विनो॑ र॒श्विनोः॒ प्रसू᳚त्यै॒ प्रसू᳚त्या अ॒श्विनोः᳚ । 9) प्रसू᳚त्या॒ इति॒ प्र - सू॒त्यै॒ । 10) अ॒श्विनो᳚-र्बा॒हुभ्या᳚-म्बा॒हुभ्या॑ म॒श्विनो॑ र॒श्विनो᳚-र्बा॒हुभ्या᳚म् । 11) बा॒हुभ्या॒ मितीति॑ बा॒हुभ्या᳚-म्बा॒हुभ्या॒ मिति॑ । 11) बा॒हुभ्या॒मिति॑ बा॒हु - भ्या॒म् । 12) इत्या॑हा॒हे तीत्या॑ह । 13) आ॒हा॒श्विना॑ व॒श्विना॑ वाहाहा॒ श्विनौ᳚ । 14) अ॒श्विनौ॒ हि ह्य॑श्विना॑ व॒श्विनौ॒ हि । 15) हि दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ हि हि दे॒वाना᳚म् । 16) दे॒वाना॑ मद्ध्व॒र्यू अ॑द्ध्व॒र्यू दे॒वाना᳚-न्दे॒वाना॑ मद्ध्व॒र्यू । 17) अ॒द्ध्व॒र्यू आस्ता॒ मास्ता॑ मद्ध्व॒र्यू अ॑द्ध्व॒र्यू आस्ता᳚म् । 17) अ॒द्ध्व॒र्यू इति॑ अ॒द्ध्व॒र्यू । 18) आस्ता᳚-म्पू॒ष्णः पू॒ष्ण आस्ता॒ मास्ता᳚-म्पू॒ष्णः । 19) पू॒ष्णो हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या-म्पू॒ष्णः पू॒ष्णो हस्ता᳚भ्याम् । 20) हस्ता᳚भ्या॒ मितीति॒ हस्ता᳚भ्या॒ग्ं॒ हस्ता᳚भ्या॒ मिति॑ । 21) इत्या॑हा॒हे तीत्या॑ह । 22) आ॒ह॒ यत्यै॒ यत्या॑ आहाह॒ यत्यै᳚ । 23) यत्यै॒ वज्रो॒ वज्रो॒ यत्यै॒ यत्यै॒ वज्रः॑ । 24) वज्र॑ इवेव॒ वज्रो॒ वज्र॑ इव । 25) इ॒व॒ वै वा इ॑वेव॒ वै । 26) वा ए॒षैषा वै वा ए॒षा । 27) ए॒षा य-द्यदे॒षैषा यत् । 28) यदभ्रि॒ रभ्रि॒-र्य-द्यदभ्रिः॑ । 29) अभ्रि॒ रभ्रिः॑ । 30) अभ्रि॑ रस्य॒ स्यभ्रि॒ रभ्रि॑ रसि । 31) अ॒सि॒ नारि॒-र्नारि॑ रस्यसि॒ नारिः॑ । 32) नारि॑ रस्यसि॒ नारि॒-र्नारि॑ रसि । 33) अ॒सीती त्य॑स्य॒सीति॑ । 34) इत्या॑हा॒हे तीत्या॑ह । 35) आ॒ह॒ शान्त्यै॒ शान्त्या॑ आहाह॒ शान्त्यै᳚ । 36) शान्त्यै॒ काण्डे॑काण्डे॒ काण्डे॑काण्डे॒ शान्त्यै॒ शान्त्यै॒ काण्डे॑काण्डे । 37) काण्डे॑काण्डे॒ वै वै काण्डे॑काण्डे॒ काण्डे॑काण्डे॒ वै । 37) काण्डे॑काण्ड॒ इति॒ काण्डे᳚ - का॒ण्डे॒ । 38) वै क्रि॒यमा॑णे क्रि॒यमा॑णे॒ वै वै क्रि॒यमा॑णे । 39) क्रि॒यमा॑णे य॒ज्ञं-यँ॒ज्ञ-ङ्क्रि॒यमा॑णे क्रि॒यमा॑णे य॒ज्ञम् । 40) य॒ज्ञग्ं रक्षाग्ं॑सि॒ रक्षाग्ं॑सि य॒ज्ञं-यँ॒ज्ञग्ं रक्षाग्ं॑सि । 41) रक्षाग्ं॑सि जिघाग्ंसन्ति जिघाग्ंसन्ति॒ रक्षाग्ं॑सि॒ रक्षाग्ं॑सि जिघाग्ंसन्ति । 42) जि॒घा॒ग्ं॒स॒न्ति॒ परि॑लिखित॒-म्परि॑लिखित-ञ्जिघाग्ंसन्ति जिघाग्ंसन्ति॒ परि॑लिखितम् । 43) परि॑लिखित॒ग्ं॒ रक्षो॒ रक्षः॒ परि॑लिखित॒-म्परि॑लिखित॒ग्ं॒ रक्षः॑ । 43) परि॑लिखित॒मिति॒ परि॑ - लि॒खि॒त॒म् । 44) रक्षः॒ परि॑लिखिताः॒ परि॑लिखिता॒ रक्षो॒ रक्षः॒ परि॑लिखिताः । 45) परि॑लिखिता॒ अरा॑त॒यो ऽरा॑तयः॒ परि॑लिखिताः॒ परि॑लिखिता॒ अरा॑तयः । 45) परि॑लिखिता॒ इति॒ परि॑ - लि॒खि॒ताः॒ । 46) अरा॑तय॒ इती त्यरा॑त॒यो ऽरा॑तय॒ इति॑ । 47) इत्या॑हा॒हे तीत्या॑ह । 48) आ॒ह॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा माहाह॒ रक्ष॑साम् । 49) रक्ष॑सा॒ मप॑हत्या॒ अप॑हत्यै॒ रक्ष॑सा॒ग्ं॒ रक्ष॑सा॒ मप॑हत्यै । 50) अप॑हत्या इ॒द मि॒द मप॑हत्या॒ अप॑हत्या इ॒दम् । 50) अप॑हत्या॒ इत्यप॑ - ह॒त्यै॒ । ॥ 49 ॥ (50/58)
1) इ॒द म॒ह म॒ह मि॒द मि॒द म॒हम् । 2) अ॒हग्ं रक्ष॑सो॒ रक्ष॑सो॒ ऽह म॒हग्ं रक्ष॑सः । 3) रक्ष॑सो ग्री॒वा ग्री॒वा रक्ष॑सो॒ रक्ष॑सो ग्री॒वाः । 4) ग्री॒वा अप्यपि॑ ग्री॒वा ग्री॒वा अपि॑ । 5) अपि॑ कृन्तामि कृन्ता॒ म्यप्यपि॑ कृन्तामि । 6) कृ॒न्ता॒मि॒ यो यः कृ॑न्तामि कृन्तामि॒ यः । 7) यो᳚ ऽस्मा न॒स्मान्. यो यो᳚ ऽस्मान् । 8) अ॒स्मा-न्द्वेष्टि॒ द्वेष्ट्य॒स्मा न॒स्मा-न्द्वेष्टि॑ । 9) द्वेष्टि॒ यं-यँ-न्द्वेष्टि॒ द्वेष्टि॒ यम् । 10) य-ञ्च॑ च॒ यं-यँ-ञ्च॑ । 11) च॒ व॒यं-वँ॒य-ञ्च॑ च व॒यम् । 12) व॒य-न्द्वि॒ष्मो द्वि॒ष्मो व॒यं-वँ॒य-न्द्वि॒ष्मः । 13) द्वि॒ष्म इतीति॑ द्वि॒ष्मो द्वि॒ष्म इति॑ । 14) इत्या॑हा॒हे तीत्या॑ह । 15) आ॒ह॒ द्वौ द्वा वा॑हाह॒ द्वौ । 16) द्वौ वाव वाव द्वौ द्वौ वाव । 17) वाव पुरु॑षौ॒ पुरु॑षौ॒ वाव वाव पुरु॑षौ । 18) पुरु॑षौ॒ यं-यँ-म्पुरु॑षौ॒ पुरु॑षौ॒ यम् । 19) य-ञ्च॑ च॒ यं-यँ-ञ्च॑ । 20) चै॒वैव च॑ चै॒व । 21) ए॒व द्वेष्टि॒ द्वेष्ट्ये॒वैव द्वेष्टि॑ । 22) द्वेष्टि॒ यो यो द्वेष्टि॒ द्वेष्टि॒ यः । 23) यश्च॑ च॒ यो यश्च॑ । 24) चै॒न॒ मे॒न॒-ञ्च॒ चै॒न॒म् । 25) ए॒न॒-न्द्वेष्टि॒ द्वेष्ट्ये॑न मेन॒-न्द्वेष्टि॑ । 26) द्वेष्टि॒ तयो॒ स्तयो॒-र्द्वेष्टि॒ द्वेष्टि॒ तयोः᳚ । 27) तयो॑ रे॒वैव तयो॒ स्तयो॑ रे॒व । 28) ए॒वा न॑न्तराय॒ मन॑न्तराय मे॒वैवा न॑न्तरायम् । 29) अन॑न्तराय-ङ्ग्री॒वा ग्री॒वा अन॑न्तराय॒ मन॑न्तराय-ङ्ग्री॒वाः । 29) अन॑न्तराय॒मित्यन॑न्तः - आ॒य॒म् । 30) ग्री॒वाः कृ॑न्तति कृन्तति ग्री॒वा ग्री॒वाः कृ॑न्तति । 31) कृ॒न्त॒ति॒ दि॒वे दि॒वे कृ॑न्तति कृन्तति दि॒वे । 32) दि॒वे त्वा᳚ त्वा दि॒वे दि॒वे त्वा᳚ । 33) त्वा॒ ऽन्तरि॑क्षाया॒ न्तरि॑क्षाय त्वा त्वा॒ ऽन्तरि॑क्षाय । 34) अ॒न्तरि॑क्षाय त्वा त्वा॒ ऽन्तरि॑क्षाया॒ न्तरि॑क्षाय त्वा । 35) त्वा॒ पृ॒थि॒व्यै पृ॑थि॒व्यै त्वा᳚ त्वा पृथि॒व्यै । 36) पृ॒थि॒व्यै त्वा᳚ त्वा पृथि॒व्यै पृ॑थि॒व्यै त्वा᳚ । 37) त्वेतीति॑ त्वा॒ त्वेति॑ । 38) इत्या॑हा॒हे तीत्या॑ह । 39) आ॒है॒भ्य ए॒भ्य आ॑हा है॒भ्यः । 40) ए॒भ्य ए॒वैवैभ्य ए॒भ्य ए॒व । 41) ए॒वैना॑ मेना मे॒वैवैना᳚म् । 42) ए॒ना॒म् ँलो॒केभ्यो॑ लो॒केभ्य॑ एना मेनाम् ँलो॒केभ्यः॑ । 43) लो॒केभ्यः॒ प्र प्र लो॒केभ्यो॑ लो॒केभ्यः॒ प्र । 44) प्रोक्ष॑ त्युक्षति॒ प्र प्रोक्ष॑ति । 45) उ॒क्ष॒ति॒ प॒रस्ता᳚-त्प॒रस्ता॑ दुक्ष त्युक्षति प॒रस्ता᳚त् । 46) प॒रस्ता॑ द॒र्वाची॑ म॒र्वाची᳚-म्प॒रस्ता᳚-त्प॒रस्ता॑ द॒र्वाची᳚म् । 47) अ॒र्वाची॒-म्प्र प्रार्वाची॑ म॒र्वाची॒-म्प्र । 48) प्रोक्ष॑ त्युक्षति॒ प्र प्रोक्ष॑ति । 49) उ॒क्ष॒ति॒ तस्मा॒-त्तस्मा॑ दुक्ष त्युक्षति॒ तस्मा᳚त् । 50) तस्मा᳚-त्प॒रस्ता᳚-त्प॒रस्ता॒-त्तस्मा॒-त्तस्मा᳚-त्प॒रस्ता᳚त् । ॥ 50 ॥ (50/51)
1) प॒रस्ता॑ द॒र्वाची॑ म॒र्वाची᳚-म्प॒रस्ता᳚-त्प॒रस्ता॑ द॒र्वाची᳚म् । 2) अ॒र्वाची᳚-म्मनु॒ष्या॑ मनु॒ष्या॑ अ॒र्वाची॑ म॒र्वाची᳚-म्मनु॒ष्याः᳚ । 3) म॒नु॒ष्या॑ ऊर्ज॒ मूर्ज॑-म्मनु॒ष्या॑ मनु॒ष्या॑ ऊर्ज᳚म् । 4) ऊर्ज॒ मुपोपोर्ज॒ मूर्ज॒ मुप॑ । 5) उप॑ जीवन्ति जीव॒ न्त्युपोप॑ जीवन्ति । 6) जी॒व॒न्ति॒ क्रू॒र-ङ्क्रू॒र-ञ्जी॑वन्ति जीवन्ति क्रू॒रम् । 7) क्रू॒र मि॑वेव क्रू॒र-ङ्क्रू॒र मि॑व । 8) इ॒व॒ वै वा इ॑वेव॒ वै । 9) वा ए॒त दे॒त-द्वै वा ए॒तत् । 10) ए॒त-त्क॑रोति करो त्ये॒त दे॒त-त्क॑रोति । 11) क॒रो॒ति॒ य-द्य-त्क॑रोति करोति॒ यत् । 12) य-त्खन॑ति॒ खन॑ति॒ य-द्य-त्खन॑ति । 13) खन॑ त्य॒पो॑ ऽपः खन॑ति॒ खन॑ त्य॒पः । 14) अ॒पो ऽवावा॒पो॑ ऽपो ऽव॑ । 15) अव॑ नयति नय॒ त्यवाव॑ नयति । 16) न॒य॒ति॒ शान्त्यै॒ शान्त्यै॑ नयति नयति॒ शान्त्यै᳚ । 17) शान्त्यै॒ यव॑मती॒-र्यव॑मती॒-श्शान्त्यै॒ शान्त्यै॒ यव॑मतीः । 18) यव॑मती॒ रवाव॒ यव॑मती॒-र्यव॑मती॒ रव॑ । 18) यव॑मती॒रिति॒ यव॑ - म॒तीः॒ । 19) अव॑ नयति नय॒ त्यवाव॑ नयति । 20) न॒य॒ त्यू-र्गूर्-न्न॑यति नय॒ त्यूर्क् । 21) ऊर्ग् वै वा ऊ-र्गूर्ग् वै । 22) वै यवो॒ यवो॒ वै वै यवः॑ । 23) यव॒ ऊ-र्गूर्ग् यवो॒ यव॒ ऊर्क् । 24) ऊ-र्गु॑दु॒म्बर॑ उदु॒म्बर॒ ऊ-र्गू-र्गु॑दु॒म्बरः॑ । 25) उ॒दु॒म्बर॑ ऊ॒र्जोर्जो दु॒म्बर॑ उदु॒म्बर॑ ऊ॒र्जा । 26) ऊ॒र्जै वैवोर्जो-र्जैव । 27) ए॒वोर्ज॒ मूर्ज॑ मे॒वैवोर्ज᳚म् । 28) ऊर्ज॒ग्ं॒ सग्ं स मूर्ज॒ मूर्ज॒ग्ं॒ सम् । 29) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति । 30) अ॒र्ध॒य॒ति॒ यज॑मानेन॒ यज॑मानेना र्धय त्यर्धयति॒ यज॑मानेन । 31) यज॑मानेन॒ सम्मि॑ता॒ सम्मि॑ता॒ यज॑मानेन॒ यज॑मानेन॒ सम्मि॑ता । 32) सम्मि॒ तौदु॑म्ब॒-र्यौदु॑म्बरी॒ सम्मि॑ता॒ सम्मि॒ तौदु॑म्बरी । 32) सम्मि॒तेति॒ सं - मि॒ता॒ । 33) औदु॑म्बरी भवति भव॒ त्यौदु॑म्ब॒-र्यौदु॑म्बरी भवति । 34) भ॒व॒ति॒ यावा॒न्॒. यावा᳚-न्भवति भवति॒ यावान्॑ । 35) यावा॑ ने॒वैव यावा॒न्॒. यावा॑ ने॒व । 36) ए॒व यज॑मानो॒ यज॑मान ए॒वैव यज॑मानः । 37) यज॑मान॒ स्ताव॑ती॒-न्ताव॑तीं॒-यँज॑मानो॒ यज॑मान॒ स्ताव॑तीम् । 38) ताव॑ती मे॒वैव ताव॑ती॒-न्ताव॑ती मे॒व । 39) ए॒वास्मि॑-न्नस्मि-न्ने॒वैवास्मिन्न्॑ । 40) अ॒स्मि॒-न्नूर्ज॒ मूर्ज॑ मस्मि-न्नस्मि॒-न्नूर्ज᳚म् । 41) ऊर्ज॑-न्दधाति दधा॒ त्यूर्ज॒ मूर्ज॑-न्दधाति । 42) द॒धा॒ति॒ पि॒तृ॒णा-म्पि॑तृ॒णा-न्द॑धाति दधाति पितृ॒णाम् । 43) पि॒तृ॒णाग्ं सद॑न॒ग्ं॒ सद॑न-म्पितृ॒णा-म्पि॑तृ॒णाग्ं सद॑नम् । 44) सद॑न मस्यसि॒ सद॑न॒ग्ं॒ सद॑न मसि । 45) अ॒सीती त्य॑स्य॒सीति॑ । 46) इति॑ ब॒र्॒हि-र्ब॒र्॒हि रितीति॑ ब॒र्॒हिः । 47) ब॒र्॒हि रवाव॑ ब॒र्॒हि-र्ब॒र्॒हि रव॑ । 48) अव॑ स्तृणाति स्तृणा॒ त्यवाव॑ स्तृणाति । 49) स्तृ॒णा॒ति॒ पि॒तृ॒दे॒व॒त्य॑-म्पितृदेव॒त्यग्ग्॑ स्तृणाति स्तृणाति पितृदेव॒त्य᳚म् । 50) पि॒तृ॒दे॒व॒त्यग्ं॑ हि हि पि॑तृदेव॒त्य॑-म्पितृदेव॒त्यग्ं॑ हि । 50) पि॒तृ॒दे॒व॒त्य॑मिति॑ पितृ - दे॒व॒त्य᳚म् । ॥ 51 ॥ (50/53)
1) ह्ये॑त दे॒त द्धि ह्ये॑तत् । 2) ए॒त-द्य-द्यदे॒त दे॒त-द्यत् । 3) य-न्निखा॑त॒-न्निखा॑तं॒-यँ-द्य-न्निखा॑तम् । 4) निखा॑तं॒-यँ-द्य-न्निखा॑त॒-न्निखा॑तं॒-यँत् । 4) निखा॑त॒मिति॒ नि - खा॒त॒म् । 5) य-द्ब॒र्॒हि-र्ब॒र्॒हि-र्य-द्य-द्ब॒र्॒हिः । 6) ब॒र्॒हि रन॑वस्ती॒र्या न॑वस्तीर्य ब॒र्॒हि-र्ब॒र्॒हि रन॑वस्तीर्य । 7) अन॑वस्तीर्य मिनु॒या-न्मि॑नु॒या दन॑वस्ती॒र्या न॑वस्तीर्य मिनु॒यात् । 7) अन॑वस्ती॒र्येत्यन॑व - स्ती॒र्य॒ । 8) मि॒नु॒या-त्पि॑तृदेव॒त्या॑ पितृदेव॒त्या॑ मिनु॒या-न्मि॑नु॒या-त्पि॑तृदेव॒त्या᳚ । 9) पि॒तृ॒दे॒व॒त्या॑ निखा॑ता॒ निखा॑ता पितृदेव॒त्या॑ पितृदेव॒त्या॑ निखा॑ता । 9) पि॒तृ॒दे॒व॒त्येति॑ पितृ - दे॒व॒त्या᳚ । 10) निखा॑ता स्या-थ्स्या॒-न्निखा॑ता॒ निखा॑ता स्यात् । 10) निखा॒तेति॒ नि - खा॒ता॒ । 11) स्या॒-द्ब॒र्॒हि-र्ब॒र्॒हि-स्स्या᳚-थ्स्या-द्ब॒र्॒हिः । 12) ब॒र्॒हि र॑व॒स्तीर्या॑ व॒स्तीर्य॑ ब॒र्॒हि-र्ब॒र्॒हि र॑व॒स्तीर्य॑ । 13) अ॒व॒स्तीर्य॑ मिनोति मिनो त्यव॒स्तीर्या॑ व॒स्तीर्य॑ मिनोति । 13) अ॒व॒स्तीर्येत्य॑व - स्तीर्य॑ । 14) मि॒नो॒ त्य॒स्या म॒स्या-म्मि॑नोति मिनो त्य॒स्याम् । 15) अ॒स्या मे॒वैवास्या म॒स्या मे॒व । 16) ए॒वैना॑ मेना मे॒वैवैना᳚म् । 17) ए॒ना॒-म्मि॒नो॒ति॒ मि॒नो॒ त्ये॒ना॒ मे॒ना॒-म्मि॒नो॒ति॒ । 18) मि॒नो॒ त्यथो॒ अथो॑ मिनोति मिनो॒ त्यथो᳚ । 19) अथो᳚ स्वा॒रुहग्ग्॑ स्वा॒रुह॒ मथो॒ अथो᳚ स्वा॒रुह᳚म् । 19) अथो॒ इत्यथो᳚ । 20) स्वा॒रुह॑ मे॒वैव स्वा॒रुहग्ग्॑ स्वा॒रुह॑ मे॒व । 20) स्वा॒रुह॒मिति॑ स्व - रुह᳚म् । 21) ए॒वैना॑ मेना मे॒वै वैना᳚म् । 22) ए॒ना॒-ङ्क॒रो॒ति॒ क॒रो॒ त्ये॒ना॒ मे॒ना॒-ङ्क॒रो॒ति॒ । 23) क॒रो॒ त्युदु-त्क॑रोति करो॒ त्युत् । 24) उ-द्दिव॒-न्दिव॒ मुदु-द्दिव᳚म् । 25) दिवग्ग्॑ स्तभान स्तभान॒ दिव॒-न्दिवग्ग्॑ स्तभान । 26) स्त॒भा॒ना स्त॑भान स्तभा॒ना । 27) आ ऽन्तरि॑क्ष म॒न्तरि॑क्ष॒ मा ऽन्तरि॑क्षम् । 28) अ॒न्तरि॑क्ष-म्पृण पृणा॒न्तरि॑क्ष म॒न्तरि॑क्ष-म्पृण । 29) पृ॒णे तीति॑ पृण पृ॒णेति॑ । 30) इत्या॑हा॒हे तीत्या॑ह । 31) आ॒है॒षा मे॒षा मा॑हाहै॒षाम् । 32) ए॒षाम् ँलो॒काना᳚म् ँलो॒काना॑ मे॒षा मे॒षाम् ँलो॒काना᳚म् । 33) लो॒कानां॒-विँधृ॑त्यै॒ विधृ॑त्यै लो॒काना᳚म् ँलो॒कानां॒-विँधृ॑त्यै । 34) विधृ॑त्यै द्युता॒नो द्यु॑ता॒नो विधृ॑त्यै॒ विधृ॑त्यै द्युता॒नः । 34) विधृ॑त्या॒ इति॒ वि - धृ॒त्यै॒ । 35) द्यु॒ता॒न स्त्वा᳚ त्वा द्युता॒नो द्यु॑ता॒न स्त्वा᳚ । 36) त्वा॒ मा॒रु॒तो मा॑रु॒त स्त्वा᳚ त्वा मारु॒तः । 37) मा॒रु॒तो मि॑नोतु मिनोतु मारु॒तो मा॑रु॒तो मि॑नोतु । 38) मि॒नो॒ त्वितीति॑ मिनोतु मिनो॒ त्विति॑ । 39) इत्या॑हा॒हे तीत्या॑ह । 40) आ॒ह॒ द्यु॒ता॒नो द्यु॑ता॒न आ॑हाह द्युता॒नः । 41) द्यु॒ता॒नो ह॑ ह द्युता॒नो द्यु॑ता॒नो ह॑ । 42) ह॒ स्म॒ स्म॒ ह॒ ह॒ स्म॒ । 43) स्म॒ वै वै स्म॑ स्म॒ वै । 44) वै मा॑रु॒तो मा॑रु॒तो वै वै मा॑रु॒तः । 45) मा॒रु॒तो दे॒वाना᳚-न्दे॒वाना᳚-म्मारु॒तो मा॑रु॒तो दे॒वाना᳚म् । 46) दे॒वाना॒ मौदु॑म्बरी॒ मौदु॑म्बरी-न्दे॒वाना᳚-न्दे॒वाना॒ मौदु॑म्बरीम् । 47) औदु॑म्बरी-म्मिनोति मिनो॒ त्यौदु॑म्बरी॒ मौदु॑म्बरी-म्मिनोति । 48) मि॒नो॒ति॒ तेन॒ तेन॑ मिनोति मिनोति॒ तेन॑ । 49) तेनै॒वैव तेन॒ तेनै॒व । 50) ए॒वैना॑ मेना मे॒वैवैना᳚म् । ॥ 52 ॥ (50/58)
1) ए॒ना॒-म्मि॒नो॒ति॒ मि॒नो॒ त्ये॒ना॒ मे॒ना॒-म्मि॒नो॒ति॒ । 2) मि॒नो॒ति॒ ब्र॒ह्म॒वनि॑-म्ब्रह्म॒वनि॑-म्मिनोति मिनोति ब्रह्म॒वनि᳚म् । 3) ब्र॒ह्म॒वनि॑-न्त्वा त्वा ब्रह्म॒वनि॑-म्ब्रह्म॒वनि॑-न्त्वा । 3) ब्र॒ह्म॒वनि॒मिति॑ ब्रह्म - वनि᳚म् । 4) त्वा॒ क्ष॒त्र॒वनि॑-ङ्क्षत्र॒वनि॑-न्त्वा त्वा क्षत्र॒वनि᳚म् । 5) क्ष॒त्र॒वनि॒ मितीति॑ क्षत्र॒वनि॑-ङ्क्षत्र॒वनि॒ मिति॑ । 5) क्ष॒त्र॒वनि॒मिति॑ क्षत्र - वनि᳚म् । 6) इत्या॑हा॒हे तीत्या॑ह । 7) आ॒ह॒ य॒था॒य॒जु-र्य॑थाय॒जु रा॑हाह यथाय॒जुः । 8) य॒था॒य॒जु रे॒वैव य॑थाय॒जु-र्य॑थाय॒जु रे॒व । 8) य॒था॒य॒जुरिति॑ यथा - य॒जुः । 9) ए॒वैत दे॒त दे॒वै वैतत् । 10) ए॒त-द्घृ॒तेन॑ घृ॒ते नै॒त दे॒त-द्घृ॒तेन॑ । 11) घृ॒तेन॑ द्यावापृथिवी द्यावापृथिवी घृ॒तेन॑ घृ॒तेन॑ द्यावापृथिवी । 12) द्या॒वा॒पृ॒थि॒वी॒ आ द्या॑वापृथिवी द्यावापृथिवी॒ आ । 12) द्या॒वा॒पृ॒थि॒वी॒ इति॑ द्यावा - पृ॒थि॒वी॒ । 13) आ पृ॑णेथा-म्पृणेथा॒ मा पृ॑णेथाम् । 14) पृ॒णे॒था॒ मितीति॑ पृणेथा-म्पृणेथा॒ मिति॑ । 15) इत्यौदु॑म्बर्या॒ मौदु॑म्बर्या॒ मिती त्यौदु॑म्बर्याम् । 16) औदु॑म्बर्या-ञ्जुहोति जुहो॒ त्यौदु॑म्बर्या॒ मौदु॑म्बर्या-ञ्जुहोति । 17) जु॒हो॒ति॒ द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी जु॑होति जुहोति॒ द्यावा॑पृथि॒वी । 18) द्यावा॑पृथि॒वी ए॒वैव द्यावा॑पृथि॒वी द्यावा॑पृथि॒वी ए॒व । 18) द्यावा॑पृथि॒वी इति॒ द्यावा᳚ - पृ॒थि॒वी । 19) ए॒व रसे॑न॒ रसे॑ नै॒वैव रसे॑न । 20) रसे॑ नानक्त्यनक्ति॒ रसे॑न॒ रसे॑ना नक्ति । 21) अ॒न॒क्त्या॒न्त मा॒न्त म॑नक्त्य नक्त्या॒न्तम् । 22) आ॒न्त म॒न्वव॑स्रावय त्य॒न्वव॑स्रावयत्या॒न्त मा॒न्त म॒न्वव॑स्रावयति । 22) आ॒न्तमित्या᳚ - अ॒न्तम् । 23) अ॒न्वव॑स्रावयत्या॒न्त मा॒न्त म॒न्वव॑स्रावय त्य॒न्वव॑स्रावयत्या॒न्तम् । 23) अ॒न्वव॑स्रावय॒तीत्य॑नु - अव॑स्रावयति । 24) आ॒न्त मे॒वैवान्त मा॒न्त मे॒व । 24) आ॒न्तमित्या᳚ - अ॒न्तम् । 25) ए॒व यज॑मानं॒-यँज॑मान मे॒वैव यज॑मानम् । 26) यज॑मान॒-न्तेज॑सा॒ तेज॑सा॒ यज॑मानं॒-यँज॑मान॒-न्तेज॑सा । 27) तेज॑सा ऽनक्त्यनक्ति॒ तेज॑सा॒ तेज॑सा ऽनक्ति । 28) अ॒न॒क्त्यै॒न्द्र मै॒न्द्र म॑न-क्त्यन-क्त्यै॒न्द्रम् । 29) ऐ॒न्द्र म॑स्य स्यै॒न्द्र मै॒न्द्र म॑सि । 30) अ॒सीती त्य॑स्य॒सीति॑ । 31) इति॑ छ॒दि श्छ॒दि रितीति॑ छ॒दिः । 32) छ॒दि रध्यधि॑ च्छ॒दि श्छ॒दि रधि॑ । 33) अधि॒ नि न्यध्य धि॒ नि । 34) नि द॑धाति दधाति॒ नि नि द॑धाति । 35) द॒धा॒ त्यै॒न्द्र मै॒न्द्र-न्द॑धाति दधा त्यै॒न्द्रम् । 36) ऐ॒न्द्रग्ं हि ह्यै᳚न्द्र मै॒न्द्रग्ं हि । 37) हि दे॒वत॑या दे॒वत॑या॒ हि हि दे॒वत॑या । 38) दे॒वत॑या॒ सद॒-स्सदो॑ दे॒वत॑या दे॒वत॑या॒ सदः॑ । 39) सदो॑ विश्वज॒नस्य॑ विश्वज॒नस्य॒ सद॒-स्सदो॑ विश्वज॒नस्य॑ । 40) वि॒श्व॒ज॒नस्य॑ छा॒या छा॒या वि॑श्वज॒नस्य॑ विश्वज॒नस्य॑ छा॒या । 40) वि॒श्व॒ज॒नस्येति॑ विश्व - ज॒नस्य॑ । 41) छा॒येतीति॑ छा॒या छा॒येति॑ । 42) इत्या॑हा॒हे तीत्या॑ह । 43) आ॒ह॒ वि॒श्व॒ज॒नस्य॑ विश्वज॒नस्या॑ हाह विश्वज॒नस्य॑ । 44) वि॒श्व॒ज॒नस्य॒ हि हि वि॑श्वज॒नस्य॑ विश्वज॒नस्य॒ हि । 44) वि॒श्व॒ज॒नस्येति॑ विश्व - ज॒नस्य॑ । 45) ह्ये॑षैषा हि ह्ये॑षा । 46) ए॒षा छा॒या छा॒यैषैषा छा॒या । 47) छा॒या य-द्यच् छा॒या छा॒या यत् । 48) य-थ्सद॒-स्सदो॒ य-द्य-थ्सदः॑ । 49) सदो॒ नव॑छदि॒ नव॑छदि॒ सद॒-स्सदो॒ नव॑छदि । 50) नव॑छदि॒ तेज॑स्कामस्य॒ तेज॑स्कामस्य॒ नव॑छदि॒ नव॑छदि॒ तेज॑स्कामस्य । 50) नव॑छ॒दीति॒ नव॑ - छ॒दि॒ । ॥ 53 ॥ (50/61)
1) तेज॑स्कामस्य मिनुया-न्मिनुया॒-त्तेज॑स्कामस्य॒ तेज॑स्कामस्य मिनुयात् । 1) तेज॑स्काम॒स्येति॒ तेजः॑ - का॒म॒स्य॒ । 2) मि॒नु॒या॒-त्त्रि॒वृता᳚ त्रि॒वृता॑ मिनुया-न्मिनुया-त्त्रि॒वृता᳚ । 3) त्रि॒वृता॒ स्तोमे॑न॒ स्तोमे॑न त्रि॒वृता᳚ त्रि॒वृता॒ स्तोमे॑न । 3) त्रि॒वृतेति॑ त्रि - वृता᳚ । 4) स्तोमे॑न॒ सम्मि॑त॒ग्ं॒ सम्मि॑त॒ग्ग्॒ स्तोमे॑न॒ स्तोमे॑न॒ सम्मि॑तम् । 5) सम्मि॑त॒-न्तेज॒ स्तेज॒-स्सम्मि॑त॒ग्ं॒ सम्मि॑त॒-न्तेजः॑ । 5) सम्मि॑त॒मिति॒ सं - मि॒त॒म् । 6) तेज॑ स्त्रि॒वृ-त्त्रि॒वृ-त्तेज॒ स्तेज॑ स्त्रि॒वृत् । 7) त्रि॒वृ-त्ते॑ज॒स्वी ते॑ज॒स्वी त्रि॒वृ-त्त्रि॒वृ-त्ते॑ज॒स्वी । 7) त्रि॒वृदिति॑ त्रि - वृत् । 8) ते॒ज॒ स्व्ये॑वैव ते॑ज॒स्वी ते॑ज॒ स्व्ये॑व । 9) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 10) भ॒व॒ त्येका॑दशछ॒ द्येका॑दशछदि भवति भव॒ त्येका॑दशछदि । 11) एका॑दशछ दीन्द्रि॒यका॑म स्येन्द्रि॒यका॑म॒ स्यैका॑दशछ॒ द्येका॑दशछ दीन्द्रि॒यका॑मस्य । 11) एका॑दशछ॒दीत्येका॑दश - छ॒दि॒ । 12) इ॒न्द्रि॒यका॑म॒ स्यैका॑दशाक्ष॒ रैका॑दशाक्ष रेन्द्रि॒यका॑म स्येन्द्रि॒यका॑म॒ स्यैका॑दशाक्षरा । 12) इ॒न्द्रि॒यका॑म॒स्येती᳚न्द्रि॒य - का॒म॒स्य॒ । 13) एका॑दशाक्षरा त्रि॒ष्टु-क्त्रि॒ष्टुगेका॑दशाक्ष॒ रैका॑दशाक्षरा त्रि॒ष्टुक् । 13) एका॑दशाक्ष॒रेत्येका॑दश - अ॒क्ष॒रा॒ । 14) त्रि॒ष्टु गि॑न्द्रि॒य मि॑न्द्रि॒य-न्त्रि॒ष्टु-क्त्रि॒ष्टु गि॑न्द्रि॒यम् । 15) इ॒न्द्रि॒य-न्त्रि॒ष्टु-क्त्रि॒ष्टु गि॑न्द्रि॒य मि॑न्द्रि॒य-न्त्रि॒ष्टुक् । 16) त्रि॒ष्टु गि॑न्द्रिया॒ वीन्द्रि॑या॒वी त्रि॒ष्टु-क्त्रि॒ष्टु गि॑न्द्रिया॒वी । 17) इ॒न्द्रि॒या॒ व्ये॑वै वेन्द्रि॑या॒वी न्द्रि॑या॒ व्ये॑व । 18) ए॒व भ॑वति भव त्ये॒वैव भ॑वति । 19) भ॒व॒ति॒ पञ्च॑दशछदि॒ पञ्च॑दशछदि भवति भवति॒ पञ्च॑दशछदि । 20) पञ्च॑दशछदि॒ भ्रातृ॑व्यवतो॒ भ्रातृ॑व्यवतः॒ पञ्च॑दशछदि॒ पञ्च॑दशछदि॒ भ्रातृ॑व्यवतः । 20) पञ्च॑दशछ॒दीति॒ पञ्च॑दश - छ॒दि॒ । 21) भ्रातृ॑व्यवतः पञ्चद॒शः प॑ञ्चद॒शो भ्रातृ॑व्यवतो॒ भ्रातृ॑व्यवतः पञ्चद॒शः । 21) भ्रातृ॑व्यवत॒ इति॒ भ्रातृ॑व्य - व॒तः॒ । 22) प॒ञ्च॒द॒शो वज्रो॒ वज्रः॑ पञ्चद॒शः प॑ञ्चद॒शो वज्रः॑ । 22) प॒ञ्च॒द॒श इति॑ पञ्च - द॒शः । 23) वज्रो॒ भ्रातृ॑व्याभिभूत्यै॒ भ्रातृ॑व्याभिभूत्यै॒ वज्रो॒ वज्रो॒ भ्रातृ॑व्याभिभूत्यै । 24) भ्रातृ॑व्याभिभूत्यै स॒प्तद॑शछदि स॒प्तद॑शछदि॒ भ्रातृ॑व्याभिभूत्यै॒ भ्रातृ॑व्याभिभूत्यै स॒प्तद॑शछदि । 24) भ्रातृ॑व्याभिभूत्या॒ इति॒ भ्रातृ॑व्य - अ॒भि॒भू॒त्यै॒ । 25) स॒प्तद॑शछदि प्र॒जाका॑मस्य प्र॒जाका॑मस्य स॒प्तद॑शछदि स॒प्तद॑शछदि प्र॒जाका॑मस्य । 25) स॒प्तद॑शछ॒दीति॑ स॒प्तद॑श - छ॒दि॒ । 26) प्र॒जाका॑मस्य सप्तद॒श-स्स॑प्तद॒शः प्र॒जाका॑मस्य प्र॒जाका॑मस्य सप्तद॒शः । 26) प्र॒जाका॑म॒स्येति॑ प्र॒जा - का॒म॒स्य॒ । 27) स॒प्त॒द॒शः प्र॒जाप॑तिः प्र॒जाप॑ति-स्सप्तद॒श-स्स॑प्तद॒शः प्र॒जाप॑तिः । 27) स॒प्त॒द॒श इति॑ सप्त - द॒शः । 28) प्र॒जाप॑तिः प्र॒जाप॑तेः प्र॒जाप॑तेः प्र॒जाप॑तिः प्र॒जाप॑तिः प्र॒जाप॑तेः । 28) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 29) प्र॒जाप॑ते॒ राप्त्या॒ आप्त्यै᳚ प्र॒जाप॑तेः प्र॒जाप॑ते॒ राप्त्यै᳚ । 29) प्र॒जाप॑ते॒रिति॑ प्र॒जा - प॒तेः॒ । 30) आप्त्या॒ एक॑विग्ंशतिछ॒ द्येक॑विग्ंशतिछ॒ द्याप्त्या॒ आप्त्या॒ एक॑विग्ंशतिछदि । 31) एक॑विग्ंशतिछदि प्रति॒ष्ठाका॑मस्य प्रति॒ष्ठाका॑म॒ स्यैक॑विग्ंशतिछ॒ द्येक॑विग्ंशतिछदि प्रति॒ष्ठाका॑मस्य । 31) एक॑विग्ंशतिछ॒दीत्येक॑विग्ंशति - छ॒दि॒ । 32) प्र॒ति॒ष्ठाका॑म स्यैकवि॒ग्ं॒श ए॑कवि॒ग्ं॒शः प्र॑ति॒ष्ठाका॑मस्य प्रति॒ष्ठाका॑म स्यैकवि॒ग्ं॒शः । 32) प्र॒ति॒ष्ठाका॑म॒स्येति॑ प्रति॒ष्ठा - का॒म॒स्य॒ । 33) ए॒क॒वि॒ग्ं॒श-स्स्तोमा॑ना॒ग्॒ स्तोमा॑ना मेकवि॒ग्ं॒श ए॑कवि॒ग्ं॒श-स्स्तोमा॑नाम् । 33) ए॒क॒वि॒ग्ं॒श इत्ये॑क - वि॒ग्ं॒शः । 34) स्तोमा॑ना-म्प्रति॒ष्ठा प्र॑ति॒ष्ठा स्तोमा॑ना॒ग्॒ स्तोमा॑ना-म्प्रति॒ष्ठा । 35) प्र॒ति॒ष्ठा प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्यै प्रति॒ष्ठा प्र॑ति॒ष्ठा प्रति॑ष्ठित्यै । 35) प्र॒ति॒ष्ठेति॑ प्रति - स्था । 36) प्रति॑ष्ठित्या उ॒दर॑ मु॒दर॒-म्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या उ॒दर᳚म् । 36) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 37) उ॒दरं॒-वैँ वा उ॒दर॑ मु॒दरं॒-वैँ । 38) वै सद॒-स्सदो॒ वै वै सदः॑ । 39) सद॒ ऊ-र्गू-र्ख्सद॒-स्सद॒ ऊर्क् । 40) ऊ-र्गु॒दुम्बर॑ उ॒दुम्बर॒ ऊ-र्गू-र्गु॒दुम्बरः॑ । 41) उ॒दुम्बरो॑ मद्ध्य॒तो म॑द्ध्य॒त उ॒दुम्बर॑ उ॒दुम्बरो॑ मद्ध्य॒तः । 42) म॒द्ध्य॒त औदु॑म्बरी॒ मौदु॑म्बरी-म्मद्ध्य॒तो म॑द्ध्य॒त औदु॑म्बरीम् । 43) औदु॑म्बरी-म्मिनोति मिनो॒ त्यौदु॑म्बरी॒ मौदु॑म्बरी-म्मिनोति । 44) मि॒नो॒ति॒ म॒द्ध्य॒तो म॑द्ध्य॒तो मि॑नोति मिनोति मद्ध्य॒तः । 45) म॒द्ध्य॒त ए॒वैव म॑द्ध्य॒तो म॑द्ध्य॒त ए॒व । 46) ए॒व प्र॒जाना᳚-म्प्र॒जाना॑ मे॒वैव प्र॒जाना᳚म् । 47) प्र॒जाना॒ मूर्ज॒ मूर्ज॑-म्प्र॒जाना᳚-म्प्र॒जाना॒ मूर्ज᳚म् । 47) प्र॒जाना॒मिति॑ प्र - जाना᳚म् । 48) ऊर्ज॑-न्दधाति दधा॒ त्यूर्ज॒ मूर्ज॑-न्दधाति । 49) द॒धा॒ति॒ तस्मा॒-त्तस्मा᳚-द्दधाति दधाति॒ तस्मा᳚त् । 50) तस्मा᳚-न्मद्ध्य॒तो म॑द्ध्य॒त स्तस्मा॒-त्तस्मा᳚-न्मद्ध्य॒तः । ॥ 54 ॥ (50/72)
1) म॒द्ध्य॒त ऊ॒र्जोर्जा म॑द्ध्य॒तो म॑द्ध्य॒त ऊ॒र्जा । 2) ऊ॒र्जा भु॑ञ्जते भुञ्जत ऊ॒र्जोर्जा भु॑ञ्जते । 3) भु॒ञ्ज॒ते॒ य॒ज॒मा॒न॒लो॒के य॑जमानलो॒के भु॑ञ्जते भुञ्जते यजमानलो॒के । 4) य॒ज॒मा॒न॒लो॒के वै वै य॑जमानलो॒के य॑जमानलो॒के वै । 4) य॒ज॒मा॒न॒लो॒क इति॑ यजमान - लो॒के । 5) वै दक्षि॑णानि॒ दक्षि॑णानि॒ वै वै दक्षि॑णानि । 6) दक्षि॑णानि छ॒दीग्ंषि॑ छ॒दीग्ंषि॒ दक्षि॑णानि॒ दक्षि॑णानि छ॒दीग्ंषि॑ । 7) छ॒दीग्ंषि॑ भ्रातृव्यलो॒के भ्रा॑तृव्यलो॒के छ॒दीग्ंषि॑ छ॒दीग्ंषि॑ भ्रातृव्यलो॒के । 8) भ्रा॒तृ॒व्य॒लो॒क उत्त॑रा॒ ण्युत्त॑राणि भ्रातृव्यलो॒के भ्रा॑तृव्यलो॒क उत्त॑राणि । 8) भ्रा॒तृ॒व्य॒लो॒क इति॑ भ्रातृव्य - लो॒के । 9) उत्त॑राणि॒ दक्षि॑णानि॒ दक्षि॑णा॒ न्युत्त॑रा॒ ण्युत्त॑राणि॒ दक्षि॑णनि । 9) उत्त॑रा॒णीत्युत् - त॒रा॒णि॒ । 10) दक्षि॑णा॒ न्युत्त॑रा॒ ण्युत्त॑राणि॒ दक्षि॑णानि॒ दक्षि॑णा॒ न्युत्त॑राणि । 11) उत्त॑राणि करोति करो॒ त्युत्त॑रा॒ ण्युत्त॑राणि करोति । 11) उत्त॑रा॒णीत्युत् - त॒रा॒णि॒ । 12) क॒रो॒ति॒ यज॑मानं॒-यँज॑मान-ङ्करोति करोति॒ यज॑मानम् । 13) यज॑मान मे॒वैव यज॑मानं॒-यँज॑मान मे॒व । 14) ए॒वा य॑जमाना॒ दय॑जमाना दे॒वैवा य॑जमानात् । 15) अय॑जमाना॒ दुत्त॑र॒ मुत्त॑र॒ मय॑जमाना॒ दय॑जमाना॒ दुत्त॑रम् । 16) उत्त॑र-ङ्करोति करो॒ त्युत्त॑र॒ मुत्त॑र-ङ्करोति । 16) उत्त॑र॒मित्युत् - त॒र॒म् । 17) क॒रो॒ति॒ तस्मा॒-त्तस्मा᳚-त्करोति करोति॒ तस्मा᳚त् । 18) तस्मा॒-द्यज॑मानो॒ यज॑मान॒ स्तस्मा॒-त्तस्मा॒-द्यज॑मानः । 19) यज॑मा॒नो ऽय॑जमाना॒ दय॑जमाना॒-द्यज॑मानो॒ यज॑मा॒नो ऽय॑जमानात् । 20) अय॑जमाना॒ दुत्त॑र॒ उत्त॒रो ऽय॑जमाना॒ दय॑जमाना॒ दुत्त॑रः । 21) उत्त॑रो ऽन्तर्व॒र्ता न॑न्तर्व॒र्ता नुत्त॑र॒ उत्त॑रो ऽन्तर्व॒र्तान् । 21) उत्त॑र॒ इत्युत् - त॒रः॒ । 22) अ॒न्त॒र्व॒र्तान् क॑रोति करो त्यन्तर्व॒र्ता न॑न्तर्व॒र्तान् क॑रोति । 22) अ॒न्त॒र्व॒र्तानित्य॑न्तः - व॒र्तान् । 23) क॒रो॒ति॒ व्यावृ॑त्त्यै॒ व्यावृ॑त्त्यै करोति करोति॒ व्यावृ॑त्त्यै । 24) व्यावृ॑त्त्यै॒ तस्मा॒-त्तस्मा॒-द्व्यावृ॑त्त्यै॒ व्यावृ॑त्त्यै॒ तस्मा᳚त् । 24) व्यावृ॑त्त्या॒ इति॑ वि - आवृ॑त्त्यै । 25) तस्मा॒ दर॑ण्य॒ मर॑ण्य॒-न्तस्मा॒-त्तस्मा॒ दर॑ण्यम् । 26) अर॑ण्य-म्प्र॒जाः प्र॒जा अर॑ण्य॒ मर॑ण्य-म्प्र॒जाः । 27) प्र॒जा उपोप॑ प्र॒जाः प्र॒जा उप॑ । 27) प्र॒जा इति॑ प्र - जाः । 28) उप॑ जीवन्ति जीव॒-न्त्युपोप॑ जीवन्ति । 29) जी॒व॒न्ति॒ परि॒ परि॑ जीवन्ति जीवन्ति॒ परि॑ । 30) परि॑ त्वा त्वा॒ परि॒ परि॑ त्वा । 31) त्वा॒ गि॒र्व॒णो॒ गि॒र्व॒ण॒ स्त्वा॒ त्वा॒ गि॒र्व॒णः॒ । 32) गि॒र्व॒णो॒ गिरो॒ गिरो॑ गिर्वणो गिर्वणो॒ गिरः॑ । 33) गिर॒ इतीति॒ गिरो॒ गिर॒ इति॑ । 34) इत्या॑हा॒हे तीत्या॑ह । 35) आ॒ह॒ य॒था॒य॒जु-र्य॑थाय॒जु रा॑हाह यथाय॒जुः । 36) य॒था॒य॒जु रे॒वैव य॑थाय॒जु-र्य॑थाय॒जु रे॒व । 36) य॒था॒य॒जुरिति॑ यथा - य॒जुः । 37) ए॒वैत दे॒त दे॒वै वैतत् । 38) ए॒तदिन्द्र॒ स्येन्द्र॑ स्यै॒त दे॒तदिन्द्र॑स्य । 39) इन्द्र॑स्य॒ स्यू-स्स्यूरिन्द्र॒ स्येन्द्र॑स्य॒ स्यूः । 40) स्यू र॑स्यसि॒ स्यू-स्स्यू र॑सि । 41) अ॒सीन्द्र॒ स्येन्द्र॑स्या स्य॒सीन्द्र॑स्य । 42) इन्द्र॑स्य ध्रु॒व-न्ध्रु॒व मिन्द्र॒ स्येन्द्र॑स्य ध्रु॒वम् । 43) ध्रु॒व म॑स्यसि ध्रु॒व-न्ध्रु॒व म॑सि । 44) अ॒सीती त्य॑स्य॒सीति॑ । 45) इत्या॑हा॒हे तीत्या॑ह । 46) आ॒है॒न्द्र मै॒न्द्र मा॑हा है॒न्द्रम् । 47) ऐ॒न्द्रग्ं हि ह्यै᳚न्द्र मै॒न्द्रग्ं हि । 48) हि दे॒वत॑या दे॒वत॑या॒ हि हि दे॒वत॑या । 49) दे॒वत॑या॒ सद॒-स्सदो॑ दे॒वत॑या दे॒वत॑या॒ सदः॑ । 50) सदो॒ यं-यँग्ं सद॒-स्सदो॒ यम् । 51) य-म्प्र॑थ॒म-म्प्र॑थ॒मं-यंँ य-म्प्र॑थ॒मम् । 52) प्र॒थ॒म-ङ्ग्र॒न्थि-ङ्ग्र॒न्थि-म्प्र॑थ॒म-म्प्र॑थ॒म-ङ्ग्र॒न्थिम् । 53) ग्र॒न्थि-ङ्ग्र॑थ्नी॒या-द्ग्र॑थ्नी॒या-द्ग्र॒न्थि-ङ्ग्र॒न्थि-ङ्ग्र॑थ्नी॒यात् । 54) ग्र॒थ्नी॒या-द्य-द्य-द्ग्र॑थ्नी॒या-द्ग्र॑थ्नी॒या-द्यत् । 55) य-त्त-न्तं-यँ-द्य-त्तम् । 56) तन्न न त-न्तन्न । 57) न वि॑स्र॒ग्ं॒सये᳚-द्विस्र॒ग्ं॒सये॒-न्न न वि॑स्र॒ग्ं॒सये᳚त् । 58) वि॒स्र॒ग्ं॒सये॒ दमे॑हे॒ना मे॑हेन विस्र॒ग्ं॒सये᳚-द्विस्र॒ग्ं॒सये॒ दमे॑हेन । 58) वि॒स्र॒ग्ं॒सये॒दिति॑ वि - स्र॒ग्ं॒सये᳚त् । 59) अमे॑हेना द्ध्व॒र्यु र॑द्ध्व॒र्यु रमे॑हे॒ना मे॑हेना द्ध्व॒र्युः । 60) अ॒द्ध्व॒र्युः प्र प्राद्ध्व॒र्यु र॑द्ध्व॒र्युः प्र । 61) प्र मी॑येत मीयेत॒ प्र प्र मी॑येत । 62) मी॒ये॒त॒ तस्मा॒-त्तस्मा᳚-न्मीयेत मीयेत॒ तस्मा᳚त् । 63) तस्मा॒-थ्स स तस्मा॒-त्तस्मा॒-थ्सः । 64) स वि॒स्रस्यो॑ वि॒स्रस्य॒-स्स स वि॒स्रस्यः॑ । 65) वि॒स्रस्य॒ इति॑ वि - स्रस्यः॑ । ॥ 55 ॥ (65/76) ॥ अ. 10 ॥
1) शिरो॒ वै वै शिर॒-श्शिरो॒ वै । 2) वा ए॒त दे॒त-द्वै वा ए॒तत् । 3) ए॒त-द्य॒ज्ञस्य॑ य॒ज्ञ स्यै॒त दे॒त-द्य॒ज्ञस्य॑ । 4) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् । 5) यद्ध॑वि॒र्धानग्ं॑ हवि॒र्धानं॒-यँ-द्यद्ध॑वि॒र्धान᳚म् । 6) ह॒वि॒र्धान॑-म्प्रा॒णाः प्रा॒णा ह॑वि॒र्धानग्ं॑ हवि॒र्धान॑-म्प्रा॒णाः । 6) ह॒वि॒र्धान॒मिति॑ हविः - धान᳚म् । 7) प्रा॒णा उ॑पर॒वा उ॑पर॒वाः प्रा॒णाः प्रा॒णा उ॑पर॒वाः । 7) प्रा॒णा इति॑ प्र - अ॒नाः । 8) उ॒प॒र॒वा ह॑वि॒र्धाने॑ हवि॒र्धान॑ उपर॒वा उ॑पर॒वा ह॑वि॒र्धाने᳚ । 8) उ॒प॒र॒वा इत्यु॑प - र॒वाः । 9) ह॒वि॒र्धाने॑ खायन्ते खायन्ते हवि॒र्धाने॑ हवि॒र्धाने॑ खायन्ते । 9) ह॒वि॒र्धान॒ इति॑ हविः - धाने᳚ । 10) खा॒य॒न्ते॒ तस्मा॒-त्तस्मा᳚-त्खायन्ते खायन्ते॒ तस्मा᳚त् । 11) तस्मा᳚ च्छी॒र्॒ष-ञ्छी॒र्॒ष-न्तस्मा॒-त्तस्मा᳚ च्छी॒र्॒षन्न् । 12) शी॒र्॒ष-न्प्रा॒णाः प्रा॒णा-श्शी॒र्॒ष-ञ्छी॒र्॒ष-न्प्रा॒णाः । 13) प्रा॒णा अ॒धस्ता॑ द॒धस्ता᳚-त्प्रा॒णाः प्रा॒णा अ॒धस्ता᳚त् । 13) प्रा॒णा इति॑ प्र - अ॒नाः । 14) अ॒धस्ता᳚-त्खायन्ते खायन्ते॒ ऽधस्ता॑ द॒धस्ता᳚-त्खायन्ते । 15) खा॒य॒न्ते॒ तस्मा॒-त्तस्मा᳚-त्खायन्ते खायन्ते॒ तस्मा᳚त् । 16) तस्मा॑ द॒धस्ता॑ द॒धस्ता॒-त्तस्मा॒-त्तस्मा॑ द॒धस्ता᳚त् । 17) अ॒धस्ता᳚ च्छी॒र्ष्ण-श्शी॒र्ष्णो॑ ऽधस्ता॑ द॒धस्ता᳚ च्छी॒र्ष्णः । 18) शी॒र्ष्णः प्रा॒णाः प्रा॒णा-श्शी॒र्ष्ण-श्शी॒र्ष्णः प्रा॒णाः । 19) प्रा॒णा र॑क्षो॒हणो॑ रक्षो॒हणः॑ प्रा॒णाः प्रा॒णा र॑क्षो॒हणः॑ । 19) प्रा॒णा इति॑ प्र - अ॒नाः । 20) र॒क्षो॒हणो॑ वलग॒हनो॑ वलग॒हनो॑ रक्षो॒हणो॑ रक्षो॒हणो॑ वलग॒हनः॑ । 20) र॒क्षो॒हण॒ इति॑ रक्षः - हनः॑ । 21) व॒ल॒ग॒हनो॑ वैष्ण॒वान्. वै᳚ष्ण॒वान्. व॑लग॒हनो॑ वलग॒हनो॑ वैष्ण॒वान् । 21) व॒ल॒ग॒हन॒ इति॑ वलग - हनः॑ । 22) वै॒ष्ण॒वा-न्ख॑नामि खनामि वैष्ण॒वान्. वै᳚ष्ण॒वा-न्ख॑नामि । 23) ख॒ना॒मीतीति॑ खनामि खना॒मीति॑ । 24) इत्या॑हा॒हे तीत्या॑ह । 25) आ॒ह॒ वै॒ष्ण॒वा वै᳚ष्ण॒वा आ॑हाह वैष्ण॒वाः । 26) वै॒ष्ण॒वा हि हि वै᳚ष्ण॒वा वै᳚ष्ण॒वा हि । 27) हि दे॒वत॑या दे॒वत॑या॒ हि हि दे॒वत॑या । 28) दे॒वत॑ योपर॒वा उ॑पर॒वा दे॒वत॑या दे॒वत॑ योपर॒वाः । 29) उ॒प॒र॒वा असु॑रा॒ असु॑रा उपर॒वा उ॑पर॒वा असु॑राः । 29) उ॒प॒र॒वा इत्यु॑प - र॒वाः । 30) असु॑रा॒ वै वा असु॑रा॒ असु॑रा॒ वै । 31) वै नि॒र्यन्तो॑ नि॒र्यन्तो॒ वै वै नि॒र्यन्तः॑ । 32) नि॒र्यन्तो॑ दे॒वाना᳚-न्दे॒वाना᳚-न्नि॒र्यन्तो॑ नि॒र्यन्तो॑ दे॒वाना᳚म् । 32) नि॒र्यन्त॒ इति॑ निः - यन्तः॑ । 33) दे॒वाना᳚-म्प्रा॒णेषु॑ प्रा॒णेषु॑ दे॒वाना᳚-न्दे॒वाना᳚-म्प्रा॒णेषु॑ । 34) प्रा॒णेषु॑ वल॒गान्. व॑ल॒गा-न्प्रा॒णेषु॑ प्रा॒णेषु॑ वल॒गान् । 34) प्रा॒णेष्विति॑ प्र - अ॒नेषु॑ । 35) व॒ल॒गा-न्नि नि व॑ल॒गान्. व॑ल॒गा-न्नि । 35) व॒ल॒गानिति॑ वल - गान् । 36) न्य॑खन-न्नखन॒-न्नि न्य॑खनन्न् । 37) अ॒ख॒न॒-न्ताग् स्ता न॑खन-न्नखन॒-न्तान् । 38) ता-न्बा॑हुमा॒त्रे बा॑हुमा॒त्रे ताग् स्ता-न्बा॑हुमा॒त्रे । 39) बा॒हु॒मा॒त्रे ऽन्वनु॑ बाहुमा॒त्रे बा॑हुमा॒त्रे ऽनु॑ । 39) बा॒हु॒मा॒त्र इति॑ बाहु - मा॒त्रे । 40) अन्व॑विन्द-न्नविन्द॒-न्नन् वन् व॑विन्दन्न् । 41) अ॒वि॒न्द॒-न्तस्मा॒-त्तस्मा॑ दविन्द-न्नविन्द॒-न्तस्मा᳚त् । 42) तस्मा᳚-द्बाहुमा॒त्रा बा॑हुमा॒त्रा स्तस्मा॒-त्तस्मा᳚-द्बाहुमा॒त्राः । 43) बा॒हु॒मा॒त्राः खा॑यन्ते खायन्ते बाहुमा॒त्रा बा॑हुमा॒त्राः खा॑यन्ते । 43) बा॒हु॒मा॒त्रा इति॑ बाहु - मा॒त्राः । 44) खा॒य॒न्त॒ इ॒द मि॒द-ङ्खा॑यन्ते खायन्त इ॒दम् । 45) इ॒द म॒ह म॒ह मि॒द मि॒द म॒हम् । 46) अ॒ह-न्त-न्त म॒ह म॒ह-न्तम् । 47) तं-वँ॑ल॒गं-वँ॑ल॒ग-न्त-न्तं-वँ॑ल॒गम् । 48) व॒ल॒ग मुदु-द्व॑ल॒गं-वँ॑ल॒ग मुत् । 48) व॒ल॒गमिति॑ वल - गम् । 49) उ-द्व॑पामि वपा॒ म्युदु-द्व॑पामि । 50) व॒पा॒मि॒ यं-यंँ व॑पामि वपामि॒ यम् । ॥ 56 ॥ (50/65)
1) यन्नो॑ नो॒ यं-यँन्नः॑ । 2) न॒-स्स॒मा॒न-स्स॑मा॒नो नो॑ न-स्समा॒नः । 3) स॒मा॒नो यं-यँग्ं स॑मा॒न-स्स॑मा॒नो यम् । 4) य मस॑मा॒नो ऽस॑मानो॒ यं-यँ मस॑मानः । 5) अस॑मानो निच॒खान॑ निच॒खाना स॑मा॒नो ऽस॑मानो निच॒खान॑ । 6) नि॒च॒खाने तीति॑ निच॒खान॑ निच॒खानेति॑ । 6) नि॒च॒खानेति॑ नि - च॒खान॑ । 7) इत्या॑हा॒हे तीत्या॑ह । 8) आ॒ह॒ द्वौ द्वा वा॑हाह॒ द्वौ । 9) द्वौ वाव वाव द्वौ द्वौ वाव । 10) वाव पुरु॑षौ॒ पुरु॑षौ॒ वाव वाव पुरु॑षौ । 11) पुरु॑षौ॒ यो यः पुरु॑षौ॒ पुरु॑षौ॒ यः । 12) यश्च॑ च॒ यो यश्च॑ । 13) चै॒वैव च॑ चै॒व । 14) ए॒व स॑मा॒न-स्स॑मा॒न ए॒वैव स॑मा॒नः । 15) स॒मा॒नो यो य-स्स॑मा॒न-स्स॑मा॒नो यः । 16) यश्च॑ च॒ यो यश्च॑ । 17) चास॑मा॒नो ऽस॑मानश्च॒ चास॑मानः । 18) अस॑मानो॒ यं-यँ मस॑मा॒नो ऽस॑मानो॒ यम् । 19) य मे॒वैव यं-यँ मे॒व । 20) ए॒वास्मा॑ अस्मा ए॒वैवास्मै᳚ । 21) अ॒स्मै॒ तौ ता व॑स्मा अस्मै॒ तौ । 22) तौ व॑ल॒गं-वँ॑ल॒ग-न्तौ तौ व॑ल॒गम् । 23) व॒ल॒ग-न्नि॒खन॑तो नि॒खन॑तो वल॒गं-वँ॑ल॒ग-न्नि॒खन॑तः । 23) व॒ल॒गमिति॑ वल - गम् । 24) नि॒खन॑त॒ स्त-न्त-न्नि॒खन॑तो नि॒खन॑त॒ स्तम् । 24) नि॒खन॑त॒ इति॑ नि - खन॑तः । 25) त मे॒वैव त-न्त मे॒व । 26) ए॒वोदु दे॒वैवोत् । 27) उ-द्व॑पति वप॒ त्युदु-द्व॑पति । 28) व॒प॒ति॒ सग्ं सं-वँ॑पति वपति॒ सम् । 29) स-न्तृ॑णत्ति तृणत्ति॒ सग्ं स-न्तृ॑णत्ति । 30) तृ॒ण॒त्ति॒ तस्मा॒-त्तस्मा᳚-त्तृणत्ति तृणत्ति॒ तस्मा᳚त् । 31) तस्मा॒-थ्सन्तृ॑ण्णा॒-स्सन्तृ॑ण्णा॒ स्तस्मा॒-त्तस्मा॒-थ्सन्तृ॑ण्णाः । 32) सन्तृ॑ण्णा अन्तर॒तो᳚ ऽन्तर॒त-स्सन्तृ॑ण्णा॒-स्सन्तृ॑ण्णा अन्तर॒तः । 32) सन्तृ॑ण्णा॒ इति॒ सं - तृ॒ण्णाः॒ । 33) अ॒न्त॒र॒तः प्रा॒णाः प्रा॒णा अ॑न्तर॒तो᳚ ऽन्तर॒तः प्रा॒णाः । 34) प्रा॒णा न न प्रा॒णाः प्रा॒णा न । 34) प्रा॒णा इति॑ प्र - अ॒नाः । 35) न सग्ं सन्न न सम् । 36) स-म्भि॑नत्ति भिनत्ति॒ सग्ं स-म्भि॑नत्ति । 37) भि॒न॒त्ति॒ तस्मा॒-त्तस्मा᳚-द्भिनत्ति भिनत्ति॒ तस्मा᳚त् । 38) तस्मा॒ दस॑म्भिन्ना॒ अस॑म्भिन्ना॒ स्तस्मा॒-त्तस्मा॒ दस॑म्भिन्नाः । 39) अस॑म्भिन्नाः प्रा॒णाः प्रा॒णा अस॑म्भिन्ना॒ अस॑म्भिन्नाः प्रा॒णाः । 39) अस॑म्भिन्ना॒ इत्यसं᳚ - भि॒न्नाः॒ । 40) प्रा॒णा अ॒पो॑ ऽपः प्रा॒णाः प्रा॒णा अ॒पः । 40) प्रा॒णा इति॑ प्र - अ॒नाः । 41) अ॒पो ऽवावा॒पो॑ ऽपो ऽव॑ । 42) अव॑ नयति नय॒ त्यवाव॑ नयति । 43) न॒य॒ति॒ तस्मा॒-त्तस्मा᳚-न्नयति नयति॒ तस्मा᳚त् । 44) तस्मा॑ दा॒र्द्रा आ॒र्द्रा स्तस्मा॒-त्तस्मा॑ दा॒र्द्राः । 45) आ॒र्द्रा अ॑न्तर॒तो᳚ ऽन्तर॒त आ॒र्द्रा आ॒र्द्रा अ॑न्तर॒तः । 46) अ॒न्त॒र॒तः प्रा॒णाः प्रा॒णा अ॑न्तर॒तो᳚ ऽन्तर॒तः प्रा॒णाः । 47) प्रा॒णा यव॑मती॒-र्यव॑मतीः प्रा॒णाः प्रा॒णा यव॑मतीः । 47) प्रा॒णा इति॑ प्र - अ॒नाः । 48) यव॑मती॒ रवाव॒ यव॑मती॒-र्यव॑मती॒ रव॑ । 48) यव॑मती॒रिति॒ यव॑ - म॒तीः॒ । 49) अव॑ नयति नय॒ त्यवाव॑ नयति । 50) न॒य॒ त्यू-र्गूर्-न्न॑यति नय॒ त्यूर्क् । ॥ 57 ॥ (50/59)
1) ऊर्ग् वै वा ऊ-र्गूर्ग् वै । 2) वै यवो॒ यवो॒ वै वै यवः॑ । 3) यवः॑ प्रा॒णाः प्रा॒णा यवो॒ यवः॑ प्रा॒णाः । 4) प्रा॒णा उ॑पर॒वा उ॑पर॒वाः प्रा॒णाः प्रा॒णा उ॑पर॒वाः । 4) प्रा॒णा इति॑ प्र - अ॒नाः । 5) उ॒प॒र॒वाः प्रा॒णेषु॑ प्रा॒णेषू॑ पर॒वा उ॑पर॒वाः प्रा॒णेषु॑ । 5) उ॒प॒र॒वा इत्यु॑प - र॒वाः । 6) प्रा॒णे ष्वे॒वैव प्रा॒णेषु॑ प्रा॒णे ष्वे॒व । 6) प्रा॒णेष्विति॑ प्र - अ॒नेषु॑ । 7) ए॒वोर्ज॒ मूर्ज॑ मे॒वैवोर्ज᳚म् । 8) ऊर्ज॑-न्दधाति दधा॒ त्यूर्ज॒ मूर्ज॑-न्दधाति । 9) द॒धा॒ति॒ ब॒र्॒हि-र्ब॒र्॒हि-र्द॑धाति दधाति ब॒र्॒हिः । 10) ब॒र्॒हि रवाव॑ ब॒र्॒हि-र्ब॒र्॒हि रव॑ । 11) अव॑ स्तृणाति स्तृणा॒ त्यवाव॑ स्तृणाति । 12) स्तृ॒णा॒ति॒ तस्मा॒-त्तस्मा᳚-थ्स्तृणाति स्तृणाति॒ तस्मा᳚त् । 13) तस्मा᳚ ल्लोम॒शा लो॑म॒शा स्तस्मा॒-त्तस्मा᳚ ल्लोम॒शाः । 14) लो॒म॒शा अ॑न्तर॒तो᳚ ऽन्तर॒तो लो॑म॒शा लो॑म॒शा अ॑न्तर॒तः । 15) अ॒न्त॒र॒तः प्रा॒णाः प्रा॒णा अ॑न्तर॒तो᳚ ऽन्तर॒तः प्रा॒णाः । 16) प्रा॒णा आज्ये॒ना ज्ये॑न प्रा॒णाः प्रा॒णा आज्ये॑न । 16) प्रा॒णा इति॑ प्र - अ॒नाः । 17) आज्ये॑न॒ व्याघा॑रयति॒ व्याघा॑रय॒ त्याज्ये॒ना ज्ये॑न॒ व्याघा॑रयति । 18) व्याघा॑रयति॒ तेज॒ स्तेजो॒ व्याघा॑रयति॒ व्याघा॑रयति॒ तेजः॑ । 18) व्याघा॑रय॒तीति॑ वि - आघा॑रयति । 19) तेजो॒ वै वै तेज॒ स्तेजो॒ वै । 20) वा आज्य॒ माज्यं॒-वैँ वा आज्य᳚म् । 21) आज्य॑-म्प्रा॒णाः प्रा॒णा आज्य॒ माज्य॑-म्प्रा॒णाः । 22) प्रा॒णा उ॑पर॒वा उ॑पर॒वाः प्रा॒णाः प्रा॒णा उ॑पर॒वाः । 22) प्रा॒णा इति॑ प्र - अ॒नाः । 23) उ॒प॒र॒वाः प्रा॒णेषु॑ प्रा॒णेषू॑ पर॒वा उ॑पर॒वाः प्रा॒णेषु॑ । 23) उ॒प॒र॒वा इत्यु॑प - र॒वाः । 24) प्रा॒णे ष्वे॒वैव प्रा॒णेषु॑ प्रा॒णे ष्वे॒व । 24) प्रा॒णेष्विति॑ प्र - अ॒नेषु॑ । 25) ए॒व तेज॒ स्तेज॑ ए॒वैव तेजः॑ । 26) तेजो॑ दधाति दधाति॒ तेज॒ स्तेजो॑ दधाति । 27) द॒धा॒ति॒ हनू॒ हनू॑ दधाति दधाति॒ हनू᳚ । 28) हनू॒ वै वै हनू॒ हनू॒ वै । 28) हनू॒ इति॒ हनू᳚ । 29) वा ए॒ते ए॒ते वै वा ए॒ते । 30) ए॒ते य॒ज्ञस्य॑ य॒ज्ञ स्यै॒ते ए॒ते य॒ज्ञस्य॑ । 30) ए॒ते इत्ये॒ते । 31) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् । 32) यद॑धि॒षव॑णे अधि॒षव॑णे॒ य-द्यद॑धि॒षव॑णे । 33) अ॒धि॒षव॑णे॒ न नाधि॒षव॑णे अधि॒षव॑णे॒ न । 33) अ॒धि॒षव॑णे॒ इत्य॑धि - सव॑ने । 34) न सग्ं सन्न न सम् । 35) स-न्तृ॑णत्ति तृणत्ति॒ सग्ं स-न्तृ॑णत्ति । 36) तृ॒ण॒ त्त्यस॑न्तृण्णे॒ अस॑न्तृण्णे तृणत्ति तृण॒ त्त्यस॑न्तृण्णे । 37) अस॑न्तृण्णे॒ हि ह्यस॑न्तृण्णे॒ अस॑न्तृण्णे॒ हि । 37) अस॑न्तृण्णे॒ इत्यसं᳚ - तृ॒ण्णे॒ । 38) हि हनू॒ हनू॒ हि हि हनू᳚ । 39) हनू॒ अथो॒ अथो॒ हनू॒ हनू॒ अथो᳚ । 39) हनू॒ इति॒ हनू᳚ । 40) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ । 40) अथो॒ इत्यथो᳚ । 41) खलु॑ दीर्घसो॒मे दी᳚र्घसो॒मे खलु॒ खलु॑ दीर्घसो॒मे । 42) दी॒र्घ॒सो॒मे स॒न्तृद्ये॑ स॒न्तृद्ये॑ दीर्घसो॒मे दी᳚र्घसो॒मे स॒न्तृद्ये᳚ । 42) दी॒र्घ॒सो॒म इति॑ दीर्घ - सो॒मे । 43) स॒न्तृद्ये॒ धृत्यै॒ धृत्यै॑ स॒न्तृद्ये॑ स॒न्तृद्ये॒ धृत्यै᳚ । 43) स॒न्तृद्ये॒ इति॑ सं - तृद्ये᳚ । 44) धृत्यै॒ शिर॒-श्शिरो॒ धृत्यै॒ धृत्यै॒ शिरः॑ । 45) शिरो॒ वै वै शिर॒-श्शिरो॒ वै । 46) वा ए॒त दे॒त-द्वै वा ए॒तत् । 47) ए॒त-द्य॒ज्ञस्य॑ य॒ज्ञ स्यै॒त दे॒त-द्य॒ज्ञस्य॑ । 48) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् । 49) यद्ध॑वि॒र्धानग्ं॑ हवि॒र्धानं॒-यँ-द्यद्ध॑वि॒र्धान᳚म् । 50) ह॒वि॒र्धान॑-म्प्रा॒णाः प्रा॒णा ह॑वि॒र्धानग्ं॑ हवि॒र्धान॑-म्प्रा॒णाः । 50) ह॒वि॒र्धान॒मिति॑ हविः - धान᳚म् । ॥ 58 ॥ (50/67)
1) प्रा॒णा उ॑पर॒वा उ॑पर॒वाः प्रा॒णाः प्रा॒णा उ॑पर॒वाः । 1) प्रा॒णा इति॑ प्र - अ॒नाः । 2) उ॒प॒र॒वा हनू॒ हनू॑ उपर॒वा उ॑पर॒वा हनू᳚ । 2) उ॒प॒र॒वा इत्यु॑प - र॒वाः । 3) हनू॑ अधि॒षव॑णे अधि॒षव॑णे॒ हनू॒ हनू॑ अधि॒षव॑णे । 3) हनू॒ इति॒ हनू᳚ । 4) अ॒धि॒षव॑णे जि॒ह्वा जि॒ह्वा ऽधि॒षव॑णे अधि॒षव॑णे जि॒ह्वा । 4) अ॒धि॒षव॑णे॒ इत्य॑धि - सव॑ने । 5) जि॒ह्वा चर्म॒ चर्म॑ जि॒ह्वा जि॒ह्वा चर्म॑ । 6) चर्म॒ ग्रावा॑णो॒ ग्रावा॑ण॒ श्चर्म॒ चर्म॒ ग्रावा॑णः । 7) ग्रावा॑णो॒ दन्ता॒ दन्ता॒ ग्रावा॑णो॒ ग्रावा॑णो॒ दन्ताः᳚ । 8) दन्ता॒ मुख॒-म्मुख॒-न्दन्ता॒ दन्ता॒ मुख᳚म् । 9) मुख॑ माहव॒नीय॑ आहव॒नीयो॒ मुख॒-म्मुख॑ माहव॒नीयः॑ । 10) आ॒ह॒व॒नीयो॒ नासि॑का॒ नासि॑का ऽऽहव॒नीय॑ आहव॒नीयो॒ नासि॑का । 10) आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीयः॑ । 11) नासि॑ कोत्तरवे॒दि रु॑त्तरवे॒दि-र्नासि॑का॒ नासि॑ कोत्तरवे॒दिः । 12) उ॒त्त॒र॒वे॒दि रु॒दर॑ मु॒दर॑ मुत्तरवे॒दि रु॑त्तरवे॒दि रु॒दर᳚म् । 12) उ॒त्त॒र॒वे॒दिरित्यु॑त्तर - वे॒दिः । 13) उ॒दर॒ग्ं॒ सद॒-स्सद॑ उ॒दर॑ मु॒दर॒ग्ं॒ सदः॑ । 14) सदो॑ य॒दा य॒दा सद॒-स्सदो॑ य॒दा । 15) य॒दा खलु॒ खलु॑ य॒दा य॒दा खलु॑ । 16) खलु॒ वै वै खलु॒ खलु॒ वै । 17) वै जि॒ह्वया॑ जि॒ह्वया॒ वै वै जि॒ह्वया᳚ । 18) जि॒ह्वया॑ द॒थ्सु द॒थ्सु जि॒ह्वया॑ जि॒ह्वया॑ द॒थ्सु । 19) द॒थ्स्वध्यधि॑ द॒थ्सु द॒थ्स्वधि॑ । 19) द॒थ्स्विति॑ दत् - सु । 20) अधि॒ खाद॑ति॒ खाद॒ त्यध्यधि॒ खाद॑ति । 21) खाद॒ त्यथाथ॒ खाद॑ति॒ खाद॒ त्यथ॑ । 22) अथ॒ मुख॒-म्मुख॒ मथाथ॒ मुख᳚म् । 23) मुख॑-ङ्गच्छति गच्छति॒ मुख॒-म्मुख॑-ङ्गच्छति । 24) ग॒च्छ॒ति॒ य॒दा य॒दा ग॑च्छति गच्छति य॒दा । 25) य॒दा मुख॒-म्मुखं॑-यँ॒दा य॒दा मुख᳚म् । 26) मुख॒-ङ्गच्छ॑ति॒ गच्छ॑ति॒ मुख॒-म्मुख॒-ङ्गच्छ॑ति । 27) गच्छ॒ त्यथाथ॒ गच्छ॑ति॒ गच्छ॒ त्यथ॑ । 28) अथो॒दर॑ मु॒दर॒ मथाथो॒दर᳚म् । 29) उ॒दर॑-ङ्गच्छति गच्छ त्यु॒दर॑ मु॒दर॑-ङ्गच्छति । 30) ग॒च्छ॒ति॒ तस्मा॒-त्तस्मा᳚-द्गच्छति गच्छति॒ तस्मा᳚त् । 31) तस्मा᳚द्धवि॒र्धाने॑ हवि॒र्धाने॒ तस्मा॒-त्तस्मा᳚द्धवि॒र्धाने᳚ । 32) ह॒वि॒र्धाने॒ चर्म॒ग्ग्॒श् चर्म॑न्. हवि॒र्धाने॑ हवि॒र्धाने॒ चर्मन्न्॑ । 32) ह॒वि॒र्धान॒ इति॑ हविः - धाने᳚ । 33) चर्म॒-न्नध्यधि॒ चर्म॒ग्ग्॒श् चर्म॒-न्नधि॑ । 34) अधि॒ ग्राव॑भि॒-र्ग्राव॑भि॒ रध्यधि॒ ग्राव॑भिः । 35) ग्राव॑भि रभि॒षुत्या॑ भि॒षुत्य॒ ग्राव॑भि॒-र्ग्राव॑भि रभि॒षुत्य॑ । 35) ग्राव॑भि॒रिति॒ ग्राव॑ - भिः॒ । 36) अ॒भि॒षुत्या॑ हव॒नीय॑ आहव॒नीये॑ ऽभि॒षुत्या॑ भि॒षुत्या॑ हव॒नीये᳚ । 36) अ॒भि॒षुत्येत्य॑भि - सुत्य॑ । 37) आ॒ह॒व॒नीये॑ हु॒त्वा हु॒त्वा ऽऽह॑व॒नीय॑ आहव॒नीये॑ हु॒त्वा । 37) आ॒ह॒व॒नीय॒ इत्या᳚ - ह॒व॒नीये᳚ । 38) हु॒त्वा प्र॒त्यञ्चः॑ प्र॒त्यञ्चो॑ हु॒त्वा हु॒त्वा प्र॒त्यञ्चः॑ । 39) प्र॒त्यञ्चः॑ प॒रेत्य॑ प॒रेत्य॑ प्र॒त्यञ्चः॑ प्र॒त्यञ्चः॑ प॒रेत्य॑ । 40) प॒रेत्य॒ सद॑सि॒ सद॑सि प॒रेत्य॑ प॒रेत्य॒ सद॑सि । 40) प॒रेत्येति॑ परा - इत्य॑ । 41) सद॑सि भक्षयन्ति भक्षयन्ति॒ सद॑सि॒ सद॑सि भक्षयन्ति । 42) भ॒क्ष॒य॒न्ति॒ यो यो भ॑क्षयन्ति भक्षयन्ति॒ यः । 43) यो वै वै यो यो वै । 44) वै वि॒राजो॑ वि॒राजो॒ वै वै वि॒राजः॑ । 45) वि॒राजो॑ यज्ञमु॒खे य॑ज्ञमु॒खे वि॒राजो॑ वि॒राजो॑ यज्ञमु॒खे । 45) वि॒राज॒ इति॑ वि - राजः॑ । 46) य॒ज्ञ॒मु॒खे दोह॒-न्दोहं॑-यँज्ञमु॒खे य॑ज्ञमु॒खे दोह᳚म् । 46) य॒ज्ञ॒मु॒ख इति॑ यज्ञ - मु॒खे । 47) दोहं॒-वेँद॒ वेद॒ दोह॒-न्दोहं॒-वेँद॑ । 48) वेद॑ दु॒हे दु॒हे वेद॒ वेद॑ दु॒हे । 49) दु॒ह ए॒वैव दु॒हे दु॒ह ए॒व । 50) ए॒वैना॑ मेना मे॒वै वैना᳚म् । 51) ए॒ना॒ मि॒य मि॒य मे॑ना मेना मि॒यम् । 52) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ । 53) वै वि॒रा-ड्वि॒रा-ड्वै वै वि॒राट् । 54) वि॒रा-ट्तस्यै॒ तस्यै॑ वि॒रा-ड्वि॒रा-ट्तस्यै᳚ । 54) वि॒राडिति॑ वि - राट् । 55) तस्यै॒ त्व-क्त्व-क्तस्यै॒ तस्यै॒ त्वक् । 56) त्वक्चर्म॒ चर्म॒ त्व-क्त्वक्चर्म॑ । 57) चर्मोध॒ ऊध॒ श्चर्म॒ चर्मोधः॑ । 58) ऊधो॑ ऽधि॒षव॑णे अधि॒षव॑णे॒ ऊध॒ ऊधो॑ ऽधि॒षव॑णे । 59) अ॒धि॒षव॑णे॒ स्तना॒-स्स्तना॑ अधि॒षव॑णे अधि॒षव॑णे॒ स्तनाः᳚ । 59) अ॒धि॒षव॑णे॒ इत्य॑धि - सव॑ने । 60) स्तना॑ उपर॒वा उ॑पर॒वा-स्स्तना॒-स्स्तना॑ उपर॒वाः । 61) उ॒प॒र॒वा ग्रावा॑णो॒ ग्रावा॑ण उपर॒वा उ॑पर॒वा ग्रावा॑णः । 61) उ॒प॒र॒वा इत्यु॑प - र॒वाः । 62) ग्रावा॑णो व॒थ्सा व॒थ्सा ग्रावा॑णो॒ ग्रावा॑णो व॒थ्साः । 63) व॒थ्सा ऋ॒त्विज॑ ऋ॒त्विजो॑ व॒थ्सा व॒थ्सा ऋ॒त्विजः॑ । 64) ऋ॒त्विजो॑ दुहन्ति दुह न्त्यृ॒त्विज॑ ऋ॒त्विजो॑ दुहन्ति । 65) दु॒ह॒न्ति॒ सोम॒-स्सोमो॑ दुहन्ति दुहन्ति॒ सोमः॑ । 66) सोमः॒ पयः॒ पय॒-स्सोम॒-स्सोमः॒ पयः॑ । 67) पयो॒ यो यः पयः॒ पयो॒ यः । 68) य ए॒व मे॒वं-योँ य ए॒वम् । 69) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 70) वेद॑ दु॒हे दु॒हे वेद॒ वेद॑ दु॒हे । 71) दु॒ह ए॒वैव दु॒हे दु॒ह ए॒व । 72) ए॒वैना॑ मेना मे॒वैवैना᳚म् । 73) ए॒ना॒मित्ये॑नाम् । ॥ 59 ॥ (73, 90)
॥ अ. 11 ॥
Browse Related Categories: