Navagraha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ध्यानम् मृणालकुंदेंदुपयोजसुप्रभं पीतांबरं प्रसृतमक्षमालिनम् । समस्तशास्त्रार्थविधिं महांतं ध्यायेत्कविं वांछितमर्थसिद्धये ॥ 1 ॥
अथ शुक्रकवचम् शिरो मे भार्गवः पातु भालं पातु ग्रहाधिपः । नेत्रे दैत्यगुरुः पातु श्रोत्रे मे चंदनद्युतिः ॥ 2 ॥
पातु मे नासिकां काव्यो वदनं दैत्यवंदितः । वचनं चोशनाः पातु कंठं श्रीकंठभक्तिमान् ॥ 3 ॥
भुजौ तेजोनिधिः पातु कुक्षिं पातु मनोव्रजः । नाभिं भृगुसुतः पातु मध्यं पातु महीप्रियः ॥ 4 ॥
कटिं मे पातु विश्वात्मा उरू मे सुरपूजितः । जानुं जाड्यहरः पातु जंघे ज्ञानवतां वरः ॥ 5 ॥
गुल्फौ गुणनिधिः पातु पातु पादौ वरांबरः । सर्वाण्यंगानि मे पातु स्वर्णमालापरिष्कृतः ॥ 6 ॥
फलश्रुतिः य इदं कवचं दिव्यं पठति श्रद्धयान्वितः । न तस्य जायते पीडा भार्गवस्य प्रसादतः ॥ 7 ॥
॥ इति श्रीब्रह्मांडपुराणे शुक्रकवचं संपूर्णम् ॥
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts