Navagraha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
भास्वान् काश्यपगोत्रजोऽरुणरुचिर्यः सिंहपोऽर्कः समि- -त्षट्त्रिस्थोऽदशशोभनो गुरुशशी भौमाः सुमित्राः सदा । शुक्रो मंदरिपुः कलिंगजनपश्चाग्नीश्वरौ देवते मध्येवर्तुलपूर्वदिग्दिनकरः कुर्यात्सदा मंगलम् ॥ 1 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
चंद्रः कर्कटकप्रभुः सितनिभश्चात्रेयगोत्रोद्भव- -श्चात्रेयश्चतुरश्रवारुणमुखश्चापे उमाधीश्वरः । षट्सप्ताग्नि दशैकशोभनफलो नोरिर्बुधार्कौप्रियौ स्वामी यामुनजश्च पर्णसमिधः कुर्यात्सदा मंगलम् ॥ 2 ॥
भौमो दक्षिणदिक्त्रिकोणयमदिग्विंध्येश्वरः खादिरः स्वामी वृश्चिकमेषयोस्तु सुगुरुश्चार्कः शशी सौहृदः । ज्ञोऽरिः षट्त्रिफलप्रदश्च वसुधास्कंदौ क्रमाद्देवते भारद्वाजकुलोद्वहोऽरुणरुचिः कुर्यात्सदा मंगलम् ॥ 3 ॥
सौम्यः पीत उदङ्मुखः समिदपामार्गोऽत्रिगोत्रोद्भवो बाणेशानदिशः सुहृद्रविसुतः शांतः सुतः शीतगोः । कन्यायुग्मपतिर्दशाष्टचतुरः षण्णेत्रगः शोभनो विष्णुर्देव्यधिदेवते मगधपः कुर्यात्सदा मंगलम् ॥ 4 ॥
जीवश्चांगिरगोत्रजोत्तरमुखो दीर्घोत्तराशास्थितः पीतोऽश्वत्थसमिच्च सिंधुजनितश्चापोऽथ मीनाधिपः । सूर्येंदुक्षितिजाः प्रिया बुधसितौ शत्रू समाश्चापरे सप्तद्वे नवपंचमे शुभकरः कुर्यात्सदा मंगलम् ॥ 5 ॥
शुक्रो भार्गवगोत्रजः सितरुचिः पूर्वामुखः पूर्वदिक् पांचालस्थ वृषस्तुलाधिपमहाराष्ट्राधिपौदुंबरः । इंद्राणीमघवा बुधश्च रविजो मित्रोर्क चंद्रावरी षष्ठत्रिर्दशवर्जिते भृगुसुतः कुर्यात्सदा मंगलम् ॥ 6 ॥
मंदः कृष्णनिभः सपश्चिममुखः सौराष्ट्रपः काश्यपः स्वामी नक्रसुकुंभयोर्बुधसितौ मित्रौ कुजेंदू द्विषौ । स्थानं पश्चिमदिक् प्रजापतियमौ देवौ धनुर्धारकः षट्त्रिस्थः शुभकृच्छनी रविसुतः कुर्यात्सदा मंगलम् ॥ 7 ॥
राहुः सिंहलदेशपोऽपि सतमः कृष्णांगशूर्पासनो यः पैठीनसगोत्रसंभवसमिद्दूर्वामुखो दक्षिणः । यः सर्पः पशुदैवतोऽखिलगतः सूर्यग्रहे छादकः षट्त्रिस्थः शुभकृच्च सिंहकसुतः कुर्यात्सदा मंगलम् ॥ 8 ॥
केतुर्जैमिनिगोत्रजः कुशसमिद्वायव्यकोणेस्थित- -श्चित्रांकध्वजलांछनो हि भगवान् यो दक्षिणाशामुखः । ब्रह्मा चैव तु चित्रगुप्तपतिमान् प्रीत्याधिदेवः सदा षट्त्रिस्थः शुभकृच्च बर्बरपतिः कुर्यात्सदा मंगलम् ॥ 9 ॥
इति नवग्रह मंगल स्तोत्रम् ।
Browse Related Categories: