Navagraha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
नवग्रह ध्यान श्लोकम् आदित्याय च सोमाय मंगलाय बुधाय च । गुरु शुक्र शनिभ्यश्च राहवे केतवे नमः ॥
रविः जपाकुसुम संकाशं काश्यपेयं महाद्युतिम् । तमोऽरिं सर्व पापघ्नं प्रणतोस्मि दिवाकरम् ॥
चंद्रः दधिशंख तुषाराभं क्षीरार्णव समुद्भवम् (क्षीरोदार्णव संभवम्) । नमामि शशिनं सोमं शंभो-र्मकुट भूषणम् ॥
कुजः धरणी गर्भ संभूतं विद्युत्कांति समप्रभम् । कुमारं शक्तिहस्तं तं कुजं [मंगलं] प्रणमाम्यहम् ॥
बुधः प्रियंगु कलिकाश्यामं रूपेणा प्रतिमं बुधम् । सौम्यं सौम्य (सत्व) गुणोपेतं तं बुधं प्रणमाम्यहम् ॥
गुरुः देवानां च ऋषीणां च गुरुं कांचनसन्निभम् । बुद्धिमंतं त्रिलोकेशं तं नमामि बृहस्पतिम् ॥
शुक्रः हिमकुंद मृणालाभं दैत्यानं परमं गुरुम् । सर्वशास्त्र प्रवक्तारं भार्गवं प्रणमाम्यहम् ॥
शनिः नीलांजन समाभासं रविपुत्रं यमाग्रजम् । छाया मार्तांड संभूतं तं नमामि शनैश्चरम् ॥
राहुः अर्धकायं महावीरं चंद्रादित्य विमर्धनम् । सिंहिका गर्भ संभूतं तं राहुं प्रणमाम्यहम् ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
केतुः पलाश पुष्प संकाशं तारकाग्रहमस्तकम् । रौद्रं रौद्रात्मकं घोरं तं केतुं प्रणमाम्यहम् ॥
फलश्रुतिः इति व्यास मुखोद्गीतं यः पठेत्सु समाहितः । दिवा वा यदि वा रात्रौ विघ्नशांति-र्भविष्यति ॥
नरनारी-नृपाणां च भवे-द्दुःस्वप्न-नाशनम् । ऐश्वर्यमतुलं तेषामारोग्यं पुष्टि वर्धनम् ॥
ग्रहनक्षत्रजाः पीडास्तस्कराग्नि समुद्भवाः । तास्सर्वाः प्रशमं यांति व्यासो ब्रूते न संशयः ॥
इति व्यास विरचितं नवग्रह स्तोत्रं संपूर्णम् ।
Browse Related Categories: