Dattatreya · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
श्री गणेशाय नमः श्री सरस्वत्यै नमः श्रीपादवल्लभ नरसिंहसरस्वति श्रीगुरु दत्तात्रेयाय नमः
दत्तात्रेयं महात्मानं वरदं भक्तवत्सलम् । प्रपन्नार्तिहरं वंदे स्मर्तृगामि सनोवतु ॥ 1 ॥
दीनबंधुं कृपासिंधुं सर्वकारणकारणम् । सर्वरक्षाकरं वंदे स्मर्तृगामि सनोवतु ॥ 2 ॥
शरणागतदीनार्त परित्राणपरायणम् । नारायणं विभुं वंदे स्मर्तृगामि सनोवतु ॥ 3 ॥
सर्वानर्थहरं देवं सर्वमंगल मंगलम् । सर्वक्लेशहरं वंदे स्मर्तृगामि सनोवतु ॥ 4 ॥
ब्रह्मण्यं धर्मतत्त्वज्ञं भक्तकीर्तिविवर्धनम् । भक्ताऽभीष्टप्रदं वंदे स्मर्तृगामि सनोवतु ॥ 5 ॥
शोषणं पापपंकस्य दीपनं ज्ञानतेजसः । तापप्रशमनं वंदे स्मर्तृगामि सनोवतु ॥ 6 ॥
सर्वरोगप्रशमनं सर्वपीडानिवारणम् । विपदुद्धरणं वंदे स्मर्तृगामि सनोवतु ॥ 7 ॥
जन्मसंसारबंधघ्नं स्वरूपानंददायकम् । निश्श्रेयसपदं वंदे स्मर्तृगामि सनोवतु ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
जय लाभ यशः काम दातुर्दत्तस्य यः स्तवम् । भोगमोक्षप्रदस्येमं प्रपठेत् सुकृती भवेत् ॥9 ॥
श्री गणेशाय नमः श्री सरस्वत्यै नमः श्रीपादवल्लभ नरसिंहसरस्वति श्रीगुरु दत्तात्रेयाय नमः
Browse Related Categories: