Surya Bhagavan · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
नमोऽस्तु सूर्याय सहस्ररश्मये सहस्रशाखान्वित संभवात्मने । सहस्रयोगोद्भव भावभागिने सहस्रसंख्यायुधधारिणे नमः ॥ 1 ॥
यन्मंडलं दीप्तिकरं विशालं रत्नप्रभं तीव्रमनादिरूपम् । दारिद्र्यदुःखक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ 2 ॥
यन्मंडलं देवगणैः सुपूजितं विप्रैः स्तुतं भावनमुक्तिकोविदम् । तं देवदेवं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ 3 ॥
यन्मंडलं ज्ञानघनंत्वगम्यं त्रैलोक्यपूज्यं त्रिगुणात्मरूपम् । समस्ततेजोमयदिव्यरूपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ 4 ॥
यन्मंडलं गूढमतिप्रबोधं धर्मस्य वृद्धिं कुरुते जनानाम् । यत्सर्वपापक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ 5 ॥
यन्मंडलं व्याधिविनाशदक्षं यदृग्यजुः सामसु संप्रगीतम् । प्रकाशितं येन च भूर्भुवः स्वः पुनातु मां तत्सवितुर्वरेण्यम् ॥ 6 ॥
यन्मंडलं वेदविदो वदंति गायंति यच्चारणसिद्धसंघाः । यद्योगिनो योगजुषां च संघाः पुनातु मां तत्सवितुर्वरेण्यम् ॥ 7 ॥
यन्मंडलं सर्वजनैश्च पूजितं ज्योतिश्च कुर्यादिह मर्त्यलोके । यत्कालकालाद्यमनादिरूपं पुनातु मां तत्सवितुर्वरेण्यम् ॥ 8 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
यन्मंडलं विष्णुचतुर्मुखाख्यं यदक्षरं पापहरं जनानाम् । यत्कालकल्पक्षयकारणं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ 9 ॥
यन्मंडलं विश्वसृजं प्रसिद्धं उत्पत्तिरक्षप्रलय प्रगल्भम् । यस्मिन् जगत्संहरतेऽखिलं च पुनातु मां तत्सवितुर्वरेण्यम् ॥ 10 ॥
यन्मंडलं सर्वगतस्य विष्णोः आत्मा परंधाम विशुद्धतत्त्वम् । सूक्ष्मांतरैर्योगपथानुगम्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ 11 ॥
यन्मंडलं वेदविदोपगीतं यद्योगिनां योग पथानुगम्यम् । तत्सर्व वेद्यं प्रणमामि सूर्यं पुनातु मां तत्सवितुर्वरेण्यम् ॥ 12 ॥
सूर्यमंडलसु स्तोत्रं यः पठेत्सततं नरः । सर्वपापविशुद्धात्मा सूर्यलोके महीयते ॥
इति श्री भविष्योत्तरपुराणे श्री कृष्णार्जुन संवादे सूर्यमंडल स्तोत्रम् ।
Browse Related Categories: