Sri Krishna · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अथ तृतीयोऽध्यायः ।
परस्य विष्णोः ईशस्य मायिनाम अपि मोहिनीम् । मायां वेदितुं इच्छामः भगवंतः ब्रुवंतु नः ॥ 1॥
न अनुतृप्ये जुषन् युष्मत् वचः हरिकथा अमृतम् । संसारतापनिःतप्तः मर्त्यः तत् ताप भेषजम् ॥ 2॥
अंतरिक्षः उवाच
एभिः भूतानि भूतात्मा महाभूतैः महाभुज । ससर्जोत् च अवचानि आद्यः स्वमात्रप्रसिद्धये ॥ 3
एवं सृष्टानि भूतानि प्रविष्टः पंचधातुभिः । एकधा दशधा आत्मानं विभजन् जुषते गुणान् ॥ 4॥
गुणैः गुणान् सः भुंजानः आत्मप्रद्योदितैः प्रभुः । मन्यमानः इदं सृष्टं आत्मानं इह सज्जते ॥ 5॥
कर्माणि कर्मभिः कुर्वन् सनिमित्तानि देहभृत् । तत् तत् कर्मफलं गृह्णन् भ्रमति इह सुखैतरम् ॥ 6॥
इत्थं कर्मगतीः गच्छन् बह्वभद्रवहाः पुमान् । आभूतसंप्लवात् सर्गप्रलयौ अश्नुते अवशः ॥ 7॥
धातु उपप्लवः आसन्ने व्यक्तं द्रव्यगुणात्मकम् । अनादिनिधनः कालः हि अव्यक्ताय अपकर्षति ॥ 8॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
शतवर्षाः हि अनावृष्टिः भविष्यति उल्बणा भुवि । तत् काल उपचित उष्ण अर्कः लोकान् त्रीन् प्रतपिष्यति ॥9॥
पातालतलं आरभ्य संकर्षणमुख अनलः । दहन् ऊर्ध्वशिखः विष्वक् वर्धते वायुना ईरितः ॥ 10॥
सांवर्तकः मेघगणः वर्षति स्म शतं समाः । धाराभिः हस्तिहस्ताभिः लीयते सलिले विराट् ॥ 11॥
ततः विराजं उत्सृज्य वैराजः पुरुषः नृप । अव्यक्तं विशते सूक्ष्मं निरिंधनः इव अनलः ॥ 12॥
वायुना हृतगंधा भूः सलिलत्वाय कल्पते । सलिलं तत् धृतरसं ज्योतिष्ट्वाय उपकल्पते ॥ 13॥
हृतरूपं तु तमसा वायौ ज्योतिः प्रलीयते । हृतस्पर्शः अवकाशेन वायुः नभसि लीयते । कालात्मना हृतगुणं नवः आत्मनि लीयते ॥ 14॥
इंद्रियाणि मनः बुद्धिः सह वैकारिकैः नृप । प्रविशंति हि अहंकारं स्वगुणैः अहं आत्मनि ॥ 15॥
एषा माया भगवतः सर्गस्थिति अंतकारिणी । त्रिवर्णा वर्णिता अस्माभिः किं भूयः श्रोतुं इच्छसि ॥ 16॥
राजा उवाच
यथा एतां ऐश्वरीं मायां दुस्तरां अकृतात्मभिः । तरंति अंजः स्थूलधियः महर्षः इदं उच्यताम् ॥ 17
प्रबुद्धः उवाच
कर्माणि आरभमाणानां दुःखहत्यै सुखाय च । पश्येत् पाकविपर्यासं मिथुनीचारिणां नृणाम् ॥ 18
नित्यार्तिदेन वित्तेन दुर्लभेन आत्ममृत्युना । गृह अपत्याप्तपशुभिः का प्रीतिः साधितैः चलैः ॥
19॥
एवं लोकं परं विद्यात् नश्वरं कर्मनिर्मितम् । सतुल्य अतिशय ध्वंसं यथा मंडलवर्तिनाम् ॥ 20॥
तस्मात् गुरुं प्रपद्येत जिज्ञासुः श्रेयः उत्तमम् । शाब्दे परे च निष्णातं ब्रह्मणि उपशमाश्रयम् ॥ 21॥
तत्र भागवतान् धर्मान् शिक्षेत् गुरुआत्मदैवतः । अमायया अनुवृत्या यैः तुष्येत् आत्मा आत्मदः हरिः ॥ 22॥
सर्वतः मनसः असंगं आदौ संगं च साधुषु । दयां मैत्रीं प्रश्रयं च भूतेषु अद्धा यथा उचितम् ॥ 23॥
शौचं तपः तितिक्षां च मौनं स्वाध्यायं आर्जवम् । ब्रह्मचर्यं अहिंसां च समत्वं द्वंद्वसंज्ञयोः ॥ 24॥
सर्वत्र आत्मेश्वर अन्वीक्षां कैवल्यं अनिकेतताम् । विविक्तचीरवसनं संतोषं येन केनचित् ॥ 25॥
श्रद्धां भागवते शास्त्रे अनिंदां अन्यत्र च अपि हि । मनोवाक् कर्मदंडं च सत्यं शमदमौ अपि ॥ 26॥
श्रवणं कीर्तनं ध्यानं हरेः अद्भुतकर्मणः । जन्मकर्मगुणानां च तदर्थे अखिलचेष्टितम् ॥ 27॥
इष्टं दत्तं तपः जप्तं वृत्तं यत् च आत्मनः प्रियम् । दारान् सुतान् गृहान् प्राणान् यत् परस्मै निवेदनम् ॥ 28॥
एवं कृष्णात्मनाथेषु मनुष्येषु च सौहृदम् । परिचर्यां च उभयत्र महत्सु नृषु साधुषु ॥ 29॥
परस्पर अनुकथनं पावनं भगवत् यशः । मिथः रतिः मिथः तुष्टिः निवृत्तिः मिथः आत्मनः ॥ 30॥
स्मरंतः स्मारयंतः च मिथः अघौघहरं हरिम् । भक्त्या संजातया भक्त्या बिभ्रति उत्पुलकां तनुम् ॥ 31॥
क्वचित् रुदंति अच्युतचिंतया क्वचित् हसंति नंदंति वदंति अलौकिकाः । नृत्यंति गायंति अनुशीलयंति अजं भवंति तूष्णीं परं एत्य निर्वृताः ॥ 32॥
इति भागवतान् धर्मान् शिक्षन् भक्त्या तदुत्थया । नारायणपरः मायं अंजः तरति दुस्तराम् ॥ 33॥
राजा उवाच
नारायण अभिधानस्य ब्रह्मणः परमात्मनः । निष्ठां अर्हथ नः वक्तुं यूयं हि ब्रह्मवित्तमाः ॥ 34
पिप्पलायनः उवाच
स्थिति उद्भवप्रलयहेतुः अहेतुः अस्य यत् स्वप्नजागरसुषुप्तिषु सत् बहिः च । देह इंद्रियासुहृदयानि चरंति येन संजीवितानि तत् अवेहि परं नरेंद्र ॥ 35
न एतत् मनः विशति वागुत चक्षुः आत्मा प्राणेंद्रियाणि च यथा अनलं अर्चिषः स्वाः । शब्दः अपि बोधकनिषेधतया आत्ममूलम् अर्थ उक्तं आह यदृते न निषेधसिद्धिः ॥ 36॥
सत्वं रजः तमः इति त्रिवृदेकं आदौ सूत्रं महान् अहं इति प्रवदंति जीवम् । ज्ञानक्रिया अर्थफलरूपतयोः उशक्ति ब्रह्म एव भाति सत् असत् च तयोः परं यत् ॥ 37॥
न आत्मा जजान न मरिष्यति न एधते असौ न क्षीयते सवनवित् व्यभिचारिणां हि । सर्वत्र शस्वदनपायि उपलब्धिमात्रं प्राणः यथा इंद्रियवलेन विकल्पितं सत् ॥ 38॥
अंडेषु पेशिषु तरुषु अविनिश्चितेषु प्राणः हि जीवं उपधावति तत्र तत्र । सन्ने यत् इंद्रियगणे अहमि च प्रसुप्ते कूटस्थः आशयमृते तत् अनुस्मृतिः नः ॥ 39॥
यः हि अब्ज नाभ चरण एषणयोः उभक्त्या चेतोमलानि विधमेत् गुणकर्मजानि । तस्मिन् विशुद्धः उपलभ्यतः आत्मतत्त्वम् साक्षात् यथा अमलदृशः सवितृप्रकाशः ॥ 40॥
कर्मयोगं वदत नः पुरुषः येन संस्कृतः । विधूय इह आशु कर्माणि नैष्कर्म्यं विंदते परम् ॥ 41॥
एवं प्रश्नं ऋषिन् पूर्वं अपृच्छं पितुः अंतिके । न अब्रुवन् ब्रह्मणः पुत्राः तत्र कारणं उच्यताम् ॥ 42॥
आविर्होत्रः उवाच
कर्म अकर्मविकर्म इति वेदवादः न लौकिकः । वेदस्य च ईश्वरात्मत्वात् तत्र मुह्यंति सूरयः ॥ 43
परोक्षवादः वेदः अयं बालानां अनुशासनम् । कर्ममोक्षाय कर्माणि विधत्ते हि अगदं यथा ॥ 44॥
न आचरेत् यः तु वेद उक्तं स्वयं अज्ञः अजितेंद्रियः । विकर्मणा हि अधर्मेण मृत्योः मृत्युं उपैति सः ॥ 45॥
वेद उक्तं एव कुर्वाणः निःसंगः अर्पितं ईश्वरे । नैष्कर्म्यां लभते सिद्धिं रोचनार्था फलश्रुतिः ॥ 46॥
यः आशु हृदयग्रंथिं निर्जिहीषुः परात्मनः । विधिना उपचरेत् देवं तंत्र उक्तेन च केशवम् ॥ 47॥
लब्ध अनुग्रहः आचार्यात् तेन संदर्शितागमः । महापुरुषं अभ्यर्चेत् मूर्त्या अभिमतया आत्मनः ॥ 48॥
शुचिः संमुखं आसीनः प्राणसंयमनादिभिः । पिंडं विशोध्य संन्यासकृतरक्षः अर्चयेत् हरिम् ॥ 49॥
अर्चादौ हृदये च अपि यथालब्ध उपचारकैः । द्रव्यक्षितिआत्मलिंगानि निष्पाद्य प्रोक्ष्य च आसनम् ॥ 50॥
पाद्यादीन् उपकल्प्या अथ संनिधाप्य समाहितः । हृत् आदिभिः कृतन्यासः मूलमंत्रेण च अर्चयेत् ॥ 51॥
सांगोपांगां सपार्षदां तां तां मूर्तिं स्वमंत्रतः । पाद्य अर्घ्याचमनीयाद्यैः स्नानवासःविभूषणैः ॥ 52॥
गंधमाल्याक्षतस्रग्भिः धूपदीपहारकैः । सांगं संपूज्य विधिवत् स्तवैः स्तुत्वा नमेत् हरिम् ॥ 53॥
आत्मां तन्मयं ध्यायन् मूर्तिं संपूजयेत् हरेः । शेषां आधाय शिरसि स्वधाम्नि उद्वास्य सत्कृतम् ॥ 54॥
एवं अग्नि अर्कतोयादौ अतिथौ हृदये च यः । यजति ईश्वरं आत्मानं अचिरात् मुच्यते हि सः ॥ 55॥
इति श्रीमद्भागवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे निमिजायंतसंवादे मायाकर्मब्रह्मनिरूपणं तृतीयोऽध्यायः ॥
Browse Related Categories: