Surya Bhagavan · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
शांति श्लोकः इंद्रोऽनलो दंडधरश्च रक्षः प्राचेतसो वायु कुबेर शर्वाः । मज्जन्म ऋक्षे मम राशि संस्थे सूर्योपरागं शमयंतु सर्वे ॥
ग्रहण पीडा परिहार श्लोकाः योऽसौ वज्रधरो देवः आदित्यानां प्रभुर्मतः । सहस्रनयनः शक्रः ग्रहपीडां व्यपोहतु ॥ 1
मुखं यः सर्वदेवानां सप्तार्चिरमितद्युतिः । चंद्रसूर्योपरागोत्थां अग्निः पीडां व्यपोहतु ॥ 2
यः कर्मसाक्षी लोकानां यमो महिषवाहनः । चंद्रसूर्योपरागोत्थां ग्रहपीडां व्यपोहतु ॥ 3
रक्षो गणाधिपः साक्षात् प्रलयानलसन्निभः । उग्रः करालो निर्ऋतिः ग्रहपीडां व्यपोहतु ॥ 4
नागपाशधरो देवः सदा मकरवाहनः । वरुणो जललोकेशो ग्रहपीडां व्यपोहतु ॥ 5
यः प्राणरूपो लोकानां वायुः कृष्णमृगप्रियः । चंद्रसूर्योपरागोत्थां ग्रहपीडां व्यपोहतु ॥ 6
योऽसौ निधिपतिर्देवः खड्गशूलधरो वरः । चंद्रसूर्योपरागोत्थां कलुषं मे व्यपोहतु ॥ 7
योऽसौ शूलधरो रुद्रः शंकरो वृषवाहनः । चंद्रसूर्योपरागोत्थां दोषं नाशयतु द्रुतम् ॥ 8
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
ॐ शांतिः शांतिः शांतिः ।
Browse Related Categories: