Vedic · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥
ॐ अथ पुरुषो ह वै नारायणोऽकामयत प्रजाः सृ॑जेये॒ति । ना॒रा॒य॒णात्प्रा॑णो जा॒यते । मनः सर्वेंद्रि॑याणि॒ च । खं-वाँयुर्ज्योतिरापः पृथिवी विश्व॑स्य धा॒रिणी । ना॒रा॒य॒णाद्ब्र॑ह्मा जा॒यते । ना॒रा॒य॒णाद्रु॑द्रो जा॒यते । ना॒रा॒य॒णादिं॑द्रो जा॒यते । ना॒रा॒य॒णात्प्रजापतयः प्र॑जायं॒ते । ना॒रा॒य॒णाद्द्वादशादित्या रुद्रा वसवस्सर्वाणि च छं॑दाग्ं॒सि । ना॒रा॒य॒णादेव समु॑त्पद्यं॒ते । ना॒रा॒य॒णे प्र॑वर्तं॒ते । ना॒रा॒य॒णे प्र॑लीयं॒ते ॥
ओम् । अथ नित्यो ना॑राय॒णः । ब्र॒ह्मा ना॑राय॒णः । शि॒वश्च॑ नाराय॒णः । श॒क्रश्च॑ नाराय॒णः । द्या॒वा॒पृ॒थि॒व्यौ च॑ नाराय॒णः । का॒लश्च॑ नाराय॒णः । दि॒शश्च॑ नाराय॒णः । ऊ॒र्ध्वश्च॑ नाराय॒णः । अ॒धश्च॑ नाराय॒णः । अं॒त॒र्ब॒हिश्च॑ नाराय॒णः । नारायण एवे॑दग्ं स॒र्वम् । यद्भू॒तं-यँच्च॒ भव्यम्᳚ । निष्कलो निरंजनो निर्विकल्पो निराख्यातः शुद्धो देव एको॑ नाराय॒णः । न द्वि॒तीयो᳚स्ति॒ कश्चि॑त् । य ए॑वं-वेँ॒द । स विष्णुरेव भवति स विष्णुरे॑व भ॒वति ॥
ओमित्य॑ग्रे व्या॒हरेत् । नम इ॑ति प॒श्चात् । ना॒रा॒य॒णायेत्यु॑परि॒ष्टात् । ओमि॑त्येका॒क्षरम् । नम इति॑ द्वे अ॒क्षरे । ना॒रा॒य॒णायेति पंचा᳚क्षरा॒णि । एतद्वै नारायणस्याष्टाक्ष॑रं प॒दम् । यो ह वै नारायणस्याष्टाक्षरं पद॑मध्ये॒ति । अनपब्रवस्सर्वमा॑युरे॒ति । विंदते प्रा॑जाप॒त्यग्ं रायस्पोषं॑ गौप॒त्यम् । ततोऽमृतत्वमश्नुते ततोऽमृतत्वमश्नु॑त इ॒ति । य ए॑वं-वेँ॒द ॥
प्रत्यगानंदं ब्रह्म पुरुषं प्रणव॑स्वरू॒पम् । अकार उकार मका॑र इ॒ति । तानेकधा समभरत्तदेत॑दोमि॒ति । यमुक्त्वा॑ मुच्य॑ते यो॒गी॒ ज॒न्म॒संसा॑रबं॒धनात् । ॐ नमो नारायणायेति मं॑त्रोपा॒सकः । वैकुंठभुवनलोकं॑ गमि॒ष्यति । तदिदं परं पुंडरीकं-विँ॑ज्ञान॒घनम् । तस्मात्तदिदा॑वन्मा॒त्रम् । ब्रह्मण्यो देव॑कीपु॒त्रो॒ ब्रह्मण्यो म॑धुसू॒दनोम् । सर्वभूतस्थमेकं॑ नारा॒यणम् । कारणरूपमकार प॑रब्र॒ह्मोम् । एतदथर्व शिरो॑योऽधी॒ते प्रा॒तर॑धीया॒नो॒ रात्रिकृतं पापं॑ नाश॒यति । सा॒यम॑धीया॒नो॒ दिवसकृतं पापं॑ नाश॒यति । माध्यंदिनमादित्याभिमुखो॑ऽधीया॒नः॒ पंचपातकोपपातका᳚त्प्रमु॒च्यते । सर्व वेद पारायण पु॑ण्यं-लँ॒भते । नारायणसायुज्यम॑वाप्नो॒ति॒ नारायण सायुज्यम॑वाप्नो॒ति । य ए॑वं-वेँ॒द । इत्यु॑प॒निष॑त् ॥
Offered for worship and study, not as prediction. Non-commercial.
ॐ स॒ह ना॑ववतु । स॒ह नौ॑ भुनक्तु । स॒ह वी॒र्यं॑ करवावहै । ते॒ज॒स्विना॒वधी॑तमस्तु॒ मा वि॑द्विषा॒वहै᳚ ॥ ॐ शांतिः॒ शांतिः॒ शांतिः॑ ॥
Browse Related Categories: