Navagraha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
नीलांबरो नीलवपुः किरीटी गृध्रस्थितास्त्रकरो धनुष्मान् । चतुर्भुजः सूर्यसुतः प्रसन्नः सदा ममस्याद्वरदः प्रशांतः ॥
ब्रह्मा उवाच
शृणुध्वं ऋषयः सर्वे शनि पीडाहरं महत् । कवचं शनिराजस्य सौरैरिदमनुत्तमम् ॥
कवचं देवतावासं वज्र पंजर संंगकम् । शनैश्चर प्रीतिकरं सर्वसौभाग्यदायकम् ॥
अथ श्री शनि वज्र पंजर कवचम् ।
ॐ श्री शनैश्चरः पातु फालं मे सूर्यनंदनः । [भालं] नेत्रे छायात्मजः पातु पातु कर्णौ यमानुजः ॥ 1 ॥
नासां वैवस्वतः पातु मुखं मे भास्करः सदा । स्निग्धकंठश्च मे कंठं भुजौ पातु महाभुजः ॥ 2 ॥
स्कंधौ पातु शनिश्चैव करौ पातु शुभप्रदः । वक्षः पातु यमभ्राता कुक्षिं पात्वसितस्तथा ॥ 3 ॥
नाभिं ग्रहपतिः पातु मंदः पातु कटिं तथा । ऊरू ममांतकः पातु यमो जानुयुगं तथा ॥ 4 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
पादौ मंदगतिः पातु सर्वांगं पातु पिप्पलः । अंगोपांगानि सर्वाणि रक्षेन् मे सूर्यनंदनः ॥ 5 ॥
फलश्रुतिः
इत्येतत्कवचं दिव्यं पठेत्सूर्यसुतस्य यः । न तस्य जायते पीडा प्रीतो भवति सूर्यजः ॥
व्ययजन्मद्वितीयस्थो मृत्युस्थानगतोपिवा । कलत्रस्थो गतोवापि सुप्रीतस्तु सदा शनिः ॥
अष्टमस्थो सूर्यसुते व्यये जन्मद्वितीयगे । कवचं पठते नित्यं न पीडा जायते क्वचित् ॥
इत्येतत्कवचं दिव्यं सौरेर्यन्निर्मितं पुरा । द्वादशाष्टमजन्मस्थदोषान्नाशयते सदा । जन्मलग्नस्थितान् दोषान् सर्वान्नाशयते प्रभुः ॥
इति श्री ब्रह्मांडपुराणे ब्रह्मनारदसंवादे शनिवज्रपंजर कवचं संपूर्णम् ॥
Browse Related Categories: