Dattatreya · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अस्य श्रीदत्तात्रेय द्वादशनाम स्तोत्रमंत्रस्य परमहंस ऋषिः श्रीदत्तात्रेय परमात्मा देवता अनुष्टुप्छंदः सकलकामनासिद्ध्यर्थे जपे विनियोगः ।
प्रथमस्तु महायोगी द्वितीयः प्रभुरीश्वरः । तृतीयश्च त्रिमूर्तिश्च चतुर्थो ज्ञानसागरः ॥ 1 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
पंचमो ज्ञानविज्ञानं षष्ठस्यात् सर्वमंगलम् । सप्तमो पुंडरीकाक्षो अष्टमो देववल्लभः ॥ 2 ॥
नवमो नंददेवेशो दशमो नंददायकः । एकादशो महारुद्रो द्वादशो करुणाकरः ॥ 3 ॥
एतानि द्वादशनामानि दत्तात्रेय महात्मनः । मंत्रराजेति विख्यातं दत्तात्रेय हरः परः ॥ 4 ॥
क्षयोपस्मार कुष्ठादि तापज्वरनिवारणम् । राजद्वारे पदे घोरे संग्रामेषु जलांतरे ॥ 5 ॥
गिरे गुहांतरेऽरण्ये व्याघ्रचोरभयादिषु । आवर्तने सहस्रेषु लभते वांछितं फलम् ॥ 6 ॥
त्रिकाले यः पठेन्नित्यं मोक्षसिद्धिमवाप्नुयात् । दत्तात्रेय सदा रक्षेत् यदा सत्यं न संशयः ॥ 7 ॥
विद्यार्थी लभते विद्यां रोगी रोगात् प्रमुच्यते । अपुत्रो लभते पुत्रं दरिद्रो लभते धनम् ॥ 8 ॥
अभार्यो लभते भार्यां सुखार्थी लभते सुखम् । मुच्यते सर्वपापेभ्यो सर्वत्र विजयी भवेत् ॥ 9 ॥
इति श्री दत्तात्रेय द्वादशनाम स्तोत्रम् ।
Browse Related Categories: