Kanda 6 - Krishna Yajurveda Taittiriya Samhita · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
1) इन्द्रो॑ वृ॒त्राय॑ वृ॒त्रायेन्द्र॒ इन्द्रो॑ वृ॒त्राय॑ । 2) वृ॒त्राय॒ वज्रं॒-वँज्रं॑-वृँ॒त्राय॑ वृ॒त्राय॒ वज्र᳚म् । 3) वज्र॒ मुदु-द्वज्रं॒-वँज्र॒ मुत् । 4) उद॑यच्छ दयच्छ॒ दुदु द॑यच्छत् । 5) अ॒य॒च्छ॒-थ्स सो॑ ऽयच्छ दयच्छ॒-थ्सः । 6) स वृ॒त्रो वृ॒त्र-स्स स वृ॒त्रः । 7) वृ॒त्रो वज्रा॒-द्वज्रा᳚-द्वृ॒त्रो वृ॒त्रो वज्रा᳚त् । 8) वज्रा॒ दुद्य॑ता॒ दुद्य॑ता॒-द्वज्रा॒-द्वज्रा॒ दुद्य॑तात् । 9) उद्य॑ता दबिभे दबिभे॒ दुद्य॑ता॒ दुद्य॑ता दबिभेत् । 9) उद्य॑ता॒दित्युत् - य॒ता॒त् । 10) अ॒बि॒भे॒-थ्स सो॑ ऽबिभे दबिभे॒-थ्सः । 11) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् । 12) अ॒ब्र॒वी॒-न्मा मा ऽब्र॑वी दब्रवी॒-न्मा । 13) मा मे॑ मे॒ मा मा मे᳚ । 14) मे॒ प्र प्र मे॑ मे॒ प्र । 15) प्र हार्॑. हाः॒ प्र प्र हाः᳚ । 16) हा॒ रस्त्यस्ति॑ हार्-हा॒ रस्ति॑ । 17) अस्ति॒ वै वा अस्त्यस्ति॒ वै । 18) वा इ॒द मि॒दं-वैँ वा इ॒दम् । 19) इ॒द-म्मयि॒ मयी॒द मि॒द-म्मयि॑ । 20) मयि॑ वी॒र्यं॑-वीँ॒र्य॑-म्मयि॒ मयि॑ वी॒र्य᳚म् । 21) वी॒र्य॑-न्त-त्त-द्वी॒र्यं॑-वीँ॒र्य॑-न्तत् । 22) त-त्ते॑ ते॒ त-त्त-त्ते᳚ । 23) ते॒ प्र प्र ते॑ ते॒ प्र । 24) प्र दा᳚स्यामि दास्यामि॒ प्र प्र दा᳚स्यामि । 25) दा॒स्या॒ मीतीति॑ दास्यामि दास्या॒ मीति॑ । 26) इति॒ तस्मै॒ तस्मा॒ इतीति॒ तस्मै᳚ । 27) तस्मा॑ उ॒क्थ्य॑ मु॒क्थ्य॑-न्तस्मै॒ तस्मा॑ उ॒क्थ्य᳚म् । 28) उ॒क्थ्य॑-म्प्र प्रोक्थ्य॑ मु॒क्थ्य॑-म्प्र । 29) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् । 30) अ॒य॒च्छ॒-त्तस्मै॒ तस्मा॑ अयच्छ दयच्छ॒-त्तस्मै᳚ । 31) तस्मै᳚ द्वि॒तीय॑-न्द्वि॒तीय॒-न्तस्मै॒ तस्मै᳚ द्वि॒तीय᳚म् । 32) द्वि॒तीय॒ मुदु-द्द्वि॒तीय॑-न्द्वि॒तीय॒ मुत् । 33) उद॑यच्छ दयच्छ॒ दुदु द॑यच्छत् । 34) अ॒य॒च्छ॒-थ्स सो॑ ऽयच्छ दयच्छ॒-थ्सः । 35) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् । 36) अ॒ब्र॒वी॒-न्मा मा ऽब्र॑वी दब्रवी॒-न्मा । 37) मा मे॑ मे॒ मा मा मे᳚ । 38) मे॒ प्र प्र मे॑ मे॒ प्र । 39) प्र हार्॑. हाः॒ प्र प्र हाः᳚ । 40) हा॒ रस्त्यस्ति॑ हार्-हा॒ रस्ति॑ । 41) अस्ति॒ वै वा अस्त्यस्ति॒ वै । 42) वा इ॒द मि॒दं-वैँ वा इ॒दम् । 43) इ॒द-म्मयि॒ मयी॒द मि॒द-म्मयि॑ । 44) मयि॑ वी॒र्यं॑-वीँ॒र्य॑-म्मयि॒ मयि॑ वी॒र्य᳚म् । 45) वी॒र्य॑-न्त-त्त-द्वी॒र्यं॑-वीँ॒र्य॑-न्तत् । 46) त-त्ते॑ ते॒ त-त्त-त्ते᳚ । 47) ते॒ प्र प्र ते॑ ते॒ प्र । 48) प्र दा᳚स्यामि दास्यामि॒ प्र प्र दा᳚स्यामि । 49) दा॒स्या॒ मीतीति॑ दास्यामि दास्या॒ मीति॑ । 50) इति॒ तस्मै॒ तस्मा॒ इतीति॒ तस्मै᳚ । ॥ 1 ॥ (50/51)
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
1) तस्मा॑ उ॒क्थ्य॑ मु॒क्थ्य॑-न्तस्मै॒ तस्मा॑ उ॒क्थ्य᳚म् । 2) उ॒क्थ्य॑ मे॒वै वोक्थ्य॑ मु॒क्थ्य॑ मे॒व । 3) ए॒व प्र प्रैवैव प्र । 4) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् । 5) अ॒य॒च्छ॒-त्तस्मै॒ तस्मा॑ अयच्छ दयच्छ॒-त्तस्मै᳚ । 6) तस्मै॑ तृ॒तीय॑-न्तृ॒तीय॒-न्तस्मै॒ तस्मै॑ तृ॒तीय᳚म् । 7) तृ॒तीय॒ मुदु-त्तृ॒तीय॑-न्तृ॒तीय॒ मुत् । 8) उद॑यच्छ दयच्छ॒ दुदु द॑यच्छत् । 9) अ॒य॒च्छ॒-त्त-न्त म॑यच्छ दयच्छ॒-त्तम् । 10) तं-विँष्णु॒-र्विष्णु॒ स्त-न्तं-विँष्णुः॑ । 11) विष्णु॒ रन्वनु॒ विष्णु॒-र्विष्णु॒ रनु॑ । 12) अन्व॑तिष्ठता तिष्ठ॒ता न्वन् व॑तिष्ठत । 13) अ॒ति॒ष्ठ॒त॒ ज॒हि ज॒ह्य॑ तिष्ठता तिष्ठत ज॒हि । 14) ज॒ही तीति॑ ज॒हि ज॒हीति॑ । 15) इति॒ स स इतीति॒ सः । 16) सो᳚ ऽब्रवी दब्रवी॒-थ्स सो᳚ ऽब्रवीत् । 17) अ॒ब्र॒वी॒-न्मा मा ऽब्र॑वी दब्रवी॒-न्मा । 18) मा मे॑ मे॒ मा मा मे᳚ । 19) मे॒ प्र प्र मे॑ मे॒ प्र । 20) प्र हार्॑. हाः॒ प्र प्र हाः᳚ । 21) हा॒ रस्त्यस्ति॑ हार्-हा॒ रस्ति॑ । 22) अस्ति॒ वै वा अस्त्यस्ति॒ वै । 23) वा इ॒द मि॒दं-वैँ वा इ॒दम् । 24) इ॒द-म्मयि॒ मयी॒द मि॒द-म्मयि॑ । 25) मयि॑ वी॒र्यं॑-वीँ॒र्य॑-म्मयि॒ मयि॑ वी॒र्य᳚म् । 26) वी॒र्य॑-न्त-त्त-द्वी॒र्यं॑-वीँ॒र्य॑-न्तत् । 27) त-त्ते॑ ते॒ त-त्त-त्ते᳚ । 28) ते॒ प्र प्र ते॑ ते॒ प्र । 29) प्र दा᳚स्यामि दास्यामि॒ प्र प्र दा᳚स्यामि । 30) दा॒स्या॒ मीतीति॑ दास्यामि दास्या॒ मीति॑ । 31) इति॒ तस्मै॒ तस्मा॒ इतीति॒ तस्मै᳚ । 32) तस्मा॑ उ॒क्थ्य॑ मु॒क्थ्य॑-न्तस्मै॒ तस्मा॑ उ॒क्थ्य᳚म् । 33) उ॒क्थ्य॑ मे॒वै वोक्थ्य॑ मु॒क्थ्य॑ मे॒व । 34) ए॒व प्र प्रैवैव प्र । 35) प्राय॑च्छ दयच्छ॒-त्प्र प्राय॑च्छत् । 36) अ॒य॒च्छ॒-त्त-न्त म॑यच्छ दयच्छ॒-त्तम् । 37) त-न्निर्मा॑य॒-न्निर्मा॑य॒-न्त-न्त-न्निर्मा॑यम् । 38) निर्मा॑य-म्भू॒त-म्भू॒त-न्निर्मा॑य॒-न्निर्मा॑य-म्भू॒तम् । 38) निर्मा॑य॒मिति॒ निः - मा॒य॒म् । 39) भू॒त म॑ह-न्नह-न्भू॒त-म्भू॒त म॑हन्न् । 40) अ॒ह॒न्॒. य॒ज्ञो य॒ज्ञो॑ ऽह-न्नहन्. य॒ज्ञः । 41) य॒ज्ञो हि हि य॒ज्ञो य॒ज्ञो हि । 42) हि तस्य॒ तस्य॒ हि हि तस्य॑ । 43) तस्य॑ मा॒या मा॒या तस्य॒ तस्य॑ मा॒या । 44) मा॒या ऽऽसी॒ दासी᳚-न्मा॒या मा॒या ऽऽसी᳚त् । 45) आसी॒-द्य-द्यदासी॒ दासी॒-द्यत् । 46) यदु॒क्थ्य॑ उ॒क्थ्यो॑ य-द्यदु॒क्थ्यः॑ । 47) उ॒क्थ्यो॑ गृ॒ह्यते॑ गृ॒ह्यत॑ उ॒क्थ्य॑ उ॒क्थ्यो॑ गृ॒ह्यते᳚ । 48) गृ॒ह्यत॑ इन्द्रि॒य मि॑न्द्रि॒य-ङ्गृ॒ह्यते॑ गृ॒ह्यत॑ इन्द्रि॒यम् । 49) इ॒न्द्रि॒य मे॒वै वेन्द्रि॒य मि॑न्द्रि॒य मे॒व । 50) ए॒व त-त्तदे॒ वैव तत् । ॥ 2 ॥ (50/51)
1) त-द्वी॒र्यं॑-वीँ॒र्य॑-न्त-त्त-द्वी॒र्य᳚म् । 2) वी॒र्यं॑-यँज॑मानो॒ यज॑मानो वी॒र्यं॑-वीँ॒र्यं॑-यँज॑मानः । 3) यज॑मानो॒ भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य॒ यज॑मानो॒ यज॑मानो॒ भ्रातृ॑व्यस्य । 4) भ्रातृ॑व्यस्य वृङ्क्ते वृङ्क्ते॒ भ्रातृ॑व्यस्य॒ भ्रातृ॑व्यस्य वृङ्क्ते । 5) वृ॒ङ्क्त॒ इन्द्रा॒ येन्द्रा॑य वृङ्क्ते वृङ्क्त॒ इन्द्रा॑य । 6) इन्द्रा॑य त्वा॒ त्वेन्द्रा॒ येन्द्रा॑य त्वा । 7) त्वा॒ बृ॒हद्व॑ते बृ॒हद्व॑ते त्वा त्वा बृ॒हद्व॑ते । 8) बृ॒हद्व॑ते॒ वय॑स्वते॒ वय॑स्वते बृ॒हद्व॑ते बृ॒हद्व॑ते॒ वय॑स्वते । 8) बृ॒हद्व॑त॒ इति॑ बृ॒हत् - व॒ते॒ । 9) वय॑स्वत॒ इतीति॒ वय॑स्वते॒ वय॑स्वत॒ इति॑ । 10) इत्या॑हा॒हे तीत्या॑ह । 11) आ॒हेन्द्रा॒ येन्द्रा॑या हा॒हेन्द्रा॑य । 12) इन्द्रा॑य॒ हि हीन्द्रा॒ येन्द्रा॑य॒ हि । 13) हि स स हि हि सः । 14) स त-न्तग्ं स स तम् । 15) त-म्प्र प्र त-न्त-म्प्र । 16) प्राय॑च्छ॒ दय॑च्छ॒-त्प्र प्राय॑च्छत् । 17) अय॑च्छ॒-त्तस्मै॒ तस्मा॒ अय॑च्छ॒ दय॑च्छ॒-त्तस्मै᳚ । 18) तस्मै᳚ त्वा त्वा॒ तस्मै॒ तस्मै᳚ त्वा । 19) त्वा॒ विष्ण॑वे॒ विष्ण॑वे त्वा त्वा॒ विष्ण॑वे । 20) विष्ण॑वे त्वा त्वा॒ विष्ण॑वे॒ विष्ण॑वे त्वा । 21) त्वेतीति॑ त्वा॒ त्वेति॑ । 22) इत्या॑हा॒हे तीत्या॑ह । 23) आ॒ह॒ य-द्यदा॑हाह॒ यत् । 24) यदे॒ वैव य-द्यदे॒व । 25) ए॒व विष्णु॒-र्विष्णु॑ रे॒वैव विष्णुः॑ । 26) विष्णु॑ र॒न्वति॑ष्ठता॒ न्वति॑ष्ठत॒ विष्णु॒-र्विष्णु॑ र॒न्वति॑ष्ठत । 27) अ॒न्वति॑ष्ठत ज॒हि ज॒ह्य॑ न्वति॑ष्ठता॒ न्वति॑ष्ठत ज॒हि । 27) अ॒न्वति॑ष्ठ॒तेत्य॑नु - अति॑ष्ठत । 28) ज॒ही तीति॑ ज॒हि ज॒हीति॑ । 29) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् । 30) तस्मा॒-द्विष्णुं॒-विँष्णु॒-न्तस्मा॒-त्तस्मा॒-द्विष्णु᳚म् । 31) विष्णु॑ म॒न्वाभ॑ज त्य॒न्वाभ॑जति॒ विष्णुं॒-विँष्णु॑ म॒न्वाभ॑जति । 32) अ॒न्वाभ॑जति॒ त्रि स्त्रि र॒न्वाभ॑ज त्य॒न्वाभ॑जति॒ त्रिः । 32) अ॒न्वाभ॑ज॒तीत्य॑नु - आभ॑जति । 33) त्रि-र्नि-र्णिष् ट्रि स्त्रि-र्निः । 34) नि-र्गृ॑ह्णाति गृह्णाति॒ नि-र्णि-र्गृ॑ह्णाति । 35) गृ॒ह्णा॒ति॒ त्रि स्त्रि-र्गृ॑ह्णाति गृह्णाति॒ त्रिः । 36) त्रिर्-हि हि त्रि स्त्रिर्-हि । 37) हि स स हि हि सः । 38) स त-न्तग्ं स स तम् । 39) त-न्तस्मै॒ तस्मै॒ त-न्त-न्तस्मै᳚ । 40) तस्मै॒ प्र प्र तस्मै॒ तस्मै॒ प्र । 41) प्राय॑च्छ॒ दय॑च्छ॒-त्प्र प्राय॑च्छत् । 42) अय॑च्छ दे॒ष ए॒षो ऽय॑च्छ॒ दय॑च्छ दे॒षः । 43) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 44) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 45) योनिः॒ पुन॑र्हविः॒ पुन॑र्हवि॒-र्योनि॒-र्योनिः॒ पुन॑र्हविः । 46) पुन॑र्हवि रस्यसि॒ पुन॑र्हविः॒ पुन॑र्हवि रसि । 46) पुन॑र्हवि॒रिति॒ पुनः॑ - ह॒विः॒ । 47) अ॒सीती त्य॑स्य॒ सीति॑ । 48) इत्या॑हा॒हे तीत्या॑ह । 49) आ॒ह॒ पुनः॑पुनः॒ पुनः॑पुन राहाह॒ पुनः॑पुनः । 50) पुनः॑पुन॒र्॒ हि हि पुनः॑पुनः॒ पुनः॑पुन॒र्॒ हि । 50) पुनः॑पुन॒रिति॒ पुनः॑ - पु॒नः॒ । ॥ 3 ॥ (50/55)
1) ह्य॑स्मा दस्मा॒ द्धि ह्य॑स्मात् । 2) अ॒स्मा॒-न्नि॒र्गृ॒ह्णाति॑ निर्गृ॒ह्णा त्य॑स्मा दस्मा-न्निर्गृ॒ह्णाति॑ । 3) नि॒र्गृ॒ह्णाति॒ चक्षु॒ श्चक्षु॑-र्निर्गृ॒ह्णाति॑ निर्गृ॒ह्णाति॒ चक्षुः॑ । 3) नि॒र्गृ॒ह्णातीति॑ निः - गृ॒ह्णाति॑ । 4) चक्षु॒-र्वै वै चक्षु॒ श्चक्षु॒-र्वै । 5) वा ए॒त दे॒त-द्वै वा ए॒तत् । 6) ए॒त-द्य॒ज्ञस्य॑ य॒ज्ञ स्यै॒त दे॒त-द्य॒ज्ञस्य॑ । 7) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् । 8) यदु॒क्थ्य॑ उ॒क्थ्यो॑ य-द्यदु॒क्थ्यः॑ । 9) उ॒क्थ्य॑ स्तस्मा॒-त्तस्मा॑ दु॒क्थ्य॑ उ॒क्थ्य॑ स्तस्मा᳚त् । 10) तस्मा॑ दु॒क्थ्य॑ मु॒क्थ्य॑-न्तस्मा॒-त्तस्मा॑ दु॒क्थ्य᳚म् । 11) उ॒क्थ्यग्ं॑ हु॒तग्ं हु॒त मु॒क्थ्य॑ मु॒क्थ्यग्ं॑ हु॒तम् । 12) हु॒तग्ं सोमा॒-स्सोमा॑ हु॒तग्ं हु॒तग्ं सोमाः᳚ । 13) सोमा॑ अ॒न्वाय॑ न्त्य॒न्वाय॑न्ति॒ सोमा॒-स्सोमा॑ अ॒न्वाय॑न्ति । 14) अ॒न्वाय॑न्ति॒ तस्मा॒-त्तस्मा॑ द॒न्वाय॑ न्त्य॒न्वाय॑न्ति॒ तस्मा᳚त् । 14) अ॒न्वाय॒न्तीत्य॑नु - आय॑न्ति । 15) तस्मा॑ दा॒त्मा ऽऽत्मा तस्मा॒-त्तस्मा॑ दा॒त्मा । 16) आ॒त्मा चक्षु॒ श्चक्षु॑ रा॒त्मा ऽऽत्मा चक्षुः॑ । 17) चक्षु॒ रन्वनु॒ चक्षु॒ श्चक्षु॒ रनु॑ । 18) अन्वे᳚त्ये॒ त्यन् वन् वे॑ति । 19) ए॒ति॒ तस्मा॒-त्तस्मा॑ देत्येति॒ तस्मा᳚त् । 20) तस्मा॒ देक॒ मेक॒-न्तस्मा॒-त्तस्मा॒ देक᳚म् । 21) एकं॒-यँन्तं॒-यँन्त॒ मेक॒ मेकं॒-यँन्त᳚म् । 22) यन्त॑-म्ब॒हवो॑ ब॒हवो॒ यन्तं॒-यँन्त॑-म्ब॒हवः॑ । 23) ब॒हवो ऽन्वनु॑ ब॒हवो॑ ब॒हवो ऽनु॑ । 24) अनु॑ यन्ति य॒न्त्य न्वनु॑ यन्ति । 25) य॒न्ति॒ तस्मा॒-त्तस्मा᳚-द्यन्ति यन्ति॒ तस्मा᳚त् । 26) तस्मा॒ देक॒ एक॒ स्तस्मा॒-त्तस्मा॒ देकः॑ । 27) एको॑ बहू॒ना-म्ब॑हू॒ना मेक॒ एको॑ बहू॒नाम् । 28) ब॒हू॒ना-म्भ॒द्रो भ॒द्रो ब॑हू॒ना-म्ब॑हू॒ना-म्भ॒द्रः । 29) भ॒द्रो भ॑वति भवति भ॒द्रो भ॒द्रो भ॑वति । 30) भ॒व॒ति॒ तस्मा॒-त्तस्मा᳚-द्भवति भवति॒ तस्मा᳚त् । 31) तस्मा॒ देक॒ एक॒ स्तस्मा॒-त्तस्मा॒ देकः॑ । 32) एको॑ ब॒ह्वी-र्ब॒ह्वी रेक॒ एको॑ ब॒ह्वीः । 33) ब॒ह्वी-र्जा॒या जा॒या ब॒ह्वी-र्ब॒ह्वी-र्जा॒याः । 34) जा॒या वि॑न्दते विन्दते जा॒या जा॒या वि॑न्दते । 35) वि॒न्द॒ते॒ यदि॒ यदि॑ विन्दते विन्दते॒ यदि॑ । 36) यदि॑ का॒मये॑त का॒मये॑त॒ यदि॒ यदि॑ का॒मये॑त । 37) का॒मये॑ता द्ध्व॒र्यु र॑द्ध्व॒र्युः का॒मये॑त का॒मये॑ता द्ध्व॒र्युः । 38) अ॒द्ध्व॒र्यु रा॒त्मान॑ मा॒त्मान॑ मद्ध्व॒र्यु र॑द्ध्व॒र्यु रा॒त्मान᳚म् । 39) आ॒त्मानं॑-यँज्ञयश॒सेन॑ यज्ञयश॒से ना॒त्मान॑ मा॒त्मानं॑-यँज्ञयश॒सेन॑ । 40) य॒ज्ञ॒य॒श॒सेना᳚ र्पयेय मर्पयेयं-यँज्ञयश॒सेन॑ यज्ञयश॒सेना᳚ र्पयेयम् । 40) य॒ज्ञ॒य॒श॒सेनेति॑ यज्ञ - य॒श॒सेन॑ । 41) अ॒र्प॒ये॒य॒ मिती त्य॑र्पयेय मर्पयेय॒ मिति॑ । 42) इत्य॑न्त॒रा ऽन्त॒ रेती त्य॑न्त॒रा । 43) अ॒न्त॒रा ऽऽह॑व॒नीय॑ माहव॒नीय॑ मन्त॒रा ऽन्त॒रा ऽऽह॑व॒नीय᳚म् । 44) आ॒ह॒व॒नीय॑-ञ्च चाहव॒नीय॑ माहव॒नीय॑-ञ्च । 44) आ॒ह॒व॒नीय॒मित्या᳚ - ह॒व॒नीय᳚म् । 45) च॒ ह॒वि॒र्धानग्ं॑ हवि॒र्धान॑-ञ्च च हवि॒र्धान᳚म् । 46) ह॒वि॒र्धान॑-ञ्च च हवि॒र्धानग्ं॑ हवि॒र्धान॑-ञ्च । 46) ह॒वि॒र्धान॒मिति॑ हविः - धान᳚म् । 47) च॒ तिष्ठ॒ग्ग्॒ स्तिष्ठग्ग्॑ श्च च॒ तिष्ठन्न्॑ । 48) तिष्ठ॒ न्नवाव॒ तिष्ठ॒ग्ग्॒ स्तिष्ठ॒न्नव॑ । 49) अव॑ नये-न्नये॒ दवाव॑ नयेत् । 50) न॒ये॒ दा॒त्मान॑ मा॒त्मान॑-न्नये-न्नये दा॒त्मान᳚म् । ॥ 4 ॥ (50/55)
1) आ॒त्मान॑ मे॒वै वात्मान॑ मा॒त्मान॑ मे॒व । 2) ए॒व य॑ज्ञयश॒सेन॑ यज्ञयश॒से नै॒वैव य॑ज्ञयश॒सेन॑ । 3) य॒ज्ञ॒य॒श॒सेना᳚ र्पय त्यर्पयति यज्ञयश॒सेन॑ यज्ञयश॒सेना᳚ र्पयति । 3) य॒ज्ञ॒य॒श॒सेनेति॑ यज्ञ - य॒श॒सेन॑ । 4) अ॒र्प॒य॒ति॒ यदि॒ यद्य॑र्पय त्यर्पयति॒ यदि॑ । 5) यदि॑ का॒मये॑त का॒मये॑त॒ यदि॒ यदि॑ का॒मये॑त । 6) का॒मये॑त॒ यज॑मानं॒-यँज॑मान-ङ्का॒मये॑त का॒मये॑त॒ यज॑मानम् । 7) यज॑मानं-यँज्ञयश॒सेन॑ यज्ञयश॒सेन॒ यज॑मानं॒-यँज॑मानं-यँज्ञयश॒सेन॑ । 8) य॒ज्ञ॒य॒श॒सेना᳚ र्पयेय मर्पयेयं-यँज्ञयश॒सेन॑ यज्ञयश॒सेना᳚ र्पयेयम् । 8) य॒ज्ञ॒य॒श॒सेनेति॑ यज्ञ - य॒श॒सेन॑ । 9) अ॒र्प॒ये॒य॒ मिती त्य॑र्पयेय मर्पयेय॒ मिति॑ । 10) इत्य॑न्त॒रा ऽन्त॒ रेतीत्य॑न्त॒रा । 11) अ॒न्त॒रा स॑दोहविर्धा॒ने स॑दोहविर्धा॒ने अ॑न्त॒रा ऽन्त॒रा स॑दोहविर्धा॒ने । 12) स॒दो॒ह॒वि॒र्धा॒ने तिष्ठ॒ग्ग्॒ स्तिष्ठन्᳚ थ्सदोहविर्धा॒ने स॑दोहविर्धा॒ने तिष्ठन्न्॑ । 12) स॒दो॒ह॒वि॒र्धा॒ने इति॑ सदः - ह॒वि॒र्धा॒ने । 13) तिष्ठ॒ न्नवाव॒ तिष्ठ॒ग्ग्॒ स्तिष्ठ॒न्नव॑ । 14) अव॑ नये-न्नये॒ दवाव॑ नयेत् । 15) न॒ये॒-द्यज॑मानं॒-यँज॑मान-न्नये-न्नये॒-द्यज॑मानम् । 16) यज॑मान मे॒वैव यज॑मानं॒-यँज॑मान मे॒व । 17) ए॒व य॑ज्ञयश॒सेन॑ यज्ञयश॒से नै॒वैव य॑ज्ञयश॒सेन॑ । 18) य॒ज्ञ॒य॒श॒सेना᳚ र्पय त्यर्पयति यज्ञयश॒सेन॑ यज्ञयश॒सेना᳚ र्पयति । 18) य॒ज्ञ॒य॒श॒सेनेति॑ यज्ञ - य॒श॒सेन॑ । 19) अ॒र्प॒य॒ति॒ यदि॒ यद्य॑र्पय त्यर्पयति॒ यदि॑ । 20) यदि॑ का॒मये॑त का॒मये॑त॒ यदि॒ यदि॑ का॒मये॑त । 21) का॒मये॑त सद॒स्या᳚-न्थ्सद॒स्या᳚न् का॒मये॑त का॒मये॑त सद॒स्यान्॑ । 22) स॒द॒स्यान्॑. यज्ञयश॒सेन॑ यज्ञयश॒सेन॑ सद॒स्या᳚-न्थ्सद॒स्यान्॑. यज्ञयश॒सेन॑ । 23) य॒ज्ञ॒य॒श॒सेना᳚ र्पयेय मर्पयेयं-यँज्ञयश॒सेन॑ यज्ञयश॒सेना᳚ र्पयेयम् । 23) य॒ज्ञ॒य॒श॒सेनेति॑ यज्ञ - य॒श॒सेन॑ । 24) अ॒र्प॒ये॒य॒ मिती त्य॑र्पयेय मर्पयेय॒ मिति॑ । 25) इति॒ सद॒-स्सद॒ इतीति॒ सदः॑ । 26) सद॑ आ॒लभ्या॒ लभ्य॒ सद॒-स्सद॑ आ॒लभ्य॑ । 27) आ॒लभ्या वावा॒ लभ्या॒ लभ्याव॑ । 27) आ॒लभ्येत्या᳚ - लभ्य॑ । 28) अव॑ नये-न्नये॒ दवाव॑ नयेत् । 29) न॒ये॒-थ्स॒द॒स्या᳚-न्थ्सद॒स्या᳚-न्नये-न्नये-थ्सद॒स्यान्॑ । 30) स॒द॒स्या॑ ने॒वैव स॑द॒स्या᳚-न्थ्सद॒स्या॑ ने॒व । 31) ए॒व य॑ज्ञयश॒सेन॑ यज्ञयश॒से नै॒वैव य॑ज्ञयश॒सेन॑ । 32) य॒ज्ञ॒य॒श॒सेना᳚ र्पय त्यर्पयति यज्ञयश॒सेन॑ यज्ञयश॒सेना᳚ र्पयति । 32) य॒ज्ञ॒य॒श॒सेनेति॑ यज्ञ - य॒श॒सेन॑ । 33) अ॒र्प॒य॒तीत्य॑र्पयति । ॥ 5 ॥ (33/40) ॥ अ. 1 ॥
1) आयु॒-र्वै वा आयु॒ रायु॒-र्वै । 2) वा ए॒त दे॒त-द्वै वा ए॒तत् । 3) ए॒त-द्य॒ज्ञस्य॑ य॒ज्ञस्यै॒त दे॒त-द्य॒ज्ञस्य॑ । 4) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् । 5) य-द्ध्रु॒वो ध्रु॒वो य-द्य-द्ध्रु॒वः । 6) ध्रु॒व उ॑त्त॒म उ॑त्त॒मो ध्रु॒वो ध्रु॒व उ॑त्त॒मः । 7) उ॒त्त॒मो ग्रहा॑णा॒-ङ्ग्रहा॑णा मुत्त॒म उ॑त्त॒मो ग्रहा॑णाम् । 7) उ॒त्त॒म इत्यु॑त् - त॒मः । 8) ग्रहा॑णा-ङ्गृह्यते गृह्यते॒ ग्रहा॑णा॒-ङ्ग्रहा॑णा-ङ्गृह्यते । 9) गृ॒ह्य॒ते॒ तस्मा॒-त्तस्मा᳚-द्गृह्यते गृह्यते॒ तस्मा᳚त् । 10) तस्मा॒ दायु॒ रायु॒ष् टस्मा॒-त्तस्मा॒ दायुः॑ । 11) आयुः॑ प्रा॒णाना᳚-म्प्रा॒णाना॒ मायु॒ रायुः॑ प्रा॒णाना᳚म् । 12) प्रा॒णाना॑ मुत्त॒म मु॑त्त॒म-म्प्रा॒णाना᳚-म्प्रा॒णाना॑ मुत्त॒मम् । 12) प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । 13) उ॒त्त॒म-म्मू॒र्धान॑-म्मू॒र्धान॑ मुत्त॒म मु॑त्त॒म-म्मू॒र्धान᳚म् । 13) उ॒त्त॒ममित्यु॑त् - त॒मम् । 14) मू॒र्धान॑-न्दि॒वो दि॒वो मू॒र्धान॑-म्मू॒र्धान॑-न्दि॒वः । 15) दि॒वो अ॑र॒ति म॑र॒ति-न्दि॒वो दि॒वो अ॑र॒तिम् । 16) अ॒र॒ति-म्पृ॑थि॒व्याः पृ॑थि॒व्या अ॑र॒ति म॑र॒ति-म्पृ॑थि॒व्याः । 17) पृ॒थि॒व्या इतीति॑ पृथि॒व्याः पृ॑थि॒व्या इति॑ । 18) इत्या॑हा॒हे तीत्या॑ह । 19) आ॒ह॒ मू॒र्धान॑-म्मू॒र्धान॑ माहाह मू॒र्धान᳚म् । 20) मू॒र्धान॑ मे॒वैव मू॒र्धान॑-म्मू॒र्धान॑ मे॒व । 21) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 22) ए॒न॒ग्ं॒ स॒मा॒नानाग्ं॑ समा॒नाना॑ मेन मेनग्ं समा॒नाना᳚म् । 23) स॒मा॒नाना᳚-ङ्करोति करोति समा॒नानाग्ं॑ समा॒नाना᳚-ङ्करोति । 24) क॒रो॒ति॒ वै॒श्वा॒न॒रं-वैँ᳚श्वान॒र-ङ्क॑रोति करोति वैश्वान॒रम् । 25) वै॒श्वा॒न॒र मृ॒ताय॒ र्ताय॑ वैश्वान॒रं-वैँ᳚श्वान॒र मृ॒ताय॑ । 26) ऋ॒ताय॑ जा॒त-ञ्जा॒त मृ॒ताय॒ र्ताय॑ जा॒तम् । 27) जा॒त म॒ग्नि म॒ग्नि-ञ्जा॒त-ञ्जा॒त म॒ग्निम् । 28) अ॒ग्नि मिती त्य॒ग्नि म॒ग्नि मिति॑ । 29) इत्या॑हा॒हे तीत्या॑ह । 30) आ॒ह॒ वै॒श्वा॒न॒रं-वैँ᳚श्वान॒र मा॑हाह वैश्वान॒रम् । 31) वै॒श्वा॒न॒रग्ं हि हि वै᳚श्वान॒रं-वैँ᳚श्वान॒रग्ं हि । 32) हि दे॒वत॑या दे॒वत॑या॒ हि हि दे॒वत॑या । 33) दे॒वत॒या ऽऽयु॒ रायु॑-र्दे॒वत॑या दे॒वत॒या ऽऽयुः॑ । 34) आयु॑ रुभ॒यतो॑वैश्वानर उभ॒यतो॑वैश्वानर॒ आयु॒ रायु॑ रुभ॒यतो॑वैश्वानरः । 35) उ॒भ॒यतो॑वैश्वानरो गृह्यते गृह्यत उभ॒यतो॑वैश्वानर उभ॒यतो॑वैश्वानरो गृह्यते । 35) उ॒भ॒यतो॑वैश्वानर॒ इत्यु॑भ॒यतः॑ - वै॒श्वा॒न॒रः॒ । 36) गृ॒ह्य॒ते॒ तस्मा॒-त्तस्मा᳚-द्गृह्यते गृह्यते॒ तस्मा᳚त् । 37) तस्मा॑ दुभ॒यत॑ उभ॒यत॒ स्तस्मा॒-त्तस्मा॑ दुभ॒यतः॑ । 38) उ॒भ॒यतः॑ प्रा॒णाः प्रा॒णा उ॑भ॒यत॑ उभ॒यतः॑ प्रा॒णाः । 39) प्रा॒णा अ॒धस्ता॑ द॒धस्ता᳚-त्प्रा॒णाः प्रा॒णा अ॒धस्ता᳚त् । 39) प्रा॒णा इति॑ प्र - अ॒नाः । 40) अ॒धस्ता᳚च् च चा॒धस्ता॑ द॒धस्ता᳚च् च । 41) चो॒परि॑ष्टा दु॒परि॑ष्टाच् च चो॒परि॑ष्टात् । 42) उ॒परि॑ष्टाच् च चो॒परि॑ष्टा दु॒परि॑ष्टाच् च । 43) चा॒र्धिनो॒ ऽर्धिन॑श्च चा॒र्धिनः॑ । 44) अ॒र्धिनो॒ ऽन्ये᳚(1॒) ऽन्ये᳚ ऽर्धिनो॒ ऽर्धिनो॒ ऽन्ये । 45) अ॒न्ये ग्रहा॒ ग्रहा॑ अ॒न्ये᳚ ऽन्ये ग्रहाः᳚ । 46) ग्रहा॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ ग्रहा॒ ग्रहा॑ गृ॒ह्यन्ते᳚ । 47) गृ॒ह्यन्ते॒ ऽर्ध्य॑र्धी गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ ऽर्धी । 48) अ॒र्धी ध्रु॒वो ध्रु॒वो᳚(1॒) ऽर्ध्य॑र्धी ध्रु॒वः । 49) ध्रु॒व स्तस्मा॒-त्तस्मा᳚-द्ध्रु॒वो ध्रु॒व स्तस्मा᳚त् । 50) तस्मा॑ द॒र्ध्य॑र्धी तस्मा॒-त्तस्मा॑ द॒र्धी । ॥ 6 ॥ (50/55)
1) अ॒र्ध्यवा॒ ंअवा॑ ंअ॒र्ध्य॑ र्ध्यवां॑ । 2) अवा᳚-म्प्रा॒णः प्रा॒णो ऽवा॒ ंअवा᳚-म्प्रा॒णः । 3) प्रा॒णो᳚ ऽन्येषा॑ म॒न्येषा᳚-म्प्रा॒णः प्रा॒णो᳚ ऽन्येषा᳚म् । 3) प्रा॒ण इति॑ प्र - अ॒नः । 4) अ॒न्येषा᳚-म्प्रा॒णाना᳚-म्प्रा॒णाना॑ म॒न्येषा॑ म॒न्येषा᳚-म्प्रा॒णाना᳚म् । 5) प्रा॒णाना॒ मुपो᳚प्त॒ उपो᳚प्ते प्रा॒णाना᳚-म्प्रा॒णाना॒ मुपो᳚प्ते । 5) प्रा॒णाना॒मिति॑ प्र - अ॒नाना᳚म् । 6) उपो᳚प्ते॒ ऽन्ये᳚ ऽन्य उपो᳚प्त॒ उपो᳚प्ते॒ ऽन्ये । 6) उपो᳚प्त॒ इत्युप॑ - उ॒प्ते॒ । 7) अ॒न्ये ग्रहा॒ ग्रहा॑ अ॒न्ये᳚ ऽन्ये ग्रहाः᳚ । 8) ग्रहा᳚-स्सा॒द्यन्ते॑ सा॒द्यन्ते॒ ग्रहा॒ ग्रहा᳚-स्सा॒द्यन्ते᳚ । 9) सा॒द्यन्ते ऽनु॑पो॒प्ते ऽनु॑पोप्ते सा॒द्यन्ते॑ सा॒द्यन्ते ऽनु॑पोप्ते । 10) अनु॑पोप्ते ध्रु॒वो ध्रु॒वो ऽनु॑पो॒प्ते ऽनु॑पोप्ते ध्रु॒वः । 10) अनु॑पोप्त॒ इत्यनु॑प - उ॒प्ते॒ । 11) ध्रु॒व स्तस्मा॒-त्तस्मा᳚-द्ध्रु॒वो ध्रु॒व स्तस्मा᳚त् । 12) तस्मा॑ द॒स्थ्ना ऽस्थ्ना तस्मा॒-त्तस्मा॑ द॒स्थ्ना । 13) अ॒स्थ्ना ऽन्या अ॒न्या अ॒स्थ्ना ऽस्थ्ना ऽन्याः । 14) अ॒न्याः प्र॒जाः प्र॒जा अ॒न्या अ॒न्याः प्र॒जाः । 15) प्र॒जाः प्र॑ति॒तिष्ठ॑न्ति प्रति॒तिष्ठ॑न्ति प्र॒जाः प्र॒जाः प्र॑ति॒तिष्ठ॑न्ति । 15) प्र॒जा इति॑ प्र - जाः । 16) प्र॒ति॒तिष्ठ॑न्ति मा॒ग्ं॒सेन॑ मा॒ग्ं॒सेन॑ प्रति॒तिष्ठ॑न्ति प्रति॒तिष्ठ॑न्ति मा॒ग्ं॒सेन॑ । 16) प्र॒ति॒तिष्ठ॒न्तीति॑ प्रति - तिष्ठ॑न्ति । 17) मा॒ग्ं॒से ना॒न्या अ॒न्या मा॒ग्ं॒सेन॑ मा॒ग्ं॒से ना॒न्याः । 18) अ॒न्या असु॑रा॒ असु॑रा अ॒न्या अ॒न्या असु॑राः । 19) असु॑रा॒ वै वा असु॑रा॒ असु॑रा॒ वै । 20) वा उ॑त्तर॒त उ॑त्तर॒तो वै वा उ॑त्तर॒तः । 21) उ॒त्त॒र॒तः पृ॑थि॒वी-म्पृ॑थि॒वी मु॑त्तर॒त उ॑त्तर॒तः पृ॑थि॒वीम् । 21) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 22) पृ॒थि॒वी-म्प॒र्याचि॑कीर्ष-न्प॒र्याचि॑कीर्ष-न्पृथि॒वी-म्पृ॑थि॒वी-म्प॒र्याचि॑कीर्षन्न् । 23) प॒र्याचि॑कीर्ष॒-न्ता-न्ता-म्प॒र्याचि॑कीर्ष-न्प॒र्याचि॑कीर्ष॒-न्ताम् । 23) प॒र्याचि॑कीर्ष॒न्निति॑ परि - आचि॑कीर्षन्न् । 24) ता-न्दे॒वा दे॒वा स्ता-न्ता-न्दे॒वाः । 25) दे॒वा ध्रु॒वेण॑ ध्रु॒वेण॑ दे॒वा दे॒वा ध्रु॒वेण॑ । 26) ध्रु॒वेणा॑ दृह-न्नदृह-न्ध्रु॒वेण॑ ध्रु॒वेणा॑ दृहन्न् । 27) अ॒दृ॒ह॒-न्त-त्तद॑दृह-न्नदृह॒-न्तत् । 28) त-द्ध्रु॒वस्य॑ ध्रु॒वस्य॒ त-त्त-द्ध्रु॒वस्य॑ । 29) ध्रु॒वस्य॑ ध्रुव॒त्व-न्ध्रु॑व॒त्व-न्ध्रु॒वस्य॑ ध्रु॒वस्य॑ ध्रुव॒त्वम् । 30) ध्रु॒व॒त्वं-यँ-द्य-द्ध्रु॑व॒त्व-न्ध्रु॑व॒त्वं-यँत् । 30) ध्रु॒व॒त्वमिति॑ ध्रुव - त्वम् । 31) य-द्ध्रु॒वो ध्रु॒वो य-द्य-द्ध्रु॒वः । 32) ध्रु॒व उ॑त्तर॒त उ॑त्तर॒तो ध्रु॒वो ध्रु॒व उ॑त्तर॒तः । 33) उ॒त्त॒र॒त-स्सा॒द्यते॑ सा॒द्यत॑ उत्तर॒त उ॑त्तर॒त-स्सा॒द्यते᳚ । 33) उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । 34) सा॒द्यते॒ धृत्यै॒ धृत्यै॑ सा॒द्यते॑ सा॒द्यते॒ धृत्यै᳚ । 35) धृत्या॒ आयु॒ रायु॒-र्धृत्यै॒ धृत्या॒ आयुः॑ । 36) आयु॒-र्वै वा आयु॒ रायु॒-र्वै । 37) वा ए॒त दे॒त-द्वै वा ए॒तत् । 38) ए॒त-द्य॒ज्ञस्य॑ य॒ज्ञ स्यै॒त दे॒त-द्य॒ज्ञस्य॑ । 39) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् । 40) य-द्ध्रु॒वो ध्रु॒वो य-द्य-द्ध्रु॒वः । 41) ध्रु॒व आ॒त्मा ऽऽत्मा ध्रु॒वो ध्रु॒व आ॒त्मा । 42) आ॒त्मा होता॒ होता॒ ऽऽत्मा ऽऽत्मा होता᳚ । 43) होता॒ य-द्यद्धोता॒ होता॒ यत् । 44) यद्धो॑तृचम॒से हो॑तृचम॒से य-द्यद्धो॑तृचम॒से । 45) हो॒तृ॒च॒म॒से ध्रु॒व-न्ध्रु॒वग्ं हो॑तृचम॒से हो॑तृचम॒से ध्रु॒वम् । 45) हो॒तृ॒च॒म॒स इति॑ होतृ - च॒म॒से । 46) ध्रु॒व म॑व॒नय॑ त्यव॒नय॑ति ध्रु॒व-न्ध्रु॒व म॑व॒नय॑ति । 47) अ॒व॒नय॑ त्या॒त्म-न्ना॒त्म-न्न॑व॒नय॑ त्यव॒नय॑ त्या॒त्मन्न् । 47) अ॒व॒नय॒तीत्य॑व - नय॑ति । 48) आ॒त्म-न्ने॒वै वात्म-न्ना॒त्म-न्ने॒व । 49) ए॒व य॒ज्ञस्य॑ य॒ज्ञ स्यै॒वैव य॒ज्ञस्य॑ । 50) य॒ज्ञ स्यायु॒ रायु॑-र्य॒ज्ञस्य॑ य॒ज्ञ स्यायुः॑ । ॥ 7 ॥ (50/62)
1) आयु॑-र्दधाति दधा॒ त्यायु॒ रायु॑-र्दधाति । 2) द॒धा॒ति॒ पु॒रस्ता᳚-त्पु॒रस्ता᳚-द्दधाति दधाति पु॒रस्ता᳚त् । 3) पु॒रस्ता॑ दु॒क्थ स्यो॒क्थस्य॑ पु॒रस्ता᳚-त्पु॒रस्ता॑ दु॒क्थस्य॑ । 4) उ॒क्थस्या॑ व॒नीयो॑ ऽव॒नीय॑ उ॒क्थ स्यो॒क्थस्या॑ व॒नीयः॑ । 5) अ॒व॒नीय॒ इती त्य॑व॒नीयो॑ ऽव॒नीय॒ इति॑ । 5) अ॒व॒नीय॒ इत्य॑व - नीयः॑ । 6) इत्या॑हु राहु॒ रिती त्या॑हुः । 7) आ॒हुः॒ पु॒रस्ता᳚-त्पु॒रस्ता॑ दाहु राहुः पु॒रस्ता᳚त् । 8) पु॒रस्ता॒ द्धि हि पु॒रस्ता᳚-त्पु॒रस्ता॒ द्धि । 9) ह्यायु॑ष॒ आयु॑षो॒ हि ह्यायु॑षः । 10) आयु॑षो भु॒ङ्क्ते भु॒ङ्क्त आयु॑ष॒ आयु॑षो भु॒ङ्क्ते । 11) भु॒ङ्क्ते म॑द्ध्य॒तो म॑द्ध्य॒तो भु॒ङ्क्ते भु॒ङ्क्ते म॑द्ध्य॒तः । 12) म॒द्ध्य॒तो॑ ऽव॒नीयो॑ ऽव॒नीयो॑ मद्ध्य॒तो म॑द्ध्य॒तो॑ ऽव॒नीयः॑ । 13) अ॒व॒नीय॒ इती त्य॑व॒नीयो॑ ऽव॒नीय॒ इति॑ । 13) अ॒व॒नीय॒ इत्य॑व - नीयः॑ । 14) इत्या॑हु राहु॒ रिती त्या॑हुः । 15) आ॒हु॒-र्म॒द्ध्य॒मेन॑ मद्ध्य॒मे ना॑हु राहु-र्मद्ध्य॒मेन॑ । 16) म॒द्ध्य॒मेन॒ हि हि म॑द्ध्य॒मेन॑ मद्ध्य॒मेन॒ हि । 17) ह्यायु॑ष॒ आयु॑षो॒ हि ह्यायु॑षः । 18) आयु॑षो भु॒ङ्क्ते भु॒ङ्क्त आयु॑ष॒ आयु॑षो भु॒ङ्क्ते । 19) भु॒ङ्क्त उ॑त्तरा॒र्ध उ॑त्तरा॒र्धे भु॒ङ्क्ते भु॒ङ्क्त उ॑त्तरा॒र्धे । 20) उ॒त्त॒रा॒र्धे॑ ऽव॒नीयो॑ ऽव॒नीय॑ उत्तरा॒र्ध उ॑त्तरा॒र्धे॑ ऽव॒नीयः॑ । 20) उ॒त्त॒रा॒र्ध इत्यु॑त्तर - अ॒र्धे । 21) अ॒व॒नीय॒ इती त्य॑व॒नीयो॑ ऽव॒नीय॒ इति॑ । 21) अ॒व॒नीय॒ इत्य॑व - नीयः॑ । 22) इत्या॑हु राहु॒ रिती त्या॑हुः । 23) आ॒हु॒ रु॒त्त॒मे नो᳚त्त॒मेना॑हु राहु रुत्त॒मेन॑ । 24) उ॒त्त॒मेन॒ हि ह्यु॑त्त॒मे नो᳚त्त॒मेन॒ हि । 24) उ॒त्त॒मेनेत्यु॑त् - त॒मेन॑ । 25) ह्यायु॑ष॒ आयु॑षो॒ हि ह्यायु॑षः । 26) आयु॑षो भु॒ङ्क्ते भु॒ङ्क्त आयु॑ष॒ आयु॑षो भु॒ङ्क्ते । 27) भु॒ङ्क्ते वै᳚श्वदे॒व्यां-वैँ᳚श्वदे॒व्या-म्भु॒ङ्क्ते भु॒ङ्क्ते वै᳚श्वदे॒व्याम् । 28) वै॒श्व॒दे॒व्या मृ॒च्यृ॑चि वै᳚श्वदे॒व्यां-वैँ᳚श्वदे॒व्या मृ॒चि । 28) वै॒श्व॒दे॒व्यामिति॑ वैश्व - दे॒व्याम् । 29) ऋ॒चि श॒स्यमा॑नायाग्ं श॒स्यमा॑नाया मृ॒च्यृ॑चि श॒स्यमा॑नायाम् । 30) श॒स्यमा॑नाया॒ मवाव॑ श॒स्यमा॑नायाग्ं श॒स्यमा॑नाया॒ मव॑ । 31) अव॑ नयति नय॒ त्यवाव॑ नयति । 32) न॒य॒ति॒ वै॒श्व॒दे॒व्यो॑ वैश्वदे॒व्यो॑ नयति नयति वैश्वदे॒व्यः॑ । 33) वै॒श्व॒दे॒व्यो॑ वै वै वै᳚श्वदे॒व्यो॑ वैश्वदे॒व्यो॑ वै । 33) वै॒श्व॒दे॒व्य॑ इति॑ वैश्व - दे॒व्यः॑ । 34) वै प्र॒जाः प्र॒जा वै वै प्र॒जाः । 35) प्र॒जाः प्र॒जासु॑ प्र॒जासु॑ प्र॒जाः प्र॒जाः प्र॒जासु॑ । 35) प्र॒जा इति॑ प्र - जाः । 36) प्र॒जा स्वे॒वैव प्र॒जासु॑ प्र॒जा स्वे॒व । 36) प्र॒जास्विति॑ प्र - जासु॑ । 37) ए॒वायु॒ रायु॑ रे॒वै वायुः॑ । 38) आयु॑-र्दधाति दधा॒ त्यायु॒ रायु॑-र्दधाति । 39) द॒धा॒तीति॑ दधाति । ॥ 8 ॥ (39/48) ॥ अ. 2 ॥
1) य॒ज्ञेन॒ वै वै य॒ज्ञेन॑ य॒ज्ञेन॒ वै । 2) वै दे॒वा दे॒वा वै वै दे॒वाः । 3) दे॒वा-स्सु॑व॒र्गग्ं सु॑व॒र्ग-न्दे॒वा दे॒वा-स्सु॑व॒र्गम् । 4) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 4) सु॒व॒र्गमिति॑ सुवः - गम् । 5) लो॒क मा॑य-न्नायन् ँलो॒कम् ँलो॒क मा॑यन्न् । 6) आ॒य॒-न्ते त आ॑य-न्नाय॒-न्ते । 7) ते॑ ऽमन्यन्ता मन्यन्त॒ ते ते॑ ऽमन्यन्त । 8) अ॒म॒न्य॒न्त॒ म॒नु॒ष्या॑ मनु॒ष्या॑ अमन्यन्ता मन्यन्त मनु॒ष्याः᳚ । 9) म॒नु॒ष्या॑ नो नो मनु॒ष्या॑ मनु॒ष्या॑ नः । 10) नो॒ ऽन्वाभ॑विष्य न्त्य॒न्वाभ॑विष्यन्ति नो नो॒ ऽन्वाभ॑विष्यन्ति । 11) अ॒न्वाभ॑विष्य॒ न्तीती त्य॒न्वाभ॑विष्य न्त्य॒न्वाभ॑विष्य॒ न्तीति॑ । 11) अ॒न्वाभ॑विष्य॒न्तीत्य॑नु - आभ॑विष्यन्ति । 12) इति॒ ते त इतीति॒ ते । 13) ते सं॑वँथ्स॒रेण॑ संवँथ्स॒रेण॒ ते ते सं॑वँथ्स॒रेण॑ । 14) सं॒वँ॒थ्स॒रेण॑ योपयि॒त्वा यो॑पयि॒त्वा सं॑वँथ्स॒रेण॑ संवँथ्स॒रेण॑ योपयि॒त्वा । 14) सं॒वँ॒थ्स॒रेणेति॑ सं - व॒थ्स॒रेण॑ । 15) यो॒प॒यि॒त्वा सु॑व॒र्गग्ं सु॑व॒र्गं-योँ॑पयि॒त्वा यो॑पयि॒त्वा सु॑व॒र्गम् । 16) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 16) सु॒व॒र्गमिति॑ सुवः - गम् । 17) लो॒क मा॑य-न्नायन् ँलो॒कम् ँलो॒क मा॑यन्न् । 18) आ॒य॒-न्त-न्त मा॑य-न्नाय॒-न्तम् । 19) त मृष॑य॒ ऋष॑य॒ स्त-न्त मृष॑यः । 20) ऋष॑य ऋतुग्र॒हैर्-ऋ॑तुग्र॒हैर्-ऋष॑य॒ ऋष॑य ऋतुग्र॒हैः । 21) ऋ॒तु॒ग्र॒है रे॒वैव र्तु॑ग्र॒हैर्-ऋ॑तुग्र॒है रे॒व । 21) ऋ॒तु॒ग्र॒हैरित्यृ॑तु - ग्र॒हैः । 22) ए॒वान् वन् वे॒वैवानु॑ । 23) अनु॒ प्र प्राण्वनु॒ प्र । 24) प्राजा॑न-न्नजान॒-न्प्र प्राजा॑नन्न् । 25) अ॒जा॒न॒न्॒. य-द्यद॑जान-न्नजान॒न्॒. यत् । 26) यदृ॑तुग्र॒हा ऋ॑तुग्र॒हा य-द्यदृ॑तुग्र॒हाः । 27) ऋ॒तु॒ग्र॒हा गृ॒ह्यन्ते॑ गृ॒ह्यन्त॑ ऋतुग्र॒हा ऋ॑तुग्र॒हा गृ॒ह्यन्ते᳚ । 27) ऋ॒तु॒ग्र॒हा इत्यृ॑तु - ग्र॒हाः । 28) गृ॒ह्यन्ते॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॑ सुव॒र्गस्य॑ । 29) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । 29) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । 30) लो॒कस्य॒ प्रज्ञा᳚त्यै॒ प्रज्ञा᳚त्यै लो॒कस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै । 31) प्रज्ञा᳚त्यै॒ द्वाद॑श॒ द्वाद॑श॒ प्रज्ञा᳚त्यै॒ प्रज्ञा᳚त्यै॒ द्वाद॑श । 31) प्रज्ञा᳚त्या॒ इति॒ प्र - ज्ञा॒त्यै॒ । 32) द्वाद॑श गृह्यन्ते गृह्यन्ते॒ द्वाद॑श॒ द्वाद॑श गृह्यन्ते । 33) गृ॒ह्य॒न्ते॒ द्वाद॑श॒ द्वाद॑श गृह्यन्ते गृह्यन्ते॒ द्वाद॑श । 34) द्वाद॑श॒ मासा॒ मासा॒ द्वाद॑श॒ द्वाद॑श॒ मासाः᳚ । 35) मासा᳚-स्संवँथ्स॒र-स्सं॑वँथ्स॒रो मासा॒ मासा᳚-स्संवँथ्स॒रः । 36) सं॒वँ॒थ्स॒र-स्सं॑वँथ्स॒रस्य॑ संवँथ्स॒रस्य॑ संवँथ्स॒र-स्सं॑वँथ्स॒र-स्सं॑वँथ्स॒रस्य॑ । 36) सं॒वँ॒थ्स॒र इति॑ सं - व॒थ्स॒रः । 37) सं॒वँ॒थ्स॒रस्य॒ प्रज्ञा᳚त्यै॒ प्रज्ञा᳚त्यै संवँथ्स॒रस्य॑ संवँथ्स॒रस्य॒ प्रज्ञा᳚त्यै । 37) सं॒वँ॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । 38) प्रज्ञा᳚त्यै स॒ह स॒ह प्रज्ञा᳚त्यै॒ प्रज्ञा᳚त्यै स॒ह । 38) प्रज्ञा᳚त्या॒ इति॒ प्र - ज्ञा॒त्यै॒ । 39) स॒ह प्र॑थ॒मौ प्र॑थ॒मौ स॒ह स॒ह प्र॑थ॒मौ । 40) प्र॒थ॒मौ गृ॑ह्येते गृह्येते प्रथ॒मौ प्र॑थ॒मौ गृ॑ह्येते । 41) गृ॒ह्ये॒ते॒ स॒ह स॒ह गृ॑ह्येते गृह्येते स॒ह । 41) गृ॒ह्ये॒ते॒ इति॑ गृह्येते । 42) स॒होत्त॒मा वु॑त्त॒मौ स॒ह स॒होत्त॒मौ । 43) उ॒त्त॒मौ तस्मा॒-त्तस्मा॑ दुत्त॒मा वु॑त्त॒मौ तस्मा᳚त् । 43) उ॒त्त॒मावित्यु॑त् - त॒मौ । 44) तस्मा॒-द्द्वौद्वौ॒ द्वौद्वौ॒ तस्मा॒-त्तस्मा॒-द्द्वौद्वौ᳚ । 45) द्वौद्वा॑ वृ॒तू ऋ॒तू द्वौद्वौ॒ द्वौद्वा॑ वृ॒तू । 45) द्वौद्वा॒विति॒ द्वौ - द्वौ॒ । 46) ऋ॒तू उ॑भ॒यतो॑मुख मुभ॒यतो॑मुख मृ॒तू ऋ॒तू उ॑भ॒यतो॑मुखम् । 46) ऋ॒तू इतृ॒तू । 47) उ॒भ॒यतो॑मुख मृतुपा॒त्र मृ॑तुपा॒त्र मु॑भ॒यतो॑मुख मुभ॒यतो॑मुख मृतुपा॒त्रम् । 47) उ॒भ॒यतो॑मुख॒मित्यु॑भ॒यतः॑ - मु॒ख॒म् । 48) ऋ॒तु॒पा॒त्र-म्भ॑वति भव त्यृतुपा॒त्र मृ॑तुपा॒त्र-म्भ॑वति । 48) ऋ॒तु॒पा॒त्रमित्यृ॑तु - पा॒त्रम् । 49) भ॒व॒ति॒ कः को भ॑वति भवति॒ कः । 50) को हि हि कः को हि । ॥ 9 ॥ (50/67)
1) हि त-त्तद्धि हि तत् । 2) त-द्वेद॒ वेद॒ त-त्त-द्वेद॑ । 3) वेद॒ यतो॒ यतो॒ वेद॒ वेद॒ यतः॑ । 4) यत॑ ऋतू॒ना मृ॑तू॒नां-यँतो॒ यत॑ ऋतू॒नाम् । 5) ऋ॒तू॒ना-म्मुख॒-म्मुख॑ मृतू॒ना मृ॑तू॒ना-म्मुख᳚म् । 6) मुख॑ मृ॒तुन॒ र्तुना॒ मुख॒-म्मुख॑ मृ॒तुना᳚ । 7) ऋ॒तुना॒ प्र प्रा र्तुन॒ र्तुना॒ प्र । 8) प्रे ह्ये᳚ष्य॒ प्र प्रेष्य॑ । 9) इ॒ष्ये तीती᳚ष्ये॒ ष्येति॑ । 10) इति॒ ष-ट्थ्षडितीति॒ षट् । 11) ष-ट्कृत्वः॒ कृत्व॒ ष्ष-ट्थ्ष-ट्कृत्वः॑ । 12) कृत्व॑ आहाह॒ कृत्वः॒ कृत्व॑ आह । 13) आ॒ह॒ ष-ट्थ्षडा॑ हाह॒ षट् । 14) ष-ड्वै वै ष-ट्थ्ष-ड्वै । 15) वा ऋ॒तव॑ ऋ॒तवो॒ वै वा ऋ॒तवः॑ । 16) ऋ॒तव॑ ऋ॒तू नृ॒तू नृ॒तव॑ ऋ॒तव॑ ऋ॒तून् । 17) ऋ॒तू ने॒वैव र्तू नृ॒तू ने॒व । 18) ए॒व प्री॑णाति प्रीणा त्ये॒वैव प्री॑णाति । 19) प्री॒णा॒ त्यृ॒तुभिर्॑. ऋ॒तुभिः॑ प्रीणाति प्रीणा त्यृ॒तुभिः॑ । 20) ऋ॒तुभि॒ रिती त्यृ॒तुभिर्॑. ऋ॒तुभि॒ रिति॑ । 20) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । 21) इति॑ च॒तु श्च॒तु रितीति॑ च॒तुः । 22) च॒तु श्चतु॑ष्पद॒ श्चतु॑ष्पद श्च॒तु श्च॒तु श्चतु॑ष्पदः । 23) चतु॑ष्पद ए॒वैव चतु॑ष्पद॒ श्चतु॑ष्पद ए॒व । 23) चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दः॒ । 24) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् । 25) प॒शू-न्प्री॑णाति प्रीणाति प॒शू-न्प॒शू-न्प्री॑णाति । 26) प्री॒णा॒ति॒ द्वि-र्द्विः प्री॑णाति प्रीणाति॒ द्विः । 27) द्विः पुनः॒ पुन॒-र्द्वि-र्द्विः पुनः॑ । 28) पुनर्॑. ऋ॒तुन॒ र्तुना॒ पुनः॒ पुनर्॑. ऋ॒तुना᳚ । 29) ऋ॒तुना॑ ऽऽहाह॒ र्तुन॒ र्तुना॑ ऽऽह । 30) आ॒ह॒ द्वि॒पदो᳚ द्वि॒पद॑ आहाह द्वि॒पदः॑ । 31) द्वि॒पद॑ ए॒वैव द्वि॒पदो᳚ द्वि॒पद॑ ए॒व । 31) द्वि॒पद॒ इति॑ द्वि - पदः॑ । 32) ए॒व प्री॑णाति प्रीणा त्ये॒वैव प्री॑णाति । 33) प्री॒णा॒ त्यृ॒तुन॒ र्तुना᳚ प्रीणाति प्रीणा त्यृ॒तुना᳚ । 34) ऋ॒तुना॒ प्र प्रा र्तुन॒ र्तुना॒ प्र । 35) प्रेष्ये᳚ष्य॒ प्र प्रेष्य॑ । 36) इ॒ष्ये तीती᳚ष्ये॒ ष्येति॑ । 37) इति॒ ष-ट्थ्षडितीति॒ षट् । 38) ष-ट्कृत्वः॒ कृत्व॒ ष्ष-ट्थ्ष-ट्कृत्वः॑ । 39) कृत्व॑ आहाह॒ कृत्वः॒ कृत्व॑ आह । 40) आ॒ह॒ र्तुभिर्॑. ऋ॒तुभि॑ राहाह॒ र्तुभिः॑ । 41) ऋ॒तुभि॒ रिती त्यृ॒तुभिर्॑. ऋ॒तुभि॒ रिति॑ । 41) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । 42) इति॑ च॒तु श्च॒तु रितीति॑ च॒तुः । 43) च॒तु स्तस्मा॒-त्तस्मा᳚च् च॒तु श्च॒तु स्तस्मा᳚त् । 44) तस्मा॒च् चतु॑ष्पाद॒ श्चतु॑ष्पाद॒ स्तस्मा॒-त्तस्मा॒च् चतु॑ष्पादः । 45) चतु॑ष्पादः प॒शवः॑ प॒शव॒ श्चतु॑ष्पाद॒ श्चतु॑ष्पादः प॒शवः॑ । 45) चतु॑ष्पाद॒ इति॒ चतुः॑ - पा॒दः॒ । 46) प॒शव॑ ऋ॒तू नृ॒तू-न्प॒शवः॑ प॒शव॑ ऋ॒तून् । 47) ऋ॒तू नुपोपा॒ र्तू नृ॒तू नुप॑ । 48) उप॑ जीवन्ति जीव॒ न्त्युपोप॑ जीवन्ति । 49) जी॒व॒न्ति॒ द्वि-र्द्वि-र्जी॑वन्ति जीवन्ति॒ द्विः । 50) द्विः पुनः॒ पुन॒-र्द्वि-र्द्विः पुनः॑ । ॥ 10 ॥ (50/55)
1) पुनर्॑. ऋ॒तुन॒ र्तुना॒ पुनः॒ पुनर्॑. ऋ॒तुना᳚ । 2) ऋ॒तुना॑ ऽऽहाह॒ र्तुन॒ र्तुना॑ ऽऽह । 3) आ॒ह॒ तस्मा॒-त्तस्मा॑ दाहाह॒ तस्मा᳚त् । 4) तस्मा᳚-द्द्वि॒पादो᳚ द्वि॒पाद॒ स्तस्मा॒-त्तस्मा᳚-द्द्वि॒पादः॑ । 5) द्वि॒पाद॒ श्चतु॑ष्पद॒ श्चतु॑ष्पदो द्वि॒पादो᳚ द्वि॒पाद॒ श्चतु॑ष्पदः । 5) द्वि॒पाद॒ इति॑ द्वि - पादः॑ । 6) चतु॑ष्पदः प॒शू-न्प॒शूग् श्चतु॑ष्पद॒ श्चतु॑ष्पदः प॒शून् । 6) चतु॑ष्पद॒ इति॒ चतुः॑ - प॒दः॒ । 7) प॒शू नुपोप॑ प॒शू-न्प॒शू नुप॑ । 8) उप॑ जीवन्ति जीव॒ न्त्युपोप॑ जीवन्ति । 9) जी॒व॒ न्त्यृ॒तुन॒ र्तुना॑ जीवन्ति जीव न्त्यृ॒तुना᳚ । 10) ऋ॒तुना॒ प्र प्रा र्तुन॒ र्तुना॒ प्र । 11) प्रेष्ये᳚ष्य॒ प्र प्रेष्य॑ । 12) इ॒ष्ये तीती᳚ष्ये॒ ष्येति॑ । 13) इति॒ ष-ट्थ्षडितीति॒ षट् । 14) ष-ट्कृत्वः॒ कृत्व॒ ष्ष-ट्थ्ष-ट्कृत्वः॑ । 15) कृत्व॑ आहाह॒ कृत्वः॒ कृत्व॑ आह । 16) आ॒ह॒ र्तुभिर्॑. ऋ॒तुभि॑ राहाह॒ र्तुभिः॑ । 17) ऋ॒तुभि॒ रिती त्यृ॒तुभिर्॑. ऋ॒तुभि॒ रिति॑ । 17) ऋ॒तुभि॒रित्यृ॒तु - भिः॒ । 18) इति॑ च॒तु श्च॒तु रितीति॑ च॒तुः । 19) च॒तु-र्द्वि-र्द्वि श्च॒तु श्च॒तु-र्द्विः । 20) द्विः पुनः॒ पुन॒-र्द्वि-र्द्विः पुनः॑ । 21) पुनर्॑. ऋ॒तुन॒ र्तुना॒ पुनः॒ पुनर्॑. ऋ॒तुना᳚ । 22) ऋ॒तुना॑ ऽऽहाह॒ र्तुन॒ र्तुना॑ ऽऽह । 23) आ॒हा॒ क्रम॑ण मा॒क्रम॑ण माहा हा॒क्रम॑णम् । 24) आ॒क्रम॑ण मे॒वैवा क्रम॑ण मा॒क्रम॑ण मे॒व । 24) आ॒क्रम॑ण॒मित्या᳚ - क्रम॑णम् । 25) ए॒व त-त्तदे॒ वैव तत् । 26) त-थ्सेतु॒ग्ं॒ सेतु॒-न्त-त्त-थ्सेतु᳚म् । 27) सेतुं॒-यँज॑मानो॒ यज॑मान॒-स्सेतु॒ग्ं॒ सेतुं॒-यँज॑मानः । 28) यज॑मानः कुरुते कुरुते॒ यज॑मानो॒ यज॑मानः कुरुते । 29) कु॒रु॒ते॒ सु॒व॒र्गस्य॑ सुव॒र्गस्य॑ कुरुते कुरुते सुव॒र्गस्य॑ । 30) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । 30) सु॒व॒र्गस्येति॑ सुवः - गस्य॑ । 31) लो॒कस्य॒ सम॑ष्ट्यै॒ सम॑ष्ट्यै लो॒कस्य॑ लो॒कस्य॒ सम॑ष्ट्यै । 32) सम॑ष्ट्यै॒ न न सम॑ष्ट्यै॒ सम॑ष्ट्यै॒ न । 32) सम॑ष्ट्या॒ इति॒ सं - अ॒ष्ट्यै॒ । 33) नान्यो᳚ ऽन्यो न नान्यः । 34) अ॒न्यो᳚ ऽन्य म॒न्य म॒न्यो᳚(1॒) ऽन्यो᳚ ऽन्यम् । 35) अ॒न्य मन्वन् व॒न्य म॒न्य मनु॑ । 36) अनु॒ प्र प्राण्वनु॒ प्र । 37) प्र प॑द्येत पद्येत॒ प्र प्र प॑द्येत । 38) प॒द्ये॒त॒ य-द्य-त्प॑द्येत पद्येत॒ यत् । 39) यद॒न्यो᳚ ऽन्यो य-द्यद॒न्यः । 40) अ॒न्यो᳚ ऽन्य म॒न्य म॒न्यो᳚(1॒) ऽन्यो᳚ ऽन्यम् । 41) अ॒न्य म॑नुप्र॒पद्ये॑ता नुप्र॒पद्ये॑ता॒ न्य म॒न्य म॑नुप्र॒पद्ये॑त । 42) अ॒नु॒प्र॒पद्ये॑त॒ र्तुर्-ऋ॒तु र॑नुप्र॒पद्ये॑ता नुप्र॒पद्ये॑त॒ र्तुः । 42) अ॒नु॒प्र॒पद्ये॒तेत्य॑नु - प्र॒पद्ये॑त । 43) ऋ॒तुर्-ऋ॒तु मृ॒तु मृ॒तुर्-ऋ॒तुर्-ऋ॒तुम् । 44) ऋ॒तु मन्वन् वृ॒तु मृ॒तु मनु॑ । 45) अनु॒ प्र प्राण्वनु॒ प्र । 46) प्र प॑द्येत पद्येत॒ प्र प्र प॑द्येत । 47) प॒द्ये॒त॒ र्तव॑ ऋ॒तवः॑ पद्येत पद्येत॒ र्तवः॑ । 48) ऋ॒तवो॒ मोहु॑का॒ मोहु॑का ऋ॒तव॑ ऋ॒तवो॒ मोहु॑काः । 49) मोहु॑का-स्स्यु-स्स्यु॒-र्मोहु॑का॒ मोहु॑का-स्स्युः । 50) स्युः॒ प्रसि॑द्ध॒-म्प्रसि॑द्धग्ग् स्यु-स्स्युः॒ प्रसि॑द्धम् । ॥ 11 ॥ (50/57)
1) प्रसि॑द्ध मे॒वैव प्रसि॑द्ध॒-म्प्रसि॑द्ध मे॒व । 1) प्रसि॑द्ध॒मिति॒ प्र - सि॒द्ध॒म् । 2) ए॒वाद्ध्व॒र्यु र॑द्ध्व॒र्यु रे॒वै वाद्ध्व॒र्युः । 3) अ॒द्ध्व॒र्यु-र्दक्षि॑णेन॒ दक्षि॑णे नाद्ध्व॒र्यु र॑द्ध्व॒र्यु-र्दक्षि॑णेन । 4) दक्षि॑णेन॒ प्र प्र दक्षि॑णेन॒ दक्षि॑णेन॒ प्र । 5) प्र प॑द्यते पद्यते॒ प्र प्र प॑द्यते । 6) प॒द्य॒ते॒ प्रसि॑द्ध॒-म्प्रसि॑द्ध-म्पद्यते पद्यते॒ प्रसि॑द्धम् । 7) प्रसि॑द्ध-म्प्रतिप्रस्था॒ता प्र॑तिप्रस्था॒ता प्रसि॑द्ध॒-म्प्रसि॑द्ध-म्प्रतिप्रस्था॒ता । 7) प्रसि॑द्ध॒मिति॒ प्र - सि॒द्ध॒म् । 8) प्र॒ति॒प्र॒स्था॒ तोत्त॑रे॒ णोत्त॑रेण प्रतिप्रस्था॒ता प्र॑तिप्रस्था॒ तोत्त॑रेण । 8) प्र॒ति॒प्र॒स्था॒तेति॑ प्रति - प्र॒स्था॒ता । 9) उत्त॑रेण॒ तस्मा॒-त्तस्मा॒ दुत्त॑रे॒ णोत्त॑रेण॒ तस्मा᳚त् । 9) उत्त॑रे॒णेत्युत् - त॒रे॒ण॒ । 10) तस्मा॑ दादि॒त्य आ॑दि॒त्य स्तस्मा॒-त्तस्मा॑ दादि॒त्यः । 11) आ॒दि॒त्य ष्ष-ट्थ्षडा॑दि॒त्य आ॑दि॒त्य ष्षट् । 12) षण् मा॒सो मा॒स ष्ष-ट्थ्षण् मा॒सः । 13) मा॒सो दक्षि॑णेन॒ दक्षि॑णेन मा॒सो मा॒सो दक्षि॑णेन । 14) दक्षि॑णे नैत्येति॒ दक्षि॑णेन॒ दक्षि॑णेनैति । 15) ए॒ति॒ ष-ट्थ्षडे᳚ त्येति॒ षट् । 16) षडुत्त॑रे॒ णोत्त॑रेण॒ ष-ट्थ्ष डुत्त॑रेण । 17) उत्त॑रे णोपया॒मगृ॑हीत उपया॒मगृ॑हीत॒ उत्त॑रे॒ णोत्त॑रे णोपया॒मगृ॑हीतः । 17) उत्त॑रे॒णेत्युत् - त॒रे॒ण॒ । 18) उ॒प॒या॒मगृ॑हीतो ऽस्य स्युपया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 18) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 19) अ॒सि॒ स॒ग्ं॒सर्प॑-स्स॒ग्ं॒सर्पो᳚ ऽस्यसि स॒ग्ं॒सर्पः॑ । 20) स॒ग्ं॒सर्पो᳚ ऽस्यसि स॒ग्ं॒सर्प॑-स्स॒ग्ं॒सर्पो॑ ऽसि । 20) स॒ग्ं॒सर्प॒ इति॑ सं - सर्पः॑ । 21) अ॒स्य॒ग्ं॒ह॒स्प॒त्या याग्ं॑हस्प॒त्याया᳚ स्य स्यग्ंहस्प॒त्याय॑ । 22) अ॒ग्ं॒ह॒स्प॒त्याय॑ त्वा त्वा ऽग्ंहस्प॒त्या याग्ं॑हस्प॒त्याय॑ त्वा । 22) अ॒ग्ं॒ह॒स्प॒त्यायेत्यग्ं॑हः - प॒त्याय॑ । 23) त्वेतीति॑ त्वा॒ त्वेति॑ । 24) इत्या॑हा॒हे तीत्या॑ह । 25) आ॒हा स्त्यस्त्या॑ हा॒हास्ति॑ । 26) अस्ति॑ त्रयोद॒श स्त्र॑योद॒शो ऽस्त्यस्ति॑ त्रयोद॒शः । 27) त्र॒यो॒द॒शो मासो॒ मास॑ स्त्रयोद॒श स्त्र॑योद॒शो मासः॑ । 27) त्र॒यो॒द॒श इति॑ त्रयः - द॒शः । 28) मास॒ इतीति॒ मासो॒ मास॒ इति॑ । 29) इत्या॑हु राहु॒ रिती त्या॑हुः । 30) आ॒हु॒ स्त-न्तमा॑हु राहु॒ स्तम् । 31) तमे॒वैव त-न्तमे॒व । 32) ए॒व त-त्तदे॒ वैव तत् । 33) त-त्प्री॑णाति प्रीणाति॒ त-त्त-त्प्री॑णाति । 34) प्री॒णा॒तीति॑ प्रीणाति । ॥ 12 ॥ (34/43) ॥ अ. 3 ॥
1) सु॒व॒र्गाय॒ वै वै सु॑व॒र्गाय॑ सुव॒र्गाय॒ वै । 1) सु॒व॒र्गायेति॑ सुवः - गाय॑ । 2) वा ए॒त ए॒ते वै वा ए॒ते । 3) ए॒ते लो॒काय॑ लो॒कायै॒त ए॒ते लो॒काय॑ । 4) लो॒काय॑ गृह्यन्ते गृह्यन्ते लो॒काय॑ लो॒काय॑ गृह्यन्ते । 5) गृ॒ह्य॒न्ते॒ य-द्य-द्गृ॑ह्यन्ते गृह्यन्ते॒ यत् । 6) यदृ॑तुग्र॒हा ऋ॑तुग्र॒हा य-द्यदृ॑तुग्र॒हाः । 7) ऋ॒तु॒ग्र॒हा ज्योति॒-र्ज्योतिर्॑. ऋतुग्र॒हा ऋ॑तुग्र॒हा ज्योतिः॑ । 7) ऋ॒तु॒ग्र॒हा इत्यृ॑तु - ग्र॒हाः । 8) ज्योति॑ रिन्द्रा॒ग्नी इ॑न्द्रा॒ग्नी ज्योति॒-र्ज्योति॑ रिन्द्रा॒ग्नी । 9) इ॒न्द्रा॒ग्नी य-द्यदि॑न्द्रा॒ग्नी इ॑न्द्रा॒ग्नी यत् । 9) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी । 10) यदै᳚न्द्रा॒ग्न मै᳚न्द्रा॒ग्नं-यँ-द्यदै᳚न्द्रा॒ग्नम् । 11) ऐ॒न्द्रा॒ग्न मृ॑तुपा॒त्रेण॑ र्तुपा॒त्रेणै᳚ न्द्रा॒ग्न मै᳚न्द्रा॒ग्न मृ॑तुपा॒त्रेण॑ । 11) ऐ॒न्द्रा॒ग्नमित्यै᳚न्द्र - अ॒ग्नम् । 12) ऋ॒तु॒पा॒त्रेण॑ गृ॒ह्णाति॑ गृ॒ह्णा त्यृ॑तुपा॒त्रेण॑ र्तुपा॒त्रेण॑ गृ॒ह्णाति॑ । 12) ऋ॒तु॒पा॒त्रेणेत्यृ॑तु - पा॒त्रेण॑ । 13) गृ॒ह्णाति॒ ज्योति॒-र्ज्योति॑-र्गृ॒ह्णाति॑ गृ॒ह्णाति॒ ज्योतिः॑ । 14) ज्योति॑ रे॒वैव ज्योति॒-र्ज्योति॑ रे॒व । 15) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 16) अ॒स्मा॒ उ॒परि॑ष्टा दु॒परि॑ष्टा दस्मा अस्मा उ॒परि॑ष्टात् । 17) उ॒परि॑ष्टा-द्दधाति दधा त्यु॒परि॑ष्टा दु॒परि॑ष्टा-द्दधाति । 18) द॒धा॒ति॒ सु॒व॒र्गस्य॑ सुव॒र्गस्य॑ दधाति दधाति सुव॒र्गस्य॑ । 19) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । 19) सु॒व॒र्गसेति॑ सुवः - गस्य॑ । 20) लो॒कस्या नु॑ख्यात्या॒ अनु॑ख्यात्यै लो॒कस्य॑ लो॒कस्या नु॑ख्यात्यै । 21) अनु॑ख्यात्या ओजो॒भृता॑ वोजो॒भृता॒ वनु॑ख्यात्या॒ अनु॑ख्यात्या ओजो॒भृतौ᳚ । 21) अनु॑ख्यात्या॒ इत्यनु॑ - ख्या॒त्यै॒ । 22) ओ॒जो॒भृतौ॒ वै वा ओ॑जो॒भृता॑ वोजो॒भृतौ॒ वै । 22) ओ॒जो॒भृता॒वित्यो॑जः - भृतौ᳚ । 23) वा ए॒ता वे॒तौ वै वा ए॒तौ । 24) ए॒तौ दे॒वाना᳚-न्दे॒वाना॑ मे॒ता वे॒तौ दे॒वाना᳚म् । 25) दे॒वानां॒-यँ-द्य-द्दे॒वाना᳚-न्दे॒वानां॒-यँत् । 26) यदि॑न्द्रा॒ग्नी इ॑न्द्रा॒ग्नी य-द्यदि॑न्द्रा॒ग्नी । 27) इ॒न्द्रा॒ग्नी य-द्यदि॑न्द्रा॒ग्नी इ॑न्द्रा॒ग्नी यत् । 27) इ॒न्द्रा॒ग्नी इती᳚न्द्र - अ॒ग्नी । 28) यदै᳚न्द्रा॒ग्न ऐ᳚न्द्रा॒ग्नो य-द्यदै᳚न्द्रा॒ग्नः । 29) ऐ॒न्द्रा॒ग्नो गृ॒ह्यते॑ गृ॒ह्यत॑ ऐन्द्रा॒ग्न ऐ᳚न्द्रा॒ग्नो गृ॒ह्यते᳚ । 29) ऐ॒न्द्रा॒ग्न इत्यै᳚न्द्र - अ॒ग्नः । 30) गृ॒ह्यत॒ ओज॒ ओजो॑ गृ॒ह्यते॑ गृ॒ह्यत॒ ओजः॑ । 31) ओज॑ ए॒वै वौज॒ ओज॑ ए॒व । 32) ए॒वावा वै॒वै वाव॑ । 33) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 34) रु॒न्धे॒ वै॒श्व॒दे॒वं-वैँ᳚श्वदे॒वग्ं रु॑न्धे रुन्धे वैश्वदे॒वम् । 35) वै॒श्व॒दे॒वग्ं शु॑क्रपा॒त्रेण॑ शुक्रपा॒त्रेण॑ वैश्वदे॒वं-वैँ᳚श्वदे॒वग्ं शु॑क्रपा॒त्रेण॑ । 35) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । 36) शु॒क्र॒पा॒त्रेण॑ गृह्णाति गृह्णाति शुक्रपा॒त्रेण॑ शुक्रपा॒त्रेण॑ गृह्णाति । 36) शु॒क्र॒पा॒त्रेणेति॑ शुक्र - पा॒त्रेण॑ । 37) गृ॒ह्णा॒ति॒ वै॒श्व॒दे॒व्यो॑ वैश्वदे॒व्यो॑ गृह्णाति गृह्णाति वैश्वदे॒व्यः॑ । 38) वै॒श्व॒दे॒व्यो॑ वै वै वै᳚श्वदे॒व्यो॑ वैश्वदे॒व्यो॑ वै । 38) वै॒श्व॒दे॒व्य॑ इति॑ वैश्व - दे॒व्यः॑ । 39) वै प्र॒जाः प्र॒जा वै वै प्र॒जाः । 40) प्र॒जा अ॒सा व॒सौ प्र॒जाः प्र॒जा अ॒सौ । 40) प्र॒जा इति॑ प्र - जाः । 41) अ॒सा वा॑दि॒त्य आ॑दि॒त्यो॑ ऽसा व॒सा वा॑दि॒त्यः । 42) आ॒दि॒त्य-श्शु॒क्र-श्शु॒क्र आ॑दि॒त्य आ॑दि॒त्य-श्शु॒क्रः । 43) शु॒क्रो य-द्यच्छु॒क्र-श्शु॒क्रो यत् । 44) य-द्वै᳚श्वदे॒वं-वैँ᳚श्वदे॒वं-यँ-द्य-द्वै᳚श्वदे॒वम् । 45) वै॒श्व॒दे॒वग्ं शु॑क्रपा॒त्रेण॑ शुक्रपा॒त्रेण॑ वैश्वदे॒वं-वैँ᳚श्वदे॒वग्ं शु॑क्रपा॒त्रेण॑ । 45) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । 46) शु॒क्र॒पा॒त्रेण॑ गृ॒ह्णाति॑ गृ॒ह्णाति॑ शुक्रपा॒त्रेण॑ शुक्रपा॒त्रेण॑ गृ॒ह्णाति॑ । 46) शु॒क्र॒पा॒त्रेणेति॑ शुक्र - पा॒त्रेण॑ । 47) गृ॒ह्णाति॒ तस्मा॒-त्तस्मा᳚-द्गृ॒ह्णाति॑ गृ॒ह्णाति॒ तस्मा᳚त् । 48) तस्मा॑ द॒सा व॒सौ तस्मा॒-त्तस्मा॑ द॒सौ । 49) अ॒सा वा॑दि॒त्य आ॑दि॒त्यो॑ ऽसा व॒सा वा॑दि॒त्यः । 50) आ॒दि॒त्य-स्सर्वा॒-स्सर्वा॑ आदि॒त्य आ॑दि॒त्य-स्सर्वाः᳚ । ॥ 13 ॥ (50/66)
1) सर्वाः᳚ प्र॒जाः प्र॒जा-स्सर्वा॒-स्सर्वाः᳚ प्र॒जाः । 2) प्र॒जाः प्र॒त्य-म्प्र॒त्य-म्प्र॒जाः प्र॒जाः प्र॒त्यम् । 2) प्र॒जा इति॑ प्र - जाः । 3) प्र॒त्यं ंउदु-त्प्र॒त्य-म्प्र॒त्यं ंउत् । 4) उदे᳚ त्ये॒ त्युदु दे॑ति । 5) ए॒ति॒ तस्मा॒-त्तस्मा॑ देत्येति॒ तस्मा᳚त् । 6) तस्मा॒-थ्सर्व॒-स्सर्व॒ स्तस्मा॒-त्तस्मा॒-थ्सर्वः॑ । 7) सर्व॑ ए॒वैव सर्व॒-स्सर्व॑ ए॒व । 8) ए॒व म॑न्यते मन्यत ए॒वैव म॑न्यते । 9) म॒न्य॒ते॒ मा-म्मा-म्म॑न्यते मन्यते॒ माम् । 10) मा-म्प्रति॒ प्रति॒ मा-म्मा-म्प्रति॑ । 11) प्रत्युदु-त्प्रति॒ प्रत्युत् । 12) उद॑गा दगा॒ दुदु द॑गात् । 13) अ॒गा॒ दिती त्य॑गा दगा॒ दिति॑ । 14) इति॑ वैश्वदे॒वं-वैँ᳚श्वदे॒व मितीति॑ वैश्वदे॒वम् । 15) वै॒श्व॒दे॒वग्ं शु॑क्रपा॒त्रेण॑ शुक्रपा॒त्रेण॑ वैश्वदे॒वं-वैँ᳚श्वदे॒वग्ं शु॑क्रपा॒त्रेण॑ । 15) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । 16) शु॒क्र॒पा॒त्रेण॑ गृह्णाति गृह्णाति शुक्रपा॒त्रेण॑ शुक्रपा॒त्रेण॑ गृह्णाति । 16) शु॒क्र॒पा॒त्रेणेति॑ शुक्र - पा॒त्रेण॑ । 17) गृ॒ह्णा॒ति॒ वै॒श्व॒दे॒व्यो॑ वैश्वदे॒व्यो॑ गृह्णाति गृह्णाति वैश्वदे॒व्यः॑ । 18) वै॒श्व॒दे॒व्यो॑ वै वै वै᳚श्वदे॒व्यो॑ वैश्वदे॒व्यो॑ वै । 18) वै॒श्व॒दे॒व्य॑ इति॑ वैश्व - दे॒व्यः॑ । 19) वै प्र॒जाः प्र॒जा वै वै प्र॒जाः । 20) प्र॒जा स्तेज॒ स्तेजः॑ प्र॒जाः प्र॒जा स्तेजः॑ । 20) प्र॒जा इति॑ प्र - जाः । 21) तेज॑-श्शु॒क्र-श्शु॒क्र स्तेज॒ स्तेज॑-श्शु॒क्रः । 22) शु॒क्रो य-द्यच्छु॒क्र-श्शु॒क्रो यत् । 23) य-द्वै᳚श्वदे॒वं-वैँ᳚श्वदे॒वं-यँ-द्य-द्वै᳚श्वदे॒वम् । 24) वै॒श्व॒दे॒वग्ं शु॑क्रपा॒त्रेण॑ शुक्रपा॒त्रेण॑ वैश्वदे॒वं-वैँ᳚श्वदे॒वग्ं शु॑क्रपा॒त्रेण॑ । 24) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । 25) शु॒क्र॒पा॒त्रेण॑ गृ॒ह्णाति॑ गृ॒ह्णाति॑ शुक्रपा॒त्रेण॑ शुक्रपा॒त्रेण॑ गृ॒ह्णाति॑ । 25) शु॒क्र॒पा॒त्रेणेति॑ शुक्र - पा॒त्रेण॑ । 26) गृ॒ह्णाति॑ प्र॒जासु॑ प्र॒जासु॑ गृ॒ह्णाति॑ गृ॒ह्णाति॑ प्र॒जासु॑ । 27) प्र॒जा स्वे॒वैव प्र॒जासु॑ प्र॒जा स्वे॒व । 27) प्र॒जास्विति॑ प्र - जासु॑ । 28) ए॒व तेज॒ स्तेज॑ ए॒वैव तेजः॑ । 29) तेजो॑ दधाति दधाति॒ तेज॒ स्तेजो॑ दधाति । 30) द॒धा॒तीति॑ दधाति । ॥ 14 ॥ (30/38) ॥ अ. 4 ॥
1) इन्द्रो॑ म॒रुद्भि॑-र्म॒रुद्भि॒ रिन्द्र॒ इन्द्रो॑ म॒रुद्भिः॑ । 2) म॒रुद्भि॒-स्सांविँ॑द्येन॒ सांविँ॑द्येन म॒रुद्भि॑-र्म॒रुद्भि॒-स्सांविँ॑द्येन । 2) म॒रुद्भि॒रिति॑ म॒रुत् - भिः॒ । 3) सांविँ॑द्येन॒ माद्ध्य॑न्दिने॒ माद्ध्य॑न्दिने॒ सांविँ॑द्येन॒ सांविँ॑द्येन॒ माद्ध्य॑न्दिने । 3) सांविँ॑द्ये॒नेति॒ सां - वि॒द्ये॒न॒ । 4) माद्ध्य॑न्दिने॒ सव॑ने॒ सव॑ने॒ माद्ध्य॑न्दिने॒ माद्ध्य॑न्दिने॒ सव॑ने । 5) सव॑ने वृ॒त्रं-वृँ॒त्रग्ं सव॑ने॒ सव॑ने वृ॒त्रम् । 6) वृ॒त्र म॑ह-न्नहन् वृ॒त्रं-वृँ॒त्र म॑हन्न् । 7) अ॒ह॒न्॒. य-द्यद॑ह-न्नह॒न्॒. यत् । 8) य-न्माद्ध्य॑न्दिने॒ माद्ध्य॑न्दिने॒ य-द्य-न्माद्ध्य॑न्दिने । 9) माद्ध्य॑न्दिने॒ सव॑ने॒ सव॑ने॒ माद्ध्य॑न्दिने॒ माद्ध्य॑न्दिने॒ सव॑ने । 10) सव॑ने मरुत्व॒तीया॑ मरुत्व॒तीया॒-स्सव॑ने॒ सव॑ने मरुत्व॒तीयाः᳚ । 11) म॒रु॒त्व॒तीया॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॑ मरुत्व॒तीया॑ मरुत्व॒तीया॑ गृ॒ह्यन्ते᳚ । 12) गृ॒ह्यन्ते॒ वार्त्र॑घ्ना॒ वार्त्र॑घ्ना गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ वार्त्र॑घ्नाः । 13) वार्त्र॑घ्ना ए॒वैव वार्त्र॑घ्ना॒ वार्त्र॑घ्ना ए॒व । 13) वार्त्र॑घ्ना॒ इति॒ वार्त्र॑ - घ्नाः॒ । 14) ए॒व ते त ए॒वैव ते । 15) ते यज॑मानस्य॒ यज॑मानस्य॒ ते ते यज॑मानस्य । 16) यज॑मानस्य गृह्यन्ते गृह्यन्ते॒ यज॑मानस्य॒ यज॑मानस्य गृह्यन्ते । 17) गृ॒ह्य॒न्ते॒ तस्य॒ तस्य॑ गृह्यन्ते गृह्यन्ते॒ तस्य॑ । 18) तस्य॑ वृ॒त्रं-वृँ॒त्र-न्तस्य॒ तस्य॑ वृ॒त्रम् । 19) वृ॒त्र-ञ्ज॒घ्नुषो॑ ज॒घ्नुषो॑ वृ॒त्रं-वृँ॒त्र-ञ्ज॒घ्नुषः॑ । 20) ज॒घ्नुष॑ ऋ॒तव॑ ऋ॒तवो॑ ज॒घ्नुषो॑ ज॒घ्नुष॑ ऋ॒तवः॑ । 21) ऋ॒तवो॑ ऽमुह्य-न्नमुह्य-न्नृ॒तव॑ ऋ॒तवो॑ ऽमुह्यन्न् । 22) अ॒मु॒ह्य॒-न्थ्स सो॑ ऽमुह्य-न्नमुह्य॒-न्थ्सः । 23) स ऋ॑तुपा॒त्रेण॑ र्तुपा॒त्रेण॒ स स ऋ॑तुपा॒त्रेण॑ । 24) ऋ॒तु॒पा॒त्रेण॑ मरुत्व॒तीया᳚-न्मरुत्व॒तीया॑ नृतुपा॒त्रेण॑ र्तुपा॒त्रेण॑ मरुत्व॒तीयान्॑ । 24) ऋ॒तु॒पा॒त्रेणेत्यृ॑तु - पा॒त्रेण॑ । 25) म॒रु॒त्व॒तीया॑ नगृह्णा दगृह्णा-न्मरुत्व॒तीया᳚-न्मरुत्व॒तीया॑ नगृह्णात् । 26) अ॒गृ॒ह्णा॒-त्तत॒ स्ततो॑ ऽगृह्णा दगृह्णा॒-त्ततः॑ । 27) ततो॒ वै वै तत॒ स्ततो॒ वै । 28) वै स स वै वै सः । 29) स ऋ॒तू नृ॒तू-न्थ्स स ऋ॒तून् । 30) ऋ॒तू-न्प्र प्रा र्तू नृ॒तू-न्प्र । 31) प्राजा॑ना दजाना॒-त्प्र प्राजा॑नात् । 32) अ॒जा॒ना॒-द्य-द्यद॑जाना दजाना॒-द्यत् । 33) यदृ॑तुपा॒त्रेण॑ र्तुपा॒त्रेण॒ य-द्यदृ॑तुपा॒त्रेण॑ । 34) ऋ॒तु॒पा॒त्रेण॑ मरुत्व॒तीया॑ मरुत्व॒तीया॑ ऋतुपा॒त्रेण॑ र्तुपा॒त्रेण॑ मरुत्व॒तीयाः᳚ । 34) ऋ॒तु॒पा॒त्रेणेत्यृ॑तु - पा॒त्रेण॑ । 35) म॒रु॒त्व॒तीया॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॑ मरुत्व॒तीया॑ मरुत्व॒तीया॑ गृ॒ह्यन्ते᳚ । 36) गृ॒ह्यन्त॑ ऋतू॒ना मृ॑तू॒ना-ङ्गृ॒ह्यन्ते॑ गृ॒ह्यन्त॑ ऋतू॒नाम् । 37) ऋ॒तू॒ना-म्प्रज्ञा᳚त्यै॒ प्रज्ञा᳚त्या ऋतू॒ना मृ॑तू॒ना-म्प्रज्ञा᳚त्यै । 38) प्रज्ञा᳚त्यै॒ वज्रं॒-वँज्र॒-म्प्रज्ञा᳚त्यै॒ प्रज्ञा᳚त्यै॒ वज्र᳚म् । 38) प्रज्ञा᳚त्या॒ इति॒ प्र - ज्ञा॒त्यै॒ । 39) वज्रं॒-वैँ वै वज्रं॒-वँज्रं॒-वैँ । 40) वा ए॒त मे॒तं-वैँ वा ए॒तम् । 41) ए॒तं-यँज॑मानो॒ यज॑मान ए॒त मे॒तं-यँज॑मानः । 42) यज॑मानो॒ भ्रातृ॑व्याय॒ भ्रातृ॑व्याय॒ यज॑मानो॒ यज॑मानो॒ भ्रातृ॑व्याय । 43) भ्रातृ॑व्याय॒ प्र प्र भ्रातृ॑व्याय॒ भ्रातृ॑व्याय॒ प्र । 44) प्र ह॑रति हरति॒ प्र प्र ह॑रति । 45) ह॒र॒ति॒ य-द्यद्ध॑रति हरति॒ यत् । 46) य-न्म॑रुत्व॒तीया॑ मरुत्व॒तीया॒ य-द्य-न्म॑रुत्व॒तीयाः᳚ । 47) म॒रु॒त्व॒तीया॒ उदु-न्म॑रुत्व॒तीया॑ मरुत्व॒तीया॒ उत् । 48) उदे॒ वैवोदु दे॒व । 49) ए॒व प्र॑थ॒मेन॑ प्रथ॒मे नै॒वैव प्र॑थ॒मेन॑ । 50) प्र॒थ॒मेन॑ यच्छति यच्छति प्रथ॒मेन॑ प्रथ॒मेन॑ यच्छति । ॥ 15 ॥ (50/56)
1) य॒च्छ॒ति॒ प्र प्र य॑च्छति यच्छति॒ प्र । 2) प्र ह॑रति हरति॒ प्र प्र ह॑रति । 3) ह॒र॒ति॒ द्वि॒तीये॑न द्वि॒तीये॑न हरति हरति द्वि॒तीये॑न । 4) द्वि॒तीये॑न स्तृणु॒ते स्तृ॑णु॒ते द्वि॒तीये॑न द्वि॒तीये॑न स्तृणु॒ते । 5) स्तृ॒णु॒ते तृ॒तीये॑न तृ॒तीये॑न स्तृणु॒ते स्तृ॑णु॒ते तृ॒तीये॑न । 6) तृ॒तीये॒ना यु॑ध॒ मायु॑ध-न्तृ॒तीये॑न तृ॒तीये॒ना यु॑धम् । 7) आयु॑धं॒-वैँ वा आयु॑ध॒ मायु॑धं॒-वैँ । 8) वा ए॒त दे॒त-द्वै वा ए॒तत् । 9) ए॒त-द्यज॑मानो॒ यज॑मान ए॒त दे॒त-द्यज॑मानः । 10) यज॑मान॒-स्सग्ं सं-यँज॑मानो॒ यज॑मान॒-स्सम् । 11) सग्ग् स्कु॑रुते कुरुते॒ सग्ं सग्ग् स्कु॑रुते । 12) कु॒रु॒ते॒ य-द्य-त्कु॑रुते कुरुते॒ यत् । 13) य-न्म॑रुत्व॒तीया॑ मरुत्व॒तीया॒ य-द्य-न्म॑रुत्व॒तीयाः᳚ । 14) म॒रु॒त्व॒तीया॒ धनु॒-र्धनु॑-र्मरुत्व॒तीया॑ मरुत्व॒तीया॒ धनुः॑ । 15) धनु॑ रे॒वैव धनु॒-र्धनु॑ रे॒व । 16) ए॒व प्र॑थ॒मः प्र॑थ॒म ए॒वैव प्र॑थ॒मः । 17) प्र॒थ॒मो ज्या ज्या प्र॑थ॒मः प्र॑थ॒मो ज्या । 18) ज्या द्वि॒तीयो᳚ द्वि॒तीयो॒ ज्या ज्या द्वि॒तीयः॑ । 19) द्वि॒तीय॒ इषु॒ रिषु॑-र्द्वि॒तीयो᳚ द्वि॒तीय॒ इषुः॑ । 20) इषु॑ स्तृ॒तीय॑ स्तृ॒तीय॒ इषु॒ रिषु॑ स्तृ॒तीयः॑ । 21) तृ॒तीयः॒ प्रति॒ प्रति॑ तृ॒तीय॑ स्तृ॒तीयः॒ प्रति॑ । 22) प्रत्ये॒ वैव प्रति॒ प्रत्ये॒व । 23) ए॒व प्र॑थ॒मेन॑ प्रथ॒मे नै॒वैव प्र॑थ॒मेन॑ । 24) प्र॒थ॒मेन॑ धत्ते धत्ते प्रथ॒मेन॑ प्रथ॒मेन॑ धत्ते । 25) ध॒त्ते॒ वि वि ध॑त्ते धत्ते॒ वि । 26) वि सृ॑जति सृजति॒ वि वि सृ॑जति । 27) सृ॒ज॒ति॒ द्वि॒तीये॑न द्वि॒तीये॑न सृजति सृजति द्वि॒तीये॑न । 28) द्वि॒तीये॑न॒ विद्ध्य॑ति॒ विद्ध्य॑ति द्वि॒तीये॑न द्वि॒तीये॑न॒ विद्ध्य॑ति । 29) विद्ध्य॑ति तृ॒तीये॑न तृ॒तीये॑न॒ विद्ध्य॑ति॒ विद्ध्य॑ति तृ॒तीये॑न । 30) तृ॒तीये॒नेन्द्र॒ इन्द्र॑ स्तृ॒तीये॑न तृ॒तीये॒नेन्द्रः॑ । 31) इन्द्रो॑ वृ॒त्रं-वृँ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् । 32) वृ॒त्रग्ं ह॒त्वा ह॒त्वा वृ॒त्रं-वृँ॒त्रग्ं ह॒त्वा । 33) ह॒त्वा परा॒-म्पराग्ं॑ ह॒त्वा ह॒त्वा परा᳚म् । 34) परा᳚-म्परा॒वत॑-म्परा॒वत॒-म्परा॒-म्परा᳚-म्परा॒वत᳚म् । 35) प॒रा॒वत॑ मगच्छ दगच्छ-त्परा॒वत॑-म्परा॒वत॑ मगच्छत् । 35) प॒रा॒वत॒मिति॑ परा - वत᳚म् । 36) अ॒ग॒च्छ॒ दपापा॑ गच्छ दगच्छ॒ दप॑ । 37) अपा॑ राध मराध॒ मपापा॑ राधम् । 38) अ॒रा॒ध॒ मिती त्य॑राध मराध॒ मिति॑ । 39) इति॒ मन्य॑मानो॒ मन्य॑मान॒ इतीति॒ मन्य॑मानः । 40) मन्य॑मान॒-स्स स मन्य॑मानो॒ मन्य॑मान॒-स्सः । 41) स हरि॑तो॒ हरि॑त॒-स्स स हरि॑तः । 42) हरि॑तो ऽभव दभव॒ द्धरि॑तो॒ हरि॑तो ऽभवत् । 43) अ॒भ॒व॒-थ्स सो॑ ऽभव दभव॒-थ्सः । 44) स ए॒ता ने॒ता-न्थ्स स ए॒तान् । 45) ए॒ता-न्म॑रुत्व॒तीया᳚-न्मरुत्व॒तीया॑ ने॒ता ने॒ता-न्म॑रुत्व॒तीयान्॑ । 46) म॒रु॒त्व॒तीया॑ नात्म॒स्पर॑णा नात्म॒स्पर॑णा-न्मरुत्व॒तीया᳚-न्मरुत्व॒तीया॑ नात्म॒स्पर॑णान् । 47) आ॒त्म॒स्पर॑णा नपश्य दपश्य दात्म॒स्पर॑णा नात्म॒स्पर॑णा नपश्यत् । 47) आ॒त्म॒स्पर॑णा॒नित्या᳚त्म - स्पर॑णान् । 48) अ॒प॒श्य॒-त्ताग् स्ता न॑पश्य दपश्य॒-त्तान् । 49) तान॑गृह्णीता गृह्णीत॒ ताग् स्ता न॑गृह्णीत । 50) अ॒गृ॒ह्णी॒त॒ प्रा॒ण-म्प्रा॒ण म॑गृह्णीता गृह्णीत प्रा॒णम् । ॥ 16 ॥ (50/52)
1) प्रा॒ण मे॒वैव प्रा॒ण-म्प्रा॒ण मे॒व । 1) प्रा॒णमिति॑ प्र - अ॒नम् । 2) ए॒व प्र॑थ॒मेन॑ प्रथ॒मेनै॒ वैव प्र॑थ॒मेन॑ । 3) प्र॒थ॒मेना᳚ स्पृणुता स्पृणुत प्रथ॒मेन॑ प्रथ॒मेना᳚ स्पृणुत । 4) अ॒स्पृ॒णु॒ता॒ पा॒न म॑पा॒न म॑स्पृणुता स्पृणुता पा॒नम् । 5) अ॒पा॒न-न्द्वि॒तीये॑न द्वि॒तीये॑ना पा॒न म॑पा॒न-न्द्वि॒तीये॑न । 5) अ॒पा॒नमित्य॑प - अ॒नम् । 6) द्वि॒तीये॑ ना॒त्मान॑ मा॒त्मान॑-न्द्वि॒तीये॑न द्वि॒तीये॑ ना॒त्मान᳚म् । 7) आ॒त्मान॑-न्तृ॒तीये॑न तृ॒तीये॑ ना॒त्मान॑ मा॒त्मान॑-न्तृ॒तीये॑न । 8) तृ॒तीये॑ नात्म॒स्पर॑णा आत्म॒स्पर॑णा स्तृ॒तीये॑न तृ॒तीये॑ नात्म॒स्पर॑णाः । 9) आ॒त्म॒स्पर॑णा॒ वै वा आ᳚त्म॒स्पर॑णा आत्म॒स्पर॑णा॒ वै । 9) आ॒त्म॒स्पर॑णा॒ इत्या᳚त्म - स्पर॑णाः । 10) वा ए॒त ए॒ते वै वा ए॒ते । 11) ए॒ते यज॑मानस्य॒ यज॑मान स्यै॒त ए॒ते यज॑मानस्य । 12) यज॑मानस्य गृह्यन्ते गृह्यन्ते॒ यज॑मानस्य॒ यज॑मानस्य गृह्यन्ते । 13) गृ॒ह्य॒न्ते॒ य-द्य-द्गृ॑ह्यन्ते गृह्यन्ते॒ यत् । 14) य-न्म॑रुत्व॒तीया॑ मरुत्व॒तीया॒ य-द्य-न्म॑रुत्व॒तीयाः᳚ । 15) म॒रु॒त्व॒तीयाः᳚ प्रा॒ण-म्प्रा॒ण-म्म॑रुत्व॒तीया॑ मरुत्व॒तीयाः᳚ प्रा॒णम् । 16) प्रा॒ण मे॒वैव प्रा॒ण-म्प्रा॒ण मे॒व । 16) प्रा॒णमिति॑ प्र - अ॒नम् । 17) ए॒व प्र॑थ॒मेन॑ प्रथ॒मे नै॒वैव प्र॑थ॒मेन॑ । 18) प्र॒थ॒मेन॑ स्पृणुते स्पृणुते प्रथ॒मेन॑ प्रथ॒मेन॑ स्पृणुते । 19) स्पृ॒णु॒ते॒ ऽपा॒न म॑पा॒नग्ग् स्पृ॑णुते स्पृणुते ऽपा॒नम् । 20) अ॒पा॒न-न्द्वि॒तीये॑न द्वि॒तीये॑ना पा॒न म॑पा॒न-न्द्वि॒तीये॑न । 20) अ॒पा॒नमित्य॑प - अ॒नम् । 21) द्वि॒तीये॑ ना॒त्मान॑ मा॒त्मान॑-न्द्वि॒तीये॑न द्वि॒तीये॑ ना॒त्मान᳚म् । 22) आ॒त्मान॑-न्तृ॒तीये॑न तृ॒तीये॑ ना॒त्मान॑ मा॒त्मान॑-न्तृ॒तीये॑न । 23) तृ॒तीये॒नेन्द्र॒ इन्द्र॑ स्तृ॒तीये॑न तृ॒तीये॒नेन्द्रः॑ । 24) इन्द्रो॑ वृ॒त्रं-वृँ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् । 25) वृ॒त्र म॑ह-न्नहन् वृ॒त्रं-वृँ॒त्र म॑हन्न् । 26) अ॒ह॒-न्त-न्तम॑ह-न्नह॒-न्तम् । 27) त-न्दे॒वा दे॒वा स्त-न्त-न्दे॒वाः । 28) दे॒वा अ॑ब्रुव-न्नब्रुव-न्दे॒वा दे॒वा अ॑ब्रुवन्न् । 29) अ॒ब्रु॒व॒-न्म॒हा-न्म॒हा न॑ब्रुव-न्नब्रुव-न्म॒हान् । 30) म॒हान्. वै वै म॒हा-न्म॒हान्. वै । 31) वा अ॒य म॒यं-वैँ वा अ॒यम् । 32) अ॒य म॑भू दभू द॒य म॒य म॑भूत् । 33) अ॒भू॒-द्यो यो॑ ऽभू दभू॒-द्यः । 34) यो वृ॒त्रं-वृँ॒त्रं-योँ यो वृ॒त्रम् । 35) वृ॒त्र मव॑धी॒ दव॑धी-द्वृ॒त्रं-वृँ॒त्र मव॑धीत् । 36) अव॑धी॒ दितीत्य व॑धी॒ दव॑धी॒ दिति॑ । 37) इति॒ त-त्तदि तीति॒ तत् । 38) त-न्म॑हे॒न्द्रस्य॑ महे॒न्द्रस्य॒ त-त्त-न्म॑हे॒न्द्रस्य॑ । 39) म॒हे॒न्द्रस्य॑ महेन्द्र॒त्व-म्म॑हेन्द्र॒त्व-म्म॑हे॒न्द्रस्य॑ महे॒न्द्रस्य॑ महेन्द्र॒त्वम् । 39) म॒हे॒न्द्रस्येति॑ महा - इ॒न्द्रस्य॑ । 40) म॒हे॒न्द्र॒त्वग्ं स स म॑हेन्द्र॒त्व-म्म॑हेन्द्र॒त्वग्ं सः । 40) म॒हे॒न्द्र॒त्वमिति॑ महेन्द्र - त्वम् । 41) स ए॒त मे॒तग्ं स स ए॒तम् । 42) ए॒त-म्मा॑हे॒न्द्र-म्मा॑हे॒न्द्र मे॒त मे॒त-म्मा॑हे॒न्द्रम् । 43) मा॒हे॒न्द्र मु॑द्धा॒र मु॑द्धा॒र-म्मा॑हे॒न्द्र-म्मा॑हे॒न्द्र मु॑द्धा॒रम् । 43) मा॒हे॒न्द्रमिति॑ माहा - इ॒न्द्रम् । 44) उ॒द्धा॒र मुदु दु॑द्धा॒र मु॑द्धा॒र मुत् । 44) उ॒द्धा॒रमित्यु॑त् - हा॒रम् । 45) उद॑हरता हर॒तो दुद॑ हरत । 46) अ॒ह॒र॒त॒ वृ॒त्रं-वृँ॒त्र म॑हरता हरत वृ॒त्रम् । 47) वृ॒त्रग्ं ह॒त्वा ह॒त्वा वृ॒त्रं-वृँ॒त्रग्ं ह॒त्वा । 48) ह॒त्वा ऽन्या स्व॒न्यासु॑ ह॒त्वा ह॒त्वा ऽन्यासु॑ । 49) अ॒न्यासु॑ दे॒वता॑सु दे॒वता᳚ स्व॒न्या स्व॒न्यासु॑ दे॒वता॑सु । 50) दे॒वता॒ स्वध्यधि॑ दे॒वता॑सु दे॒वता॒ स्वधि॑ । 51) अधि॒ य-द्यदध्यधि॒ यत् । 52) य-न्मा॑हे॒न्द्रो मा॑हे॒न्द्रो य-द्य-न्मा॑हे॒न्द्रः । 53) मा॒हे॒न्द्रो गृ॒ह्यते॑ गृ॒ह्यते॑ माहे॒न्द्रो मा॑हे॒न्द्रो गृ॒ह्यते᳚ । 53) मा॒हे॒न्द्र इति॑ माहा - इ॒न्द्रः । 54) गृ॒ह्यत॑ उद्धा॒र मु॑द्धा॒र-ङ्गृ॒ह्यते॑ गृ॒ह्यत॑ उद्धा॒रम् । 55) उ॒द्धा॒र मे॒वै वोद्धा॒र मु॑द्धा॒र मे॒व । 55) उ॒द्धा॒रमित्यु॑त् - हा॒रम् । 56) ए॒व त-न्त मे॒वैव तम् । 57) तं-यँज॑मानो॒ यज॑मान॒ स्त-न्तं-यँज॑मानः । 58) यज॑मान॒ उदु-द्यज॑मानो॒ यज॑मान॒ उत् । 59) उद्ध॑रते हरत॒ उदुद्ध॑रते । 60) ह॒र॒ते॒ ऽन्या स्व॒न्यासु॑ हरते हरते॒ ऽन्यासु॑ । 61) अ॒न्यासु॑ प्र॒जासु॑ प्र॒जा स्व॒न्या स्व॒न्यासु॑ प्र॒जासु॑ । 62) प्र॒जा स्वध्यधि॑ प्र॒जासु॑ प्र॒जा स्वधि॑ । 62) प्र॒जास्विति॑ प्र - जासु॑ । 63) अधि॑ शुक्रपा॒त्रेण॑ शुक्रपा॒त्रेणा ध्यधि॑ शुक्रपा॒त्रेण॑ । 64) शु॒क्र॒पा॒त्रेण॑ गृह्णाति गृह्णाति शुक्रपा॒त्रेण॑ शुक्रपा॒त्रेण॑ गृह्णाति । 64) शु॒क्र॒पा॒त्रेणेति॑ शुक्र - पा॒त्रेण॑ । 65) गृ॒ह्णा॒ति॒ य॒ज॒मा॒न॒दे॒व॒त्यो॑ यजमानदेव॒त्यो॑ गृह्णाति गृह्णाति यजमानदेव॒त्यः॑ । 66) य॒ज॒मा॒न॒दे॒व॒त्यो॑ वै वै य॑जमानदेव॒त्यो॑ यजमानदेव॒त्यो॑ वै । 66) य॒ज॒मा॒न॒दे॒व॒त्य॑ इति॑ यजमान - दे॒व॒त्यः॑ । 67) वै मा॑हे॒न्द्रो मा॑हे॒न्द्रो वै वै मा॑हे॒न्द्रः । 68) मा॒हे॒न्द्र स्तेज॒ स्तेजो॑ माहे॒न्द्रो मा॑हे॒न्द्र स्तेजः॑ । 68) मा॒हे॒न्द्र इति॑ माहा - इ॒न्द्रः । 69) तेज॑-श्शु॒क्र-श्शु॒क्र स्तेज॒ स्तेज॑-श्शु॒क्रः । 70) शु॒क्रो य-द्यच् छु॒क्र-श्शु॒क्रो यत् । 71) य-न्मा॑हे॒न्द्र-म्मा॑हे॒न्द्रं-यँ-द्य-न्मा॑हे॒न्द्रम् । 72) मा॒हे॒न्द्रग्ं शु॑क्रपा॒त्रेण॑ शुक्रपा॒त्रेण॑ माहे॒न्द्र-म्मा॑हे॒न्द्रग्ं शु॑क्रपा॒त्रेण॑ । 72) मा॒हे॒न्द्रमिति॑ माहा - इ॒न्द्रम् । 73) शु॒क्र॒पा॒त्रेण॑ गृ॒ह्णाति॑ गृ॒ह्णाति॑ शुक्रपा॒त्रेण॑ शुक्रपा॒त्रेण॑ गृ॒ह्णाति॑ । 73) शु॒क्र॒पा॒त्रेणेति॑ शुक्र - पा॒त्रेण॑ । 74) गृ॒ह्णाति॒ यज॑माने॒ यज॑माने गृ॒ह्णाति॑ गृ॒ह्णाति॒ यज॑माने । 75) यज॑मान ए॒वैव यज॑माने॒ यज॑मान ए॒व । 76) ए॒व तेज॒ स्तेज॑ ए॒वैव तेजः॑ । 77) तेजो॑ दधाति दधाति॒ तेज॒ स्तेजो॑ दधाति । 78) द॒धा॒तीति॑ दधाति । ॥ 17 ॥ (78/95) ॥ अ. 5 ॥
1) अदि॑तिः पु॒त्रका॑मा पु॒त्रका॒मा ऽदि॑ति॒ रदि॑तिः पु॒त्रका॑मा । 2) पु॒त्रका॑मा सा॒द्ध्येभ्य॑-स्सा॒द्ध्येभ्यः॑ पु॒त्रका॑मा पु॒त्रका॑मा सा॒द्ध्येभ्यः॑ । 2) पु॒त्रका॒मेति॑ पु॒त्र - का॒मा॒ । 3) सा॒द्ध्येभ्यो॑ दे॒वेभ्यो॑ दे॒वेभ्य॑-स्सा॒द्ध्येभ्य॑-स्सा॒द्ध्येभ्यो॑ दे॒वेभ्यः॑ । 4) दे॒वेभ्यो᳚ ब्रह्मौद॒न-म्ब्र॑ह्मौद॒न-न्दे॒वेभ्यो॑ दे॒वेभ्यो᳚ ब्रह्मौद॒नम् । 5) ब्र॒ह्मौ॒द॒न म॑पच दपच-द्ब्रह्मौद॒न-म्ब्र॑ह्मौद॒न म॑पचत् । 5) ब्र॒ह्मौ॒द॒नमिति॑ ब्रह्म - ओ॒द॒नम् । 6) अ॒प॒च॒-त्तस्यै॒ तस्या॑ अपच दपच॒-त्तस्यै᳚ । 7) तस्या॑ उ॒च्छेष॑ण मु॒च्छेष॑ण॒-न्तस्यै॒ तस्या॑ उ॒च्छेष॑णम् । 8) उ॒च्छेष॑ण मददु रददु रु॒च्छेष॑ण मु॒च्छेष॑ण मददुः । 8) उ॒च्छेष॑ण॒मित्यु॑त् - शेष॑णम् । 9) अ॒द॒दु॒ स्त-त्तद॑ ददु रददु॒ स्तत् । 10) त-त्प्र प्र त-त्त-त्प्र । 11) प्राश्ञा॑ दाश्ञा॒-त्प्र प्राश्ञा᳚त् । 12) आ॒श्ञा॒-थ्सा सा ऽऽश्ञा॑ दाश्ञा॒-थ्सा । 13) सा रेतो॒ रेत॒-स्सा सा रेतः॑ । 14) रेतो॑ ऽधत्ता धत्त॒ रेतो॒ रेतो॑ ऽधत्त । 15) अ॒ध॒त्त॒ तस्यै॒ तस्या॑ अधत्ता धत्त॒ तस्यै᳚ । 16) तस्यै॑ च॒त्वार॑ श्च॒त्वार॒ स्तस्यै॒ तस्यै॑ च॒त्वारः॑ । 17) च॒त्वार॑ आदि॒त्या आ॑दि॒त्या श्च॒त्वार॑ श्च॒त्वार॑ आदि॒त्याः । 18) आ॒दि॒त्या अ॑जायन्ता जायन्ता दि॒त्या आ॑दि॒त्या अ॑जायन्त । 19) अ॒जा॒य॒न्त॒ सा सा ऽजा॑यन्ता जायन्त॒ सा । 20) सा द्वि॒तीय॑-न्द्वि॒तीय॒ग्ं॒ सा सा द्वि॒तीय᳚म् । 21) द्वि॒तीय॑ मपच दपच-द्द्वि॒तीय॑-न्द्वि॒तीय॑ मपचत् । 22) अ॒प॒च॒-थ्सा सा ऽप॑च दपच॒-थ्सा । 23) सा ऽम॑न्यता मन्यत॒ सा सा ऽम॑न्यत । 24) अ॒म॒न्य॒ तो॒च्छेष॑णा दु॒च्छेष॑णा दमन्यता मन्य तो॒च्छेष॑णात् । 25) उ॒च्छेष॑णा-न्मे म उ॒च्छेष॑णा दु॒च्छेष॑णा-न्मे । 25) उ॒च्छेष॑णा॒दित्यु॑त् - शेष॑णात् । 26) म॒ इ॒म इ॒मे मे॑ म इ॒मे । 27) इ॒मे᳚ ऽज्ञता ज्ञते॒ म इ॒मे᳚ ऽज्ञत । 28) अ॒ज्ञ॒त॒ य-द्यद॑ज्ञता ज्ञत॒ यत् । 29) यदग्रे ऽग्रे॒ य-द्यदग्रे᳚ । 30) अग्रे᳚ प्राशि॒ष्यामि॑ प्राशि॒ष्या म्यग्रे ऽग्रे᳚ प्राशि॒ष्यामि॑ । 31) प्रा॒शि॒ष्या मी॒त इ॒तः प्रा॑शि॒ष्यामि॑ प्राशि॒ष्या मी॒तः । 31) प्रा॒शि॒ष्यामीति॑ प्र - अ॒शि॒ष्यामि॑ । 32) इ॒तो मे॑ म इ॒त इ॒तो मे᳚ । 33) मे॒ वसी॑याग्ंसो॒ वसी॑याग्ंसो मे मे॒ वसी॑याग्ंसः । 34) वसी॑याग्ंसो जनिष्यन्ते जनिष्यन्ते॒ वसी॑याग्ंसो॒ वसी॑याग्ंसो जनिष्यन्ते । 35) ज॒नि॒ष्य॒न्त॒ इतीति॑ जनिष्यन्ते जनिष्यन्त॒ इति॑ । 36) इति॒ सा सेतीति॒ सा । 37) सा ऽग्रे ऽग्रे॒ सा सा ऽग्रे᳚ । 38) अग्रे॒ प्र प्राग्रे ऽग्रे॒ प्र । 39) प्राश्ञा॑ दाश्ञा॒-त्प्र प्राश्ञा᳚त् । 40) आ॒श्ञा॒-थ्सा सा ऽऽश्ञा॑ दाश्ञा॒-थ्सा । 41) सा रेतो॒ रेत॒-स्सा सा रेतः॑ । 42) रेतो॑ ऽधत्ता धत्त॒ रेतो॒ रेतो॑ ऽधत्त । 43) अ॒ध॒त्त॒ तस्यै॒ तस्या॑ अधत्ता धत्त॒ तस्यै᳚ । 44) तस्यै॒ व्यृ॑द्धं॒-व्यृँ॑द्ध॒-न्तस्यै॒ तस्यै॒ व्यृ॑द्धम् । 45) व्यृ॑द्ध मा॒ण्ड मा॒ण्डं-व्यृँ॑द्धं॒-व्यृँ॑द्ध मा॒ण्डम् । 45) व्यृ॑द्ध॒मिति॒ वि - ऋ॒द्ध॒म् । 46) आ॒ण्ड म॑जायता जायता॒ ण्ड मा॒ण्ड म॑जायत । 47) अ॒जा॒य॒त॒ सा सा ऽजा॑यता जायत॒ सा । 48) सा ऽऽदि॒त्येभ्य॑ आदि॒त्येभ्य॒-स्सा सा ऽऽदि॒त्येभ्यः॑ । 49) आ॒दि॒त्येभ्य॑ ए॒वै वादि॒त्येभ्य॑ आदि॒त्येभ्य॑ ए॒व । 50) ए॒व तृ॒तीय॑-न्तृ॒तीय॑ मे॒वैव तृ॒तीय᳚म् । ॥ 18 ॥ (50/56)
1) तृ॒तीय॑ मपच दपच-त्तृ॒तीय॑-न्तृ॒तीय॑ मपचत् । 2) अ॒प॒च॒-द्भोगा॑य॒ भोगा॑या पच दपच॒-द्भोगा॑य । 3) भोगा॑य मे मे॒ भोगा॑य॒ भोगा॑य मे । 4) म॒ इ॒द मि॒द-म्मे॑ म इ॒दम् । 5) इ॒दग्ग् श्रा॒न्तग्ग् श्रा॒न्त मि॒द मि॒दग्ग् श्रा॒न्तम् । 6) श्रा॒न्त म॑स्त्वस्तु श्रा॒न्तग्ग् श्रा॒न्त म॑स्तु । 7) अ॒स्त्वि तीत्य॑स्त्व॒ स्त्विति॑ । 8) इति॒ ते त इतीति॒ ते । 9) ते᳚ ऽब्रुव-न्नब्रुव॒-न्ते ते᳚ ऽब्रुवन्न् । 10) अ॒ब्रु॒व॒न्॒. वरं॒-वँर॑ मब्रुव-न्नब्रुव॒न्॒. वर᳚म् । 11) वरं॑-वृँणामहै वृणामहै॒ वरं॒-वँरं॑-वृँणामहै । 12) वृ॒णा॒म॒है॒ यो यो वृ॑णामहै वृणामहै॒ यः । 13) यो ऽतो ऽतो॒ यो यो ऽतः॑ । 14) अतो॒ जाया॑तै॒ जाया॑ता॒ अतो ऽतो॒ जाया॑तै । 15) जाया॑ता अ॒स्माक॑ म॒स्माक॒-ञ्जाया॑तै॒ जाया॑ता अ॒स्माक᳚म् । 16) अ॒स्माक॒ग्ं॒ स सो᳚ ऽस्माक॑ म॒स्माक॒ग्ं॒ सः । 17) स एक॒ एक॒-स्स स एकः॑ । 18) एको॑ ऽस दस॒ देक॒ एको॑ ऽसत् । 19) अ॒स॒-द्यो यो॑ ऽस दस॒-द्यः । 20) यो᳚ ऽस्यास्य॒ यो यो᳚ ऽस्य । 21) अ॒स्य॒ प्र॒जाया᳚-म्प्र॒जाया॑ मस्यास्य प्र॒जाया᳚म् । 22) प्र॒जाया॒ मृद्ध्या॑ता॒ ऋद्ध्या॑तै प्र॒जाया᳚-म्प्र॒जाया॒ मृद्ध्या॑तै । 22) प्र॒जाया॒मिति॑ प्र - जाया᳚म् । 23) ऋद्ध्या॑ता अ॒स्माक॑ म॒स्माक॒ मृद्ध्या॑ता॒ ऋद्ध्या॑ता अ॒स्माक᳚म् । 24) अ॒स्माक॒-म्भोगा॑य॒ भोगा॑या॒ स्माक॑ म॒स्माक॒-म्भोगा॑य । 25) भोगा॑य भवा-द्भवा॒-द्भोगा॑य॒ भोगा॑य भवात् । 26) भ॒वा॒ दितीति॑ भवा-द्भवा॒ दिति॑ । 27) इति॒ तत॒ स्तत॒ इतीति॒ ततः॑ । 28) ततो॒ विव॑स्वा॒न्॒. विव॑स्वा॒-न्तत॒ स्ततो॒ विव॑स्वान् । 29) विव॑स्वा नादि॒त्य आ॑दि॒त्यो विव॑स्वा॒न्॒. विव॑स्वा नादि॒त्यः । 30) आ॒दि॒त्यो॑ ऽजायता जायता दि॒त्य आ॑दि॒त्यो॑ ऽजायत । 31) अ॒जा॒य॒त॒ तस्य॒ तस्या॑ जायता जायत॒ तस्य॑ । 32) तस्य॒ वै वै तस्य॒ तस्य॒ वै । 33) वा इ॒य मि॒यं-वैँ वा इ॒यम् । 34) इ॒य-म्प्र॒जा प्र॒जेय मि॒य-म्प्र॒जा । 35) प्र॒जा य-द्य-त्प्र॒जा प्र॒जा यत् । 35) प्र॒जेति॑ प्र - जा । 36) य-न्म॑नु॒ष्या॑ मनु॒ष्या॑ य-द्य-न्म॑नु॒ष्याः᳚ । 37) म॒नु॒ष्या᳚ स्तासु॒ तासु॑ मनु॒ष्या॑ मनु॒ष्या᳚ स्तासु॑ । 38) तास्वेक॒ एक॒ स्तासु॒ तास्वेकः॑ । 39) एक॑ ए॒वै वैक॒ एक॑ ए॒व । 40) ए॒व र्द्ध ऋ॒द्ध ए॒वैव र्द्धः । 41) ऋ॒द्धो यो य ऋ॒द्ध ऋ॒द्धो यः । 42) यो यज॑ते॒ यज॑ते॒ यो यो यज॑ते । 43) यज॑ते॒ स स यज॑ते॒ यज॑ते॒ सः । 44) स दे॒वाना᳚-न्दे॒वाना॒ग्ं॒ स स दे॒वाना᳚म् । 45) दे॒वाना॒-म्भोगा॑य॒ भोगा॑य दे॒वाना᳚-न्दे॒वाना॒-म्भोगा॑य । 46) भोगा॑य भवति भवति॒ भोगा॑य॒ भोगा॑य भवति । 47) भ॒व॒ति॒ दे॒वा दे॒वा भ॑वति भवति दे॒वाः । 48) दे॒वा वै वै दे॒वा दे॒वा वै । 49) वै य॒ज्ञा-द्य॒ज्ञा-द्वै वै य॒ज्ञात् । 50) य॒ज्ञा-द्रु॒द्रग्ं रु॒द्रं-यँ॒ज्ञा-द्य॒ज्ञा-द्रु॒द्रम् । ॥ 19 ॥ (50/52)
1) रु॒द्र म॒न्त र॒न्ता रु॒द्रग्ं रु॒द्र म॒न्तः । 2) अ॒न्त रा॑य-न्नाय-न्न॒न्त र॒न्त रा॑यन्न् । 3) आ॒य॒-न्थ्स स आ॑य-न्नाय॒-न्थ्सः । 4) स आ॑दि॒त्या ना॑दि॒त्या-न्थ्स स आ॑दि॒त्यान् । 5) आ॒दि॒त्या न॒न्वाक्र॑मता॒ न्वाक्र॑म तादि॒त्या ना॑दि॒त्या न॒न्वाक्र॑मत । 6) अ॒न्वाक्र॑मत॒ ते ते᳚ ऽन्वाक्र॑मता॒ न्वाक्र॑मत॒ ते । 6) अ॒न्वाक्र॑म॒तेत्य॑नु - आक्र॑मत । 7) ते द्वि॑देव॒त्या᳚-न्द्विदेव॒त्या᳚-न्ते ते द्वि॑देव॒त्यान्॑ । 8) द्वि॒दे॒व॒त्या᳚-न्प्र प्र द्वि॑देव॒त्या᳚-न्द्विदेव॒त्या᳚-न्प्र । 8) द्वि॒दे॒व॒त्या॑निति॑ द्वि - दे॒व॒त्यान्॑ । 9) प्राप॑द्यन्ता पद्यन्त॒ प्र प्राप॑द्यन्त । 10) अ॒प॒द्य॒न्त॒ ताग् स्ता न॑पद्यन्ता पद्यन्त॒ तान् । 11) ता-न्न न ताग् स्ता-न्न । 12) न प्रति॒ प्रति॒ न न प्रति॑ । 13) प्रति॒ प्र प्र प्रति॒ प्रति॒ प्र । 14) प्राय॑च्छ-न्नयच्छ॒-न्प्र प्राय॑च्छन्न् । 15) अ॒य॒च्छ॒-न्तस्मा॒-त्तस्मा॑ दयच्छ-न्नयच्छ॒-न्तस्मा᳚त् । 16) तस्मा॒ दप्यपि॒ तस्मा॒-त्तस्मा॒ दपि॑ । 17) अपि॒ वद्ध्यं॒-वँद्ध्य॒ मप्यपि॒ वद्ध्य᳚म् । 18) वद्ध्य॒-म्प्रप॑न्न॒-म्प्रप॑न्नं॒-वँद्ध्यं॒-वँद्ध्य॒-म्प्रप॑न्नम् । 19) प्रप॑न्न॒-न्न न प्रप॑न्न॒-म्प्रप॑न्न॒-न्न । 19) प्रप॑न्न॒मिति॒ प्र - प॒न्न॒म् । 20) न प्रति॒ प्रति॒ न न प्रति॑ । 21) प्रति॒ प्र प्र प्रति॒ प्रति॒ प्र । 22) प्र य॑च्छन्ति यच्छन्ति॒ प्र प्र य॑च्छन्ति । 23) य॒च्छ॒न्ति॒ तस्मा॒-त्तस्मा᳚-द्यच्छन्ति यच्छन्ति॒ तस्मा᳚त् । 24) तस्मा᳚-द्द्विदेव॒त्ये᳚भ्यो द्विदेव॒त्ये᳚भ्य॒ स्तस्मा॒-त्तस्मा᳚-द्द्विदेव॒त्ये᳚भ्यः । 25) द्वि॒दे॒व॒त्ये᳚भ्य आदि॒त्य आ॑दि॒त्यो द्वि॑देव॒त्ये᳚भ्यो द्विदेव॒त्ये᳚भ्य आदि॒त्यः । 25) द्वि॒दे॒व॒त्ये᳚भ्य॒ इति॑ द्वि - दे॒व॒त्ये᳚भ्यः । 26) आ॒दि॒त्यो नि-र्णिरा॑दि॒त्य आ॑दि॒त्यो निः । 27) नि-र्गृ॑ह्यते गृह्यते॒ नि-र्णि-र्गृ॑ह्यते । 28) गृ॒ह्य॒ते॒ य-द्य-द्गृ॑ह्यते गृह्यते॒ यत् । 29) यदु॒च्छेष॑णा दु॒च्छेष॑णा॒-द्य-द्यदु॒च्छेष॑णात् । 30) उ॒च्छेष॑णा॒ दजा॑य॒न्ता जा॑य न्तो॒च्छेष॑णा दु॒च्छेष॑णा॒ दजा॑यन्त । 30) उ॒च्छेष॑णा॒दित्यु॑त् - शेष॑णात् । 31) अजा॑यन्त॒ तस्मा॒-त्तस्मा॒ दजा॑य॒न्ता जा॑यन्त॒ तस्मा᳚त् । 32) तस्मा॑ दु॒च्छेष॑णा दु॒च्छेष॑णा॒-त्तस्मा॒-त्तस्मा॑ दु॒च्छेष॑णात् । 33) उ॒च्छेष॑णा-द्गृह्यते गृह्यत उ॒च्छेष॑णा दु॒च्छेष॑णा-द्गृह्यते । 33) उ॒च्छेष॑णा॒दित्यु॑त् - शेष॑णात् । 34) गृ॒ह्य॒ते॒ ति॒सृभि॑ स्ति॒सृभि॑-र्गृह्यते गृह्यते ति॒सृभिः॑ । 35) ति॒सृभिर्॑. ऋ॒ग्भिर्-ऋ॒ग्भि स्ति॒सृभि॑ स्ति॒सृभिर्॑. ऋ॒ग्भिः । 35) ति॒सृभि॒रिति॑ ति॒सृ - भिः॒ । 36) ऋ॒ग्भि-र्गृ॑ह्णाति गृह्णा त्यृ॒ग्भिर्-ऋ॒ग्भि-र्गृ॑ह्णाति । 36) ऋ॒ग्भिरित्यृ॑क् - भिः । 37) गृ॒ह्णा॒ति॒ मा॒ता मा॒ता गृ॑ह्णाति गृह्णाति मा॒ता । 38) मा॒ता पि॒ता पि॒ता मा॒ता मा॒ता पि॒ता । 39) पि॒ता पु॒त्रः पु॒त्रः पि॒ता पि॒ता पु॒त्रः । 40) पु॒त्र स्त-त्त-त्पु॒त्रः पु॒त्र स्तत् । 41) तदे॒ वैव त-त्तदे॒व । 42) ए॒व त-त्तदे॒ वैव तत् । 43) त-न्मि॑थु॒न-म्मि॑थु॒न-न्त-त्त-न्मि॑थु॒नम् । 44) मि॒थु॒न मुल्ब॒ मुल्ब॑-म्मिथु॒न-म्मि॑थु॒न मुल्ब᳚म् । 45) उल्ब॒-ङ्गर्भो॒ गर्भ॒ उल्ब॒ मुल्ब॒-ङ्गर्भः॑ । 46) गर्भो॑ ज॒रायु॑ ज॒रायु॒ गर्भो॒ गर्भो॑ ज॒रायु॑ । 47) ज॒रायु॒ त-त्तज् ज॒रायु॑ ज॒रायु॒ तत् । 48) तदे॒ वैव त-त्तदे॒व । 49) ए॒व त-त्तदे॒ वैव तत् । 50) त-न्मि॑थु॒न-म्मि॑थु॒न-न्त-त्त-न्मि॑थु॒नम् । ॥ 20 ॥ (50/58)
1) मि॒थु॒न-म्प॒शवः॑ प॒शवो॑ मिथु॒न-म्मि॑थु॒न-म्प॒शवः॑ । 2) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै । 3) वा ए॒त ए॒ते वै वा ए॒ते । 4) ए॒ते य-द्यदे॒त ए॒ते यत् । 5) यदा॑दि॒त्य आ॑दि॒त्यो य-द्यदा॑दि॒त्यः । 6) आ॒दि॒त्य ऊर्गू-र्गा॑दि॒त्य आ॑दि॒त्य ऊर्क् । 7) ऊर्ग् दधि॒ दध्यू-र्गूर्ग् दधि॑ । 8) दधि॑ द॒द्ध्ना द॒द्ध्ना दधि॒ दधि॑ द॒द्ध्ना । 9) द॒द्ध्ना म॑द्ध्य॒तो म॑द्ध्य॒तो द॒द्ध्ना द॒द्ध्ना म॑द्ध्य॒तः । 10) म॒द्ध्य॒त-श्श्री॑णाति श्रीणाति मद्ध्य॒तो म॑द्ध्य॒त-श्श्री॑णाति । 11) श्री॒णा॒ त्यूर्ज॒ मूर्जग्ग्॑ श्रीणाति श्रीणा॒ त्यूर्ज᳚म् । 12) ऊर्ज॑ मे॒वै वोर्ज॒ मूर्ज॑ मे॒व । 13) ए॒व प॑शू॒ना-म्प॑शू॒ना मे॒वैव प॑शू॒नाम् । 14) प॒शू॒ना-म्म॑द्ध्य॒तो म॑द्ध्य॒तः प॑शू॒ना-म्प॑शू॒ना-म्म॑द्ध्य॒तः । 15) म॒द्ध्य॒तो द॑धाति दधाति मद्ध्य॒तो म॑द्ध्य॒तो द॑धाति । 16) द॒धा॒ति॒ शृ॒ता॒त॒ङ्क्ये॑न शृतात॒ङ्क्ये॑न दधाति दधाति शृतात॒ङ्क्ये॑न । 17) शृ॒ता॒त॒ङ्क्ये॑न मेद्ध्य॒त्वाय॑ मेद्ध्य॒त्वाय॑ शृतात॒ङ्क्ये॑न शृतात॒ङ्क्ये॑न मेद्ध्य॒त्वाय॑ । 17) शृ॒ता॒त॒ङ्क्ये॑नेति॑ शृत - आ॒त॒ङ्क्ये॑न । 18) मे॒द्ध्य॒त्वाय॒ तस्मा॒-त्तस्मा᳚-न्मेद्ध्य॒त्वाय॑ मेद्ध्य॒त्वाय॒ तस्मा᳚त् । 18) मे॒द्ध्य॒त्वायेति॑ मेद्ध्य - त्वाय॑ । 19) तस्मा॑ दा॒मा ऽऽमा तस्मा॒-त्तस्मा॑ दा॒मा । 20) आ॒मा प॒क्व-म्प॒क्व मा॒मा ऽऽमा प॒क्वम् । 21) प॒क्व-न्दु॑हे दुहे प॒क्व-म्प॒क्व-न्दु॑हे । 22) दु॒हे॒ प॒शवः॑ प॒शवो॑ दुहे दुहे प॒शवः॑ । 23) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै । 24) वा ए॒त ए॒ते वै वा ए॒ते । 25) ए॒ते य-द्यदे॒त ए॒ते यत् । 26) यदा॑दि॒त्य आ॑दि॒त्यो य-द्यदा॑दि॒त्यः । 27) आ॒दि॒त्यः प॑रि॒श्रित्य॑ परि॒श्रि त्या॑दि॒त्य आ॑दि॒त्यः प॑रि॒श्रित्य॑ । 28) प॒रि॒श्रित्य॑ गृह्णाति गृह्णाति परि॒श्रित्य॑ परि॒श्रित्य॑ गृह्णाति । 28) प॒रि॒श्रित्येति॑ परि - श्रित्य॑ । 29) गृ॒ह्णा॒ति॒ प्र॒ति॒रुद्ध्य॑ प्रति॒रुद्ध्य॑ गृह्णाति गृह्णाति प्रति॒रुद्ध्य॑ । 30) प्र॒ति॒रुद्ध्यै॒वैव प्र॑ति॒रुद्ध्य॑ प्रति॒रुद्ध् यै॒व । 30) प्र॒ति॒रुद्ध्येति॑ प्रति - रुद्ध्य॑ । 31) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 32) अ॒स्मै॒ प॒शू-न्प॒शू न॑स्मा अस्मै प॒शून् । 33) प॒शू-न्गृ॑ह्णाति गृह्णाति प॒शू-न्प॒शू-न्गृ॑ह्णाति । 34) गृ॒ह्णा॒ति॒ प॒शवः॑ प॒शवो॑ गृह्णाति गृह्णाति प॒शवः॑ । 35) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै । 36) वा ए॒त ए॒ते वै वा ए॒ते । 37) ए॒ते य-द्यदे॒त ए॒ते यत् । 38) यदा॑दि॒त्य आ॑दि॒त्यो य-द्यदा॑दि॒त्यः । 39) आ॒दि॒त्य ए॒ष ए॒ष आ॑दि॒त्य आ॑दि॒त्य ए॒षः । 40) ए॒ष रु॒द्रो रु॒द्र ए॒ष ए॒ष रु॒द्रः । 41) रु॒द्रो य-द्य-द्रु॒द्रो रु॒द्रो यत् । 42) यद॒ग्नि र॒ग्नि-र्य-द्यद॒ग्निः । 43) अ॒ग्निः प॑रि॒श्रित्य॑ परि॒श्रि त्या॒ग्नि र॒ग्निः प॑रि॒श्रित्य॑ । 44) प॒रि॒श्रित्य॑ गृह्णाति गृह्णाति परि॒श्रित्य॑ परि॒श्रित्य॑ गृह्णाति । 44) प॒रि॒श्रित्येति॑ परि - श्रित्य॑ । 45) गृ॒ह्णा॒ति॒ रु॒द्रा-द्रु॒द्रा-द्गृ॑ह्णाति गृह्णाति रु॒द्रात् । 46) रु॒द्रा दे॒वैव रु॒द्रा-द्रु॒द्रा दे॒व । 47) ए॒व प॒शू-न्प॒शूने॒ वैव प॒शून् । 48) प॒शू न॒न्त र॒न्तः प॒शू-न्प॒शू न॒न्तः । 49) अ॒न्त-र्द॑धाति दधा त्य॒न्त र॒न्त-र्द॑धाति । 50) द॒धा॒ त्ये॒ष ए॒ष द॑धाति दधा त्ये॒षः । ॥ 21 ॥ (50/55)
1) ए॒ष वै वा ए॒ष ए॒ष वै । 2) वै विव॑स्वा॒न्॒. विव॑स्वा॒न्॒. वै वै विव॑स्वान् । 3) विव॑स्वा नादि॒त्य आ॑दि॒त्यो विव॑स्वा॒न्॒. विव॑स्वा नादि॒त्यः । 4) आ॒दि॒त्यो य-द्यदा॑दि॒त्य आ॑दि॒त्यो यत् । 5) यदु॑पाग्ंशु॒सव॑न उपाग्ंशु॒सव॑नो॒ य-द्यदु॑पाग्ंशु॒सव॑नः । 6) उ॒पा॒ग्ं॒शु॒सव॑न॒-स्स स उ॑पाग्ंशु॒सव॑न उपाग्ंशु॒सव॑न॒-स्सः । 6) उ॒पा॒ग्ं॒शु॒सव॑न॒ इत्यु॑पाग्ंशु - सव॑नः । 7) स ए॒त मे॒तग्ं स स ए॒तम् । 8) ए॒त मे॒वै वैत मे॒त मे॒व । 9) ए॒व सो॑मपी॒थग्ं सो॑मपी॒थ मे॒वैव सो॑मपी॒थम् । 10) सो॒म॒पी॒थ-म्परि॒ परि॑ सोमपी॒थग्ं सो॑मपी॒थ-म्परि॑ । 10) सो॒म॒पी॒थमिति॑ सोम - पी॒थम् । 11) परि॑ शये शये॒ परि॒ परि॑ शये । 12) श॒य॒ आ श॑ये शय॒ आ । 13) आ तृ॑तीयसव॒ना-त्तृ॑तीयसव॒नादा तृ॑तीयसव॒नात् । 14) तृ॒ती॒य॒स॒व॒ना-द्विव॑स्वो॒ विव॑स्व स्तृतीयसव॒ना-त्तृ॑तीयसव॒ना-द्विव॑स्वः । 14) तृ॒ती॒य॒स॒व॒नादिति॑ तृतीय - स॒व॒नात् । 15) विव॑स्व आदित्या दित्य॒ विव॑स्वो॒ विव॑स्व आदित्य । 16) आ॒दि॒ त्यै॒ष ए॒ष आ॑दित्या दित्यै॒षः । 17) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 18) ते॒ सो॒म॒पी॒थ-स्सो॑मपी॒थ स्ते॑ ते सोमपी॒थः । 19) सो॒म॒पी॒थ इतीति॑ सोमपी॒थ-स्सो॑मपी॒थ इति॑ । 19) सो॒म॒पी॒थ इति॑ सोम - पी॒थः । 20) इत्या॑हा॒हे तीत्या॑ह । 21) आ॒ह॒ विव॑स्वन्तं॒-विँव॑स्वन्त माहाह॒ विव॑स्वन्तम् । 22) विव॑स्वन्त मे॒वैव विव॑स्वन्तं॒-विँव॑स्वन्त मे॒व । 23) ए॒वादि॒त्य मा॑दि॒त्य मे॒वै वादि॒त्यम् । 24) आ॒दि॒त्यग्ं सो॑मपी॒थेन॑ सोमपी॒थे ना॑दि॒त्य मा॑दि॒त्यग्ं सो॑मपी॒थेन॑ । 25) सो॒म॒पी॒थेन॒ सग्ं सग्ं सो॑मपी॒थेन॑ सोमपी॒थेन॒ सम् । 25) सो॒म॒पी॒थेनेति॑ सोम - पी॒थेन॑ । 26) स म॑र्धय त्यर्धयति॒ सग्ं स म॑र्धयति । 27) अ॒र्ध॒य॒ति॒ या या ऽर्ध॑य त्यर्धयति॒ या । 28) या दि॒व्या दि॒व्या या या दि॒व्या । 29) दि॒व्या वृष्टि॒-र्वृष्टि॑-र्दि॒व्या दि॒व्या वृष्टिः॑ । 30) वृष्टि॒ स्तया॒ तया॒ वृष्टि॒-र्वृष्टि॒ स्तया᳚ । 31) तया᳚ त्वा त्वा॒ तया॒ तया᳚ त्वा । 32) त्वा॒ श्री॒णा॒मि॒ श्री॒णा॒मि॒ त्वा॒ त्वा॒ श्री॒णा॒मि॒ । 33) श्री॒णा॒ मीतीति॑ श्रीणामि श्रीणा॒ मीति॑ । 34) इति॒ वृष्टि॑कामस्य॒ वृष्टि॑काम॒ स्येतीति॒ वृष्टि॑कामस्य । 35) वृष्टि॑कामस्य श्रीणीयाच् छ्रीणीया॒-द्वृष्टि॑कामस्य॒ वृष्टि॑कामस्य श्रीणीयात् । 35) वृष्टि॑काम॒स्येति॒ वृष्टि॑ - का॒म॒स्य॒ । 36) श्री॒णी॒या॒-द्वृष्टिं॒-वृँष्टिग्ग्॑ श्रीणीयाच् छ्रीणीया॒-द्वृष्टि᳚म् । 37) वृष्टि॑ मे॒वैव वृष्टिं॒-वृँष्टि॑ मे॒व । 38) ए॒वावा वै॒वै वाव॑ । 39) अव॑ रुन्धे रु॒न्धे ऽवाव॑ रुन्धे । 40) रु॒न्धे॒ यदि॒ यदि॑ रुन्धे रुन्धे॒ यदि॑ । 41) यदि॑ ता॒ज-क्ता॒जग् यदि॒ यदि॑ ता॒जक् । 42) ता॒ज-क्प्र॒स्कन्दे᳚-त्प्र॒स्कन्दे᳚-त्ता॒ज-क्ता॒ज-क्प्र॒स्कन्दे᳚त् । 43) प्र॒स्कन्दे॒-द्वर्षु॑को॒ वर्षु॑कः प्र॒स्कन्दे᳚-त्प्र॒स्कन्दे॒-द्वर्षु॑कः । 43) प्र॒स्कन्दे॒दिति॑ प्र - स्कन्दे᳚त् । 44) वर्षु॑कः प॒र्जन्यः॑ प॒र्जन्यो॒ वर्षु॑को॒ वर्षु॑कः प॒र्जन्यः॑ । 45) प॒र्जन्य॑-स्स्या-थ्स्या-त्प॒र्जन्यः॑ प॒र्जन्य॑-स्स्यात् । 46) स्या॒-द्यदि॒ यदि॑ स्या-थ्स्या॒-द्यदि॑ । 47) यदि॑ चि॒र-ञ्चि॒रं-यँदि॒ यदि॑ चि॒रम् । 48) चि॒र मव॑र्षु॒को ऽव॑र्षुक श्चि॒र-ञ्चि॒र मव॑र्षुकः । 49) अव॑र्षुको॒ न नाव॑र्षु॒को ऽव॑र्षुको॒ न । 50) न सा॑दयति सादयति॒ न न सा॑दयति । 51) सा॒द॒य॒ त्यस॑न्ना॒ दस॑न्ना-थ्सादयति सादय॒ त्यस॑न्नात् । 52) अस॑न्ना॒द्धि ह्यस॑न्ना॒ दस॑न्ना॒द्धि । 53) हि प्र॒जाः प्र॒जा हि हि प्र॒जाः । 54) प्र॒जाः प्र॒जाय॑न्ते प्र॒जाय॑न्ते प्र॒जाः प्र॒जाः प्र॒जाय॑न्ते । 54) प्र॒जा इति॑ प्र - जाः । 55) प्र॒जाय॑न्ते॒ न न प्र॒जाय॑न्ते प्र॒जाय॑न्ते॒ न । 55) प्र॒जाय॑न्त॒ इति॑ प्र - जाय॑न्ते । 56) नान् वनु॒ न नानु॑ । 57) अनु॒ वष॒-ड्वष॒ डन् वनु॒ वष॑ट् । 58) वष॑-ट्करोति करोति॒ वष॒-ड्वष॑-ट्करोति । 59) क॒रो॒ति॒ य-द्य-त्क॑रोति करोति॒ यत् । 60) यद॑नुवषट्कु॒र्या द॑नुवषट्कु॒र्या-द्य-द्यद॑नुवषट्कु॒र्यात् । 61) अ॒नु॒व॒ष॒ट्कु॒र्या-द्रु॒द्रग्ं रु॒द्र म॑नुवषट्कु॒र्या द॑नुवषट्कु॒र्या-द्रु॒द्रम् । 61) अ॒नु॒व॒ष॒ट्कु॒र्यादित्य॑नु - व॒ष॒ट्कु॒र्यात् । 62) रु॒द्र-म्प्र॒जाः प्र॒जा रु॒द्रग्ं रु॒द्र-म्प्र॒जाः । 63) प्र॒जा अ॒न्वव॑सृजे द॒न्वव॑सृजे-त्प्र॒जाः प्र॒जा अ॒न्वव॑सृजेत् । 63) प्र॒जा इति॑ प्र - जाः । 64) अ॒न्वव॑सृजे॒-न्न नान्वव॑सृजे द॒न्वव॑सृजे॒-न्न । 64) अ॒न्वव॑सृजे॒दित्य॑नु - अव॑सृजेत् । 65) न हु॒त्वा हु॒त्वा न न हु॒त्वा । 66) हु॒त्वा ऽन्वनु॑ हु॒त्वा हु॒त्वा ऽनु॑ । 67) अन्वी᳚क्षेते क्षे॒ता न्वन्वी᳚ क्षेत । 68) ई॒क्षे॒त॒ य-द्यदी᳚क्षेते क्षेत॒ यत् । 69) यद॒न्वीक्षे॑ता॒ न्वीक्षे॑त॒ य-द्यद॒न्वीक्षे॑त । 70) अ॒न्वीक्षे॑त॒ चक्षु॒ श्चक्षु॑ र॒न्वीक्षे॑ता॒ न्वीक्षे॑त॒ चक्षुः॑ । 70) अ॒न्वीक्षे॒तेत्य॑नु - ईक्षे॑त । 71) चक्षु॑ रस्यास्य॒ चक्षु॒ श्चक्षु॑ रस्य । 72) अ॒स्य॒ प्र॒मायु॑क-म्प्र॒मायु॑क मस्यास्य प्र॒मायु॑कम् । 73) प्र॒मायु॑कग्ग् स्या-थ्स्या-त्प्र॒मायु॑क-म्प्र॒मायु॑कग्ग् स्यात् । 73) प्र॒मायु॑क॒मिति॑ प्र - मायु॑कम् । 74) स्या॒-त्तस्मा॒-त्तस्मा᳚-थ्स्या-थ्स्या॒-त्तस्मा᳚त् । 75) तस्मा॒-न्न न तस्मा॒-त्तस्मा॒-न्न । 76) नान्वीक्ष्यो॒ ऽन्वीक्ष्यो॒ न नान्वीक्ष्यः॑ । 77) अ॒न्वीक्ष्य॒ इत्य॑नु - ईक्ष्यः॑ । ॥ 22 ॥ (77/91) ॥ अ. 6 ॥
1) अ॒न्त॒र्या॒म॒पा॒त्रेण॑ सावि॒त्रग्ं सा॑वि॒त्र म॑न्तर्यामपा॒त्रेणा᳚ न्तर्यामपा॒त्रेण॑ सावि॒त्रम् । 1) अ॒न्त॒र्या॒म॒पा॒त्रेणेत्य॑न्तर्याम - पा॒त्रेण॑ । 2) सा॒वि॒त्र मा᳚ग्रय॒णा दा᳚ग्रय॒णा-थ्सा॑वि॒त्रग्ं सा॑वि॒त्र मा᳚ग्रय॒णात् । 3) आ॒ग्र॒य॒णा-द्गृ॑ह्णाति गृह्णा त्याग्रय॒णा दा᳚ग्रय॒णा-द्गृ॑ह्णाति । 4) गृ॒ह्णा॒ति॒ प्र॒जाप॑तिः प्र॒जाप॑ति-र्गृह्णाति गृह्णाति प्र॒जाप॑तिः । 5) प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै । 5) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 6) वा ए॒ष ए॒ष वै वा ए॒षः । 7) ए॒ष य-द्यदे॒ष ए॒ष यत् । 8) यदा᳚ग्रय॒ण आ᳚ग्रय॒णो य-द्यदा᳚ग्रय॒णः । 9) आ॒ग्र॒य॒णः प्र॒जाना᳚-म्प्र॒जाना॑ माग्रय॒ण आ᳚ग्रय॒णः प्र॒जाना᳚म् । 10) प्र॒जाना᳚-म्प्र॒जन॑नाय प्र॒जन॑नाय प्र॒जाना᳚-म्प्र॒जाना᳚-म्प्र॒जन॑नाय । 10) प्र॒जाना॒मिति॑ प्र - जाना᳚म् । 11) प्र॒जन॑नाय॒ न न प्र॒जन॑नाय प्र॒जन॑नाय॒ न । 11) प्र॒जन॑ना॒येति॑ प्र - जन॑नाय । 12) न सा॑दयति सादयति॒ न न सा॑दयति । 13) सा॒द॒य॒ त्यस॑न्ना॒ दस॑न्ना-थ्सादयति सादय॒ त्यस॑न्नात् । 14) अस॑न्ना॒द्धि ह्यस॑न्ना॒ दस॑न्ना॒द्धि । 15) हि प्र॒जाः प्र॒जा हि हि प्र॒जाः । 16) प्र॒जाः प्र॒जाय॑न्ते प्र॒जाय॑न्ते प्र॒जाः प्र॒जाः प्र॒जाय॑न्ते । 16) प्र॒जा इति॑ प्र - जाः । 17) प्र॒जाय॑न्ते॒ न न प्र॒जाय॑न्ते प्र॒जाय॑न्ते॒ न । 17) प्र॒जाय॑न्त॒ इति॑ प्र - जाय॑न्ते । 18) नान् वनु॒ न नानु॑ । 19) अनु॒ वष॒-ड्वष॒ डन् वनु॒ वष॑ट् । 20) वष॑-ट्करोति करोति॒ वष॒-ड्वष॑-ट्करोति । 21) क॒रो॒ति॒ य-द्य-त्क॑रोति करोति॒ यत् । 22) यद॑नुवषट्कु॒र्या द॑नुवषट्कु॒र्या-द्य-द्यद॑नुवषट्कु॒र्यात् । 23) अ॒नु॒व॒ष॒ट्कु॒र्या-द्रु॒द्रग्ं रु॒द्र म॑नुवषट्कु॒र्या द॑नुवषट्कु॒र्या-द्रु॒द्रम् । 23) अ॒नु॒व॒ष॒ट्कु॒र्यादित्य॑नु - व॒ष॒ट्कु॒र्यात् । 24) रु॒द्र-म्प्र॒जाः प्र॒जा रु॒द्रग्ं रु॒द्र-म्प्र॒जाः । 25) प्र॒जा अ॒न्वव॑सृजे द॒न्वव॑सृजे-त्प्र॒जाः प्र॒जा अ॒न्वव॑सृजेत् । 25) प्र॒जा इति॑ प्र - जाः । 26) अ॒न्वव॑सृजे दे॒ष ए॒षो᳚ ऽन्वव॑सृजे द॒न्वव॑सृजे दे॒षः । 26) अ॒न्वव॑सृजे॒दित्य॑नु - अव॑सृजेत् । 27) ए॒ष वै वा ए॒ष ए॒ष वै । 28) वै गा॑य॒त्रो गा॑य॒त्रो वै वै गा॑य॒त्रः । 29) गा॒य॒त्रो दे॒वाना᳚-न्दे॒वाना᳚-ङ्गाय॒त्रो गा॑य॒त्रो दे॒वाना᳚म् । 30) दे॒वानां॒-यँ-द्य-द्दे॒वाना᳚-न्दे॒वानां॒-यँत् । 31) य-थ्स॑वि॒ता स॑वि॒ता य-द्य-थ्स॑वि॒ता । 32) स॒वि॒ तैष ए॒ष स॑वि॒ता स॑वि॒ तैषः । 33) ए॒ष गा॑यत्रि॒यै गा॑यत्रि॒या ए॒ष ए॒ष गा॑यत्रि॒यै । 34) गा॒य॒त्रि॒यै लो॒के लो॒के गा॑यत्रि॒यै गा॑यत्रि॒यै लो॒के । 35) लो॒के गृ॑ह्यते गृह्यते लो॒के लो॒के गृ॑ह्यते । 36) गृ॒ह्य॒ते॒ य-द्य-द्गृ॑ह्यते गृह्यते॒ यत् । 37) यदा᳚ग्रय॒ण आ᳚ग्रय॒णो य-द्यदा᳚ग्रय॒णः । 38) आ॒ग्र॒य॒णो य-द्यदा᳚ग्रय॒ण आ᳚ग्रय॒णो यत् । 39) यद॑न्तर्यामपा॒त्रेणा᳚ न्तर्यामपा॒त्रेण॒ य-द्यद॑न्तर्यामपा॒त्रेण॑ । 40) अ॒न्त॒र्या॒म॒पा॒त्रेण॑ सावि॒त्रग्ं सा॑वि॒त्र म॑न्तर्यामपा॒त्रेणा᳚ न्तर्यामपा॒त्रेण॑ सावि॒त्रम् । 40) अ॒न्त॒र्या॒म॒पा॒त्रेणेत्य॑न्तर्याम - पा॒त्रेण॑ । 41) सा॒वि॒त्र मा᳚ग्रय॒णा दा᳚ग्रय॒णा-थ्सा॑वि॒त्रग्ं सा॑वि॒त्र मा᳚ग्रय॒णात् । 42) आ॒ग्र॒य॒णा-द्गृ॒ह्णाति॑ गृ॒ह्णा त्या᳚ग्रय॒णा दा᳚ग्रय॒णा-द्गृ॒ह्णाति॑ । 43) गृ॒ह्णाति॒ स्वा-थ्स्वा-द्गृ॒ह्णाति॑ गृ॒ह्णाति॒ स्वात् । 44) स्वादे॒ वैव स्वा-थ्स्वादे॒व । 45) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 46) ए॒नं॒-योँने॒-र्योने॑ रेन मेनं॒-योँनेः᳚ । 47) योने॒-र्नि-र्णि-र्योने॒-र्योने॒-र्निः । 48) नि-र्गृ॑ह्णाति गृह्णाति॒ नि-र्णि-र्गृ॑ह्णाति । 49) गृ॒ह्णा॒ति॒ विश्वे॒ विश्वे॑ गृह्णाति गृह्णाति॒ विश्वे᳚ । 50) विश्वे॑ दे॒वा दे॒वा विश्वे॒ विश्वे॑ दे॒वाः । ॥ 23 ॥ (50/60)
1) दे॒वा स्तृ॒तीय॑-न्तृ॒तीय॑-न्दे॒वा दे॒वा स्तृ॒तीय᳚म् । 2) तृ॒तीय॒ग्ं॒ सव॑न॒ग्ं॒ सव॑न-न्तृ॒तीय॑-न्तृ॒तीय॒ग्ं॒ सव॑नम् । 3) सव॑न॒-न्न न सव॑न॒ग्ं॒ सव॑न॒-न्न । 4) नोदु-न्न नोत् । 5) उद॑यच्छ-न्नयच्छ॒-न्नुदु द॑यच्छन्न् । 6) अ॒य॒च्छ॒-न्ते ते॑ ऽयच्छ-न्नयच्छ॒-न्ते । 7) ते स॑वि॒तारग्ं॑ सवि॒तार॒-न्ते ते स॑वि॒तार᳚म् । 8) स॒वि॒तार॑-म्प्रातस्सव॒नभा॑ग-म्प्रातस्सव॒नभा॑गग्ं सवि॒तारग्ं॑ सवि॒तार॑-म्प्रातस्सव॒नभा॑गम् । 9) प्रा॒त॒स्स॒व॒नभा॑ग॒ग्ं॒ सन्त॒ग्ं॒ सन्त॑-म्प्रातस्सव॒नभा॑ग-म्प्रातस्सव॒नभा॑ग॒ग्ं॒ सन्त᳚म् । 9) प्रा॒त॒स्स॒व॒नभा॑ग॒मिति॑ प्रातस्सव॒न - भा॒ग॒म् । 10) सन्त॑-न्तृतीयसव॒न-न्तृ॑तीयसव॒नग्ं सन्त॒ग्ं॒ सन्त॑-न्तृतीयसव॒नम् । 11) तृ॒ती॒य॒स॒व॒न म॒भ्य॑भि तृ॑तीयसव॒न-न्तृ॑तीयसव॒न म॒भि । 11) तृ॒ती॒य॒स॒व॒नमिति॑ तृतीय - स॒व॒नम् । 12) अ॒भि परि॒ पर्य॒ भ्य॑भि परि॑ । 13) पर्य॑णय-न्ननय॒-न्परि॒ पर्य॑णयन्न् । 14) अ॒न॒य॒-न्तत॒ स्ततो॑ ऽनय-न्ननय॒-न्ततः॑ । 15) ततो॒ वै वै तत॒ स्ततो॒ वै । 16) वै ते ते वै वै ते । 17) ते तृ॒तीय॑-न्तृ॒तीय॒-न्ते ते तृ॒तीय᳚म् । 18) तृ॒तीय॒ग्ं॒ सव॑न॒ग्ं॒ सव॑न-न्तृ॒तीय॑-न्तृ॒तीय॒ग्ं॒ सव॑नम् । 19) सव॑न॒ मुदु-थ्सव॑न॒ग्ं॒ सव॑न॒ मुत् । 20) उद॑यच्छ-न्नयच्छ॒-न्नुदु द॑यच्छन्न् । 21) अ॒य॒च्छ॒न्॒. य-द्यद॑यच्छ-न्नयच्छ॒न्॒. यत् । 22) य-त्तृ॑तीयसव॒ने तृ॑तीयसव॒ने य-द्य-त्तृ॑तीयसव॒ने । 23) तृ॒ती॒य॒स॒व॒ने सा॑वि॒त्र-स्सा॑वि॒त्र स्तृ॑तीयसव॒ने तृ॑तीयसव॒ने सा॑वि॒त्रः । 23) तृ॒ती॒य॒स॒व॒न इति॑ तृतीय - स॒व॒ने । 24) सा॒वि॒त्रो गृ॒ह्यते॑ गृ॒ह्यते॑ सावि॒त्र-स्सा॑वि॒त्रो गृ॒ह्यते᳚ । 25) गृ॒ह्यते॑ तृ॒तीय॑स्य तृ॒तीय॑स्य गृ॒ह्यते॑ गृ॒ह्यते॑ तृ॒तीय॑स्य । 26) तृ॒तीय॑स्य॒ सव॑नस्य॒ सव॑नस्य तृ॒तीय॑स्य तृ॒तीय॑स्य॒ सव॑नस्य । 27) सव॑न॒ स्योद्य॑त्या॒ उद्य॑त्यै॒ सव॑नस्य॒ सव॑न॒ स्योद्य॑त्यै । 28) उद्य॑त्यै सवितृपा॒त्रेण॑ सवितृपा॒त्रे णोद्य॑त्या॒ उद्य॑त्यै सवितृपा॒त्रेण॑ । 28) उद्य॑त्या॒ इत्युत् - य॒त्यै॒ । 29) स॒वि॒तृ॒पा॒त्रेण॑ वैश्वदे॒वं-वैँ᳚श्वदे॒वग्ं स॑वितृपा॒त्रेण॑ सवितृपा॒त्रेण॑ वैश्वदे॒वम् । 29) स॒वि॒तृ॒पा॒त्रेणेति॑ सवितृ - पा॒त्रेण॑ । 30) वै॒श्व॒दे॒व-ङ्क॒लशा᳚-त्क॒लशा᳚-द्वैश्वदे॒वं-वैँ᳚श्वदे॒व-ङ्क॒लशा᳚त् । 30) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । 31) क॒लशा᳚-द्गृह्णाति गृह्णाति क॒लशा᳚-त्क॒लशा᳚-द्गृह्णाति । 32) गृ॒ह्णा॒ति॒ वै॒श्व॒दे॒व्यो॑ वैश्वदे॒व्यो॑ गृह्णाति गृह्णाति वैश्वदे॒व्यः॑ । 33) वै॒श्व॒दे॒व्यो॑ वै वै वै᳚श्वदे॒व्यो॑ वैश्वदे॒व्यो॑ वै । 33) वै॒श्व॒दे॒व्य॑ इति॑ वैश्व - दे॒व्यः॑ । 34) वै प्र॒जाः प्र॒जा वै वै प्र॒जाः । 35) प्र॒जा वै᳚श्वदे॒वो वै᳚श्वदे॒वः प्र॒जाः प्र॒जा वै᳚श्वदे॒वः । 35) प्र॒जा इति॑ प्र - जाः । 36) वै॒श्व॒दे॒वः क॒लशः॑ क॒लशो॑ वैश्वदे॒वो वै᳚श्वदे॒वः क॒लशः॑ । 36) वै॒श्व॒दे॒व इति॑ वैश्व - दे॒वः । 37) क॒लश॑-स्सवि॒ता स॑वि॒ता क॒लशः॑ क॒लश॑-स्सवि॒ता । 38) स॒वि॒ता प्र॑स॒वाना᳚-म्प्रस॒वानाग्ं॑ सवि॒ता स॑वि॒ता प्र॑स॒वाना᳚म् । 39) प्र॒स॒वाना॑ मीश ईशे प्रस॒वाना᳚-म्प्रस॒वाना॑ मीशे । 39) प्र॒स॒वाना॒मिति॑ प्र - स॒वाना᳚म् । 40) ई॒शे॒ य-द्यदी॑श ईशे॒ यत् । 41) य-थ्स॑वितृपा॒त्रेण॑ सवितृपा॒त्रेण॒ य-द्य-थ्स॑वितृपा॒त्रेण॑ । 42) स॒वि॒तृ॒पा॒त्रेण॑ वैश्वदे॒वं-वैँ᳚श्वदे॒वग्ं स॑वितृपा॒त्रेण॑ सवितृपा॒त्रेण॑ वैश्वदे॒वम् । 42) स॒वि॒तृ॒पा॒त्रेणेति॑ सवितृ - पा॒त्रेण॑ । 43) वै॒श्व॒दे॒व-ङ्क॒लशा᳚-त्क॒लशा᳚-द्वैश्वदे॒वं-वैँ᳚श्वदे॒व-ङ्क॒लशा᳚त् । 43) वै॒श्व॒दे॒वमिति॑ वैश्व - दे॒वम् । 44) क॒लशा᳚-द्गृ॒ह्णाति॑ गृ॒ह्णाति॑ क॒लशा᳚-त्क॒लशा᳚-द्गृ॒ह्णाति॑ । 45) गृ॒ह्णाति॑ सवि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूतो गृ॒ह्णाति॑ गृ॒ह्णाति॑ सवि॒तृप्र॑सूतः । 46) स॒वि॒तृप्र॑सूत ए॒वैव स॑वि॒तृप्र॑सूत-स्सवि॒तृप्र॑सूत ए॒व । 46) स॒वि॒तृप्र॑सूत॒ इति॑ सवि॒तृ - प्र॒सू॒तः॒ । 47) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 48) अ॒स्मै॒ प्र॒जाः प्र॒जा अ॑स्मा अस्मै प्र॒जाः । 49) प्र॒जाः प्र प्र प्र॒जाः प्र॒जाः प्र । 49) प्र॒जा इति॑ प्र - जाः । 50) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति । ॥ 24 ॥ (50/64)
1) ज॒न॒य॒ति॒ सोमे॒ सोमे॑ जनयति जनयति॒ सोमे᳚ । 2) सोमे॒ सोम॒ग्ं॒ सोम॒ग्ं॒ सोमे॒ सोमे॒ सोम᳚म् । 3) सोम॑ म॒भ्य॑भि सोम॒ग्ं॒ सोम॑ म॒भि । 4) अ॒भि गृ॑ह्णाति गृह्णा त्य॒भ्य॑भि गृ॑ह्णाति । 5) गृ॒ह्णा॒ति॒ रेतो॒ रेतो॑ गृह्णाति गृह्णाति॒ रेतः॑ । 6) रेत॑ ए॒वैव रेतो॒ रेत॑ ए॒व । 7) ए॒व त-त्तदे॒ वैव तत् । 8) त-द्द॑धाति दधाति॒ त-त्त-द्द॑धाति । 9) द॒धा॒ति॒ सु॒शर्मा॑ सु॒शर्मा॑ दधाति दधाति सु॒शर्मा᳚ । 10) सु॒शर्मा᳚ ऽस्यसि सु॒शर्मा॑ सु॒शर्मा॑ ऽसि । 10) सु॒शर्मेति॑ सु - शर्मा᳚ । 11) अ॒सि॒ सु॒प्र॒ति॒ष्ठा॒न-स्सु॑प्रतिष्ठा॒नो᳚ ऽस्यसि सुप्रतिष्ठा॒नः । 12) सु॒प्र॒ति॒ष्ठा॒न इतीति॑ सुप्रतिष्ठा॒न-स्सु॑प्रतिष्ठा॒न इति॑ । 12) सु॒प्र॒ति॒ष्ठा॒न इति॑ सु - प्र॒ति॒ष्ठा॒नः । 13) इत्या॑हा॒हे तीत्या॑ह । 14) आ॒ह॒ सोमे॒ सोम॑ आहाह॒ सोमे᳚ । 15) सोमे॒ हि हि सोमे॒ सोमे॒ हि । 16) हि सोम॒ग्ं॒ सोम॒ग्ं॒ हि हि सोम᳚म् । 17) सोम॑ मभिगृ॒ह्णा त्य॑भिगृ॒ह्णाति॒ सोम॒ग्ं॒ सोम॑ मभिगृ॒ह्णाति॑ । 18) अ॒भि॒गृ॒ह्णाति॒ प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या अभिगृ॒ह्णा त्य॑भिगृ॒ह्णाति॒ प्रति॑ष्ठित्यै । 18) अ॒भि॒गृ॒ह्णातीत्य॑भि - गृ॒ह्णाति॑ । 19) प्रति॑ष्ठित्या ए॒तस्मि॑-न्ने॒तस्मि॒-न्प्रति॑ष्ठित्यै॒ प्रति॑ष्ठित्या ए॒तस्मिन्न्॑ । 19) प्रति॑ष्ठित्या॒ इति॒ प्रति॑ - स्थि॒त्यै॒ । 20) ए॒तस्मि॒न्॒. वै वा ए॒तस्मि॑-न्ने॒तस्मि॒न्॒. वै । 21) वा अप्यपि॒ वै वा अपि॑ । 22) अपि॒ ग्रहे॒ ग्रहे ऽप्यपि॒ ग्रहे᳚ । 23) ग्रहे॑ मनु॒ष्ये᳚भ्यो मनु॒ष्ये᳚भ्यो॒ ग्रहे॒ ग्रहे॑ मनु॒ष्ये᳚भ्यः । 24) म॒नु॒ष्ये᳚भ्यो दे॒वेभ्यो॑ दे॒वेभ्यो॑ मनु॒ष्ये᳚भ्यो मनु॒ष्ये᳚भ्यो दे॒वेभ्यः॑ । 25) दे॒वेभ्यः॑ पि॒तृभ्यः॑ पि॒तृभ्यो॑ दे॒वेभ्यो॑ दे॒वेभ्यः॑ पि॒तृभ्यः॑ । 26) पि॒तृभ्यः॑ क्रियते क्रियते पि॒तृभ्यः॑ पि॒तृभ्यः॑ क्रियते । 26) पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । 27) क्रि॒य॒ते॒ सु॒शर्मा॑ सु॒शर्मा᳚ क्रियते क्रियते सु॒शर्मा᳚ । 28) सु॒शर्मा᳚ ऽस्यसि सु॒शर्मा॑ सु॒शर्मा॑ ऽसि । 28) सु॒शर्मेति॑ सु - शर्मा᳚ । 29) अ॒सि॒ सु॒प्र॒ति॒ष्ठा॒न-स्सु॑प्रतिष्ठा॒नो᳚ ऽस्यसि सुप्रतिष्ठा॒नः । 30) सु॒प्र॒ति॒ष्ठा॒न इतीति॑ सुप्रतिष्ठा॒न-स्सु॑प्रतिष्ठा॒न इति॑ । 30) सु॒प्र॒ति॒ष्ठा॒न इति॑ सु - प्र॒ति॒ष्ठा॒नः । 31) इत्या॑हा॒हे तीत्या॑ह । 32) आ॒ह॒ म॒नु॒ष्ये᳚भ्यो मनु॒ष्ये᳚भ्य आहाह मनु॒ष्ये᳚भ्यः । 33) म॒नु॒ष्ये᳚भ्य ए॒वैव म॑नु॒ष्ये᳚भ्यो मनु॒ष्ये᳚भ्य ए॒व । 34) ए॒वैते नै॒ते नै॒वैवैतेन॑ । 35) ए॒तेन॑ करोति करो त्ये॒ते नै॒तेन॑ करोति । 36) क॒रो॒ति॒ बृ॒ह-द्बृ॒ह-त्क॑रोति करोति बृ॒हत् । 37) बृ॒ह दितीति॑ बृ॒ह-द्बृ॒ह दिति॑ । 38) इत्या॑हा॒हे तीत्या॑ह । 39) आ॒ह॒ दे॒वेभ्यो॑ दे॒वेभ्य॑ आहाह दे॒वेभ्यः॑ । 40) दे॒वेभ्य॑ ए॒वैव दे॒वेभ्यो॑ दे॒वेभ्य॑ ए॒व । 41) ए॒वैते नै॒ते नै॒वैवैतेन॑ । 42) ए॒तेन॑ करोति करो त्ये॒ते नै॒तेन॑ करोति । 43) क॒रो॒ति॒ नमो॒ नम॑ स्करोति करोति॒ नमः॑ । 44) नम॒ इतीति॒ नमो॒ नम॒ इति॑ । 45) इत्या॑हा॒हे तीत्या॑ह । 46) आ॒ह॒ पि॒तृभ्यः॑ पि॒तृभ्य॑ आहाह पि॒तृभ्यः॑ । 47) पि॒तृभ्य॑ ए॒वैव पि॒तृभ्यः॑ पि॒तृभ्य॑ ए॒व । 47) पि॒तृभ्य॒ इति॑ पि॒तृ - भ्यः॒ । 48) ए॒वैते नै॒ते नै॒वैवैतेन॑ । 49) ए॒तेन॑ करोति करोत्ये॒ तेनै॒तेन॑ करोति । 50) क॒रो॒ त्ये॒ताव॑ती रे॒ताव॑तीः करोति करो त्ये॒ताव॑तीः । 51) ए॒ताव॑ती॒-र्वै वा ए॒ताव॑ती रे॒ताव॑ती॒-र्वै । 52) वै दे॒वता॑ दे॒वता॒ वै वै दे॒वताः᳚ । 53) दे॒वता॒स् ताभ्य॒ स्ताभ्यो॑ दे॒वता॑ दे॒वता॒ स्ताभ्यः॑ । 54) ताभ्य॑ ए॒वैव ताभ्य॒ स्ताभ्य॑ ए॒व । 55) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 56) ए॒न॒ग्ं॒ सर्वा᳚भ्य॒-स्सर्वा᳚भ्य एन मेन॒ग्ं॒ सर्वा᳚भ्यः । 57) सर्वा᳚भ्यो गृह्णाति गृह्णाति॒ सर्वा᳚भ्य॒-स्सर्वा᳚भ्यो गृह्णाति । 58) गृ॒ह्णा॒ त्ये॒ष ए॒ष गृ॑ह्णाति गृह्णा त्ये॒षः । 59) ए॒ष ते॑ त ए॒ष ए॒ष ते᳚ । 60) ते॒ योनि॒-र्योनि॑ स्ते ते॒ योनिः॑ । 61) योनि॒-र्विश्वे᳚भ्यो॒ विश्वे᳚भ्यो॒ योनि॒-र्योनि॒-र्विश्वे᳚भ्यः । 62) विश्वे᳚भ्य स्त्वा त्वा॒ विश्वे᳚भ्यो॒ विश्वे᳚भ्य स्त्वा । 63) त्वा॒ दे॒वेभ्यो॑ दे॒वेभ्य॑ स्त्वा त्वा दे॒वेभ्यः॑ । 64) दे॒वेभ्य॒ इतीति॑ दे॒वेभ्यो॑ दे॒वेभ्य॒ इति॑ । 65) इत्या॑हा॒हे तीत्या॑ह । 66) आ॒ह॒ वै॒श्व॒दे॒वो वै᳚श्वदे॒व आ॑हाह वैश्वदे॒वः । 67) वै॒श्व॒दे॒वो हि हि वै᳚श्वदे॒वो वै᳚श्वदे॒वो हि । 67) वै॒श्व॒दे॒व इति॑ वैश्व - दे॒वः । 68) ह्ये॑ष ए॒ष हि ह्ये॑षः । 69) ए॒ष इत्ये॒षः । ॥ 25 ॥ (69/78) ॥ अ. 7 ॥
1) प्रा॒णो वै वै प्रा॒णः प्रा॒णो वै । 1) प्रा॒ण इति॑ प्र - अ॒नः । 2) वा ए॒ष ए॒ष वै वा ए॒षः । 3) ए॒ष य-द्यदे॒ष ए॒ष यत् । 4) यदु॑पा॒ग्ं॒शु रु॑पा॒ग्ं॒शु-र्य-द्यदु॑पा॒ग्ं॒शुः । 5) उ॒पा॒ग्ं॒शु-र्य-द्यदु॑पा॒ग्ं॒शु रु॑पा॒ग्ं॒शु-र्यत् । 5) उ॒पा॒ग्ं॒शुरित्यु॑प - अ॒ग्ं॒शुः । 6) यदु॑पाग्ंशुपा॒त्रेणो॑ पाग्ंशुपा॒त्रेण॒ य-द्यदु॑पाग्ंशुपा॒त्रेण॑ । 7) उ॒पा॒ग्ं॒शु॒पा॒त्रेण॑ प्रथ॒मः प्र॑थ॒म उ॑पाग्ंशुपा॒त्रेणो॑ पाग्ंशुपा॒त्रेण॑ प्रथ॒मः । 7) उ॒पा॒ग्ं॒शु॒पा॒त्रेणेत्यु॑पाग्ंशु - पा॒त्रेण॑ । 8) प्र॒थ॒म श्च॑ च प्रथ॒मः प्र॑थ॒म श्च॑ । 9) चो॒त्त॒म उ॑त्त॒मश्च॑ चोत्त॒मः । 10) उ॒त्त॒म श्च॑ चोत्त॒म उ॑त्त॒म श्च॑ । 10) उ॒त्त॒म इत्यु॑त् - त॒मः । 11) च॒ ग्रहौ॒ ग्रहौ॑ च च॒ ग्रहौ᳚ । 12) ग्रहौ॑ गृ॒ह्येते॑ गृ॒ह्येते॒ ग्रहौ॒ ग्रहौ॑ गृ॒ह्येते᳚ । 13) गृ॒ह्येते᳚ प्रा॒ण-म्प्रा॒ण-ङ्गृ॒ह्येते॑ गृ॒ह्येते᳚ प्रा॒णम् । 13) गृ॒ह्येते॒ इति॑ गृ॒ह्येते᳚ । 14) प्रा॒ण मे॒वैव प्रा॒ण-म्प्रा॒ण मे॒व । 14) प्रा॒णमिति॑ प्र - अ॒नम् । 15) ए॒वान् वन् वे॒वै वानु॑ । 16) अनु॑ प्र॒यन्ति॑ प्र॒य-न्त्यन् वनु॑ प्र॒यन्ति॑ । 17) प्र॒यन्ति॑ प्रा॒ण-म्प्रा॒ण-म्प्र॒यन्ति॑ प्र॒यन्ति॑ प्रा॒णम् । 17) प्र॒यन्तीति॑ प्र - यन्ति॑ । 18) प्रा॒ण मन् वनु॑ प्रा॒ण-म्प्रा॒ण मनु॑ । 18) प्रा॒णमिति॑ प्र - अ॒नम् । 19) अनू दुदन् वनूत् । 20) उ-द्य॑न्ति य॒-न्त्युदु-द्य॑न्ति । 21) य॒न्ति॒ प्र॒जाप॑तिः प्र॒जाप॑ति-र्यन्ति यन्ति प्र॒जाप॑तिः । 22) प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै । 22) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 23) वा ए॒ष ए॒ष वै वा ए॒षः । 24) ए॒ष य-द्यदे॒ष ए॒ष यत् । 25) यदा᳚ग्रय॒ण आ᳚ग्रय॒णो य-द्यदा᳚ग्रय॒णः । 26) आ॒ग्र॒य॒णः प्रा॒णः प्रा॒ण आ᳚ग्रय॒ण आ᳚ग्रय॒णः प्रा॒णः । 27) प्रा॒ण उ॑पा॒ग्ं॒शु रु॑पा॒ग्ं॒शुः प्रा॒णः प्रा॒ण उ॑पा॒ग्ं॒शुः । 27) प्रा॒ण इति॑ प्र - अ॒नः । 28) उ॒पा॒ग्ं॒शुः पत्नीः॒ पत्नी॑ रुपा॒ग्ं॒शु रु॑पा॒ग्ं॒शुः पत्नीः᳚ । 28) उ॒पा॒ग्ं॒शुरित्यु॑प - अ॒ग्ं॒शुः । 29) पत्नीः᳚ प्र॒जाः प्र॒जाः पत्नीः॒ पत्नीः᳚ प्र॒जाः । 30) प्र॒जाः प्र प्र प्र॒जाः प्र॒जाः प्र । 30) प्र॒जा इति॑ प्र - जाः । 31) प्र ज॑नयन्ति जनयन्ति॒ प्र प्र ज॑नयन्ति । 32) ज॒न॒य॒न्ति॒ य-द्यज् ज॑नयन्ति जनयन्ति॒ यत् । 33) यदु॑पाग्ंशुपा॒त्रे णो॑पाग्ंशुपा॒त्रेण॒ य-द्यदु॑पाग्ंशुपा॒त्रेण॑ । 34) उ॒पा॒ग्ं॒शु॒पा॒त्रेण॑ पात्नीव॒त-म्पा᳚त्नीव॒त मु॑पाग्ंशुपा॒त्रे णो॑पाग्ंशुपा॒त्रेण॑ पात्नीव॒तम् । 34) उ॒पा॒ग्ं॒शु॒पा॒त्रेणेत्यु॑पाग्ंशु - पा॒त्रेण॑ । 35) पा॒त्नी॒व॒त मा᳚ग्रय॒णा दा᳚ग्रय॒णा-त्पा᳚त्नीव॒त-म्पा᳚त्नीव॒त मा᳚ग्रय॒णात् । 35) पा॒त्नी॒व॒तमिति॑ पात्नी - व॒तम् । 36) आ॒ग्र॒य॒णा-द्गृ॒ह्णाति॑ गृ॒ह्णा त्या᳚ग्रय॒णा दा᳚ग्रय॒णा-द्गृ॒ह्णाति॑ । 37) गृ॒ह्णाति॑ प्र॒जाना᳚-म्प्र॒जाना᳚-ङ्गृ॒ह्णाति॑ गृ॒ह्णाति॑ प्र॒जाना᳚म् । 38) प्र॒जाना᳚-म्प्र॒जन॑नाय प्र॒जन॑नाय प्र॒जाना᳚-म्प्र॒जाना᳚-म्प्र॒जन॑नाय । 38) प्र॒जाना॒मिति॑ प्र - जाना᳚म् । 39) प्र॒जन॑नाय॒ तस्मा॒-त्तस्मा᳚-त्प्र॒जन॑नाय प्र॒जन॑नाय॒ तस्मा᳚त् । 39) प्र॒जन॑ना॒येति॑ प्र - जन॑नाय । 40) तस्मा᳚-त्प्रा॒ण-म्प्रा॒ण-न्तस्मा॒-त्तस्मा᳚-त्प्रा॒णम् । 41) प्रा॒ण-म्प्र॒जाः प्र॒जाः प्रा॒ण-म्प्रा॒ण-म्प्र॒जाः । 41) प्रा॒णमिति॑ प्र - अ॒नम् । 42) प्र॒जा अन्वनु॑ प्र॒जाः प्र॒जा अनु॑ । 42) प्र॒जा इति॑ प्र - जाः । 43) अनु॒ प्र प्राण्वनु॒ प्र । 44) प्र जा॑यन्ते जायन्ते॒ प्र प्र जा॑यन्ते । 45) जा॒य॒न्ते॒ दे॒वा दे॒वा जा॑यन्ते जायन्ते दे॒वाः । 46) दे॒वा वै वै दे॒वा दे॒वा वै । 47) वा इ॒तइ॑त इ॒तइ॑तो॒ वै वा इ॒तइ॑तः । 48) इ॒तइ॑तः॒ पत्नीः॒ पत्नी॑ रि॒तइ॑त इ॒तइ॑तः॒ पत्नीः᳚ । 48) इ॒तइ॑त॒ इती॒तः - इ॒तः॒ । 49) पत्नी᳚-स्सुव॒र्गग्ं सु॑व॒र्ग-म्पत्नीः॒ पत्नी᳚-स्सुव॒र्गम् । 50) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 50) सु॒व॒र्गमिति॑ सुवः - गम् । ॥ 26 ॥ (50/70)
1) लो॒क म॑जिगाग्ंस-न्नजिगाग्ंसन् ँलो॒कम् ँलो॒क म॑जिगाग्ंसन्न् । 2) अ॒जि॒गा॒ग्ं॒स॒-न्ते ते॑ ऽजिगाग्ंस-न्नजिगाग्ंस॒-न्ते । 3) ते सु॑व॒र्गग्ं सु॑व॒र्ग-न्ते ते सु॑व॒र्गम् । 4) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 4) सु॒व॒र्गमिति॑ सुवः - गम् । 5) लो॒क-न्न न लो॒कम् ँलो॒क-न्न । 6) न प्र प्र ण न प्र । 7) प्राजा॑न-न्नजान॒-न्प्र प्राजा॑नन्न् । 8) अ॒जा॒न॒-न्ते ते॑ ऽजान-न्नजान॒-न्ते । 9) त ए॒त मे॒त-न्ते त ए॒तम् । 10) ए॒त-म्पा᳚त्नीव॒त-म्पा᳚त्नीव॒त मे॒त मे॒त-म्पा᳚त्नीव॒तम् । 11) पा॒त्नी॒व॒त म॑पश्य-न्नपश्य-न्पात्नीव॒त-म्पा᳚त्नीव॒त म॑पश्यन्न् । 11) पा॒त्नी॒व॒तमिति॑ पात्नी - व॒तम् । 12) अ॒प॒श्य॒-न्त-न्त म॑पश्य-न्नपश्य॒-न्तम् । 13) त म॑गृह्ण॒ता गृ॑ह्ण॒त त-न्त म॑गृह्ण॒त । 14) अ॒गृ॒ह्ण॒त तत॒ स्ततो॑ ऽगृह्ण॒ता गृ॑ह्ण॒त ततः॑ । 15) ततो॒ वै वै तत॒ स्ततो॒ वै । 16) वै ते ते वै वै ते । 17) ते सु॑व॒र्गग्ं सु॑व॒र्ग-न्ते ते सु॑व॒र्गम् । 18) सु॒व॒र्गम् ँलो॒कम् ँलो॒कग्ं सु॑व॒र्गग्ं सु॑व॒र्गम् ँलो॒कम् । 18) सु॒व॒र्गमिति॑ सुवः - गम् । 19) लो॒क-म्प्र प्र लो॒कम् ँलो॒क-म्प्र । 20) प्राजा॑न-न्नजान॒-न्प्र प्राजा॑नन्न् । 21) अ॒जा॒न॒न्॒. य-द्यद॑जान-न्नजान॒न्॒. यत् । 22) य-त्पा᳚त्नीव॒तः पा᳚त्नीव॒तो य-द्य-त्पा᳚त्नीव॒तः । 23) पा॒त्नी॒व॒तो गृ॒ह्यते॑ गृ॒ह्यते॑ पात्नीव॒तः पा᳚त्नीव॒तो गृ॒ह्यते᳚ । 23) पा॒त्नी॒व॒त इति॑ पात्नी - व॒तः । 24) गृ॒ह्यते॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ गृ॒ह्यते॑ गृ॒ह्यते॑ सुव॒र्गस्य॑ । 25) सु॒व॒र्गस्य॑ लो॒कस्य॑ लो॒कस्य॑ सुव॒र्गस्य॑ सुव॒र्गस्य॑ लो॒कस्य॑ । 25) सु॒व॒र्गसेति॑ सुवः - गस्य॑ । 26) लो॒कस्य॒ प्रज्ञा᳚त्यै॒ प्रज्ञा᳚त्यै लो॒कस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै । 27) प्रज्ञा᳚त्यै॒ स स प्रज्ञा᳚त्यै॒ प्रज्ञा᳚त्यै॒ सः । 27) प्रज्ञा᳚त्या॒ इति॒ प्र - ज्ञा॒त्यै॒ । 28) स सोम॒-स्सोम॒-स्स स सोमः॑ । 29) सोमो॒ न न सोम॒-स्सोमो॒ न । 30) नाति॑ष्ठता तिष्ठत॒ न नाति॑ष्ठत । 31) अ॒ति॒ष्ठ॒त॒ स्त्री॒भ्य-स्स्त्री॒भ्यो॑ ऽतिष्ठता तिष्ठत स्त्री॒भ्यः । 32) स्त्री॒भ्यो गृ॒ह्यमा॑णो गृ॒ह्यमा॑ण-स्स्त्री॒भ्य-स्स्त्री॒भ्यो गृ॒ह्यमा॑णः । 33) गृ॒ह्यमा॑ण॒ स्त-न्त-ङ्गृ॒ह्यमा॑णो गृ॒ह्यमा॑ण॒ स्तम् । 34) त-ङ्घृ॒त-ङ्घृ॒त-न्त-न्त-ङ्घृ॒तम् । 35) घृ॒तं-वँज्रं॒-वँज्र॑-ङ्घृ॒त-ङ्घृ॒तं-वँज्र᳚म् । 36) वज्र॑-ङ्कृ॒त्वा कृ॒त्वा वज्रं॒-वँज्र॑-ङ्कृ॒त्वा । 37) कृ॒त्वा ऽघ्न॑-न्नघ्नन् कृ॒त्वा कृ॒त्वा ऽघ्नन्न्॑ । 38) अ॒घ्न॒-न्त-न्त म॑घ्न-न्नघ्न॒-न्तम् । 39) त-न्निरि॑न्द्रिय॒-न्निरि॑न्द्रिय॒-न्त-न्त-न्निरि॑न्द्रियम् । 40) निरि॑न्द्रिय-म्भू॒त-म्भू॒त-न्निरि॑न्द्रिय॒-न्निरि॑न्द्रिय-म्भू॒तम् । 40) निरि॑न्द्रिय॒मिति॒ निः - इ॒न्द्रि॒य॒म् । 41) भू॒त म॑गृह्ण-न्नगृह्ण-न्भू॒त-म्भू॒त म॑गृह्णन्न् । 42) अ॒गृ॒ह्ण॒-न्तस्मा॒-त्तस्मा॑ दगृह्ण-न्नगृह्ण॒-न्तस्मा᳚त् । 43) तस्मा॒-थ्स्त्रिय॒-स्स्त्रिय॒ स्तस्मा॒-त्तस्मा॒-थ्स्त्रियः॑ । 44) स्त्रियो॒ निरि॑न्द्रिया॒ निरि॑न्द्रिया॒-स्स्त्रिय॒-स्स्त्रियो॒ निरि॑न्द्रियाः । 45) निरि॑न्द्रिया॒ अदा॑यादी॒ रदा॑यादी॒-र्निरि॑न्द्रिया॒ निरि॑न्द्रिया॒ अदा॑यादीः । 45) निरि॑न्द्रिया॒ इति॒ निः - इ॒न्द्रि॒याः॒ । 46) अदा॑यादी॒ रप्यप्य दा॑यादी॒ रदा॑यादी॒ रपि॑ । 46) अदा॑यादी॒रित्यदा॑य - अ॒दीः॒ । 47) अपि॑ पा॒पा-त्पा॒पा दप्यपि॑ पा॒पात् । 48) पा॒पा-त्पु॒ग्ं॒सः पु॒ग्ं॒सः पा॒पा-त्पा॒पा-त्पु॒ग्ं॒सः । 49) पु॒ग्ं॒स उप॑स्तितर॒ मुप॑स्तितर-म्पु॒ग्ं॒सः पु॒ग्ं॒स उप॑स्तितरम् । 50) उप॑स्तितरं-वँदन्ति वद॒-न्त्युप॑स्तितर॒ मुप॑स्तितरं-वँदन्ति । 50) उप॑स्तितर॒मित्युप॑स्ति - त॒र॒म् । ॥ 27 ॥ (50/60)
1) व॒द॒न्ति॒ य-द्य-द्व॑दन्ति वदन्ति॒ यत् । 2) य-द्घृ॒तेन॑ घृ॒तेन॒ य-द्य-द्घृ॒तेन॑ । 3) घृ॒तेन॑ पात्नीव॒त-म्पा᳚त्नीव॒त-ङ्घृ॒तेन॑ घृ॒तेन॑ पात्नीव॒तम् । 4) पा॒त्नी॒व॒तग्ग् श्री॒णाति॑ श्री॒णाति॑ पात्नीव॒त-म्पा᳚त्नीव॒तग्ग् श्री॒णाति॑ । 4) पा॒त्नी॒व॒तमिति॑ पात्नी - व॒तम् । 5) श्री॒णाति॒ वज्रे॑ण॒ वज्रे॑ण श्री॒णाति॑ श्री॒णाति॒ वज्रे॑ण । 6) वज्रे॑णै॒ वैव वज्रे॑ण॒ वज्रे॑णै॒व । 7) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 8) ए॒नं॒-वँशे॒ वश॑ एन मेनं॒-वँशे᳚ । 9) वशे॑ कृ॒त्वा कृ॒त्वा वशे॒ वशे॑ कृ॒त्वा । 10) कृ॒त्वा गृ॑ह्णाति गृह्णाति कृ॒त्वा कृ॒त्वा गृ॑ह्णाति । 11) गृ॒ह्णा॒ त्यु॒प॒या॒मगृ॑हीत उपया॒मगृ॑हीतो गृह्णाति गृह्णा त्युपया॒मगृ॑हीतः । 12) उ॒प॒या॒मगृ॑हीतो ऽस्यस्यु पया॒मगृ॑हीत उपया॒मगृ॑हीतो ऽसि । 12) उ॒प॒या॒मगृ॑हीत॒ इत्यु॑पया॒म - गृ॒ही॒तः॒ । 13) अ॒सी तीत्य॑स्य॒ सीति॑ । 14) इत्या॑हा॒हे तीत्या॑ह । 15) आ॒हे॒य मि॒य मा॑हाहे॒ यम् । 16) इ॒यं-वैँ वा इ॒य मि॒यं-वैँ । 17) वा उ॑पया॒म उ॑पया॒मो वै वा उ॑पया॒मः । 18) उ॒प॒या॒म स्तस्मा॒-त्तस्मा॑ दुपया॒म उ॑पया॒म स्तस्मा᳚त् । 18) उ॒प॒या॒म इत्यु॑प - या॒मः । 19) तस्मा॑ दि॒मा मि॒मा-न्तस्मा॒-त्तस्मा॑ दि॒माम् । 20) इ॒मा-म्प्र॒जाः प्र॒जा इ॒मा मि॒मा-म्प्र॒जाः । 21) प्र॒जा अन्वनु॑ प्र॒जाः प्र॒जा अनु॑ । 21) प्र॒जा इति॑ प्र - जाः । 22) अनु॒ प्र प्राण्वनु॒ प्र । 23) प्र जा॑यन्ते जायन्ते॒ प्र प्र जा॑यन्ते । 24) जा॒य॒न्ते॒ बृह॒स्पति॑सुतस्य॒ बृह॒स्पति॑सुतस्य जायन्ते जायन्ते॒ बृह॒स्पति॑सुतस्य । 25) बृह॒स्पति॑सुतस्य ते ते॒ बृह॒स्पति॑सुतस्य॒ बृह॒स्पति॑सुतस्य ते । 25) बृह॒स्पति॑सुत॒स्येति॒ बृह॒स्पति॑ - सु॒त॒स्य॒ । 26) त॒ इतीति॑ ते त॒ इति॑ । 27) इत्या॑हा॒हे तीत्या॑ह । 28) आ॒ह॒ ब्रह्म॒ ब्रह्मा॑ हाह॒ ब्रह्म॑ । 29) ब्रह्म॒ वै वै ब्रह्म॒ ब्रह्म॒ वै । 30) वै दे॒वाना᳚-न्दे॒वानां॒-वैँ वै दे॒वाना᳚म् । 31) दे॒वाना॒-म्बृह॒स्पति॒-र्बृह॒स्पति॑-र्दे॒वाना᳚-न्दे॒वाना॒-म्बृह॒स्पतिः॑ । 32) बृह॒स्पति॒-र्ब्रह्म॑णा॒ ब्रह्म॑णा॒ बृह॒स्पति॒-र्बृह॒स्पति॒-र्ब्रह्म॑णा । 33) ब्रह्म॑ णै॒वैव ब्रह्म॑णा॒ ब्रह्म॑णै॒व । 34) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 35) अ॒स्मै॒ प्र॒जाः प्र॒जा अ॑स्मा अस्मै प्र॒जाः । 36) प्र॒जाः प्र प्र प्र॒जाः प्र॒जाः प्र । 36) प्र॒जा इति॑ प्र - जाः । 37) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति । 38) ज॒न॒य॒ ती॒न्दो॒ इ॒न्दो॒ ज॒न॒य॒ति॒ ज॒न॒य॒ ती॒न्दो॒ । 39) इ॒न्दो॒ इतीती᳚न्दो इन्दो॒ इति॑ । 39) इ॒न्दो॒ इती᳚न्दो । 40) इत्या॑हा॒हे तीत्या॑ह । 41) आ॒ह॒ रेतो॒ रेत॑ आहाह॒ रेतः॑ । 42) रेतो॒ वै वै रेतो॒ रेतो॒ वै । 43) वा इन्दु॒ रिन्दु॒-र्वै वा इन्दुः॑ । 44) इन्दू॒ रेतो॒ रेत॒ इन्दु॒ रिन्दू॒ रेतः॑ । 45) रेत॑ ए॒वैव रेतो॒ रेत॑ ए॒व । 46) ए॒व त-त्तदे॒ वैव तत् । 47) त-द्द॑धाति दधाति॒ त-त्त-द्द॑धाति । 48) द॒धा॒ ती॒न्द्रि॒या॒व॒ इ॒न्द्रि॒या॒वो॒ द॒धा॒ति॒ द॒धा॒ ती॒न्द्रि॒या॒वः॒ । 49) इ॒न्द्रि॒या॒व॒ इतीती᳚न्द्रियाव इन्द्रियाव॒ इति॑ । 49) इ॒न्द्रि॒या॒व॒ इती᳚न्द्रिय - वः॒ । 50) इत्या॑हा॒हे तीत्या॑ह । ॥ 28 ॥ (50/58)
1) आ॒ह॒ प्र॒जाः प्र॒जा आ॑हाह प्र॒जाः । 2) प्र॒जा वै वै प्र॒जाः प्र॒जा वै । 2) प्र॒जा इति॑ प्र - जाः । 3) वा इ॑न्द्रि॒य मि॑न्द्रि॒यं-वैँ वा इ॑न्द्रि॒यम् । 4) इ॒न्द्रि॒य-म्प्र॒जाः प्र॒जा इ॑न्द्रि॒य मि॑न्द्रि॒य-म्प्र॒जाः । 5) प्र॒जा ए॒वैव प्र॒जाः प्र॒जा ए॒व । 5) प्र॒जा इति॑ प्र - जाः । 6) ए॒वास्मा॑ अस्मा ए॒वै वास्मै᳚ । 7) अ॒स्मै॒ प्र प्रास्मा॑ अस्मै॒ प्र । 8) प्र ज॑नयति जनयति॒ प्र प्र ज॑नयति । 9) ज॒न॒य॒ त्यग्ना(3) अग्ना(3) इज॑नयति जनय॒ त्यग्ना(3) इ । 10) अग्ना(3) इतीत्यग्ना(3) अग्ना(3) इति॑ । 11) इत्या॑हा॒हे तीत्या॑ह । 12) आ॒हा॒ग्नि र॒ग्नि रा॑हा हा॒ग्निः । 13) अ॒ग्नि-र्वै वा अ॒ग्नि र॒ग्नि-र्वै । 14) वै रे॑तो॒धा रे॑तो॒धा वै वै रे॑तो॒धाः । 15) रे॒तो॒धाः पत्नी॑वः॒ पत्नी॑वो रेतो॒धा रे॑तो॒धाः पत्नी॑वः । 15) रे॒तो॒धा इति॑ रेतः - धाः । 16) पत्नी॑व॒ इतीति॒ पत्नी॑वः॒ पत्नी॑व॒ इति॑ । 16) पत्नी॑व॒ इति॒ पत्नी᳚ - वः॒ । 17) इत्या॑हा॒हे तीत्या॑ह । 18) आ॒ह॒ मि॒थु॒न॒त्वाय॑ मिथुन॒त्वा या॑हाह मिथुन॒त्वाय॑ । 19) मि॒थु॒न॒त्वाय॑ स॒जू-स्स॒जू-र्मि॑थुन॒त्वाय॑ मिथुन॒त्वाय॑ स॒जूः । 19) मि॒थु॒न॒त्वायेति॑ मिथुन - त्वाय॑ । 20) स॒जू-र्दे॒वेन॑ दे॒वेन॑ स॒जू-स्स॒जू-र्दे॒वेन॑ । 20) स॒जूरिति॑ स - जूः । 21) दे॒वेन॒ त्वष्ट्रा॒ त्वष्ट्रा॑ दे॒वेन॑ दे॒वेन॒ त्वष्ट्रा᳚ । 22) त्वष्ट्रा॒ सोम॒ग्ं॒ सोम॒-न्त्वष्ट्रा॒ त्वष्ट्रा॒ सोम᳚म् । 23) सोम॑-म्पिब पिब॒ सोम॒ग्ं॒ सोम॑-म्पिब । 24) पि॒बे तीति॑ पिब पि॒बेति॑ । 25) इत्या॑हा॒हे तीत्या॑ह । 26) आ॒ह॒ त्वष्टा॒ त्वष्टा॑ ऽऽहाह॒ त्वष्टा᳚ । 27) त्वष्टा॒ वै वै त्वष्टा॒ त्वष्टा॒ वै । 28) वै प॑शू॒ना-म्प॑शू॒नां-वैँ वै प॑शू॒नाम् । 29) प॒शू॒ना-म्मि॑थु॒नाना᳚-म्मिथु॒नाना᳚-म्पशू॒ना-म्प॑शू॒ना-म्मि॑थु॒नाना᳚म् । 30) मि॒थु॒नानाग्ं॑ रूप॒कृ-द्रू॑प॒कृ-न्मि॑थु॒नाना᳚-म्मिथु॒नानाग्ं॑ रूप॒कृत् । 31) रू॒प॒कृ-द्रू॒पग्ं रू॒पग्ं रू॑प॒कृ-द्रू॑प॒कृ-द्रू॒पम् । 31) रू॒प॒कृदिति॑ रूप - कृत् । 32) रू॒प मे॒वैव रू॒पग्ं रू॒प मे॒व । 33) ए॒व प॒शुषु॑ प॒शु ष्वे॒वैव प॒शुषु॑ । 34) प॒शुषु॑ दधाति दधाति प॒शुषु॑ प॒शुषु॑ दधाति । 35) द॒धा॒ति॒ दे॒वा दे॒वा द॑धाति दधाति दे॒वाः । 36) दे॒वा वै वै दे॒वा दे॒वा वै । 37) वै त्वष्टा॑र॒-न्त्वष्टा॑रं॒-वैँ वै त्वष्टा॑रम् । 38) त्वष्टा॑र मजिघाग्ंस-न्नजिघाग्ंस॒-न्त्वष्टा॑र॒-न्त्वष्टा॑र मजिघाग्ंसन्न् । 39) अ॒जि॒घा॒ग्ं॒स॒-न्थ्स सो॑ ऽजिघाग्ंस-न्नजिघाग्ंस॒-न्थ्सः । 40) स पत्नीः॒ पत्नी॒-स्स स पत्नीः᳚ । 41) पत्नीः॒ प्र प्र पत्नीः॒ पत्नीः॒ प्र । 42) प्राप॑द्यता पद्यत॒ प्र प्राप॑द्यत । 43) अ॒प॒द्य॒त॒ त-न्त म॑पद्यता पद्यत॒ तम् । 44) त-न्न न त-न्त-न्न । 45) न प्रति॒ प्रति॒ न न प्रति॑ । 46) प्रति॒ प्र प्र प्रति॒ प्रति॒ प्र । 47) प्राय॑च्छ-न्नयच्छ॒-न्प्र प्राय॑च्छन्न् । 48) अ॒य॒च्छ॒-न्तस्मा॒-त्तस्मा॑ दयच्छ-न्नयच्छ॒-न्तस्मा᳚त् । 49) तस्मा॒ दप्यपि॒ तस्मा॒-त्तस्मा॒ दपि॑ । 50) अपि॒ वद्ध्यं॒-वँद्ध्य॒ मप्यपि॒ वद्ध्य᳚म् । ॥ 29 ॥ (50/57)
1) वद्ध्य॒-म्प्रप॑न्न॒-म्प्रप॑न्नं॒-वँद्ध्यं॒-वँद्ध्य॒-म्प्रप॑न्नम् । 2) प्रप॑न्न॒-न्न न प्रप॑न्न॒-म्प्रप॑न्न॒-न्न । 2) प्रप॑न्न॒मिति॒ प्र - प॒न्न॒म् । 3) न प्रति॒ प्रति॒ न न प्रति॑ । 4) प्रति॒ प्र प्र प्रति॒ प्रति॒ प्र । 5) प्र य॑च्छन्ति यच्छन्ति॒ प्र प्र य॑च्छन्ति । 6) य॒च्छ॒न्ति॒ तस्मा॒-त्तस्मा᳚-द्यच्छन्ति यच्छन्ति॒ तस्मा᳚त् । 7) तस्मा᳚-त्पात्नीव॒ते पा᳚त्नीव॒ते तस्मा॒-त्तस्मा᳚-त्पात्नीव॒ते । 8) पा॒त्नी॒व॒ते त्वष्ट्रे॒ त्वष्ट्रे॑ पात्नीव॒ते पा᳚त्नीव॒ते त्वष्ट्रे᳚ । 8) पा॒त्नी॒व॒त इति॑ पात्नी - व॒ते । 9) त्वष्ट्रे ऽप्यपि॒ त्वष्ट्रे॒ त्वष्ट्रे ऽपि॑ । 10) अपि॑ गृह्यते गृह्य॒ते ऽप्यपि॑ गृह्यते । 11) गृ॒ह्य॒ते॒ न न गृ॑ह्यते गृह्यते॒ न । 12) न सा॑दयति सादयति॒ न न सा॑दयति । 13) सा॒द॒य॒ त्यस॑न्ना॒ दस॑न्ना-थ्सादयति सादय॒ त्यस॑न्नात् । 14) अस॑न्ना॒द्धि ह्यस॑न्ना॒ दस॑न्ना॒द्धि । 15) हि प्र॒जाः प्र॒जा हि हि प्र॒जाः । 16) प्र॒जाः प्र॒जाय॑न्ते प्र॒जाय॑न्ते प्र॒जाः प्र॒जाः प्र॒जाय॑न्ते । 16) प्र॒जा इति॑ प्र - जाः । 17) प्र॒जाय॑न्ते॒ न न प्र॒जाय॑न्ते प्र॒जाय॑न्ते॒ न । 17) प्र॒जाय॑न्त॒ इति॑ प्र - जाय॑न्ते । 18) नान् वनु॒ न नानु॑ । 19) अनु॒ वष॒-ड्वष॒ डन्वनु॒ वष॑ट् । 20) वष॑-ट्करोति करोति॒ वष॒-ड्वष॑-ट्करोति । 21) क॒रो॒ति॒ य-द्य-त्क॑रोति करोति॒ यत् । 22) यद॑नुवषट्कु॒र्या द॑नुवषट्कु॒र्या-द्य-द्यद॑नुवषट्कु॒र्यात् । 23) अ॒नु॒व॒ष॒ट्कु॒र्या-द्रु॒द्रग्ं रु॒द्र म॑नुवषट्कु॒र्या द॑नुवषट्कु॒र्या-द्रु॒द्रम् । 23) अ॒नु॒व॒ष॒ट्कु॒र्यादित्य॑नु - व॒ष॒ट्कु॒र्यात् । 24) रु॒द्र-म्प्र॒जाः प्र॒जा रु॒द्रग्ं रु॒द्र-म्प्र॒जाः । 25) प्र॒जा अ॒न्वव॑सृजे द॒न्वव॑सृजे-त्प्र॒जाः प्र॒जा अ॒न्वव॑सृजेत् । 25) प्र॒जा इति॑ प्र - जाः । 26) अ॒न्वव॑सृजे॒-द्य-द्यद॒न्वव॑सृजे द॒न्वव॑सृजे॒-द्यत् । 26) अ॒न्वव॑सृजे॒दित्य॑नु - अव॑सृजेत् । 27) य-न्न न य-द्य-न्न । 28) नानु॑वषट्कु॒र्या द॑नुवषट्कु॒र्या-न्न नानु॑वषट्कु॒र्यात् । 29) अ॒नु॒व॒ष॒ट्कु॒र्या दशा᳚न्त॒ मशा᳚न्त मनुवषट्कु॒र्या द॑नुवषट्कु॒र्या दशा᳚न्तम् । 29) अ॒नु॒व॒ष॒ट्कु॒र्यादित्य॑नु - व॒ष॒ट्कु॒र्यात् । 30) अशा᳚न्त म॒ग्नी द॒ग्नी दशा᳚न्त॒ मशा᳚न्त म॒ग्नीत् । 31) अ॒ग्नी-थ्सोम॒ग्ं॒ सोम॑ म॒ग्नी द॒ग्नी-थ्सोम᳚म् । 31) अ॒ग्नीदित्य॑ग्नि - इत् । 32) सोम॑-म्भक्षये-द्भक्षये॒-थ्सोम॒ग्ं॒ सोम॑-म्भक्षयेत् । 33) भ॒क्ष॒ये॒ दु॒पा॒ग्॒शू॑ पा॒ग्॒शु भ॑क्षये-द्भक्षये दुपा॒ग्॒शु । 34) उ॒पा॒ग्॒श्वन् वनू॑पा॒ग्॒शू॑ पा॒ग्॒श्वनु॑ । 34) उ॒पा॒ग्॒श्वित्यु॑प - अ॒ग्ं॒शु । 35) अनु॒ वष॒-ड्वष॒ डन्वनु॒ वष॑ट् । 36) वष॑-ट्करोति करोति॒ वष॒-ड्वष॑-ट्करोति । 37) क॒रो॒ति॒ न न क॑रोति करोति॒ न । 38) न रु॒द्रग्ं रु॒द्रन्न न रु॒द्रम् । 39) रु॒द्र-म्प्र॒जाः प्र॒जा रु॒द्रग्ं रु॒द्र-म्प्र॒जाः । 40) प्र॒जा अ॑न्ववसृ॒ज त्य॑न्ववसृ॒जति॑ प्र॒जाः प्र॒जा अ॑न्ववसृ॒जति॑ । 40) प्र॒जा इति॑ प्र - जाः । 41) अ॒न्व॒व॒सृ॒जति॑ शा॒न्तग्ं शा॒न्त म॑न्ववसृ॒ज त्य॑न्ववसृ॒जति॑ शा॒न्तम् । 41) अ॒न्व॒व॒सृ॒जतीत्य॑नु - अ॒व॒सृ॒जति॑ । 42) शा॒न्त म॒ग्नी द॒ग्नीच् छा॒न्तग्ं शा॒न्त म॒ग्नीत् । 43) अ॒ग्नी-थ्सोम॒ग्ं॒ सोम॑ म॒ग्नी द॒ग्नी-थ्सोम᳚म् । 43) अ॒ग्नीदित्य॑ग्नि - इत् । 44) सोम॑-म्भक्षयति भक्षयति॒ सोम॒ग्ं॒ सोम॑-म्भक्षयति । 45) भ॒क्ष॒य॒ त्यग्नी॒ दग्नी᳚-द्भक्षयति भक्षय॒ त्यग्नी᳚त् । 46) अग्नी॒-न्नेष्टु॒-र्नेष्टु॒ रग्नी॒ दग्नी॒-न्नेष्टुः॑ । 46) अग्नी॒दित्यग्नि॑ - इ॒त् । 47) नेष्टु॑ रु॒पस्थ॑ मु॒पस्थ॒-न्नेष्टु॒-र्नेष्टु॑ रु॒पस्थ᳚म् । 48) उ॒पस्थ॒ मोपस्थ॑ मु॒पस्थ॒ मा । 48) उ॒पस्थ॒मित्यु॒प - स्थ॒म् । 49) आ सी॑द सी॒दा सी॑द । 50) सी॒द॒ नेष्ट॒-र्नेष्ट॑-स्सीद सीद॒ नेष्टः॑ । ॥ 30 ॥ (50/65)
1) नेष्टः॒ पत्नी॒-म्पत्नी॒-न्नेष्ट॒-र्नेष्टः॒ पत्नी᳚म् । 2) पत्नी॑ मु॒दान॑यो॒ दान॑य॒ पत्नी॒-म्पत्नी॑ मु॒दान॑य । 3) उ॒दान॒ये तीत्यु॒दान॑ यो॒दान॒येति॑ । 3) उ॒दान॒येत्यु॑त् - आन॑य । 4) इत्या॑हा॒हे तीत्या॑ह । 5) आ॒हा॒ग्नी द॒ग्नी दा॑हा हा॒ग्नीत् । 6) अ॒ग्नी दे॒वै वाग्नी द॒ग्नी दे॒व । 6) अ॒ग्नीदित्य॑ग्नि - इत् । 7) ए॒व नेष्ट॑रि॒ नेष्ट॑र्ये॒वैव नेष्ट॑रि । 8) नेष्ट॑रि॒ रेतो॒ रेतो॒ नेष्ट॑रि॒ नेष्ट॑रि॒ रेतः॑ । 9) रेतो॒ दधा॑ति॒ दधा॑ति॒ रेतो॒ रेतो॒ दधा॑ति । 10) दधा॑ति॒ नेष्टा॒ नेष्टा॒ दधा॑ति॒ दधा॑ति॒ नेष्टा᳚ । 11) नेष्टा॒ पत्नि॑या॒-म्पत्नि॑या॒-न्नेष्टा॒ नेष्टा॒ पत्नि॑याम् । 12) पत्नि॑या मुद्गा॒ त्रोद्गा॒त्रा पत्नि॑या॒-म्पत्नि॑या मुद्गा॒त्रा । 13) उ॒द्गा॒त्रा सग्ं स मु॑द्गा॒ त्रोद्गा॒त्रा सम् । 13) उ॒द्गा॒त्रेत्यु॑त् - गा॒त्रा । 14) स-ङ्ख्या॑पयति ख्यापयति॒ सग्ं स-ङ्ख्या॑पयति । 15) ख्या॒प॒य॒ति॒ प्र॒जाप॑तिः प्र॒जाप॑तिः ख्यापयति ख्यापयति प्र॒जाप॑तिः । 16) प्र॒जाप॑ति॒-र्वै वै प्र॒जाप॑तिः प्र॒जाप॑ति॒-र्वै । 16) प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । 17) वा ए॒ष ए॒ष वै वा ए॒षः । 18) ए॒ष य-द्यदे॒ष ए॒ष यत् । 19) यदु॑द्गा॒ तोद्गा॒ता य-द्यदु॑द्गा॒ता । 20) उ॒द्गा॒ता प्र॒जाना᳚-म्प्र॒जाना॑ मुद्गा॒ तोद्गा॒ता प्र॒जाना᳚म् । 20) उ॒द्गा॒तेत्यु॑त् - गा॒ता । 21) प्र॒जाना᳚-म्प्र॒जन॑नाय प्र॒जन॑नाय प्र॒जाना᳚-म्प्र॒जाना᳚-म्प्र॒जन॑नाय । 21) प्र॒जाना॒मिति॑ प्र - जाना᳚म् । 22) प्र॒जन॑ना या॒पो॑ ऽपः प्र॒जन॑नाय प्र॒जन॑ना या॒पः । 22) प्र॒जन॑ना॒येति॑ प्र - जन॑नाय । 23) अ॒प उपोपा॒ पो॑-ऽप उप॑ । 24) उप॒ प्र प्रोपोप॒ प्र । 25) प्र व॑र्तयति वर्तयति॒ प्र प्र व॑र्तयति । 26) व॒र्त॒य॒ति॒ रेतो॒ रेतो॑ वर्तयति वर्तयति॒ रेतः॑ । 27) रेत॑ ए॒वैव रेतो॒ रेत॑ ए॒व । 28) ए॒व त-त्तदे॒ वैव तत् । 29) त-थ्सि॑ञ्चति सिञ्चति॒ त-त्त-थ्सि॑ञ्चति । 30) सि॒ञ्च॒ त्यू॒रुणो॒ रुणा॑ सिञ्चति सिञ्च त्यू॒रुणा᳚ । 31) ऊ॒रुणो पोपो॒ रुणो॒ रुणोप॑ । 32) उप॒ प्र प्रोपोप॒ प्र । 33) प्र व॑र्तयति वर्तयति॒ प्र प्र व॑र्तयति । 34) व॒र्त॒य॒ त्यू॒रुणो॒ रुणा॑ वर्तयति वर्तय त्यू॒रुणा᳚ । 35) ऊ॒रुणा॒ हि ह्यू॑रुणो॒ रुणा॒ हि । 36) हि रेतो॒ रेतो॒ हि हि रेतः॑ । 37) रेत॑-स्सि॒च्यते॑ सि॒च्यते॒ रेतो॒ रेत॑-स्सि॒च्यते᳚ । 38) सि॒च्यते॑ नग्न॒ङ्कृत्य॑ नग्न॒ङ्कृत्य॑ सि॒च्यते॑ सि॒च्यते॑ नग्न॒ङ्कृत्य॑ । 39) न॒ग्न॒ङ्कृ त्यो॒रु मू॒रु-न्न॑ग्न॒ङ्कृत्य॑ नग्न॒ङ्कृ त्यो॒रुम् । 39) न॒ग्न॒ङ्कृत्येति॑ नग्नम् - कृत्य॑ । 40) ऊ॒रु मुपो पो॒रु मू॒रु मुप॑ । 41) उप॒ प्र प्रोपोप॒ प्र । 42) प्र व॑र्तयति वर्तयति॒ प्र प्र व॑र्तयति । 43) व॒र्त॒य॒ति॒ य॒दा य॒दा व॑र्तयति वर्तयति य॒दा । 44) य॒दा हि हि य॒दा य॒दा हि । 45) हि न॒ग्नो न॒ग्नो हि हि न॒ग्नः । 46) न॒ग्न ऊ॒रु रू॒रु-र्न॒ग्नो न॒ग्न ऊ॒रुः । 47) ऊ॒रु-र्भव॑ति॒ भव॑ त्यू॒रु रू॒रु-र्भव॑ति । 48) भव॒ त्यथाथ॒ भव॑ति॒ भव॒ त्यथ॑ । 49) अथ॑ मिथु॒नी मि॑थु॒ न्यथाथ॑ मिथु॒नी । 50) मि॒थु॒नी भ॑वतो भवतो मिथु॒नी मि॑थु॒नी भ॑वतः । 51) भ॒व॒तो ऽथाथ॑ भवतो भव॒तो ऽथ॑ । 52) अथ॒ रेतो॒ रेतो ऽथाथ॒ रेतः॑ । 53) रेत॑-स्सिच्यते सिच्यते॒ रेतो॒ रेत॑-स्सिच्यते । 54) सि॒च्य॒ते ऽथाथ॑ सिच्यते सिच्य॒ते ऽथ॑ । 55) अथ॑ प्र॒जाः प्र॒जा अथाथ॑ प्र॒जाः । 56) प्र॒जाः प्र प्र प्र॒जाः प्र॒जाः प्र । 56) प्र॒जा इति॑ प्र - जाः । 57) प्र जा॑यन्ते जायन्ते॒ प्र प्र जा॑यन्ते । 58) जा॒य॒न्त॒ इति॑ जायन्ते । ॥ 31 ॥ (58/67) ॥ अ. 8 ॥
1) इन्द्रो॑ वृ॒त्रं-वृँ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् । 2) वृ॒त्र म॑ह-न्नहन् वृ॒त्रं-वृँ॒त्र म॑हन्न् । 3) अ॒ह॒-न्तस्य॒ तस्या॑ह-न्नह॒-न्तस्य॑ । 4) तस्य॑ शीर्षकपा॒लग्ं शी॑र्षकपा॒ल-न्तस्य॒ तस्य॑ शीर्षकपा॒लम् । 5) शी॒र्॒ष॒क॒पा॒ल मुदुच् छी॑र्षकपा॒लग्ं शी॑र्षकपा॒ल मुत् । 5) शी॒र्॒ष॒क॒पा॒लमिति॑ शीर्ष - क॒पा॒लम् । 6) उदौ᳚ब्ज दौब्ज॒ दुदु दौ᳚ब्जत् । 7) औ॒ब्ज॒-थ्स स औ᳚ब्ज दौब्ज॒-थ्सः । 8) स द्रो॑णकल॒शो द्रो॑णकल॒श-स्स स द्रो॑णकल॒शः । 9) द्रो॒ण॒क॒ल॒शो॑ ऽभव दभव-द्द्रोणकल॒शो द्रो॑णकल॒शो॑ ऽभवत् । 9) द्रो॒ण॒क॒ल॒श इति॑ द्रोण - क॒ल॒शः । 10) अ॒भ॒व॒-त्तस्मा॒-त्तस्मा॑ दभव दभव॒-त्तस्मा᳚त् । 11) तस्मा॒-थ्सोम॒-स्सोम॒ स्तस्मा॒-त्तस्मा॒-थ्सोमः॑ । 12) सोम॒-स्सग्ं सग्ं सोम॒-स्सोम॒-स्सम् । 13) स म॑स्रव दस्रव॒-थ्सग्ं स म॑स्रवत् । 14) अ॒स्र॒व॒-थ्स सो᳚ ऽस्रव दस्रव॒-थ्सः । 15) स हा॑रियोज॒नो हा॑रियोज॒न-स्स स हा॑रियोज॒नः । 16) हा॒रि॒यो॒ज॒नो॑ ऽभव दभव द्धारियोज॒नो हा॑रियोज॒नो॑ ऽभवत् । 16) हा॒रि॒यो॒ज॒न इति॑ हारि - यो॒ज॒नः । 17) अ॒भ॒व॒-त्त-न्त म॑भव दभव॒-त्तम् । 18) तं-विँ वि त-न्तं-विँ । 19) व्य॑चिकिथ्स दचिकिथ्स॒-द्वि व्य॑चिकिथ्सत् । 20) अ॒चि॒कि॒थ्स॒ज् जु॒हवा॒नी(3) जु॒हवा॒नी(3) अ॑चिकिथ्स दचिकिथ्सज् जु॒हवा॒नी(3) । 21) जु॒हवा॒नी(3) मा मा जु॒हवा॒नी(3) जु॒हवा॒नी(3) मा । 22) मा हौ॒षा(3)ग्ं हौ॒षा(3)-म्मा मा हौ॒षा(3)म् । 23) हौ॒षा(3) मितीति॑ हौ॒षा(3)ग्ं हौ॒षा(3) मिति॑ । 24) इति॒ स स इतीति॒ सः । 25) सो॑ ऽमन्यता मन्यत॒ स सो॑ ऽमन्यत । 26) अ॒म॒न्य॒त॒ य-द्यद॑मन्यता मन्यत॒ यत् । 27) यद्धो॒ष्यामि॑ हो॒ष्यामि॒ य-द्यद्धो॒ष्यामि॑ । 28) हो॒ष्या म्या॒म मा॒मग्ं हो॒ष्यामि॑ हो॒ष्या म्या॒मम् । 29) आ॒मग्ं हो᳚ष्यामि होष्याम्या॒म मा॒मग्ं हो᳚ष्यामि । 30) हो॒ष्या॒मि॒ य-द्यद्धो᳚ष्यामि होष्यामि॒ यत् । 31) य-न्न न य-द्य-न्न । 32) न हो॒ष्यामि॑ हो॒ष्यामि॒ न न हो॒ष्यामि॑ । 33) हो॒ष्यामि॑ यज्ञवेश॒सं-यँ॑ज्ञवेश॒सग्ं हो॒ष्यामि॑ हो॒ष्यामि॑ यज्ञवेश॒सम् । 34) य॒ज्ञ॒वे॒श॒स-ङ्क॑रिष्यामि करिष्यामि यज्ञवेश॒सं-यँ॑ज्ञवेश॒स-ङ्क॑रिष्यामि । 34) य॒ज्ञ॒वे॒श॒समिति॑ यज्ञ - वे॒श॒सम् । 35) क॒रि॒ष्या॒मी तीति॑ करिष्यामि करिष्या॒ मीति॑ । 36) इति॒ त-न्तमितीति॒ तम् । 37) त म॑द्ध्रियता द्ध्रियत॒ त-न्त म॑द्ध्रियत । 38) अ॒द्ध्रि॒य॒त॒ होतु॒ग्ं॒ होतु॑ मद्ध्रियता द्ध्रियत॒ होतु᳚म् । 39) होतु॒ग्ं॒ स स होतु॒ग्ं॒ होतु॒ग्ं॒ सः । 40) सो᳚ ऽग्नि र॒ग्नि-स्स सो᳚ ऽग्निः । 41) अ॒ग्नि र॑ब्रवी दब्रवी द॒ग्नि र॒ग्नि र॑ब्रवीत् । 42) अ॒ब्र॒वी॒-न्न नाब्र॑वी दब्रवी॒-न्न । 43) न मयि॒ मयि॒ न न मयि॑ । 44) मय्या॒म मा॒म-म्मयि॒ मय्या॒मम् । 45) आ॒मग्ं हो᳚ष्यसि होष्यस्या॒म मा॒मग्ं हो᳚ष्यसि । 46) हो॒ष्य॒सीतीति॑ होष्यसि होष्य॒सीति॑ । 47) इति॒ त-न्तमितीति॒ तम् । 48) त-न्धा॒नाभि॑-र्धा॒नाभि॒ स्त-न्त-न्धा॒नाभिः॑ । 49) धा॒नाभि॑ रश्रीणा दश्रीणा-द्धा॒नाभि॑-र्धा॒नाभि॑ रश्रीणात् । 50) अ॒श्री॒णा॒-त्त-न्त म॑श्रीणा दश्रीणा॒-त्तम् । ॥ 32 ॥ (50/54)
1) तग्ं शृ॒तग्ं शृ॒त-न्त-न्तग्ं शृ॒तम् । 2) शृ॒त-म्भू॒त-म्भू॒तग्ं शृ॒तग्ं शृ॒त-म्भू॒तम् । 3) भू॒त म॑जुहो दजुहो-द्भू॒त-म्भू॒त म॑जुहोत् । 4) अ॒जु॒हो॒-द्य-द्यद॑जुहो दजुहो॒-द्यत् । 5) य-द्धा॒नाभि॑-र्धा॒नाभि॒-र्य-द्य-द्धा॒नाभिः॑ । 6) धा॒नाभि॑र्-हारियोज॒नग्ं हा॑रियोज॒न-न्धा॒नाभि॑-र्धा॒नाभि॑र्-हारियोज॒नम् । 7) हा॒रि॒यो॒ज॒नग्ग् श्री॒णाति॑ श्री॒णाति॑ हारियोज॒नग्ं हा॑रियोज॒नग्ग् श्री॒णाति॑ । 7) हा॒रि॒यो॒ज॒नमिति॑ हारि - यो॒ज॒नम् । 8) श्री॒णाति॑ शृत॒त्वाय॑ शृत॒त्वाय॑ श्री॒णाति॑ श्री॒णाति॑ शृत॒त्वाय॑ । 9) शृ॒त॒त्वाय॑ शृ॒तग्ं शृ॒तग्ं शृ॑त॒त्वाय॑ शृत॒त्वाय॑ शृ॒तम् । 9) शृ॒त॒त्वायेति॑ शृत - त्वाय॑ । 10) शृ॒त मे॒वैव शृ॒तग्ं शृ॒त मे॒व । 11) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 12) ए॒न॒-म्भू॒त-म्भू॒त मे॑न मेन-म्भू॒तम् । 13) भू॒त-ञ्जु॑होति जुहोति भू॒त-म्भू॒त-ञ्जु॑होति । 14) जु॒हो॒ति॒ ब॒ह्वीभि॑-र्ब॒ह्वीभि॑-र्जुहोति जुहोति ब॒ह्वीभिः॑ । 15) ब॒ह्वीभि॑-श्श्रीणाति श्रीणाति ब॒ह्वीभि॑-र्ब॒ह्वीभि॑-श्श्रीणाति । 16) श्री॒णा॒ त्ये॒ताव॑ती रे॒ताव॑ती-श्श्रीणाति श्रीणा त्ये॒ताव॑तीः । 17) ए॒ताव॑ती रे॒वै वैताव॑ती रे॒ताव॑ती रे॒व । 18) ए॒वास्या᳚ स्यै॒वै वास्य॑ । 19) अ॒स्या॒ मुष्मि॑-न्न॒मुष्मि॑-न्नस्यास्या॒ मुष्मिन्न्॑ । 20) अ॒मुष्मि॑न् ँलो॒के लो॒के॑ ऽमुष्मि॑-न्न॒मुष्मि॑न् ँलो॒के । 21) लो॒के का॑म॒दुघाः᳚ काम॒दुघा॑ लो॒के लो॒के का॑म॒दुघाः᳚ । 22) का॒म॒दुघा॑ भवन्ति भवन्ति काम॒दुघाः᳚ काम॒दुघा॑ भवन्ति । 22) का॒म॒दुघा॒ इति॑ काम - दुघाः᳚ । 23) भ॒व॒ न्त्यथो॒ अथो॑ भवन्ति भव॒ न्त्यथो᳚ । 24) अथो॒ खलु॒ खल्वथो॒ अथो॒ खलु॑ । 24) अथो॒ इत्यथो᳚ । 25) खल्वा॑हु राहुः॒ खलु॒ खल्वा॑हुः । 26) आ॒हु॒ रे॒ता ए॒ता आ॑हु राहु रे॒ताः । 27) ए॒ता वै वा ए॒ता ए॒ता वै । 28) वा इन्द्र॒ स्येन्द्र॑स्य॒ वै वा इन्द्र॑स्य । 29) इन्द्र॑स्य॒ पृश्ञ॑यः॒ पृश्ञ॑य॒ इन्द्र॒ स्येन्द्र॑स्य॒ पृश्ञ॑यः । 30) पृश्ञ॑यः काम॒दुघाः᳚ काम॒दुघाः॒ पृश्ञ॑यः॒ पृश्ञ॑यः काम॒दुघाः᳚ । 31) का॒म॒दुघा॒ य-द्य-त्का॑म॒दुघाः᳚ काम॒दुघा॒ यत् । 31) का॒म॒दुघा॒ इति॑ काम - दुघाः᳚ । 32) यद्धा॑रियोज॒नीर्-हा॑रियोज॒नी-र्य-द्यद्धा॑रियोज॒नीः । 33) हा॒रि॒यो॒ज॒नीरि तीति॑ हारियोज॒नीर्-हा॑रियोज॒नी रिति॑ । 33) हा॒रि॒यो॒ज॒नीरिति॑ हारि - यो॒ज॒नीः । 34) इति॒ तस्मा॒-त्तस्मा॒ दितीति॒ तस्मा᳚त् । 35) तस्मा᳚-द्ब॒ह्वीभि॑-र्ब॒ह्वीभि॒ स्तस्मा॒-त्तस्मा᳚-द्ब॒ह्वीभिः॑ । 36) ब॒ह्वीभि॑-श्श्रीणीयाच् छ्रीणीया-द्ब॒ह्वीभि॑-र्ब॒ह्वीभि॑-श्श्रीणीयात् । 37) श्री॒णी॒या॒ दृ॒ख्सा॒मे ऋ॑ख्सा॒मे श्री॑णीयाच् छ्रीणीया दृख्सा॒मे । 38) ऋ॒ख्सा॒मे वै वा ऋ॑ख्सा॒मे ऋ॑ख्सा॒मे वै । 38) ऋ॒ख्सा॒मे इत्यृ॑क् - सा॒मे । 39) वा इन्द्र॒ स्येन्द्र॑स्य॒ वै वा इन्द्र॑स्य । 40) इन्द्र॑स्य॒ हरी॒ हरी॒ इन्द्र॒ स्येन्द्र॑स्य॒ हरी᳚ । 41) हरी॑ सोम॒पानौ॑ सोम॒पानौ॒ हरी॒ हरी॑ सोम॒पानौ᳚ । 41) हरी॒ इति॒ हरी᳚ । 42) सो॒म॒पानौ॒ तयो॒ स्तयो᳚-स्सोम॒पानौ॑ सोम॒पानौ॒ तयोः᳚ । 42) सो॒म॒पाना॒विति॑ सोम - पानौ᳚ । 43) तयोः᳚ परि॒धयः॑ परि॒धय॒ स्तयो॒ स्तयोः᳚ परि॒धयः॑ । 44) प॒रि॒धय॑ आ॒धान॑ मा॒धान॑-म्परि॒धयः॑ परि॒धय॑ आ॒धान᳚म् । 44) प॒रि॒धय॒ इति॑ परि - धयः॑ । 45) आ॒धानं॒-यँ-द्यदा॒धान॑ मा॒धानं॒-यँत् । 45) आ॒धान॒मित्या᳚ - धान᳚म् । 46) यदप्र॑हृ॒त्या प्र॑हृत्य॒ य-द्यदप्र॑हृत्य । 47) अप्र॑हृत्य परि॒धी-न्प॑रि॒धी नप्र॑हृ॒त्या प्र॑हृत्य परि॒धीन् । 47) अप्र॑हृ॒त्येत्यप्र॑ - हृ॒त्य॒ । 48) प॒रि॒धीन् जु॑हु॒याज् जु॑हु॒या-त्प॑रि॒धी-न्प॑रि॒धीन् जु॑हु॒यात् । 48) प॒रि॒धीनिति॑ परि - धीन् । 49) जु॒हु॒या द॒न्तरा॑धानाभ्या म॒न्तरा॑धानाभ्या-ञ्जुहु॒याज् जु॑हु॒या द॒न्तरा॑धानाभ्याम् । 50) अ॒न्तरा॑धानाभ्या-ङ्घा॒स-ङ्घा॒स म॒न्तरा॑धानाभ्या म॒न्तरा॑धानाभ्या-ङ्घा॒सम् । 50) अ॒न्तरा॑धानाभ्या॒मित्य॒न्तः - आ॒धा॒ना॒भ्या॒म् । ॥ 33 ॥ (50/64)
1) घा॒स-म्प्र प्र घा॒स-ङ्घा॒स-म्प्र । 2) प्र य॑च्छे-द्यच्छे॒-त्प्र प्र य॑च्छेत् । 3) य॒च्छे॒-त्प्र॒हृत्य॑ प्र॒हृत्य॑ यच्छे-द्यच्छे-त्प्र॒हृत्य॑ । 4) प्र॒हृत्य॑ परि॒धी-न्प॑रि॒धी-न्प्र॒हृत्य॑ प्र॒हृत्य॑ परि॒धीन् । 4) प्र॒हृत्येति॑ प्र - हृत्य॑ । 5) प॒रि॒धीन् जु॑होति जुहोति परि॒धी-न्प॑रि॒धीन् जु॑होति । 5) प॒रि॒धीनिति॑ परि - धीन् । 6) जु॒हो॒ति॒ निरा॑धानाभ्या॒-न्निरा॑धानाभ्या-ञ्जुहोति जुहोति॒ निरा॑धानाभ्याम् । 7) निरा॑धानाभ्या मे॒वैव निरा॑धानाभ्या॒-न्निरा॑धानाभ्या मे॒व । 7) निरा॑धानाभ्या॒मिति॒ निः - आ॒धा॒ना॒भ्या॒म् । 8) ए॒व घा॒स-ङ्घा॒स मे॒वैव घा॒सम् । 9) घा॒स-म्प्र प्र घा॒स-ङ्घा॒स-म्प्र । 10) प्र य॑च्छति यच्छति॒ प्र प्र य॑च्छति । 11) य॒च्छ॒ त्यु॒न्ने॒ तोन्ने॒ता य॑च्छति यच्छ त्युन्ने॒ता । 12) उ॒न्ने॒ता जु॑होति जुहो त्युन्ने॒ तोन्ने॒ता जु॑होति । 12) उ॒न्ने॒तेत्यु॑त् - ने॒ता । 13) जु॒हो॒ति॒ या॒तया॑मा या॒तया॑मा जुहोति जुहोति या॒तया॑मा । 14) या॒तया॑ मेवेव या॒तया॑मा या॒तया॑मेव । 14) या॒तया॒मेति॑ या॒त - या॒मा॒ । 15) इ॒व॒ हि हीवे॑व॒ हि । 16) ह्ये॑तर्-ह्ये॒तर्हि॒ हि ह्ये॑तर्हि॑ । 17) ए॒तर्-ह्य॑द्ध्व॒र्यु र॑द्ध्व॒र्यु रे॒तर्-ह्ये॒तर्-ह्य॑द्ध्व॒र्युः । 18) अ॒द्ध्व॒र्यु-स्स्व॒गाकृ॑त-स्स्व॒गाकृ॑तो ऽद्ध्व॒र्यु र॑द्ध्व॒र्यु-स्स्व॒गाकृ॑तः । 19) स्व॒गाकृ॑तो॒ य-द्य-थ्स्व॒गाकृ॑त-स्स्व॒गाकृ॑तो॒ यत् । 19) स्व॒गाकृ॑त॒ इति॑ स्व॒गा - कृ॒तः॒ । 20) यद॑द्ध्व॒र्यु र॑द्ध्व॒र्यु-र्य-द्यद॑द्ध्व॒र्युः । 21) अ॒द्ध्व॒र्यु-र्जु॑हु॒याज् जु॑हु॒या द॑द्ध्व॒र्यु र॑द्ध्व॒र्यु-र्जु॑हु॒यात् । 22) जु॒हु॒या-द्यथा॒ यथा॑ जुहु॒याज् जु॑हु॒या-द्यथा᳚ । 23) यथा॒ विमु॑क्तं॒-विँमु॑क्तं॒-यँथा॒ यथा॒ विमु॑क्तम् । 24) विमु॑क्त॒-म्पुनः॒ पुन॒-र्विमु॑क्तं॒-विँमु॑क्त॒-म्पुनः॑ । 24) विमु॑क्त॒मिति॒ वि - मु॒क्त॒म् । 25) पुन॑-र्यु॒नक्ति॑ यु॒नक्ति॒ पुनः॒ पुन॑-र्यु॒नक्ति॑ । 26) यु॒नक्ति॑ ता॒दृ-क्ता॒दृग् यु॒नक्ति॑ यु॒नक्ति॑ ता॒दृक् । 27) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व । 28) ए॒व त-त्तदे॒ वैव तत् । 29) तच् छी॒र्॒ष-ञ्छी॒र्॒ष-न्त-त्तच् छी॒र्॒षन्न् । 30) शी॒र्॒ष-न्न॑धिनि॒धाया॑ धिनि॒धाय॑ शी॒र्॒ष-ञ्छी॒र्॒ष-न्न॑धिनि॒धाय॑ । 31) अ॒धि॒नि॒धाय॑ जुहोति जुहो त्यधिनि॒धाया॑ धिनि॒धाय॑ जुहोति । 31) अ॒धि॒नि॒धायेत्य॑धि - नि॒धाय॑ । 32) जु॒हो॒ति॒ शी॒र्॒ष॒त-श्शी॑र्ष॒तो जु॑होति जुहोति शीर्ष॒तः । 33) शी॒र्॒ष॒तो हि हि शी॑र्ष॒त-श्शी॑र्ष॒तो हि । 34) हि स स हि हि सः । 35) स स॒मभ॑व-थ्स॒मभ॑व॒-थ्स स स॒मभ॑वत् । 36) स॒मभ॑व-द्वि॒क्रम्य॑ वि॒क्रम्य॑ स॒मभ॑व-थ्स॒मभ॑व-द्वि॒क्रम्य॑ । 36) स॒मभ॑व॒दिति॑ सं - अभ॑वत् । 37) वि॒क्रम्य॑ जुहोति जुहोति वि॒क्रम्य॑ वि॒क्रम्य॑ जुहोति । 37) वि॒क्रम्येति॑ वि - क्रम्य॑ । 38) जु॒हो॒ति॒ वि॒क्रम्य॑ वि॒क्रम्य॑ जुहोति जुहोति वि॒क्रम्य॑ । 39) वि॒क्रम्य॒ हि हि वि॒क्रम्य॑ वि॒क्रम्य॒ हि । 39) वि॒क्रम्येति॑ वि - क्रम्य॑ । 40) हीन्द्र॒ इन्द्रो॒ हि हीन्द्रः॑ । 41) इन्द्रो॑ वृ॒त्रं-वृँ॒त्र मिन्द्र॒ इन्द्रो॑ वृ॒त्रम् । 42) वृ॒त्र मह॒-न्नह॑न् वृ॒त्रं-वृँ॒त्र महन्न्॑ । 43) अह॒-न्थ्समृ॑द्ध्यै॒ समृ॑द्ध्या॒ अह॒-न्नह॒-न्थ्समृ॑द्ध्यै । 44) समृ॑द्ध्यै प॒शवः॑ प॒शव॒-स्समृ॑द्ध्यै॒ समृ॑द्ध्यै प॒शवः॑ । 44) समृ॑द्ध्या॒ इति॒ सम् - ऋ॒द्ध्यै॒ । 45) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै । 46) वै हा॑रियोज॒नीर्-हा॑रियोज॒नी-र्वै वै हा॑रियोज॒नीः । 47) हा॒रि॒यो॒ज॒नी-र्य-द्यद्धा॑रियोज॒नीर्-हा॑रियोज॒नी-र्यत् । 47) हा॒रि॒यो॒ज॒नीरिति॑ हारि - यो॒ज॒नीः । 48) य-थ्स॑म्भि॒न्द्या-थ्स॑म्भि॒न्द्या-द्य-द्य-थ्स॑म्भि॒न्द्यात् । 49) स॒म्भि॒न्द्या दल्पा॒ अल्पा᳚-स्सम्भि॒न्द्या-थ्स॑म्भि॒न्द्या दल्पाः᳚ । 49) स॒म्भि॒न्द्यादिति॑ सं - भि॒न्द्यात् । 50) अल्पा॑ एन मेन॒ मल्पा॒ अल्पा॑ एनम् । ॥ 34 ॥ (50/64)
1) ए॒न॒-म्प॒शवः॑ प॒शव॑ एन मेन-म्प॒शवः॑ । 2) प॒शवो॑ भु॒ञ्जन्तो॑ भु॒ञ्जन्तः॑ प॒शवः॑ प॒शवो॑ भु॒ञ्जन्तः॑ । 3) भु॒ञ्जन्त॒ उपोप॑ भु॒ञ्जन्तो॑ भु॒ञ्जन्त॒ उप॑ । 4) उप॑ तिष्ठेर-न्तिष्ठेर॒-न्नुपोप॑ तिष्ठेरन्न् । 5) ति॒ष्ठे॒र॒न्॒. य-द्य-त्ति॑ष्ठेर-न्तिष्ठेर॒न्॒. यत् । 6) य-न्न न य-द्य-न्न । 7) न स॑म्भि॒न्द्या-थ्स॑म्भि॒न्द्या-न्न न स॑म्भि॒न्द्यात् । 8) स॒म्भि॒न्द्या-द्ब॒हवो॑ ब॒हव॑-स्सम्भि॒न्द्या-थ्स॑म्भि॒न्द्या-द्ब॒हवः॑ । 8) स॒म्भि॒न्द्यादिति॑ सं - भि॒न्द्यात् । 9) ब॒हव॑ एन मेन-म्ब॒हवो॑ ब॒हव॑ एनम् । 10) ए॒न॒-म्प॒शवः॑ प॒शव॑ एन मेन-म्प॒शवः॑ । 11) प॒शवो ऽभु॑ञ्ज॒न्तो ऽभु॑ञ्जन्तः प॒शवः॑ प॒शवो ऽभु॑ञ्जन्तः । 12) अभु॑ञ्जन्त॒ उपोपा भु॑ञ्ज॒न्तो ऽभु॑ञ्जन्त॒ उप॑ । 13) उप॑ तिष्ठेर-न्तिष्ठेर॒-न्नुपोप॑ तिष्ठेरन्न् । 14) ति॒ष्ठे॒र॒-न्मन॑सा॒ मन॑सा तिष्ठेर-न्तिष्ठेर॒-न्मन॑सा । 15) मन॑सा॒ सग्ं स-म्मन॑सा॒ मन॑सा॒ सम् । 16) स-म्बा॑धते बाधते॒ सग्ं स-म्बा॑धते । 17) बा॒ध॒त॒ उ॒भय॑ मु॒भय॑-म्बाधते बाधत उ॒भय᳚म् । 18) उ॒भय॑-ङ्करोति करो त्यु॒भय॑ मु॒भय॑-ङ्करोति । 19) क॒रो॒ति॒ ब॒हवो॑ ब॒हवः॑ करोति करोति ब॒हवः॑ । 20) ब॒हव॑ ए॒वैव ब॒हवो॑ ब॒हव॑ ए॒व । 21) ए॒वैन॑ मेन मे॒वै वैन᳚म् । 22) ए॒न॒-म्प॒शवः॑ प॒शव॑ एन मेन-म्प॒शवः॑ । 23) प॒शवो॑ भु॒ञ्जन्तो॑ भु॒ञ्जन्तः॑ प॒शवः॑ प॒शवो॑ भु॒ञ्जन्तः॑ । 24) भु॒ञ्जन्त॒ उपोप॑ भु॒ञ्जन्तो॑ भु॒ञ्जन्त॒ उप॑ । 25) उप॑ तिष्ठन्ते तिष्ठन्त॒ उपोप॑ तिष्ठन्ते । 26) ति॒ष्ठ॒न्त॒ उ॒न्ने॒त-र्यु॑न्ने॒तरि॑ तिष्ठन्ते तिष्ठन्त उन्ने॒तरि॑ । 27) उ॒न्ने॒त-र्यु॑पह॒व मु॑पह॒व मु॑न्ने॒त-र्यु॑न्ने॒त-र्यु॑पह॒वम् । 27) उ॒न्ने॒तरीत्यु॑त् - ने॒तरि॑ । 28) उ॒प॒ह॒व मि॑च्छन्त इच्छन्त उपह॒व मु॑पह॒व मि॑च्छन्ते । 28) उ॒प॒ह॒वमित्यु॑प - ह॒वम् । 29) इ॒च्छ॒न्ते॒ यो य इ॑च्छन्त इच्छन्ते॒ यः । 30) य ए॒वैव यो य ए॒व । 31) ए॒व तत्र॒ तत्रै॒ वैव तत्र॑ । 32) तत्र॑ सोमपी॒थ-स्सो॑मपी॒थ स्तत्र॒ तत्र॑ सोमपी॒थः । 33) सो॒म॒पी॒थ स्त-न्तग्ं सो॑मपी॒थ-स्सो॑मपी॒थ स्तम् । 33) सो॒म॒पी॒थ इति॑ सोम - पी॒थः । 34) तमे॒वैव त-न्तमे॒व । 35) ए॒वावा वै॒वै वाव॑ । 36) अव॑ रुन्धते रुन्ध॒ते ऽवाव॑ रुन्धते । 37) रु॒न्ध॒त॒ उ॒त्त॒र॒वे॒द्या मु॑त्तरवे॒द्याग्ं रु॑न्धते रुन्धत उत्तरवे॒द्याम् । 38) उ॒त्त॒र॒वे॒द्या-न्नि न्यु॑त्तरवे॒द्या मु॑त्तरवे॒द्या-न्नि । 38) उ॒त्त॒र॒वे॒द्यामित्यु॑त्तर - वे॒द्याम् । 39) नि व॑पति वपति॒ नि नि व॑पति । 40) व॒प॒ति॒ प॒शवः॑ प॒शवो॑ वपति वपति प॒शवः॑ । 41) प॒शवो॒ वै वै प॒शवः॑ प॒शवो॒ वै । 42) वा उ॑त्तरवे॒दि रु॑त्तरवे॒दि-र्वै वा उ॑त्तरवे॒दिः । 43) उ॒त्त॒र॒वे॒दिः प॒शवः॑ प॒शव॑ उत्तरवे॒दि रु॑त्तरवे॒दिः प॒शवः॑ । 43) उ॒त्त॒र॒वे॒दिरित्यु॑त्तर - वे॒दिः । 44) प॒शवो॑ हारियोज॒नीर्-हा॑रियोज॒नीः प॒शवः॑ प॒शवो॑ हारियोज॒नीः । 45) हा॒रि॒यो॒ज॒नीः प॒शुषु॑ प॒शुषु॑ हारियोज॒नीर्-हा॑रियोज॒नीः प॒शुषु॑ । 45) हा॒रि॒यो॒ज॒नीरिति॑ हारि - यो॒ज॒नीः । 46) प॒शु ष्वे॒वैव प॒शुषु॑ प॒शुष्वे॒व । 47) ए॒व प॒शू-न्प॒शू ने॒वैव प॒शून् । 48) प॒शू-न्प्रति॒ प्रति॑ प॒शू-न्प॒शू-न्प्रति॑ । 49) प्रति॑ ष्ठापयन्ति स्थापयन्ति॒ प्रति॒ प्रति॑ ष्ठापयन्ति । 50) स्था॒प॒य॒न्तीति॑ स्थापयन्ति । ॥ 35 ॥ (50/57) ॥ अ. 9 ॥
1) ग्रहा॒न्॒. वै वै ग्रहा॒-न्ग्रहा॒न्॒. वै । 2) वा अन् वनु॒ वै वा अनु॑ । 3) अनु॑ प्र॒जाः प्र॒जा अन् वनु॑ प्र॒जाः । 4) प्र॒जाः प॒शवः॑ प॒शवः॑ प्र॒जाः प्र॒जाः प॒शवः॑ । 4) प्र॒जा इति॑ प्र - जाः । 5) प॒शवः॒ प्र प्र प॒शवः॑ प॒शवः॒ प्र । 6) प्र जा॑यन्ते जायन्ते॒ प्र प्र जा॑यन्ते । 7) जा॒य॒न्त॒ उ॒पा॒ग्॒श्व॒न्त॒र्या॒मा वु॑पाग्श्वन्तर्या॒मौ जा॑यन्ते जायन्त उपाग्श्वन्तर्या॒मौ । 8) उ॒पा॒ग्॒श्व॒न्त॒र्या॒मा व॑जा॒वयो॑ ऽजा॒वय॑ उपाग्श्वन्तर्या॒मा वु॑पाग्श्वन्तर्या॒मा व॑जा॒वयः॑ । 8) उ॒पा॒ग्॒श्व॒न्त॒र्या॒मावित्यु॑पाग्ंशु - अ॒न्त॒र्या॒मौ । 9) अ॒जा॒वय॑-श्शु॒क्राम॒न्थिनौ॑ शु॒क्राम॒न्थिना॑ वजा॒वयो॑ ऽजा॒वय॑-श्शु॒क्राम॒न्थिनौ᳚ । 9) अ॒जा॒वय॒ इत्य॑जा - अ॒वयः॑ । 10) शु॒क्राम॒न्थिनौ॒ पुरु॑षाः॒ पुरु॑षा-श्शु॒क्राम॒न्थिनौ॑ शु॒क्राम॒न्थिनौ॒ पुरु॑षाः । 10) शु॒क्राम॒न्थिना॒विति॑ शु॒क्रा - म॒न्थिनौ᳚ । 11) पुरु॑षा ऋतुग्र॒हा नृ॑तुग्र॒हा-न्पुरु॑षाः॒ पुरु॑षा ऋतुग्र॒हान् । 12) ऋ॒तु॒ग्र॒हा नेक॑शफा॒ एक॑शफा ऋतुग्र॒हा नृ॑तुग्र॒हा नेक॑शफाः । 12) ऋ॒तु॒ग्र॒हानित्यृ॑तु - ग्र॒हान् । 13) एक॑शफा आदित्यग्र॒ह मा॑दित्यग्र॒ह मेक॑शफा॒ एक॑शफा आदित्यग्र॒हम् । 13) एक॑शफा॒ इत्येक॑ - श॒फाः॒ । 14) आ॒दि॒त्य॒ग्र॒ह-ङ्गावो॒ गाव॑ आदित्यग्र॒ह मा॑दित्यग्र॒ह-ङ्गावः॑ । 14) आ॒दि॒त्य॒ग्र॒हमित्या॑दित्य - ग्र॒हम् । 15) गाव॑ आदित्यग्र॒ह आ॑दित्यग्र॒हो गावो॒ गाव॑ आदित्यग्र॒हः । 16) आ॒दि॒त्य॒ग्र॒हो भूयि॑ष्ठाभि॒-र्भूयि॑ष्ठाभि रादित्यग्र॒ह आ॑दित्यग्र॒हो भूयि॑ष्ठाभिः । 16) आ॒दि॒त्य॒ग्र॒ह इत्या॑दित्य - ग्र॒हः । 17) भूयि॑ष्ठाभिर्-ऋ॒ग्भिर्-ऋ॒ग्भि-र्भूयि॑ष्ठाभि॒-र्भूयि॑ष्ठाभिर्-ऋ॒ग्भिः । 18) ऋ॒ग्भि-र्गृ॑ह्यते गृह्यत ऋ॒ग्भिर्-ऋ॒ग्भि-र्गृ॑ह्यते । 18) ऋ॒ग्भिरित्यृ॑क् - भिः । 19) गृ॒ह्य॒ते॒ तस्मा॒-त्तस्मा᳚-द्गृह्यते गृह्यते॒ तस्मा᳚त् । 20) तस्मा॒-द्गावो॒ गाव॒ स्तस्मा॒-त्तस्मा॒-द्गावः॑ । 21) गावः॑ पशू॒ना-म्प॑शू॒ना-ङ्गावो॒ गावः॑ पशू॒नाम् । 22) प॒शू॒ना-म्भूयि॑ष्ठा॒ भूयि॑ष्ठाः पशू॒ना-म्प॑शू॒ना-म्भूयि॑ष्ठाः । 23) भूयि॑ष्ठा॒ य-द्य-द्भूयि॑ष्ठा॒ भूयि॑ष्ठा॒ यत् । 24) य-त्त्रि स्त्रि-र्य-द्य-त्त्रिः । 25) त्रि रु॑पा॒ग्ं॒शु मु॑पा॒ग्ं॒शु-न्त्रि स्त्रि रु॑पा॒ग्ं॒शुम् । 26) उ॒पा॒ग्ं॒शुग्ं हस्ते॑न॒ हस्ते॑ नोपा॒ग्ं॒शु मु॑पा॒ग्ं॒शुग्ं हस्ते॑न । 26) उ॒पा॒ग्ं॒शुमित्यु॑प - अ॒शुम् । 27) हस्ते॑न विगृ॒ह्णाति॑ विगृ॒ह्णाति॒ हस्ते॑न॒ हस्ते॑न विगृ॒ह्णाति॑ । 28) वि॒गृ॒ह्णाति॒ तस्मा॒-त्तस्मा᳚-द्विगृ॒ह्णाति॑ विगृ॒ह्णाति॒ तस्मा᳚त् । 28) वि॒गृ॒ह्णातीति॑ वि - गृ॒ह्णाति॑ । 29) तस्मा॒-द्द्वौ द्वौ तस्मा॒-त्तस्मा॒-द्द्वौ । 30) द्वौ त्रीग् स्त्री-न्द्वौ द्वौ त्रीन् । 31) त्री न॒जा ऽजा त्रीग् स्त्रीन॒जा । 32) अ॒जा ज॒नय॑ति ज॒नय॑ त्य॒जा ऽजा ज॒नय॑ति । 33) ज॒नय॒ त्यथाथ॑ ज॒नय॑ति ज॒नय॒ त्यथ॑ । 34) अथा व॒यो ऽव॒यो ऽथाथा व॑यः । 35) अव॑यो॒ भूय॑सी॒-र्भूय॑सी॒ रव॒यो ऽव॑यो॒ भूय॑सीः । 36) भूय॑सीः पि॒ता पि॒ता भूय॑सी॒-र्भूय॑सीः पि॒ता । 37) पि॒ता वै वै पि॒ता पि॒ता वै । 38) वा ए॒ष ए॒ष वै वा ए॒षः । 39) ए॒ष य-द्यदे॒ष ए॒ष यत् । 40) यदा᳚ग्रय॒ण आ᳚ग्रय॒णो य-द्यदा᳚ग्रय॒णः । 41) आ॒ग्र॒य॒णः पु॒त्रः पु॒त्र आ᳚ग्रय॒ण आ᳚ग्रय॒णः पु॒त्रः । 42) पु॒त्रः क॒लशः॑ क॒लशः॑ पु॒त्रः पु॒त्रः क॒लशः॑ । 43) क॒लशो॒ य-द्य-त्क॒लशः॑ क॒लशो॒ यत् । 44) यदा᳚ग्रय॒ण आ᳚ग्रय॒णो य-द्यदा᳚ग्रय॒णः । 45) आ॒ग्र॒य॒ण उ॑प॒दस्ये॑ दुप॒दस्ये॑ दाग्रय॒ण आ᳚ग्रय॒ण उ॑प॒दस्ये᳚त् । 46) उ॒प॒दस्ये᳚-त्क॒लशा᳚-त्क॒लशा॑ दुप॒दस्ये॑ दुप॒दस्ये᳚-त्क॒लशा᳚त् । 46) उ॒प॒दस्ये॒दित्यु॑प - दस्ये᳚त् । 47) क॒लशा᳚-द्गृह्णीया-द्गृह्णीया-त्क॒लशा᳚-त्क॒लशा᳚-द्गृह्णीयात् । 48) गृ॒ह्णी॒या॒-द्यथा॒ यथा॑ गृह्णीया-द्गृह्णीया॒-द्यथा᳚ । 49) यथा॑ पि॒ता पि॒ता यथा॒ यथा॑ पि॒ता । 50) पि॒ता पु॒त्र-म्पु॒त्र-म्पि॒ता पि॒ता पु॒त्रम् । ॥ 36 ॥ (50/62)
1) पु॒त्र-ङ्क्षि॒तः, क्षि॒तः पु॒त्र-म्पु॒त्र-ङ्क्षि॒तः । 2) क्षि॒त उ॑प॒धाव॑ त्युप॒धाव॑ति क्षि॒तः, क्षि॒त उ॑प॒धाव॑ति । 3) उ॒प॒धाव॑ति ता॒दृ-क्ता॒दृ गु॑प॒धाव॑ त्युप॒धाव॑ति ता॒दृक् । 3) उ॒प॒धाव॒तीत्यु॑प - धाव॑ति । 4) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व । 5) ए॒व त-त्तदे॒ वैव तत् । 6) त-द्य-द्य-त्त-त्त-द्यत् । 7) य-त्क॒लशः॑ क॒लशो॒ य-द्य-त्क॒लशः॑ । 8) क॒लश॑ उप॒दस्ये॑ दुप॒दस्ये᳚-त्क॒लशः॑ क॒लश॑ उप॒दस्ये᳚त् । 9) उ॒प॒दस्ये॑ दाग्रय॒णा दा᳚ग्रय॒णा दु॑प॒दस्ये॑ दुप॒दस्ये॑ दाग्रय॒णात् । 9) उ॒प॒दस्ये॒दित्यु॑प - दस्ये᳚त् । 10) आ॒ग्र॒य॒णा-द्गृ॑ह्णीया-द्गृह्णीया दाग्रय॒णा दा᳚ग्रय॒णा-द्गृ॑ह्णीयात् । 11) गृ॒ह्णी॒या॒-द्यथा॒ यथा॑ गृह्णीया-द्गृह्णीया॒-द्यथा᳚ । 12) यथा॑ पु॒त्रः पु॒त्रो यथा॒ यथा॑ पु॒त्रः । 13) पु॒त्रः पि॒तर॑-म्पि॒तर॑-म्पु॒त्रः पु॒त्रः पि॒तर᳚म् । 14) पि॒तर॑-ङ्क्षि॒तः, क्षि॒तः पि॒तर॑-म्पि॒तर॑-ङ्क्षि॒तः । 15) क्षि॒त उ॑प॒धाव॑ त्युप॒धाव॑ति क्षि॒तः, क्षि॒त उ॑प॒धाव॑ति । 16) उ॒प॒धाव॑ति ता॒दृ-क्ता॒दृ गु॑प॒धाव॑ त्युप॒धाव॑ति ता॒दृक् । 16) उ॒प॒धाव॒तीत्यु॑प - धाव॑ति । 17) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व । 18) ए॒व त-त्तदे॒ वैव तत् । 19) तदा॒त्मा ऽऽत्मा त-त्तदा॒त्मा । 20) आ॒त्मा वै वा आ॒त्मा ऽऽत्मा वै । 21) वा ए॒ष ए॒ष वै वा ए॒षः । 22) ए॒ष य॒ज्ञस्य॑ य॒ज्ञ स्यै॒ष ए॒ष य॒ज्ञस्य॑ । 23) य॒ज्ञस्य॒ य-द्य-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ यत् । 24) यदा᳚ग्रय॒ण आ᳚ग्रय॒णो य-द्यदा᳚ग्रय॒णः । 25) आ॒ग्र॒य॒णो य-द्यदा᳚ग्रय॒ण आ᳚ग्रय॒णो यत् । 26) य-द्ग्रहो॒ ग्रहो॒ य-द्य-द्ग्रहः॑ । 27) ग्रहो॑ वा वा॒ ग्रहो॒ ग्रहो॑ वा । 28) वा॒ क॒लशः॑ क॒लशो॑ वा वा क॒लशः॑ । 29) क॒लशो॑ वा वा क॒लशः॑ क॒लशो॑ वा । 30) वो॒प॒दस्ये॑ दुप॒दस्ये᳚-द्वा वोप॒दस्ये᳚त् । 31) उ॒प॒दस्ये॑ दाग्रय॒णा दा᳚ग्रय॒णा दु॑प॒दस्ये॑ दुप॒दस्ये॑ दाग्रय॒णात् । 31) उ॒प॒दस्ये॒दित्यु॑प - दस्ये᳚त् । 32) आ॒ग्र॒य॒णा-द्गृ॑ह्णीया-द्गृह्णीया दाग्रय॒णा दा᳚ग्रय॒णा-द्गृ॑ह्णीयात् । 33) गृ॒ह्णी॒या॒ दा॒त्मन॑ आ॒त्मनो॑ गृह्णीया-द्गृह्णीया दा॒त्मनः॑ । 34) आ॒त्मन॑ ए॒वै वात्मन॑ आ॒त्मन॑ ए॒व । 35) ए॒वा ध्यध्ये॒ वैवाधि॑ । 36) अधि॑ य॒ज्ञं-यँ॒ज्ञ मध्यधि॑ य॒ज्ञम् । 37) य॒ज्ञ-न्नि-र्णि-र्य॒ज्ञं-यँ॒ज्ञ-न्निः । 38) निष् क॑रोति करोति॒ नि-र्णिष् क॑रोति । 39) क॒रो॒ त्यवि॑ज्ञा॒तो ऽवि॑ज्ञातः करोति करो॒ त्यवि॑ज्ञातः । 40) अवि॑ज्ञातो॒ वै वा अवि॑ज्ञा॒तो ऽवि॑ज्ञातो॒ वै । 40) अवि॑ज्ञात॒ इत्यवि॑ - ज्ञा॒तः॒ । 41) वा ए॒ष ए॒ष वै वा ए॒षः । 42) ए॒ष गृ॑ह्यते गृह्यत ए॒ष ए॒ष गृ॑ह्यते । 43) गृ॒ह्य॒ते॒ य-द्य-द्गृ॑ह्यते गृह्यते॒ यत् । 44) यदा᳚ग्रय॒ण आ᳚ग्रय॒णो य-द्यदा᳚ग्रय॒णः । 45) आ॒ग्र॒य॒ण-स्स्था॒ल्या स्था॒ल्या ऽऽग्र॑य॒ण आ᳚ग्रय॒ण-स्स्था॒ल्या । 46) स्था॒ल्या गृ॒ह्णाति॑ गृ॒ह्णाति॑ स्था॒ल्या स्था॒ल्या गृ॒ह्णाति॑ । 47) गृ॒ह्णाति॑ वाय॒व्ये॑न वाय॒व्ये॑न गृ॒ह्णाति॑ गृ॒ह्णाति॑ वाय॒व्ये॑न । 48) वा॒य॒व्ये॑न जुहोति जुहोति वाय॒व्ये॑न वाय॒व्ये॑न जुहोति । 49) जु॒हो॒ति॒ तस्मा॒-त्तस्मा᳚ज् जुहोति जुहोति॒ तस्मा᳚त् । 50) तस्मा॒-द्गर्भे॑ण॒ गर्भे॑ण॒ तस्मा॒-त्तस्मा॒-द्गर्भे॑ण । ॥ 37 ॥ (50/55)
1) गर्भे॒णा वि॑ज्ञाते॒ना वि॑ज्ञातेन॒ गर्भे॑ण॒ गर्भे॒णा वि॑ज्ञातेन । 2) अवि॑ज्ञातेन ब्रह्म॒हा ब्र॑ह्म॒हा ऽवि॑ज्ञाते॒ना वि॑ज्ञातेन ब्रह्म॒हा । 2) अवि॑ज्ञाते॒नेत्यवि॑ - ज्ञा॒ते॒न॒ । 3) ब्र॒ह्म॒हा ऽव॑भृ॒थ म॑वभृ॒थ-म्ब्र॑ह्म॒हा ब्र॑ह्म॒हा ऽव॑भृ॒थम् । 3) ब्र॒ह्म॒हेति॑ ब्रह्म - हा । 4) अ॒व॒भृ॒थ मवावा॑ वभृ॒थ म॑वभृ॒थ मव॑ । 4) अ॒व॒भृ॒थमित्य॑व - भृ॒थम् । 5) अव॑ यन्ति य॒न्त्यवाव॑ यन्ति । 6) य॒न्ति॒ परा॒ परा॑ यन्ति यन्ति॒ परा᳚ । 7) परा᳚ स्था॒ली-स्स्था॒लीः परा॒ परा᳚ स्था॒लीः । 8) स्था॒ली रस्य॒ न्त्यस्य॑न्ति स्था॒ली-स्स्था॒ली रस्य॑न्ति । 9) अस्य॒ न्त्युदु दस्य॒ न्त्यस्य॒ न्त्युत् । 10) उ-द्वा॑य॒व्या॑नि वाय॒व्या᳚ न्युदु-द्वा॑य॒व्या॑नि । 11) वा॒य॒व्या॑नि हरन्ति हरन्ति वाय॒व्या॑नि वाय॒व्या॑नि हरन्ति । 12) ह॒र॒न्ति॒ तस्मा॒-त्तस्मा᳚ द्धरन्ति हरन्ति॒ तस्मा᳚त् । 13) तस्मा॒-थ्स्त्रिय॒ग्ग्॒ स्त्रिय॒-न्तस्मा॒-त्तस्मा॒-थ्स्त्रिय᳚म् । 14) स्त्रिय॑-ञ्जा॒ता-ञ्जा॒ताग् स्त्रिय॒ग्ग्॒ स्त्रिय॑-ञ्जा॒ताम् । 15) जा॒ता-म्परा॒ परा॑ जा॒ता-ञ्जा॒ता-म्परा᳚ । 16) परा᳚ ऽस्य न्त्यस्यन्ति॒ परा॒ परा᳚ ऽस्यन्ति । 17) अ॒स्य॒ न्त्युदु द॑स्य न्त्यस्य॒ न्त्युत् । 18) उ-त्पुमाग्ं॑स॒-म्पुमाग्ं॑स॒ मुदु-त्पुमाग्ं॑सम् । 19) पुमाग्ं॑सग्ं हरन्ति हरन्ति॒ पुमाग्ं॑स॒-म्पुमाग्ं॑सग्ं हरन्ति । 20) ह॒र॒न्ति॒ य-द्यद्ध॑रन्ति हरन्ति॒ यत् । 21) य-त्पु॑रो॒रुच॑-म्पुरो॒रुचं॒-यँ-द्य-त्पु॑रो॒रुच᳚म् । 22) पु॒रो॒रुच॒ माहाह॑ पुरो॒रुच॑-म्पुरो॒रुच॒ माह॑ । 22) पु॒रो॒रुच॒मिति॑ पुरः - रुच᳚म् । 23) आह॒ यथा॒ यथा ऽऽहाह॒ यथा᳚ । 24) यथा॒ वस्य॑से॒ वस्य॑से॒ यथा॒ यथा॒ वस्य॑से । 25) वस्य॑स आ॒हर॑ त्या॒हर॑ति॒ वस्य॑से॒ वस्य॑स आ॒हर॑ति । 26) आ॒हर॑ति ता॒दृ-क्ता॒दृ गा॒हर॑ त्या॒हर॑ति ता॒दृक् । 26) आ॒हर॒तीत्या᳚ - हर॑ति । 27) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व । 28) ए॒व त-त्तदे॒ वैव तत् । 29) त-द्य-द्य-त्त-त्त-द्यत् । 30) य-द्ग्रह॒-ङ्ग्रहं॒-यँ-द्य-द्ग्रह᳚म् । 31) ग्रह॑-ङ्गृ॒ह्णाति॑ गृ॒ह्णाति॒ ग्रह॒-ङ्ग्रह॑-ङ्गृ॒ह्णाति॑ । 32) गृ॒ह्णाति॒ यथा॒ यथा॑ गृ॒ह्णाति॑ गृ॒ह्णाति॒ यथा᳚ । 33) यथा॒ वस्य॑से॒ वस्य॑से॒ यथा॒ यथा॒ वस्य॑से । 34) वस्य॑स आ॒हृत्या॒ हृत्य॒ वस्य॑से॒ वस्य॑स आ॒हृत्य॑ । 35) आ॒हृत्य॒ प्र प्राहृत्या॒ हृत्य॒ प्र । 35) आ॒हृत्येत्या᳚ - हृत्य॑ । 36) प्राहाह॒ प्र प्राह॑ । 37) आह॑ ता॒दृ-क्ता॒दृ गाहाह॑ ता॒दृक् । 38) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व । 39) ए॒व त-त्तदे॒ वैव तत् । 40) त-द्य-द्य-त्त-त्त-द्यत् । 41) य-थ्सा॒दय॑ति सा॒दय॑ति॒ य-द्य-थ्सा॒दय॑ति । 42) सा॒दय॑ति॒ यथा॒ यथा॑ सा॒दय॑ति सा॒दय॑ति॒ यथा᳚ । 43) यथा॒ वस्य॑से॒ वस्य॑से॒ यथा॒ यथा॒ वस्य॑से । 44) वस्य॑स उपनि॒धायो॑ पनि॒धाय॒ वस्य॑से॒ वस्य॑स उपनि॒धाय॑ । 45) उ॒प॒नि॒धाया॑ प॒क्राम॑ त्यप॒क्राम॑ त्युपनि॒धायो॑ पनि॒धाया॑ प॒क्राम॑ति । 45) उ॒प॒नि॒धायेत्यु॑प - नि॒धाय॑ । 46) अ॒प॒क्राम॑ति ता॒दृ-क्ता॒दृ ग॑प॒क्राम॑ त्यप॒क्राम॑ति ता॒दृक् । 46) अ॒प॒क्राम॒तीत्य॑प - क्राम॑ति । 47) ता॒दृ गे॒वैव ता॒दृ-क्ता॒दृ गे॒व । 48) ए॒व त-त्तदे॒ वैव तत् । 49) त-द्य-द्य-त्त-त्त-द्यत् । 50) य-द्वै वै य-द्य-द्वै । 51) वै य॒ज्ञस्य॑ य॒ज्ञस्य॒ वै वै य॒ज्ञस्य॑ । 52) य॒ज्ञस्य॒ साम्ना॒ साम्ना॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ साम्ना᳚ । 53) साम्ना॒ यजु॑षा॒ यजु॑षा॒ साम्ना॒ साम्ना॒ यजु॑षा । 54) यजु॑षा क्रि॒यते᳚ क्रि॒यते॒ यजु॑षा॒ यजु॑षा क्रि॒यते᳚ । 55) क्रि॒यते॑ शिथि॒लग्ं शि॑थि॒ल-ङ्क्रि॒यते᳚ क्रि॒यते॑ शिथि॒लम् । 56) शि॒थि॒ल-न्त-त्तच् छि॑थि॒लग्ं शि॑थि॒ल-न्तत् । 57) त-द्य-द्य-त्त-त्त-द्यत् । 58) यदृ॒च र्चा य-द्यदृ॒चा । 59) ऋ॒चा त-त्तदृ॒च र्चा तत् । 60) त-द्दृ॒ढ-न्दृ॒ढ-न्त-त्त-द्दृ॒ढम् । 61) दृ॒ढ-म्पु॒रस्ता॑दुपयामाः पु॒रस्ता॑दुपयामा दृ॒ढ-न्दृ॒ढ-म्पु॒रस्ता॑दुपयामाः । 62) पु॒रस्ता॑दुपयामा॒ यजु॑षा॒ यजु॑षा पु॒रस्ता॑दुपयामाः पु॒रस्ता॑दुपयामा॒ यजु॑षा । 62) पु॒रस्ता॑दुपयामा॒ इति॑ पु॒रस्ता᳚त् - उ॒प॒या॒माः॒ । 63) यजु॑षा गृह्यन्ते गृह्यन्ते॒ यजु॑षा॒ यजु॑षा गृह्यन्ते । 64) गृ॒ह्य॒न्त॒ उ॒परि॑ष्टादुपयामा उ॒परि॑ष्टादुपयामा गृह्यन्ते गृह्यन्त उ॒परि॑ष्टादुपयामाः । 65) उ॒परि॑ष्टादुपयामा ऋ॒च र्चो परि॑ष्टा दुपयामा उ॒परि॑ष्टा दुपयामा ऋ॒चा । 65) उ॒परि॑ष्टादुपयामा॒ इत्यु॒परि॑ष्टात् - उ॒प॒या॒माः॒ । 66) ऋ॒चा य॒ज्ञस्य॑ य॒ज्ञस्य॒ र्च र्चा य॒ज्ञस्य॑ । 67) य॒ज्ञस्य॒ धृत्यै॒ धृत्यै॑ य॒ज्ञस्य॑ य॒ज्ञस्य॒ धृत्यै᳚ । 68) धृत्या॒ इति॒ धृत्यै᳚ । ॥ 38 ॥ (68/78) ॥ अ. 10 ॥
1) प्रा न्यान्य॒ न्यानि॒ प्र प्रा न्यानि॑ । 2) अ॒न्यानि॒ पात्रा॑णि॒ पात्रा᳚ ण्य॒न्या न्य॒न्यानि॒ पात्रा॑णि । 3) पात्रा॑णि यु॒ज्यन्ते॑ यु॒ज्यन्ते॒ पात्रा॑णि॒ पात्रा॑णि यु॒ज्यन्ते᳚ । 4) यु॒ज्यन्ते॒ न न यु॒ज्यन्ते॑ यु॒ज्यन्ते॒ न । 5) ना न्यान्य॒ न्यानि॒ न नान्यानि॑ । 6) अ॒न्यानि॒ यानि॒ यान्य॒ न्यान्य॒ न्यानि॒ यानि॑ । 7) यानि॑ परा॒चीना॑नि परा॒चीना॑नि॒ यानि॒ यानि॑ परा॒चीना॑नि । 8) प॒रा॒चीना॑नि प्रयु॒ज्यन्ते᳚ प्रयु॒ज्यन्ते॑ परा॒चीना॑नि परा॒चीना॑नि प्रयु॒ज्यन्ते᳚ । 9) प्र॒यु॒ज्यन्ते॒ ऽमु म॒मु-म्प्र॑यु॒ज्यन्ते᳚ प्रयु॒ज्यन्ते॒ ऽमुम् । 9) प्र॒यु॒ज्यन्त॒ इति॑ प्र - यु॒ज्यन्ते᳚ । 10) अ॒मु मे॒वै वामु म॒मु मे॒व । 11) ए॒व तै स्तै रे॒वैव तैः । 12) तै-र्लो॒कम् ँलो॒क-न्तै स्तै-र्लो॒कम् । 13) लो॒क म॒भ्य॑भि लो॒कम् ँलो॒क म॒भि । 14) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति । 15) ज॒य॒ति॒ परा॒-म्परा᳚-ञ्जयति जयति॒ परां॑ । 16) परा॑ ंइवेव॒ परा॒-म्परा॑ ंइव । 17) इ॒व॒ हि हीवे॑व॒ हि । 18) ह्य॑सा व॒सौ हि ह्य॑सौ । 19) अ॒सौ लो॒को लो॒को॑ ऽसा व॒सौ लो॒कः । 20) लो॒को यानि॒ यानि॑ लो॒को लो॒को यानि॑ । 21) यानि॒ पुनः॒ पुन॒-र्यानि॒ यानि॒ पुनः॑ । 22) पुनः॑ प्रयु॒ज्यन्ते᳚ प्रयु॒ज्यन्ते॒ पुनः॒ पुनः॑ प्रयु॒ज्यन्ते᳚ । 23) प्र॒यु॒ज्यन्त॑ इ॒म मि॒म-म्प्र॑यु॒ज्यन्ते᳚ प्रयु॒ज्यन्त॑ इ॒मम् । 23) प्र॒यु॒ज्यन्त॒ इति॑ प्र - यु॒ज्यन्ते᳚ । 24) इ॒म मे॒वैवे म मि॒म मे॒व । 25) ए॒व तै स्तै रे॒वैव तैः । 26) तै-र्लो॒कम् ँलो॒क-न्तै स्तै-र्लो॒कम् । 27) लो॒क म॒भ्य॑भि लो॒कम् ँलो॒क म॒भि । 28) अ॒भि ज॑यति जय त्य॒भ्य॑भि ज॑यति । 29) ज॒य॒ति॒ पुनः॑पुनः॒ पुनः॑पुन-र्जयति जयति॒ पुनः॑पुनः । 30) पुनः॑पुन रिवेव॒ पुनः॑पुनः॒ पुनः॑पुन रिव । 30) पुनः॑पुन॒रिति॒ पुनः॑ - पु॒नः॒ । 31) इ॒व॒ हि हीवे॑व॒ हि । 32) ह्य॑य म॒यग्ं हि ह्य॑यम् । 33) अ॒यम् ँलो॒को लो॒को॑ ऽय म॒यम् ँलो॒कः । 34) लो॒कः प्र प्र लो॒को लो॒कः प्र । 35) प्रान्या न्य॒न्यानि॒ प्र प्रा न्यानि॑ । 36) अ॒न्यानि॒ पात्रा॑णि॒ पात्रा᳚ ण्य॒न्या न्य॒न्यानि॒ पात्रा॑णि । 37) पात्रा॑णि यु॒ज्यन्ते॑ यु॒ज्यन्ते॒ पात्रा॑णि॒ पात्रा॑णि यु॒ज्यन्ते᳚ । 38) यु॒ज्यन्ते॒ न न यु॒ज्यन्ते॑ यु॒ज्यन्ते॒ न । 39) नान्या न्य॒न्यानि॒ न ना न्यानि॑ । 40) अ॒न्यानि॒ यानि॒ या न्य॒न्या न्य॒न्यानि॒ यानि॑ । 41) यानि॑ परा॒चीना॑नि परा॒चीना॑नि॒ यानि॒ यानि॑ परा॒चीना॑नि । 42) प॒रा॒चीना॑नि प्रयु॒ज्यन्ते᳚ प्रयु॒ज्यन्ते॑ परा॒चीना॑नि परा॒चीना॑नि प्रयु॒ज्यन्ते᳚ । 43) प्र॒यु॒ज्यन्ते॒ तानि॒ तानि॑ प्रयु॒ज्यन्ते᳚ प्रयु॒ज्यन्ते॒ तानि॑ । 43) प्र॒यु॒ज्यन्त॒ इति॑ प्र - यु॒ज्यन्ते᳚ । 44) तान्यन् वनु॒ तानि॒ तान् यनु॑ । 45) अन्वोष॑धय॒ ओष॑ध॒यो ऽन्वन् वोष॑धयः । 46) ओष॑धयः॒ परा॒ परौष॑धय॒ ओष॑धयः॒ परा᳚ । 47) परा॑ भवन्ति भवन्ति॒ परा॒ परा॑ भवन्ति । 48) भ॒व॒न्ति॒ यानि॒ यानि॑ भवन्ति भवन्ति॒ यानि॑ । 49) यानि॒ पुनः॒ पुन॒-र्यानि॒ यानि॒ पुनः॑ । 50) पुनः॑ प्रयु॒ज्यन्ते᳚ प्रयु॒ज्यन्ते॒ पुनः॒ पुनः॑ प्रयु॒ज्यन्ते᳚ । ॥ 39 ॥ (50/54)
1) प्र॒यु॒ज्यन्ते॒ तानि॒ तानि॑ प्रयु॒ज्यन्ते᳚ प्रयु॒ज्यन्ते॒ तानि॑ । 1) प्र॒यु॒ज्यन्त॒ इति॑ प्र - यु॒ज्यन्ते᳚ । 2) तान्य न्वनु॒ तानि॒ तान्यनु॑ । 3) अन्वोष॑धय॒ ओष॑ध॒यो ऽन्वन्वोष॑धयः । 4) ओष॑धयः॒ पुनः॒ पुन॒ रोष॑धय॒ ओष॑धयः॒ पुनः॑ । 5) पुन॒ रा पुनः॒ पुन॒ रा । 6) आ भ॑वन्ति भव॒न्त्या भ॑वन्ति । 7) भ॒व॒न्ति॒ प्र प्र भ॑वन्ति भवन्ति॒ प्र । 8) प्रा न्यान्य॒ न्यानि॒ प्र प्रा न्यानि॑ । 9) अ॒न्यानि॒ पात्रा॑णि॒ पात्रा᳚ ण्य॒न्या न्य॒न्यानि॒ पात्रा॑णि । 10) पात्रा॑णि यु॒ज्यन्ते॑ यु॒ज्यन्ते॒ पात्रा॑णि॒ पात्रा॑णि यु॒ज्यन्ते᳚ । 11) यु॒ज्यन्ते॒ न न यु॒ज्यन्ते॑ यु॒ज्यन्ते॒ न । 12) ना न्यान्य॒ न्यानि॒ न नान्यानि॑ । 13) अ॒न्यानि॒ यानि॒ या न्य॒न्या न्य॒न्यानि॒ यानि॑ । 14) यानि॑ परा॒चीना॑नि परा॒चीना॑नि॒ यानि॒ यानि॑ परा॒चीना॑नि । 15) प॒रा॒चीना॑नि प्रयु॒ज्यन्ते᳚ प्रयु॒ज्यन्ते॑ परा॒चीना॑नि परा॒चीना॑नि प्रयु॒ज्यन्ते᳚ । 16) प्र॒यु॒ज्यन्ते॒ तानि॒ तानि॑ प्रयु॒ज्यन्ते᳚ प्रयु॒ज्यन्ते॒ तानि॑ । 16) प्र॒यु॒ज्यन्त॒ इति॑ प्र - यु॒ज्यन्ते᳚ । 17) तान्यन् वनु॒ तानि॒ तान्यनु॑ । 18) अन्वा॑ र॒ण्या आ॑र॒ण्या अन् वन् वा॑र॒ण्याः । 19) आ॒र॒ण्याः प॒शवः॑ प॒शव॑ आर॒ण्या आ॑र॒ण्याः प॒शवः॑ । 20) प॒शवो ऽर॑ण्य॒ मर॑ण्य-म्प॒शवः॑ प॒शवो ऽर॑ण्यम् । 21) अर॑ण्य॒ मपापा र॑ण्य॒ मर॑ण्य॒ मप॑ । 22) अप॑ यन्ति य॒न्त्यपाप॑ यन्ति । 23) य॒न्ति॒ यानि॒ यानि॑ यन्ति यन्ति॒ यानि॑ । 24) यानि॒ पुनः॒ पुन॒-र्यानि॒ यानि॒ पुनः॑ । 25) पुनः॑ प्रयु॒ज्यन्ते᳚ प्रयु॒ज्यन्ते॒ पुनः॒ पुनः॑ प्रयु॒ज्यन्ते᳚ । 26) प्र॒यु॒ज्यन्ते॒ तानि॒ तानि॑ प्रयु॒ज्यन्ते᳚ प्रयु॒ज्यन्ते॒ तानि॑ । 26) प्र॒यु॒ज्यन्त॒ इति॑ प्र - यु॒ज्यन्ते᳚ । 27) तान्यन् वनु॒ तानि॒ तान्यनु॑ । 28) अनु॑ ग्रा॒म्या ग्रा॒म्या अन्वनु॑ ग्रा॒म्याः । 29) ग्रा॒म्याः प॒शवः॑ प॒शवो᳚ ग्रा॒म्या ग्रा॒म्याः प॒शवः॑ । 30) प॒शवो॒ ग्राम॒-ङ्ग्राम॑-म्प॒शवः॑ प॒शवो॒ ग्राम᳚म् । 31) ग्राम॑ मु॒पाव॑य न्त्यु॒पाव॑यन्ति॒ ग्राम॒-ङ्ग्राम॑ मु॒पाव॑यन्ति । 32) उ॒पाव॑यन्ति॒ यो य उ॒पाव॑य न्त्यु॒पाव॑यन्ति॒ यः । 32) उ॒पाव॑य॒न्तीत्यु॑प - अव॑यन्ति । 33) यो वै वै यो यो वै । 34) वै ग्रहा॑णा॒-ङ्ग्रहा॑णां॒-वैँ वै ग्रहा॑णाम् । 35) ग्रहा॑णा-न्नि॒दान॑-न्नि॒दान॒-ङ्ग्रहा॑णा॒-ङ्ग्रहा॑णा-न्नि॒दान᳚म् । 36) नि॒दानं॒-वेँद॒ वेद॑ नि॒दान॑-न्नि॒दानं॒-वेँद॑ । 36) नि॒दान॒मिति॑ नि - दान᳚म् । 37) वेद॑ नि॒दान॑वा-न्नि॒दान॑वा॒न्॒. वेद॒ वेद॑ नि॒दान॑वान् । 38) नि॒दान॑वा-न्भवति भवति नि॒दान॑वा-न्नि॒दान॑वा-न्भवति । 38) नि॒दान॑वा॒निति॑ नि॒दान॑ - वा॒न् । 39) भ॒व॒ त्याज्य॒ माज्य॑-म्भवति भव॒ त्याज्य᳚म् । 40) आज्य॒ मितीत्याज्य॒ माज्य॒ मिति॑ । 41) इत्यु॒क्थ मु॒क्थ मिती त्यु॒क्थम् । 42) उ॒क्थ-न्त-त्तदु॒क्थ मु॒क्थ-न्तत् । 43) त-द्वै वै त-त्त-द्वै । 44) वै ग्रहा॑णा॒-ङ्ग्रहा॑णां॒-वैँ वै ग्रहा॑णाम् । 45) ग्रहा॑णा-न्नि॒दान॑-न्नि॒दान॒-ङ्ग्रहा॑णा॒-ङ्ग्रहा॑णा-न्नि॒दान᳚म् । 46) नि॒दानं॒-यँ-द्य-न्नि॒दान॑-न्नि॒दानं॒-यँत् । 46) नि॒दान॒मिति॑ नि - दान᳚म् । 47) यदु॑पा॒ग्॒शू॑ पा॒ग्॒शु य-द्यदु॑पा॒ग्॒शु । 48) उ॒पा॒ग्॒शु शग्ंस॑ति॒ शग्ंस॑ त्युपा॒ग्॒शू॑ पा॒ग्॒शु शग्ंस॑ति । 48) उ॒पा॒ग्॒श्वित्यु॑प - अ॒ग्ं॒शु । 49) शग्ंस॑ति॒ त-त्तच् छग्ंस॑ति॒ शग्ंस॑ति॒ तत् । 50) तदु॑पाग्श्वन्तर्या॒मयो॑ रुपाग्श्वन्तर्या॒मयो॒ स्त-त्तदु॑पाग्श्वन्तर्या॒मयोः᳚ । ॥ 40 ॥ (50/58)
1) उ॒पा॒ग्॒श्व॒न्त॒र्या॒मयो॒-र्य-द्यदु॑पाग्श्वन्तर्या॒मयो॑ रुपाग्श्वन्तर्या॒मयो॒-र्यत् । 1) उ॒पा॒ग्॒श्व॒न्त॒र्या॒मयो॒रित्यु॑पाग्ंशु - अ॒न्त॒र्या॒मयोः᳚ । 2) यदु॒च्चै रु॒च्चै-र्य-द्यदु॒च्चैः । 3) उ॒च्चै स्त-त्तदु॒च्चै रु॒च्चै स्तत् । 4) तदित॑रेषा॒ मित॑ रेषा॒-न्त-त्तदित॑रेषाम् । 5) इत॑रेषा॒-ङ्ग्रहा॑णा॒-ङ्ग्रहा॑णा॒ मित॑रेषा॒ मित॑रेषा॒-ङ्ग्रहा॑णाम् । 6) ग्रहा॑णा मे॒त दे॒त-द्ग्रहा॑णा॒-ङ्ग्रहा॑णा मे॒तत् । 7) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 8) वै ग्रहा॑णा॒-ङ्ग्रहा॑णां॒-वैँ वै ग्रहा॑णाम् । 9) ग्रहा॑णा-न्नि॒दान॑-न्नि॒दान॒-ङ्ग्रहा॑णा॒-ङ्ग्रहा॑णा-न्नि॒दान᳚म् । 10) नि॒दानं॒-योँ यो नि॒दान॑-न्नि॒दानं॒-यः ँ। 10) नि॒दान॒मिति॑ नि - दान᳚म् । 11) य ए॒व मे॒वं-योँ य ए॒वम् । 12) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 13) वेद॑ नि॒दान॑वा-न्नि॒दान॑वा॒न्॒. वेद॒ वेद॑ नि॒दान॑वान् । 14) नि॒दान॑वा-न्भवति भवति नि॒दान॑वा-न्नि॒दान॑वा-न्भवति । 14) नि॒दान॑वा॒निति॑ नि॒दान॑ - वा॒न् । 15) भ॒व॒ति॒ यो यो भ॑वति भवति॒ यः । 16) यो वै वै यो यो वै । 17) वै ग्रहा॑णा॒-ङ्ग्रहा॑णां॒-वैँ वै ग्रहा॑णाम् । 18) ग्रहा॑णा-म्मिथु॒न-म्मि॑थु॒न-ङ्ग्रहा॑णा॒-ङ्ग्रहा॑णा-म्मिथु॒नम् । 19) मि॒थु॒नं-वेँद॒ वेद॑ मिथु॒न-म्मि॑थु॒नं-वेँद॑ । 20) वेद॒ प्र प्र वेद॒ वेद॒ प्र । 21) प्र प्र॒जया᳚ प्र॒जया॒ प्र प्र प्र॒जया᳚ । 22) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ । 22) प्र॒जयेति॑ प्र - जया᳚ । 23) प॒शुभि॑-र्मिथु॒नै-र्मि॑थु॒नैः प॒शुभिः॑ प॒शुभि॑-र्मिथु॒नैः । 23) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 24) मि॒थु॒नै-र्जा॑यते जायते मिथु॒नै-र्मि॑थु॒नै-र्जा॑यते । 25) जा॒य॒ते॒ स्था॒लीभि॑-स्स्था॒लीभि॑-र्जायते जायते स्था॒लीभिः॑ । 26) स्था॒लीभि॑ र॒न्ये᳚ ऽन्ये स्था॒लीभि॑-स्स्था॒लीभि॑ र॒न्ये । 27) अ॒न्ये ग्रहा॒ ग्रहा॑ अ॒न्ये᳚ ऽन्ये ग्रहाः᳚ । 28) ग्रहा॑ गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॒ ग्रहा॒ ग्रहा॑ गृ॒ह्यन्ते᳚ । 29) गृ॒ह्यन्ते॑ वाय॒व्यै᳚-र्वाय॒व्यै᳚-र्गृ॒ह्यन्ते॑ गृ॒ह्यन्ते॑ वाय॒व्यैः᳚ । 30) वा॒य॒व्यै॑ र॒न्ये᳚ ऽन्ये वा॑य॒व्यै᳚-र्वाय॒व्यै॑ र॒न्ये । 31) अ॒न्य ए॒त दे॒त द॒न्ये᳚ ऽन्य ए॒तत् । 32) ए॒त-द्वै वा ए॒त दे॒त-द्वै । 33) वै ग्रहा॑णा॒-ङ्ग्रहा॑णां॒-वैँ वै ग्रहा॑णाम् । 34) ग्रहा॑णा-म्मिथु॒न-म्मि॑थु॒न-ङ्ग्रहा॑णा॒-ङ्ग्रहा॑णा-म्मिथु॒नम् । 35) मि॒थु॒नं-योँ यो मि॑थु॒न-म्मि॑थु॒नं-यः ँ। 36) य ए॒व मे॒वं-योँ य ए॒वम् । 37) ए॒वं-वेँद॒ वेदै॒व मे॒वं-वेँद॑ । 38) वेद॒ प्र प्र वेद॒ वेद॒ प्र । 39) प्र प्र॒जया᳚ प्र॒जया॒ प्र प्र प्र॒जया᳚ । 40) प्र॒जया॑ प॒शुभिः॑ प॒शुभिः॑ प्र॒जया᳚ प्र॒जया॑ प॒शुभिः॑ । 40) प्र॒जयेति॑ प्र - जया᳚ । 41) प॒शुभि॑-र्मिथु॒नै-र्मि॑थु॒नैः प॒शुभिः॑ प॒शुभि॑-र्मिथु॒नैः । 41) प॒शुभि॒रिति॑ प॒शु - भिः॒ । 42) मि॒थु॒नै-र्जा॑यते जायते मिथु॒नै-र्मि॑थु॒नै-र्जा॑यते । 43) जा॒य॒त॒ इन्द्र॒ इन्द्रो॑ जायते जायत॒ इन्द्रः॑ । 44) इन्द्र॒ स्त्वष्टु॒ स्त्वष्टु॒ रिन्द्र॒ इन्द्र॒ स्त्वष्टुः॑ । 45) त्वष्टु॒-स्सोम॒ग्ं॒ सोम॒-न्त्वष्टु॒ स्त्वष्टु॒-स्सोम᳚म् । 46) सोम॑ मभी॒षहा॑ ऽभी॒षहा॒ सोम॒ग्ं॒ सोम॑ मभी॒षहा᳚ । 47) अ॒भी॒षहा॑ ऽपिब दपिब दभी॒षहा॑ ऽभी॒षहा॑ ऽपिबत् । 47) अ॒भी॒षहेत्य॑भि - सहा᳚ । 48) अ॒पि॒ब॒-थ्स सो॑ ऽपिब दपिब॒-थ्सः । 49) स विष्वं॒॒. विष्व॒-ङ्ख्स स विष्वं॑ । 50) विष्वं॒॒. वि वि विष्वं॒॒. विष्वं॒॒. वि । ॥ 41 ॥ (50/58)
1) व्या᳚र्च्छ दार्च्छ॒-द्वि व्या᳚र्च्छत् । 2) आ॒र्च्छ॒-थ्स स आ᳚र्च्छ दार्च्छ॒-थ्सः । 3) स आ॒त्म-न्ना॒त्म-न्थ्स स आ॒त्मन्न् । 4) आ॒त्म-न्ना॒रम॑ण मा॒रम॑ण मा॒त्म-न्ना॒त्म-न्ना॒रम॑णम् । 5) आ॒रम॑ण॒-न्न नारम॑ण मा॒रम॑ण॒-न्न । 5) आ॒रम॑ण॒मित्या᳚ - रम॑णम् । 6) नावि॑न्द दविन्द॒-न्न नावि॑न्दत् । 7) अ॒वि॒न्द॒-थ्स सो॑ ऽविन्द दविन्द॒-थ्सः । 8) स ए॒ता ने॒ता-न्थ्स स ए॒तान् । 9) ए॒ता न॑नुसव॒न म॑नुसव॒न मे॒ता ने॒ता न॑नुसव॒नम् । 10) अ॒नु॒स॒व॒न-म्पु॑रो॒डाशा᳚-न्पुरो॒डाशा॑ ननुसव॒न म॑नुसव॒न-म्पु॑रो॒डाशान्॑ । 10) अ॒नु॒स॒व॒नमित्य॑नु - स॒व॒नम् । 11) पु॒रो॒डाशा॑ नपश्य दपश्य-त्पुरो॒डाशा᳚-न्पुरो॒डाशा॑ नपश्यत् । 12) अ॒प॒श्य॒-त्ताग् स्ता न॑पश्य दपश्य॒-त्तान् । 13) ता-न्नि-र्णिष् टाग् स्ता-न्निः । 14) निर॑वप दवप॒-न्नि-र्णिर॑वपत् । 15) अ॒व॒प॒-त्तै स्तै र॑वप दवप॒-त्तैः । 16) तै-र्वै वै तै स्तै-र्वै । 17) वै स स वै वै सः । 18) स आ॒त्म-न्ना॒त्म-न्थ्स स आ॒त्मन्न् । 19) आ॒त्म-न्ना॒रम॑ण मा॒रम॑ण मा॒त्म-न्ना॒त्म-न्ना॒रम॑णम् । 20) आ॒रम॑ण मकुरुता कुरुता॒ रम॑ण मा॒रम॑ण मकुरुत । 20) आ॒रम॑ण॒मित्या᳚ - रम॑णम् । 21) अ॒कु॒रु॒त॒ तस्मा॒-त्तस्मा॑ दकुरुता कुरुत॒ तस्मा᳚त् । 22) तस्मा॑ दनुसव॒न म॑नुसव॒न-न्तस्मा॒-त्तस्मा॑ दनुसव॒नम् । 23) अ॒नु॒स॒व॒न-म्पु॑रो॒डाशाः᳚ पुरो॒डाशा॑ अनुसव॒न म॑नुसव॒न-म्पु॑रो॒डाशाः᳚ । 23) अ॒नु॒स॒व॒नमित्य॑नु - स॒व॒नम् । 24) पु॒रो॒डाशा॒ नि-र्णिष् पु॑रो॒डाशाः᳚ पुरो॒डाशा॒ निः । 25) निरु॑प्यन्त उप्यन्ते॒ नि-र्णिरु॑प्यन्ते । 26) उ॒प्य॒न्ते॒ तस्मा॒-त्तस्मा॑ दुप्यन्त उप्यन्ते॒ तस्मा᳚त् । 27) तस्मा॑ दनुसव॒न म॑नुसव॒न-न्तस्मा॒-त्तस्मा॑ दनुसव॒नम् । 28) अ॒नु॒स॒व॒न-म्पु॑रो॒डाशा॑ना-म्पुरो॒डाशा॑ना मनुसव॒न म॑नुसव॒न-म्पु॑रो॒डाशा॑नाम् । 28) अ॒नु॒स॒व॒नमित्य॑नु - स॒व॒नम् । 29) पु॒रो॒डाशा॑ना॒-म्प्र प्र पु॑रो॒डाशा॑ना-म्पुरो॒डाशा॑ना॒-म्प्र । 30) प्राश्ञी॑या दश्ञीया॒-त्प्र प्राश्ञी॑यात् । 31) अ॒श्ञी॒या॒ दा॒त्म-न्ना॒त्म-न्न॑श्ञीया दश्ञीया दा॒त्मन्न् । 32) आ॒त्म-न्ने॒वै वात्म-न्ना॒त्म-न्ने॒व । 33) ए॒वारम॑ण मा॒रम॑ण मे॒वै वारम॑णम् । 34) आ॒रम॑ण-ङ्कुरुते कुरुत आ॒रम॑ण मा॒रम॑ण-ङ्कुरुते । 34) आ॒रम॑ण॒मित्या᳚ - रम॑णम् । 35) कु॒रु॒ते॒ न न कु॑रुते कुरुते॒ न । 36) नैन॑ मेन॒-न्न नैन᳚म् । 37) ए॒न॒ग्ं॒ सोम॒-स्सोम॑ एन मेन॒ग्ं॒ सोमः॑ । 38) सोमो ऽत्यति॒ सोम॒-स्सोमो ऽति॑ । 39) अति॑ पवते पव॒ते ऽत्यति॑ पवते । 40) प॒व॒ते॒ ब्र॒ह्म॒वा॒दिनो᳚ ब्रह्मवा॒दिनः॑ पवते पवते ब्रह्मवा॒दिनः॑ । 41) ब्र॒ह्म॒वा॒दिनो॑ वदन्ति वदन्ति ब्रह्मवा॒दिनो᳚ ब्रह्मवा॒दिनो॑ वदन्ति । 41) ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । 42) व॒द॒न्ति॒ न न व॑दन्ति वदन्ति॒ न । 43) न र्च र्चा न न र्चा । 44) ऋ॒चा न न र्च र्चा न । 45) न यजु॑षा॒ यजु॑षा॒ न न यजु॑षा । 46) यजु॑षा प॒ङ्क्तिः प॒ङ्क्ति-र्यजु॑षा॒ यजु॑षा प॒ङ्क्तिः । 47) प॒ङ्क्ति रा᳚प्यत आप्यते प॒ङ्क्तिः प॒ङ्क्ति रा᳚प्यते । 48) आ॒प्य॒ते ऽथाथा᳚ प्यत आप्य॒ते ऽथ॑ । 49) अथ॒ कि-ङ्कि मथाथ॒ किम् । 50) किं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॒ कि-ङ्किं-यँ॒ज्ञस्य॑ । 51) य॒ज्ञस्य॑ पाङ्क्त॒त्व-म्पा᳚ङ्क्त॒त्वं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॑ पाङ्क्त॒त्वम् । 52) पा॒ङ्क्त॒त्व मितीति॑ पाङ्क्त॒त्व-म्पा᳚ङ्क्त॒त्व मिति॑ । 52) पा॒ङ्क्त॒त्वमिति॑ पाङ्क्त - त्वम् । 53) इति॑ धा॒ना धा॒ना इतीति॑ धा॒नाः । 54) धा॒नाः क॑र॒म्भः क॑र॒म्भो धा॒ना धा॒नाः क॑र॒म्भः । 55) क॒र॒म्भः प॑रिवा॒पः प॑रिवा॒पः क॑र॒म्भः क॑र॒म्भः प॑रिवा॒पः । 56) प॒रि॒वा॒पः पु॑रो॒डाशः॑ पुरो॒डाशः॑ परिवा॒पः प॑रिवा॒पः पु॑रो॒डाशः॑ । 56) प॒रि॒वा॒प इति॑ परि - वा॒पः । 57) पु॒रो॒डाशः॑ पय॒स्या॑ पय॒स्या॑ पुरो॒डाशः॑ पुरो॒डाशः॑ पय॒स्या᳚ । 58) प॒य॒स्या॑ तेन॒ तेन॑ पय॒स्या॑ पय॒स्या॑ तेन॑ । 59) तेन॑ प॒ङ्क्तिः प॒ङ्क्ति स्तेन॒ तेन॑ प॒ङ्क्तिः । 60) प॒ङ्क्ति रा᳚प्यत आप्यते प॒ङ्क्तिः प॒ङ्क्ति रा᳚प्यते । 61) आ॒प्य॒ते॒ त-त्तदा᳚प्यत आप्यते॒ तत् । 62) त-द्य॒ज्ञस्य॑ य॒ज्ञस्य॒ त-त्त-द्य॒ज्ञस्य॑ । 63) य॒ज्ञस्य॑ पाङ्क्त॒त्व-म्पा᳚ङ्क्त॒त्वं-यँ॒ज्ञस्य॑ य॒ज्ञस्य॑ पाङ्क्त॒त्वम् । 64) पा॒ङ्क्त॒त्वमिति॑ पाङ्क्त - त्वम् । ॥ 42 ॥ (64, 73)
॥ अ. 11 ॥
Browse Related Categories: