Navagraha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
शिरो मे पातु मार्तांडो कपालं रोहिणीपतिः । मुखमंगारकः पातु कंठश्च शशिनंदनः ॥ 1 ॥
बुद्धिं जीवः सदा पातु हृदयं भृगुनंदनः । जठरं च शनिः पातु जिह्वां मे दितिनंदनः ॥ 2 ॥
पादौ केतुः सदा पातु वाराः सर्वांगमेव च । तिथयोऽष्टौ दिशः पांतु नक्षत्राणि वपुः सदा ॥ 3 ॥
अंसौ राशिः सदा पातु योगाश्च स्थैर्यमेव च । गुह्यं लिंगं सदा पांतु सर्वे ग्रहाः शुभप्रदाः ॥ 4 ॥
अणिमादीनि सर्वाणि लभते यः पठेद् धृवम् । एतां रक्षां पठेद् यस्तु भक्त्या स प्रयतः सुधीः ॥ 5 ॥
स चिरायुः सुखी पुत्री रणे च विजयी भवेत् । अपुत्रो लभते पुत्रं धनार्थी धनमाप्नुयात् ॥ 6 ॥
दारार्थी लभते भार्यां सुरूपां सुमनोहराम् । रोगी रोगात्प्रमुच्येत बद्धो मुच्येत बंधनात् ॥ 7 ॥
जले स्थले चांतरिक्षे कारागारे विशेषतः । यः करे धारयेन्नित्यं भयं तस्य न विद्यते ॥ 8 ॥
ब्रह्महत्या सुरापानं स्तेयं गुर्वंगनागमः । सर्वपापैः प्रमुच्येत कवचस्य च धारणात् ॥ 9 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
नारी वामभुजे धृत्वा सुखैश्वर्यसमन्विता । काकवंध्या जन्मवंध्या मृतवत्सा च या भवेत् । बह्वपत्या जीववत्सा कवचस्य प्रसादतः ॥ 10 ॥
इति ग्रहयामले उत्तरखंडे नवग्रह कवचं समाप्तम् ।
Browse Related Categories: