Ganesha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
नारद उवाच
प्रणम्य शिरसा देवं गौरीपुत्रं विनायकम् । भक्तावासं स्मरेन्नित्यमायुष्कामार्थसिद्धये ॥ 1
प्रथमं वक्रतुंडं च, एकदंतं द्वितीयकम् । तृतीयं कृष्णपिंगाक्षं, गजवक्त्रं चतुर्थकम् ॥ 2 ॥
लंबोदरं पंचमं च, षष्ठं विकटमेव च । सप्तमं विघ्नराजं च, धूम्रवर्णं तथाष्टमम् ॥ 3 ॥
नवमं भालचंद्रं च, दशमं तु विनायकम् । एकादशं गणपतिं, द्वादशं तु गजाननम् ॥ 4 ॥
द्वादशैतानि नामानि त्रिसंध्यं यः पठेन्नरः । न च विघ्नभयं तस्य सर्वसिद्धिकरं परम् ॥ 5 ॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् । पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥ 6 ॥
जपेद्गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् । संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥ 7 ॥
अष्टभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् । तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥ 8 ॥
इति श्रीनारदपुराणे संकष्टनाशनं नाम गणेश स्तोत्रम् ।
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
Browse Related Categories: