Subrahmanya Swamy · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
स्फुरद्विद्युद्वल्लीवलयितमगोत्संगवसतिं भवाप्पित्तप्लुष्टानमितकरुणाजीवनवशात् । अवंतं भक्तानामुदयकरमंभोधर इति प्रमोदादावासं व्यतनुत मयूरोऽस्य सविधे ॥ 1 ॥
सुब्रह्मण्यो यो भवेज्ज्ञानशक्त्या सिद्धं तस्मिंदेवसेनापतित्वम् । इत्थं शक्तिं देवसेनापतित्वं सुब्रह्मण्यो बिभ्रदेष व्यनक्ति ॥ 2 ॥
पक्षोऽनिर्वचनीयो दक्षिण इति धियमशेषजनतायाः । जनयति बर्ही दक्षिणनिर्वचनायोग्यपक्षयुक्तोऽयम् ॥ 3 ॥
यः पक्षमनिर्वचनं याति समवलंब्य दृश्यते तेन । ब्रह्म परात्परममलं सुब्रह्मण्याभिधं परं ज्योतिः ॥ 4 ॥
षण्मुखं हसन्मुखं सुखांबुराशिखेलनं सन्मुनींद्रसेव्यमानपादपंकजं सदा । मन्मथादिशत्रुवर्गनाशकं कृपांबुधिं मन्महे मुदा हृदि प्रपन्नकल्पभूरुहम् ॥ 5 ॥
इति जगद्गुरु शृंगेरीपीठाधिप श्रीचंद्रशेखरभारती श्रीपादैः विरचिता श्रीषण्मुखपंचरत्नस्तुतिः ।
Browse Related Categories:
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts