Navagraha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
ॐ विश्वविदे नमः । ॐ विश्वजिते नमः । ॐ विश्वकर्त्रे नमः । ॐ विश्वात्मने नमः । ॐ विश्वतोमुखाय नमः । ॐ विश्वेश्वराय नमः । ॐ विश्वयोनये नमः । ॐ नियतात्मने नमः । ॐ जितेंद्रियाय नमः । ॐ कालाश्रयाय नमः । ॐ कालकर्त्रे नमः । ॐ कालघ्ने नमः । ॐ कालनाशनाय नमः । ॐ महायोगिने नमः । ॐ महासिद्धये नमः । ॐ महात्मने नमः । ॐ सुमहाबलाय नमः । ॐ प्रभवे नमः । ॐ विभवे नमः । ॐ भूतनाथाय नमः । 20
ॐ भूतात्मने नमः । ॐ भुवनेश्वराय नमः । ॐ भूतभव्याय नमः । ॐ भावितात्मने नमः । ॐ भूतांतःकरणाय नमः । ॐ शिवाय नमः । ॐ शरण्याय नमः । ॐ कमलानंदाय नमः । ॐ नंदनाय नमः । ॐ नंदवर्धनाय नमः । ॐ वरेण्याय नमः । ॐ वरदाय नमः । ॐ योगिने नमः । ॐ सुसंयुक्ताय नमः । ॐ प्रकाशकाय नमः । ॐ प्राप्तयानाय नमः । ॐ परप्राणाय नमः । ॐ पूतात्मने नमः । ॐ प्रियताय नमः । ॐ प्रियाय नमः । 40
ॐ नयाय नमः । ॐ सहस्रपादे नमः । ॐ साधवे नमः । ॐ दिव्यकुंडलमंडिताय नमः । ॐ अव्यंगधारिणे नमः । ॐ धीरात्मने नमः । ॐ सवित्रे नमः । ॐ वायुवाहनाय नमः । ॐ समाहितमतये नमः । ॐ दात्रे नमः । ॐ विधात्रे नमः । ॐ कृतमंगलाय नमः । ॐ कपर्दिने नमः । ॐ कल्पपादे नमः । ॐ रुद्राय नमः । ॐ सुमनाय नमः । ॐ धर्मवत्सलाय नमः । ॐ समायुक्ताय नमः । ॐ विमुक्तात्मने नमः । ॐ कृतात्मने नमः । 60
ॐ कृतिनां वराय नमः । ॐ अविचिंत्यवपुषे नमः । ॐ श्रेष्ठाय नमः । ॐ महायोगिने नमः । ॐ महेश्वराय नमः । ॐ कांताय नमः । ॐ कामारये नमः । ॐ आदित्याय नमः । ॐ नियतात्मने नमः । ॐ निराकुलाय नमः । ॐ कामाय नमः । ॐ कारुणिकाय नमः । ॐ कर्त्रे नमः । ॐ कमलाकरबोधनाय नमः । ॐ सप्तसप्तये नमः । ॐ अचिंत्यात्मने नमः । ॐ महाकारुणिकोत्तमाय नमः । ॐ संजीवनाय नमः । ॐ जीवनाथाय नमः । ॐ जयाय नमः । 80
ॐ जीवाय नमः । ॐ जगत्पतये नमः । ॐ अयुक्ताय नमः । ॐ विश्वनिलयाय नमः । ॐ संविभागिने नमः । ॐ वृषध्वजाय नमः । ॐ वृषाकपये नमः । ॐ कल्पकर्त्रे नमः । ॐ कल्पांतकरणाय नमः । ॐ रवये नमः । ॐ एकचक्ररथाय नमः । ॐ मौनिने नमः । ॐ सुरथाय नमः । ॐ रथिनां वराय नमः । ॐ सक्रोधनाय नमः । ॐ रश्मिमालिने नमः । ॐ तेजोराशये नमः । ॐ विभावसवे नमः । ॐ दिव्यकृते नमः । ॐ दिनकृते नमः । 100
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
ॐ देवाय नमः । ॐ देवदेवाय नमः । ॐ दिवस्पतये नमः । ॐ दीननाथाय नमः । ॐ हराय नमः । ॐ होत्रे नमः । ॐ दिव्यबाहवे नमः । ॐ दिवाकराय नमः । ॐ यज्ञाय नमः । ॐ यज्ञपतये नमः । ॐ पूष्णे नमः । ॐ स्वर्णरेतसे नमः । ॐ परावराय नमः । ॐ परापरज्ञाय नमः । ॐ तरणये नमः । ॐ अंशुमालिने नमः । ॐ मनोहराय नमः । ॐ प्राज्ञाय नमः । ॐ प्राज्ञपतये नमः । ॐ सूर्याय नमः । 120
ॐ सवित्रे नमः । ॐ विष्णवे नमः । ॐ अंशुमते नमः । ॐ सदागतये नमः । ॐ गंधवहाय नमः । ॐ विहिताय नमः । ॐ विधये नमः । ॐ आशुगाय नमः । ॐ पतंगाय नमः । ॐ पतगाय नमः । ॐ स्थाणवे नमः । ॐ विहंगाय नमः । ॐ विहगाय नमः । ॐ वराय नमः । ॐ हर्यश्वाय नमः । ॐ हरिताश्वाय नमः । ॐ हरिदश्वाय नमः । ॐ जगत्प्रियाय नमः । ॐ त्र्यंबकाय नमः । ॐ सर्वदमनाय नमः । 140
ॐ भावितात्मने नमः । ॐ भिषग्वराय नमः । ॐ आलोककृते नमः । ॐ लोकनाथाय नमः । ॐ लोकालोकनमस्कृताय नमः । ॐ कालाय नमः । ॐ कल्पांतकाय नमः । ॐ वह्नये नमः । ॐ तपनाय नमः । ॐ संप्रतापनाय नमः । ॐ विलोचनाय नमः । ॐ विरूपाक्षाय नमः । ॐ सहस्राक्षाय नमः । ॐ पुरंदराय नमः । ॐ सहस्ररश्मये नमः । ॐ मिहिराय नमः । ॐ विविधांबरभूषणाय नमः । ॐ खगाय नमः । ॐ प्रतर्दनाय नमः । ॐ धन्याय नमः । 160
ॐ हयगाय नमः । ॐ वाग्विशारदाय नमः । ॐ श्रीमते नमः । ॐ अशिशिराय नमः । ॐ वाग्मिने नमः । ॐ श्रीपतये नमः । ॐ श्रीनिकेतनाय नमः । ॐ श्रीकंठाय नमः । ॐ श्रीधराय नमः । ॐ श्रीमते नमः । ॐ श्रीनिवासाय नमः । ॐ वसुप्रदाय नमः । ॐ कामचारिणे नमः । ॐ महामायाय नमः । ॐ महोग्राय नमः । ॐ अविदितामयाय नमः । ॐ तीर्थक्रियावते नमः । ॐ सुनयाय नमः । ॐ विभक्ताय नमः । ॐ भक्तवत्सलाय नमः । 180
ॐ कीर्तये नमः । ॐ कीर्तिकराय नमः । ॐ नित्याय नमः । ॐ कुंडलिने नमः । ॐ कवचिने नमः । ॐ रथिने नमः । ॐ हिरण्यरेतसे नमः । ॐ सप्ताश्वाय नमः । ॐ प्रयतात्मने नमः । ॐ परंतपाय नमः । ॐ बुद्धिमते नमः । ॐ अमरश्रेष्ठाय नमः । ॐ रोचिष्णवे नमः । ॐ पाकशासनाय नमः । ॐ समुद्राय नमः । ॐ धनदाय नमः । ॐ धात्रे नमः । ॐ मांधात्रे नमः । ॐ कश्मलापहाय नमः । ॐ तमोघ्नाय नमः । 200
ॐ ध्वांतघ्ने नमः । ॐ वह्नये नमः । ॐ होत्रे नमः । ॐ अंतःकरणाय नमः । ॐ गुहाय नमः । ॐ पशुमते नमः । ॐ प्रयतानंदाय नमः । ॐ भूतेशाय नमः । ॐ श्रीमतां वराय नमः । ॐ नित्याय नमः । ॐ अदिताय नमः । ॐ नित्यरथाय नमः । ॐ सुरेशाय नमः । ॐ सुरपूजिताय नमः । ॐ अजिताय नमः । ॐ विजिताय नमः । ॐ जेत्रे नमः । ॐ जंगमस्थावरात्मकाय नमः । ॐ जीवानंदाय नमः । ॐ नित्यगामिने नमः । 220
ॐ विजेत्रे नमः । ॐ विजयप्रदाय नमः । ॐ पर्जन्याय नमः । ॐ अग्नये नमः । ॐ स्थितये नमः । ॐ स्थेयाय नमः । ॐ स्थविराय नमः । ॐ निरंजनाय नमः । ॐ प्रद्योतनाय नमः । ॐ रथारूढाय नमः । ॐ सर्वलोकप्रकाशकाय नमः । ॐ ध्रुवाय नमः । ॐ मेषिने नमः । ॐ महावीर्याय नमः । ॐ हंसाय नमः । ॐ संसारतारकाय नमः । ॐ सृष्टिकर्त्रे नमः । ॐ क्रियाहेतवे नमः । ॐ मार्तंडाय नमः । ॐ मरुतां पतये नमः । 240
ॐ मरुत्वते नमः । ॐ दहनाय नमः । ॐ त्वष्ट्रे नमः । ॐ भगाय नमः । ॐ भर्गाय नमः । ॐ अर्यम्णे नमः । ॐ कपये नमः । ॐ वरुणेशाय नमः । ॐ जगन्नाथाय नमः । ॐ कृतकृत्याय नमः । ॐ सुलोचनाय नमः । ॐ विवस्वते नमः । ॐ भानुमते नमः । ॐ कार्याय नमः । ॐ कारणाय नमः । ॐ तेजसां निधये नमः । ॐ असंगगामिने नमः । ॐ तिग्मांशवे नमः । ॐ धर्मांशवे नमः । ॐ दीप्तदीधितये नमः । 260
ॐ सहस्रदीधितये नमः । ॐ ब्रध्नाय नमः । ॐ सहस्रांशवे नमः । ॐ दिवाकराय नमः । ॐ गभस्तिमते नमः । ॐ दीधितिमते नमः । ॐ स्रग्विणे नमः । ॐ मणिकुलद्युतये नमः । ॐ भास्कराय नमः । ॐ सुरकार्यज्ञाय नमः । ॐ सर्वज्ञाय नमः । ॐ तीक्ष्णदीधितये नमः । ॐ सुरज्येष्ठाय नमः । ॐ सुरपतये नमः । ॐ बहुज्ञाय नमः । ॐ वचसां पतये नमः । ॐ तेजोनिधये नमः । ॐ बृहत्तेजसे नमः । ॐ बृहत्कीर्तये नमः । ॐ बृहस्पतये नमः । 280
ॐ अहिमते नमः । ॐ ऊर्जिताय नमः । ॐ धीमते नमः । ॐ आमुक्ताय नमः । ॐ कीर्तिवर्धनाय नमः । ॐ महावैद्याय नमः । ॐ गणपतये नमः । ॐ धनेशाय नमः । ॐ गणनायकाय नमः । ॐ तीव्रप्रतापनाय नमः । ॐ तापिने नमः । ॐ तापनाय नमः । ॐ विश्वतापनाय नमः । ॐ कार्तस्वराय नमः । ॐ हृषीकेशाय नमः । ॐ पद्मानंदाय नमः । ॐ अतिनंदिताय नमः । ॐ पद्मनाभाय नमः । ॐ अमृताहाराय नमः । ॐ स्थितिमते नमः । 300
ॐ केतुमते नमः । ॐ नभसे नमः । ॐ अनाद्यंताय नमः । ॐ अच्युताय नमः । ॐ विश्वाय नमः । ॐ विश्वामित्राय नमः । ॐ घृणये नमः । ॐ विराजे नमः । ॐ आमुक्तकवचाय नमः । ॐ वाग्मिने नमः । ॐ कंचुकिने नमः । ॐ विश्वभावनाय नमः । ॐ अनिमित्तगतये नमः । ॐ श्रेष्ठाय नमः । ॐ शरण्याय नमः । ॐ सर्वतोमुखाय नमः । ॐ विगाहिने नमः । ॐ वेणुरसहाय नमः । ॐ समायुक्ताय नमः । ॐ समाक्रतवे नमः । 320
ॐ धर्मकेतवे नमः । ॐ धर्मरतये नमः । ॐ संहर्त्रे नमः । ॐ संयमाय नमः । ॐ यमाय नमः । ॐ प्रणतार्तिहराय नमः । ॐ वायवे नमः । ॐ सिद्धकार्याय नमः । ॐ जनेश्वराय नमः । ॐ नभसे नमः । ॐ विगाहनाय नमः । ॐ सत्याय नमः । ॐ सवित्रे नमः । ॐ आत्मने नमः । ॐ मनोहराय नमः । ॐ हारिणे नमः । ॐ हरये नमः । ॐ हराय नमः । ॐ वायवे नमः । ॐ ऋतवे नमः । 340
ॐ कालानलद्युतये नमः । ॐ सुखसेव्याय नमः । ॐ महातेजसे नमः । ॐ जगतामेककारणाय नमः । ॐ महेंद्राय नमः । ॐ विष्टुताय नमः । ॐ स्तोत्राय नमः । ॐ स्तुतिहेतवे नमः । ॐ प्रभाकराय नमः । ॐ सहस्रकराय नमः । ॐ आयुष्मते नमः । ॐ अरोषाय नमः । ॐ सुखदाय नमः । ॐ सुखिने नमः । ॐ व्याधिघ्ने नमः । ॐ सुखदाय नमः । ॐ सौख्याय नमः । ॐ कल्याणाय नमः । ॐ कलतां वराय नमः । ॐ आरोग्यकारणाय नमः । 360
ॐ सिद्धये नमः । ॐ ऋद्धये नमः । ॐ वृद्धये नमः । ॐ बृहस्पतये नमः । ॐ हिरण्यरेतसे नमः । ॐ आरोग्याय नमः । ॐ विदुषे नमः । ॐ ब्रध्नाय नमः । ॐ बुधाय नमः । ॐ महते नमः । ॐ प्राणवते नमः । ॐ धृतिमते नमः । ॐ घर्माय नमः । ॐ घर्मकर्त्रे नमः । ॐ रुचिप्रदाय नमः । ॐ सर्वप्रियाय नमः । ॐ सर्वसहाय नमः । ॐ सर्वशत्रुविनाशनाय नमः । ॐ प्रांशवे नमः । ॐ विद्योतनाय नमः । 380
ॐ द्योताय नमः । ॐ सहस्रकिरणाय नमः । ॐ कृतिने नमः । ॐ केयूरिणे नमः । ॐ भूषणोद्भासिने नमः । ॐ भासिताय नमः । ॐ भासनाय नमः । ॐ अनलाय नमः । ॐ शरण्यार्तिहराय नमः । ॐ होत्रे नमः । ॐ खद्योताय नमः । ॐ खगसत्तमाय नमः । ॐ सर्वद्योताय नमः । ॐ भवद्योताय नमः । ॐ सर्वद्युतिकराय नमः । ॐ मताय नमः । ॐ कल्याणाय नमः । ॐ कल्याणकराय नमः । ॐ कल्याय नमः । ॐ कल्यकराय नमः । 400
ॐ कवये नमः । ॐ कल्याणकृते नमः । ॐ कल्यवपवे नमः । ॐ सर्वकल्याणभाजनाय नमः । ॐ शांतिप्रियाय नमः । ॐ प्रसन्नात्मने नमः । ॐ प्रशांताय नमः । ॐ प्रशमप्रियाय नमः । ॐ उदारकर्मणे नमः । ॐ सुनयाय नमः । ॐ सुवर्चसे नमः । ॐ वर्चसोज्ज्वलाय नमः । ॐ वर्चस्विने नमः । ॐ वर्चसामीशाय नमः । ॐ त्रैलोक्येशाय नमः । ॐ वशानुगाय नमः । ॐ तेजस्विने नमः । ॐ सुयशसे नमः । ॐ वर्ष्मिणे नमः । ॐ वर्णाध्यक्षाय नमः । 420
ॐ बलिप्रियाय नमः । ॐ यशस्विने नमः । ॐ तेजोनिलयाय नमः । ॐ तेजस्विने नमः । ॐ प्रकृतिस्थिताय नमः । ॐ आकाशगाय नमः । ॐ शीघ्रगतये नमः । ॐ आशुगाय नमः । ॐ गतिमते नमः । ॐ खगाय नमः । ॐ गोपतये नमः । ॐ ग्रहदेवेशाय नमः । ॐ गोमते नमः । ॐ एकाय नमः । ॐ प्रभंजनाय नमः । ॐ जनित्रे नमः । ॐ प्रजनाय नमः । ॐ जीवाय नमः । ॐ दीपाय नमः । ॐ सर्वप्रकाशकाय नमः । 440
ॐ सर्वसाक्षिने नमः । ॐ योगनित्याय नमः । ॐ नभस्वते नमः । ॐ असुरांतकाय नमः । ॐ रक्षोघ्नाय नमः । ॐ विघ्नशमनाय नमः । ॐ किरीटिने नमः । ॐ सुमनःप्रियाय नमः । ॐ मरीचिमालिने नमः । ॐ सुमतये नमः । ॐ कृताभिख्यविशेषकाय नमः । ॐ शिष्टाचाराय नमः । ॐ शुभाचाराय नमः । ॐ स्वचाराचारतत्पराय नमः । ॐ मंदाराय नमः । ॐ माठराय नमः । ॐ वेणवे नमः । ॐ क्षुधापाय नमः । ॐ क्ष्मापतये नमः । ॐ गुरवे नमः । 460
ॐ सुविशिष्टाय नमः । ॐ विशिष्टात्मने नमः । ॐ विधेयाय नमः । ॐ ज्ञानशोभनाय नमः । ॐ महाश्वेताय नमः । ॐ प्रियाय नमः । ॐ ज्ञेयाय नमः । ॐ सामगाय नमः । ॐ मोक्षदायकाय नमः । ॐ सर्ववेदप्रगीतात्मने नमः । ॐ सर्ववेदलयाय नमः । ॐ महते नमः । ॐ वेदमूर्तये नमः । ॐ चतुर्वेदाय नमः । ॐ वेदभृते नमः । ॐ वेदपारगाय नमः । ॐ क्रियावते नमः । ॐ असिताय नमः । ॐ जिष्णवे नमः । ॐ वरीयांशवे नमः । 480
ॐ वरप्रदाय नमः । ॐ व्रतचारिणे नमः । ॐ व्रतधराय नमः । ॐ लोकबंधवे नमः । ॐ अलंकृताय नमः । ॐ अलंकाराक्षराय नमः । ॐ वेद्याय नमः । ॐ विद्यावते नमः । ॐ विदिताशयाय नमः । ॐ आकाराय नमः । ॐ भूषणाय नमः । ॐ भूष्याय नमः । ॐ भूष्णवे नमः । ॐ भुवनपूजिताय नमः । ॐ चक्रपाणये नमः । ॐ ध्वजधराय नमः । ॐ सुरेशाय नमः । ॐ लोकवत्सलाय नमः । ॐ वाग्मिपतये नमः । ॐ महाबाहवे नमः । 500
ॐ प्रकृतये नमः । ॐ विकृतये नमः । ॐ गुणाय नमः । ॐ अंधकारापहाय नमः । ॐ श्रेष्ठाय नमः । ॐ युगावर्ताय नमः । ॐ युगादिकृते नमः । ॐ अप्रमेयाय नमः । ॐ सदायोगिने नमः । ॐ निरहंकाराय नमः । ॐ ईश्वराय नमः । ॐ शुभप्रदाय नमः । ॐ शुभाय नमः । ॐ शास्त्रे नमः । ॐ शुभकर्मणे नमः । ॐ शुभप्रदाय नमः । ॐ सत्यवते नमः । ॐ श्रुतिमते नमः । ॐ उच्चैर्नकाराय नमः । ॐ वृद्धिदाय नमः । 520
ॐ अनलाय नमः । ॐ बलभृते नमः । ॐ बलदाय नमः । ॐ बंधवे नमः । ॐ मतिमते नमः । ॐ बलिनां वराय नमः । ॐ अनंगाय नमः । ॐ नागराजेंद्राय नमः । ॐ पद्मयोनये नमः । ॐ गणेश्वराय नमः । ॐ संवत्सराय नमः । ॐ ऋतवे नमः । ॐ नेत्रे नमः । ॐ कालचक्रप्रवर्तकाय नमः । ॐ पद्मेक्षणाय नमः । ॐ पद्मयोनये नमः । ॐ प्रभावते नमः । ॐ अमराय नमः । ॐ प्रभवे नमः । ॐ सुमूर्तये नमः । 540
ॐ सुमतये नमः । ॐ सोमाय नमः । ॐ गोविंदाय नमः । ॐ जगदादिजाय नमः । ॐ पीतवाससे नमः । ॐ कृष्णवाससे नमः । ॐ दिग्वाससे नमः । ॐ इंद्रियातिगाय नमः । ॐ अतींद्रियाय नमः । ॐ अनेकरूपाय नमः । ॐ स्कंदाय नमः । ॐ परपुरंजयाय नमः । ॐ शक्तिमते नमः । ॐ जलधृगे नमः । ॐ भास्वते नमः । ॐ मोक्षहेतवे नमः । ॐ अयोनिजाय नमः । ॐ सर्वदर्शिने नमः । ॐ जितादर्शाय नमः । ॐ दुःस्वप्नाशुभनाशनाय नमः । 560
ॐ मांगल्यकर्त्रे नमः । ॐ तरणये नमः । ॐ वेगवते नमः । ॐ कश्मलापहाय नमः । ॐ स्पष्टाक्षराय नमः । ॐ महामंत्राय नमः । ॐ विशाखाय नमः । ॐ यजनप्रियाय नमः । ॐ विश्वकर्मणे नमः । ॐ महाशक्तये नमः । ॐ द्युतये नमः । ॐ ईशाय नमः । ॐ विहंगमाय नमः । ॐ विचक्षणाय नमः । ॐ दक्षाय नमः । ॐ इंद्राय नमः । ॐ प्रत्यूषाय नमः । ॐ प्रियदर्शनाय नमः । ॐ अखिन्नाय नमः । ॐ वेदनिलयाय नमः । 580
ॐ वेदविदे नमः । ॐ विदिताशयाय नमः । ॐ प्रभाकराय नमः । ॐ जितरिपवे नमः । ॐ सुजनाय नमः । ॐ अरुणसारथये नमः । ॐ कुनाशिने नमः । ॐ सुरताय नमः । ॐ स्कंदाय नमः । ॐ महिताय नमः । ॐ अभिमताय नमः । ॐ गुरवे नमः । ॐ ग्रहराजाय नमः । ॐ ग्रहपतये नमः । ॐ ग्रहनक्षत्रमंडलाय नमः । ॐ भास्कराय नमः । ॐ सततानंदाय नमः । ॐ नंदनाय नमः । ॐ नरवाहनाय नमः । ॐ मंगलाय नमः । 600
ॐ मंगलवते नमः । ॐ मांगल्याय नमः । ॐ मंगलावहाय नमः । ॐ मंगल्यचारुचरिताय नमः । ॐ शीर्णाय नमः । ॐ सर्वव्रताय नमः । ॐ व्रतिने नमः । ॐ चतुर्मुखाय नमः । ॐ पद्ममालिने नमः । ॐ पूतात्मने नमः । ॐ प्रणतार्तिघ्ने नमः । ॐ अकिंचनाय नमः । ॐ सतामीशाय नमः । ॐ निर्गुणाय नमः । ॐ गुणवते नमः । ॐ शुचये नमः । ॐ संपूर्णाय नमः । ॐ पुंडरीकाक्षाय नमः । ॐ विधेयाय नमः । ॐ योगतत्पराय नमः । 620
ॐ सहस्रांशवे नमः । ॐ क्रतुमतये नमः । ॐ सर्वज्ञाय नमः । ॐ सुमतये नमः । ॐ सुवाचे नमः । ॐ सुवाहनाय नमः । ॐ माल्यदाम्ने नमः । ॐ कृताहाराय नमः । ॐ हरिप्रियाय नमः । ॐ ब्रह्मणे नमः । ॐ प्रचेतसे नमः । ॐ प्रथिताय नमः । ॐ प्रयतात्मने नमः । ॐ स्थिरात्मकाय नमः । ॐ शतविंदवे नमः । ॐ शतमुखाय नमः । ॐ गरीयसे नमः । ॐ अनलप्रभाय नमः । ॐ धीराय नमः । ॐ महत्तराय नमः । 640
ॐ विप्राय नमः । ॐ पुराणपुरुषोत्तमाय नमः । ॐ विद्याराजाधिराजाय नमः । ॐ विद्यावते नमः । ॐ भूतिदाय नमः । ॐ स्थिताय नमः । ॐ अनिर्देश्यवपुषे नमः । ॐ श्रीमते नमः । ॐ विपाप्मने नमः । ॐ बहुमंगलाय नमः । ॐ स्वःस्थिताय नमः । ॐ सुरथाय नमः । ॐ स्वर्णाय नमः । ॐ मोक्षदाय नमः । ॐ बलिकेतनाय नमः । ॐ निर्द्वंद्वाय नमः । ॐ द्वंद्वघ्ने नमः । ॐ स्वर्गाय नमः । ॐ सर्वगाय नमः । ॐ संप्रकाशकाय नमः । 660
ॐ दयालवे नमः । ॐ सूक्ष्मधिये नमः । ॐ क्षांतये नमः । ॐ क्षेमाक्षेमस्थितिप्रियाय नमः । ॐ भूधराय नमः । ॐ भूपतये नमः । ॐ वक्त्रे नमः । ॐ पवित्रात्मने नमः । ॐ त्रिलोचनाय नमः । ॐ महावराहाय नमः । ॐ प्रियकृते नमः । ॐ दात्रे नमः । ॐ भोक्त्रे नमः । ॐ अभयप्रदाय नमः । ॐ चक्रवर्तिने नमः । ॐ धृतिकराय नमः । ॐ संपूर्णाय नमः । ॐ महेश्वराय नमः । ॐ चतुर्वेदधराय नमः । ॐ अचिंत्याय नमः । 680
ॐ विनिंद्याय नमः । ॐ विविधाशनाय नमः । ॐ विचित्ररथाय नमः । ॐ एकाकिने नमः । ॐ सप्तसप्तये नमः । ॐ परात्पराय नमः । ॐ सर्वोदधिस्थितिकराय नमः । ॐ स्थितिस्थेयाय नमः । ॐ स्थितिप्रियाय नमः । ॐ निष्कलाय नमः । ॐ पुष्कलाय नमः । ॐ विभवे नमः । ॐ वसुमते नमः । ॐ वासवप्रियाय नमः । ॐ पशुमते नमः । ॐ वासवस्वामिने नमः । ॐ वसुधाम्ने नमः । ॐ वसुप्रदाय नमः । ॐ बलवते नमः । ॐ ज्ञानवते नमः । 700
ॐ तत्त्वाय नमः । ॐ ॐकाराय नमः । ॐ त्रिषुसंस्थिताय नमः । ॐ संकल्पयोनये नमः । ॐ दिनकृते नमः । ॐ भगवते नमः । ॐ कारणापहाय नमः । ॐ नीलकंठाय नमः । ॐ धनाध्यक्षाय नमः । ॐ चतुर्वेदप्रियंवदाय नमः । ॐ वषट्काराय नमः । ॐ उद्गात्रे नमः । ॐ होत्रे नमः । ॐ स्वाहाकाराय नमः । ॐ हुताहुतये नमः । ॐ जनार्दनाय नमः । ॐ जनानंदाय नमः । ॐ नराय नमः । ॐ नारायणाय नमः । ॐ अंबुदाय नमः । 720
ॐ संदेहनाशनाय नमः । ॐ वायवे नमः । ॐ धन्विने नमः । ॐ सुरनमस्कृताय नमः । ॐ विग्रहिने नमः । ॐ विमलाय नमः । ॐ विंदवे नमः । ॐ विशोकाय नमः । ॐ विमलद्युतये नमः । ॐ द्युतिमते नमः । ॐ द्योतनाय नमः । ॐ विद्युते नमः । ॐ विद्यावते नमः । ॐ विदिताय नमः । ॐ बलिने नमः । ॐ घर्मदाय नमः । ॐ हिमदाय नमः । ॐ हासाय नमः । ॐ कृष्णवर्त्मने नमः । ॐ सुताजिताय नमः । 740
ॐ सावित्रीभाविताय नमः । ॐ राज्ञे नमः । ॐ विश्वामित्राय नमः । ॐ घृणये नमः । ॐ विराजे नमः । ॐ सप्तार्चिषे नमः । ॐ सप्ततुरगाय नमः । ॐ सप्तलोकनमस्कृताय नमः । ॐ संपूर्णाय नमः । ॐ जगन्नाथाय नमः । ॐ सुमनसे नमः । ॐ शोभनप्रियाय नमः । ॐ सर्वात्मने नमः । ॐ सर्वकृते नमः । ॐ सृष्टये नमः । ॐ सप्तिमते नमः । ॐ सप्तमीप्रियाय नमः । ॐ सुमेधसे नमः । ॐ मेधिकाय नमः । ॐ मेध्याय नमः । 760
ॐ मेधाविने नमः । ॐ मधुसूदनाय नमः । ॐ अंगिरःपतये नमः । ॐ कालज्ञाय नमः । ॐ धूमकेतवे नमः । ॐ सुकेतनाय नमः । ॐ सुखिने नमः । ॐ सुखप्रदाय नमः । ॐ सौख्याय नमः । ॐ कांतये नमः । ॐ कांतिप्रियाय नमः । ॐ मुनये नमः । ॐ संतापनाय नमः । ॐ संतपनाय नमः । ॐ आतपाय नमः । ॐ तपसां पतये नमः । ॐ उमापतये नमः । ॐ सहस्रांशवे नमः । ॐ प्रियकारिणे नमः । ॐ प्रियंकराय नमः । 780
ॐ प्रीतये नमः । ॐ विमन्यवे नमः । ॐ अंभोत्थाय नमः । ॐ खंजनाय नमः । ॐ जगतां पतये नमः । ॐ जगत्पित्रे नमः । ॐ प्रीतमनसे नमः । ॐ सर्वाय नमः । ॐ खर्वाय नमः । ॐ गुहाय नमः । ॐ अचलाय नमः । ॐ सर्वगाय नमः । ॐ जगदानंदाय नमः । ॐ जगन्नेत्रे नमः । ॐ सुरारिघ्ने नमः । ॐ श्रेयसे नमः । ॐ श्रेयस्कराय नमः । ॐ ज्यायसे नमः । ॐ महते नमः । ॐ उत्तमाय नमः । 800
ॐ उद्भवाय नमः । ॐ उत्तमाय नमः । ॐ मेरुमेयाय नमः । ॐ धरणाय नमः । ॐ धरणीधराय नमः । ॐ धराध्यक्षाय नमः । ॐ धर्मराजाय नमः । ॐ धर्माधर्मप्रवर्तकाय नमः । ॐ रथाध्यक्षाय नमः । ॐ रथगतये नमः । ॐ तरुणाय नमः । ॐ तनिताय नमः । ॐ अनलाय नमः । ॐ उत्तराय नमः । ॐ अनुत्तराय नमः । ॐ तापिने नमः । ॐ अवाक्पतये नमः । ॐ अपां पतये नमः । ॐ पुण्यसंकीर्तनाय नमः । ॐ पुण्याय नमः । 820
ॐ हेतवे नमः । ॐ लोकत्रयाश्रयाय नमः । ॐ स्वर्भानवे नमः । ॐ विगतानंदाय नमः । ॐ विशिष्टोत्कृष्टकर्मकृते नमः । ॐ व्याधिप्रणाशनाय नमः । ॐ क्षेमाय नमः । ॐ शूराय नमः । ॐ सर्वजितां वराय नमः । ॐ एकरथाय नमः । ॐ रथाधीशाय नमः । ॐ शनैश्चरस्य पित्रे नमः । ॐ वैवस्वतगुरवे नमः । ॐ मृत्यवे नमः । ॐ धर्मनित्याय नमः । ॐ महाव्रताय नमः । ॐ प्रलंबहारसंचारिणे नमः । ॐ प्रद्योताय नमः । ॐ द्योतितानलाय नमः । ॐ संतापहृते नमः । 840
ॐ परस्मै नमः । ॐ मंत्राय नमः । ॐ मंत्रमूर्तये नमः । ॐ महाबलाय नमः । ॐ श्रेष्ठात्मने नमः । ॐ सुप्रियाय नमः । ॐ शंभवे नमः । ॐ मरुतामीश्वरेश्वराय नमः । ॐ संसारगतिविच्छेत्त्रे नमः । ॐ संसारार्णवतारकाय नमः । ॐ सप्तजिह्वाय नमः । ॐ सहस्रार्चिषे नमः । ॐ रत्नगर्भाय नमः । ॐ अपराजिताय नमः । ॐ धर्मकेतवे नमः । ॐ अमेयात्मने नमः । ॐ धर्माधर्मवरप्रदाय नमः । ॐ लोकसाक्षिणे नमः । ॐ लोकगुरवे नमः । ॐ लोकेशाय नमः । 860
ॐ चंडवाहनाय नमः । ॐ धर्मयूपाय नमः । ॐ यूपवृक्षाय नमः । ॐ धनुष्पाणये नमः । ॐ धनुर्धराय नमः । ॐ पिनाकधृते नमः । ॐ महोत्साहाय नमः । ॐ महामायाय नमः । ॐ महाशनाय नमः । ॐ वीराय नमः । ॐ शक्तिमतां श्रेष्ठाय नमः । ॐ सर्वशस्त्रभृतां वराय नमः । ॐ ज्ञानगम्याय नमः । ॐ दुराराध्याय नमः । ॐ लोहितांगाय नमः । ॐ विवर्धनाय नमः । ॐ खगाय नमः । ॐ अंधाय नमः । ॐ धर्मदाय नमः । ॐ नित्याय नमः । 880
ॐ धर्मकृते नमः । ॐ चित्रविक्रमाय नमः । ॐ भगवते नमः । ॐ आत्मवते नमः । ॐ मंत्राय नमः । ॐ त्र्यक्षराय नमः । ॐ नीललोहिताय नमः । ॐ एकाय नमः । ॐ अनेकाय नमः । ॐ त्रयिने नमः । ॐ कालाय नमः । ॐ सवित्रे नमः । ॐ समितिंजयाय नमः । ॐ शार्ङ्गधन्वने नमः । ॐ अनलाय नमः । ॐ भीमाय नमः । ॐ सर्वप्रहरणायुधाय नमः । ॐ सुकर्मणे नमः । ॐ परमेष्ठिने नमः । ॐ नाकपालिने नमः । 900
ॐ दिविस्थिताय नमः । ॐ वदान्याय नमः । ॐ वासुकये नमः । ॐ वैद्याय नमः । ॐ आत्रेयाय नमः । ॐ पराक्रमाय नमः । ॐ द्वापराय नमः । ॐ परमोदाराय नमः । ॐ परमाय नमः । ॐ ब्रह्मचर्यवते नमः । ॐ उदीच्यवेषाय नमः । ॐ मुकुटिने नमः । ॐ पद्महस्ताय नमः । ॐ हिमांशुभृते नमः । ॐ सिताय नमः । ॐ प्रसन्नवदनाय नमः । ॐ पद्मोदरनिभाननाय नमः । ॐ सायं दिवा दिव्यवपुषे नमः । ॐ अनिर्देश्याय नमः । ॐ महालयाय नमः । 920
ॐ महारथाय नमः । ॐ महते नमः । ॐ ईशाय नमः । ॐ शेषाय नमः । ॐ सत्त्वरजस्तमसे नमः । ॐ धृतातपत्रप्रतिमाय नमः । ॐ विमर्षिणे नमः । ॐ निर्णयाय नमः । ॐ स्थिताय नमः । ॐ अहिंसकाय नमः । ॐ शुद्धमतये नमः । ॐ अद्वितीयाय नमः । ॐ विवर्धनाय नमः । ॐ सर्वदाय नमः । ॐ धनदाय नमः । ॐ मोक्षाय नमः । ॐ विहारिणे नमः । ॐ बहुदायकाय नमः । ॐ चारुरात्रिहराय नमः । ॐ नाथाय नमः । 940
ॐ भगवते नमः । ॐ सर्वगाय नमः । ॐ अव्ययाय नमः । ॐ मनोहरवपुषे नमः । ॐ शुभ्राय नमः । ॐ शोभनाय नमः । ॐ सुप्रभावनाय नमः । ॐ सुप्रभावाय नमः । ॐ सुप्रतापाय नमः । ॐ सुनेत्राय नमः । ॐ दिग्विदिक्पतये नमः । ॐ राज्ञीप्रियाय नमः । ॐ शब्दकराय नमः । ॐ ग्रहेशाय नमः । ॐ तिमिरापहाय नमः । ॐ सैंहिकेयरिपवे नमः । ॐ देवाय नमः । ॐ वरदाय नमः । ॐ वरनायकाय नमः । ॐ चतुर्भुजाय नमः । 960
ॐ महायोगिने नमः । ॐ योगीश्वरपतये नमः । ॐ अनादिरूपाय नमः । ॐ अदितिजाय नमः । ॐ रत्नकांतये नमः । ॐ प्रभामयाय नमः । ॐ जगत्प्रदीपाय नमः । ॐ विस्तीर्णाय नमः । ॐ महाविस्तीर्णमंडलाय नमः । ॐ एकचक्ररथाय नमः । ॐ स्वर्णरथाय नमः । ॐ स्वर्णशरीरधृषे नमः । ॐ निरालंबाय नमः । ॐ गगनगाय नमः । ॐ धर्मकर्मप्रभावकृते नमः । ॐ धर्मात्मने नमः । ॐ कर्मणां साक्षिणे नमः । ॐ प्रत्यक्षाय नमः । ॐ परमेश्वराय नमः । ॐ मेरुसेविने नमः । 980
ॐ सुमेधाविने नमः । ॐ मेरुरक्षाकराय नमः । ॐ महते नमः । ॐ आधारभूताय नमः । ॐ रतिमते नमः । ॐ धनधान्यकृते नमः । ॐ पापसंतापहर्त्रे नमः । ॐ मनोवांछितदायकाय नमः । ॐ रोगहर्त्रे नमः । ॐ राज्यदायिने नमः । ॐ रमणीयगुणाय नमः । ॐ अनृणिने नमः । ॐ कालत्रयानंतरूपाय नमः । ॐ मुनिवृंदनमस्कृताय नमः । ॐ संध्यारागकराय नमः । ॐ सिद्धाय नमः । ॐ संध्यावंदनवंदिताय नमः । ॐ साम्राज्यदाननिरताय नमः । ॐ समाराधनतोषवते नमः । ॐ भक्तदुःखक्षयकराय नमः । 1000
ॐ भवसागरतारकाय नमः । ॐ भयापहर्त्रे नमः । ॐ भगवते नमः । ॐ अप्रमेयपराक्रमाय नमः । ॐ मनुस्वामिने नमः ॐ मनुपतये नमः । ॐ मान्याय नमः । ॐ मन्वंतराधिपाय नमः । 1008
इति श्री सूर्य सहस्रनामावली ॥
Browse Related Categories: