Sri Krishna · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
प्रह्लादनारदपराशरपुंडरीक- व्यासांबरीषशुकशौनकभीष्मकाव्याः । रुक्मांगदार्जुनवसिष्ठविभीषणाद्या एतानहं परमभागवतान् नमामि ॥ 1॥
लोमहर्षण उवाच
धर्मो विवर्धति युधिष्ठिरकीर्तनेन पापं प्रणश्यति वृकोदरकीर्तनेन । शत्रुर्विनश्यति धनंजयकीर्तनेन माद्रीसुतौ कथयतां न भवंति रोगाः ॥ 2
ब्रह्मोवाच । ये मानवा विगतरागपरा¶ज्ञा नारायणं सुरगुरुं सततं स्मरंति । ध्यानेन तेन हतकिल्बिष चेतनास्ते मातुः पयोधररसं न पुनः पिबंति ॥ 3॥
इंद्र उवाच
नारायणो नाम नरो नराणां प्रसिद्धचौरः कथितः पृथिव्याम् । अनेकजन्मार्जितपापसंचयं हरत्यशेषं स्मृतमात्र एव यः ॥ 4
युधिष्ठिर उवाच
मेघश्यामं पीतकौशेयवासं श्रीवत्सांकं कौस्तुभोद्भासितांगम् । पुण्योपेतं पुंडरीकायताक्षं विष्णुं वंदे सर्वलोकैकनाथम् ॥ 5
भीम उवाच
जलौघमग्ना सचराऽचरा धरा विषाणकोट्याऽखिलविश्वमूर्तिना । समुद्धृता येन वराहरूपिणा स मे स्वयंभूर्भगवान् प्रसीदरु ॥ 6
अर्जुन उवाच
अचिंत्यमव्यक्तमनंतमव्ययं विभुं प्रभुं भावितविश्वभावनम् । त्रैलोक्यविस्तारविचारकारकं हरिं प्रपन्नोऽस्मि गतिं महात्मनाम् ॥ 7
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
नकुल उवाच
यदि गमनमधस्तात् कालपाशानुबंधाद् यदि च कुलविहीने जायते पक्षिकीटे । कृमिशतमपि गत्वा ध्यायते चांतरात्मा मम भवतु हृदिस्था केशवे भक्तिरेका ॥ 8
सहदेव उवाच
तस्य यज्ञवराहस्य विष्णोरतुलतेजसः । प्रणामं ये प्रकुर्वंति तेषामपि नमो नमः ॥ 9
कुंती उवाच
स्वकर्मफलनिर्दिष्टां यां यां योनिं व्रजाम्यहम् । तस्यां तस्यां हृषीकेश त्वयि भक्तिर्दृढाऽस्तु मे ॥ 10
माद्री उवाच
कृष्णे रताः कृष्णमनुस्मरंति रात्रौ च कृष्णं पुनरुत्थिता ये । ते भिन्नदेहाः प्रविशंति कृष्णे हविर्यथा मंत्रहुतं हुताशे ॥ 11
द्रौपदी उवाच
कीटेषु पक्षिषु मृगेषु सरीसृपेषु रक्षःपिशाचमनुजेष्वपि यत्र यत्र । जातस्य मे भवतु केशव त्वत्प्रसादात् त्वय्येव भक्तिरचलाऽव्यभिचारिणी च ॥ 12
सुभद्रा उवाच
एकोऽपि कृष्णस्य कृतः प्रणामो दशाश्वमेधावभृथेन तुल्यः । दशाश्वमेधी पुनरेति जन्म कृष्णप्रणामी न पुनर्भवाय ॥ 13
अभिमन्युरुवाच
गोविंद गोविंद हरे मुरारे गोविंद गोविंद मुकुंद कृष्ण गोविंद गोविंद रथांगपाणे । गोविंद गोविंद नमामि नित्यम् ॥ 14
धृष्टद्युम्न उवाच
श्रीराम नारायण वासुदेव गोविंद वैकुंठ मुकुंद कृष्ण । श्रीकेशवानंत नृसिंह विष्णो मां त्राहि संसारभुजंगदष्टम् ॥ 15
सात्यकिरुवाच
अप्रमेय हरे विष्णो कृष्ण दामोदराऽच्युत । गोविंदानंत सर्वेश वासुदेव नमोऽस्तु ते ॥ 16
उद्धव उवाच
वासुदेवं परित्यज्य योऽन्यं देवमुपासते । तृषितो जाह्नवीतीरे कूपं खनति दुर्मतिः ॥ 17
धौम्य उवाच
अपां समीपे शयनासनस्थिते दिवा च रात्रौ च यथाधिगच्छता । यद्यस्ति किंचित् सुकृतं कृतं मया जनार्दनस्तेन कृतेन तुष्यतु ॥ 18
संजय उवाच
आर्ता विषण्णाः शिथिलाश्च भीता घोरेषु व्याघ्रादिषु वर्तमानाः । संकीर्त्य नारायणशब्दमात्रं विमुक्तदुःखाः सुखिनो भवंति ॥ 19
अक्रूर उवाच
अहं तु नारायणदासदास- दासस्य दासस्य च दासदासः । अन्यो न हीशो जगतो नराणां तस्मादहं धन्यतरोऽस्मि लोके ॥ 20
विराट उवाच
वासुदेवस्य ये भक्ताः शांतास्तद्गतचेतसः । तेषां दासस्य दासोऽहं भवेयं जन्मजन्मनि ॥ 21
भीष्म उवाच
विपरीतेषु कालेषु परिक्षीणेषु बंधुषु । त्राहि मां कृपया कृष्ण शरणागतवत्सल ॥ 22
द्रोण उवाच
ये ये हताश्चक्रधरेण दैत्यां- स्त्रैलोक्यनाथेन जनार्दनेन । ते ते गता विष्णुपुरीं प्रयाताः क्रोधोऽपि देवस्य वरेण तुल्यः ॥ 23
कृपाचार्य उवाच
मज्जन्मनः फलमिदं मधुकैटभारे मत्प्रार्थनीय मदनुग्रह एष एव । त्वद्भृत्यभृत्यपरिचारकभृत्यभृत्य- भृत्यस्य भृत्य इति मां स्मर लोकनाथ ॥ 24
अश्वत्थाम उवाच
गोविंद केशव जनार्दन वासुदेव विश्वेश विश्व मधुसूदन विश्वरूप । श्रीपद्मनाभ पुरुषोत्तम देहि दास्यं नारायणाच्युत नृसिंह नमो नमस्ते ॥ 25
कर्ण उवाच
नान्यं वदामि न शऋणोमि न चिंतयामि नान्यं स्मरामि न भजामि न चाश्रयामि । भक्त्या त्वदीयचरणांबुजमादरेण श्रीश्रीनिवास पुरुषोत्तम देहि दास्यम् ॥ 26
धृतराष्ट्र उवाच
नमो नमः कारणवामनाय नारायणायामितविक्रमाय । श्रीशार्ङ्गचक्रासिगदाधराय नमोऽस्तु तस्मै पुरुषोत्तमाय ॥ 27
गांधारी उवाच
त्वमेव माता च पिता त्वमेव त्वमेव बंधुश्च सखा त्वमेव । त्वमेव विद्या द्रविणं त्वमेव त्वमेव सर्वं मम देव देव ॥ 28
द्रुपद उवाच
यज्ञेशाच्युत गोविंद माधवानंत केशव । कृष्ण विष्णो हृषीकेश वासुदेव नमोऽस्तु ते ॥ 29
जयद्रथ उवाच
नमः कृष्णाय देवाय ब्रह्मणेऽनंतशक्तये । योगेश्वराय योगाय त्वामहं शरणं गतः ॥ 30
विकर्ण उवाच
कृष्णाय वासुदेवाय देवकीनंदनाय च । नंदगोपकुमाराय गोविंदाय नमो नमः ॥ 31
विराट उवाच
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च । जगद्धिताय कृष्णाय गोविंदाय नमो नमः ॥ 32
शल्य उवाच
अतसीपुष्पसंकाशं पीतवाससमच्युतम् । ये नमस्यंति गोविंदं तेषां न विद्यते भयम् ॥ 33
बलभद्र उवाच
कृष्ण कृष्ण कृपालो त्वमगतीनां गतिर्भव । संसारार्णवमग्नानां प्रसीद पुरुषोत्तम ॥ 34
श्रीकृष्ण उवाच
कृष्ण कृष्णेति कृष्णेति यो मां स्मरति नित्यशः । जलं भित्वा यथा पद्मं नरकादुद्धराम्यहम् ॥ 35
श्रीकृष्ण उवाच
नित्यं वदामि मनुजाः स्वयमूर्ध्वबाहु- र्यो मां मुकुंद नरसिंह जनार्दनेति । जीवो जपत्यनुदिनं मरणे रणे वा पाषाणकाष्ठसदृशाय ददाम्यभीष्टम् ॥ 36
ईश्वर उवाच
सकृन्नारायणेत्युक्त्वा पुमान् कल्पशतत्रयम् । गंगादिसर्वतीर्थेषु स्नातो भवति पुत्रक ॥ 37
सूत उवाच
तत्रैव गंगा यमुना च तत्र गोदावरी सिंधु सरस्वती च । सर्वाणि तीर्थानि वसंति तत्र यत्राच्युतोदार कथाप्रसंगः ॥ 38
यम उवाच
नरके पच्यमानं तु यमेनं परिभाषितम् । किं त्वया नार्चितो देवः केशवः क्लेशनाशनः ॥ 35
नारद उवाच
जन्मांतरसहस्रेण तपोध्यानसमाधिना । नराणां क्षीणपापानां कृष्णे भक्तिः प्रजायते ॥ 40
प्रह्लाद उवाच
नाथ योनिसहस्रेषु येषु येषु व्रजाम्यहम् । तेषु तेष्वचला भक्तिरच्युताऽस्तु सदा त्वयि ॥ 41
या प्रीतिरविवेकनां विषयेष्वनपायिनि । त्वामनुस्मरतः सा मे हृदयान्माऽपसर्पतु ॥ 42॥
विश्वामित्र उवाच
किं तस्य दानैः किं तीर्थैः किं तपोभिः किमध्वरैः । यो नित्यं ध्यायते देवं नारायणमनन्यधीः ॥ 43
जमदग्निरुवाच
नित्योत्सवो भवेत्तेषां नित्यं नित्यं च मंगलम् । येषां हृदिस्थो भगवान्मंगलायतनं हरिः ॥ 44
भरद्वाज उवाच
लाभस्तेषां जयस्तेषां कुतस्तेषां पराजयः । येषामिंदीश्वरश्यामो हृदयस्थो जनार्दनः ॥ 45
गौतम उवाच
गोकोटिदानं ग्रहणेषु काशी- प्रयागगंगायुतकल्पवासः । यज्ञायुतं मेरुसुवर्णदानं गोविंदनामस्मरणेन तुल्यम् ॥ 46
अग्निरुवाच
गोविंदेति सदा स्नानं गोविंदेति सदा जपः । गोविंदेति सदा ध्यानं सदा गोविंदकीर्तनम् ॥ 47
त्र्यक्षरं परमं ब्रह्म गोविंद त्र्यक्षरं परम् । तस्मादुच्चारितं येन ब्रह्मभूयाय कल्पते ॥ 48॥
वेदव्यास उवाच
अच्युतः कल्पवृक्षोऽसावनंतः कामधेनु वै । चिंतामणिस्तु गोविंदो हरेर्नाम विचिंतयेत् ॥ 49
इंद्र उवाच
जयतु जयतु देवो देवकीनंदनोऽयं जयतु जयतु कृष्णो वृष्णिवंशप्रदीपः । जयतु जयतु मेघश्यामलः कोमलांगो जयतु जयतु पृथ्वीभारनाशो मुकुंदः ॥ 50
पिप्पलायन उवाच
श्रीमन्नृसिंहविभवे गरुडध्वजाय तापत्रयोपशमनाय भवौषधाय । कृष्णाय वृश्चिकजलाग्निभुजंगरोग- क्लेशव्ययाय हरये गुरवे नमस्ते ॥ 51
आविर्होत्र उवाच
कृष्ण त्वदीयपदपंकजपंजरांते अद्यैव मे विशतु मानसराजहंसः । प्राणप्रयाणसमये कफवातपित्तैः कंठावरोधनविधौ स्मरणं कुतस्ते ॥ 52
विदुर उवाच
हरेर्नामैव नामैव नामैव मम जीवनम् । कलौ नास्त्येव नास्त्येव नास्त्येव गतिरन्यथा ॥ 53
वसिष्ठ उवाच
कृष्णेति मंगलं नाम यस्य वाचि प्रवर्तते । भस्मीभवंति तस्याशु महापातककोटयः ॥ 54
अरुंधत्युवाच
कृष्णाय वासुदेवाय हरये परमात्मने । प्रणतक्लेशनाशाय गोविंदाय नमो नमः ॥ 55
कश्यप उवाच
कृष्णानुस्मरणादेव पापसंघट्टपंजरम् । शतधा भेदमाप्नोति गिरिर्वज्रहतो यथा ॥ 56
दुर्योधन उवाच
जानामि धर्मं न च मे प्रवृत्ति- र्जानामि पापं न च मे निवृत्तिः । केनापि देवेन हृदि स्थितेन यथा नियुक्तोऽस्मि तथा करोमि ॥ 57
यंत्रस्य मम दोषेण क्षम्यतां मधुसूदन । अहं यंत्रं भवान् यंत्री मम दोषो न दीयताम् ॥ 58॥
भृगुरुवाच
नामैव तव गोविंद नाम त्वत्तः शताधिकम् । ददात्त्युच्चारणान्मुक्तिः भवानष्टांगयोगतः ॥ 59
लोमश उवाच
नमामि नारायण पादपंकजं करोमि नारायणपूजनं सदा । वदामि नारायणनाम निर्मलं स्मरामि नारायणतत्त्वमव्ययम् ॥ 60
शौनक उवाच
स्मृतेः सकलकल्याणं भजनं यस्य जायते । पुरुषं तमजं नित्यं व्रजामि शरणं हरिम् ॥ 61
गर्ग उवाच
नारायणेति मंत्रोऽस्ति वागस्ति वशवर्तिनी । तथापि नरके घोरे पतंतीत्यद्भुतं महत् ॥ 62
दाल्भ्य उवाच
किं तस्य बहुभिर्मंत्रैर्भक्तिर्यस्य जनार्दने । नमो नारायणायेति मंत्रः सर्वार्थसाधाके ॥ 63
वैशंपायन उवाच
यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः । तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम ॥ 64
अग्निरुवाच
हरिर्हरति पापानि दुष्टचित्तैरपि स्मृतः । अनिच्छयापि संस्पृष्टो दहत्येव हि पावकः ॥ 65
परमेश्वर उवाच
सकृदुच्चरितं येन हरिरित्यक्षरद्वयम् । लब्धः परिकरस्तेन मोक्षाय गमनं प्रति ॥ 66
पुलस्त्य उवाच
हे जिह्वे रससारज्ञे सर्वदा मधुरप्रिये । नारायणाख्यपीयूषं पिब जिह्वे निरंतरम् ॥ 67
व्यास उवाच
सत्यं सत्यं पुनः सत्यं सत्यं सत्यं वदाम्यहम् । नास्ति वेदात्परं शास्त्रं न देवः केशवात्परः ॥ 68
धन्वंतरिरुवाच
अच्युतानंत गोविंद नामोच्चारणभेषजात् । नश्यंति सकला रोगाः सत्यं सत्यं वदाम्यहम् ॥ 69
मार्कंडेय उवाच
स्वर्गदं मोक्षदं देवं सुखदं जगतो गुरुम् । कथं मुहुर्तमपि तं वासुदेवं न चिंतयेत् ॥ 70
अगस्त्य उवाच
निमिषं निमिषार्धं वा प्राणिनां विष्णुचिंतनम् । तत्र तत्र कुरुक्षेत्रं प्रयागो नैमिषं वरम् ॥ 71
वामदेव उवाच
निमिषं निमिषार्धं वा प्राणिनां विष्णुचिंतनम् । कल्पकोटिसहस्राणि लभते वांछितं फलम् ॥ 72
शुक उवाच
आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा ॥ 73
श्रीमहादेव उवाच
शरीरे जर्जरीभूते व्याधिग्रस्ते कलेवरे । औषधं जाह्नवीतोयं वैद्यो नारायणो हरिः ॥ 74
शौनक उवाच
भोजनाच्छादने चिंतां वृथा कुर्वंति वैष्णवाः । योऽसौ विश्वंभरो देवः स किं भक्तानुपेक्षते ॥ 75
सनत्कुमार उवाच
यस्य हस्ते गदा चक्रं गरुडो यस्य वाहनम् । शंखचक्रगदापद्मी स मे विष्णुः प्रसीदतु ॥ 76
एवं ब्रह्मादयो देवा ऋषयश्च तपोधनाः । कीर्तयंति सुरश्रेष्ठमेवं नारायणं विभुम् ॥ 77॥
इदं पवित्रमायुष्यं पुण्यं पापप्रणाशनम् । दुःस्वप्ननाशनं स्तोत्रं पांडवैः परिकीर्तितम् ॥ 78॥
यः पठेत्प्रातरुत्थाय शुचिस्तद्गतमानसः । गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम् ॥ 79॥
तत्फलं समवाप्नोति यः पठेदिति संस्तवम् । सर्वपापविनिर्मुक्तो विष्णुलोकं स गच्छति ॥ 80॥
गंगा गीता च गायत्री गोविंदो गरुडध्वजः । गकारैः पंचभिर्युक्तः पुनर्जन्म न विद्यते ॥ 81॥
गीतां यः पठते नित्यं श्लोकार्धं श्लोकमेव वा । मुच्यते सर्वपापेभ्यो विष्णुलोकं स गच्छति ॥ 82॥
इति पांडवगीता अथवा प्रपन्नगीता समाप्ता ।
ॐ तत्सत् ।
Browse Related Categories: