Sri Krishna · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अथ चतुर्थोऽध्यायः ।
राजा उवाच
यानि यानि इह कर्माणि यैः यैः स्वच्छंदजन्मभिः । चक्रे करोति कर्ता वा हरिः तानि ब्रुवंतु नः ॥ 1
द्रुमिलः उवाच
यः वा अनंतस्य गुणान् अनंतान् अनुक्रमिष्यन् सः तु बालबुद्धिः । रजांसि भूमेः गणयेत् कथंचित् कालेन न एव अखिलशक्तिधाम्नः ॥ 2
भूतैः यदा पंचभिः आत्मसृष्टैः पुरं विराजं विरचय्य तस्मिन् । स्वांशेन विष्टः पुरुषाभिधान मवाप नारायणः आदिदेवः ॥ 3॥
यत् कायः एषः भुवनत्रयसंनिवेशः यस्य इंद्रियैः तनुभृतां उभयैंद्रियाणि । ज्ञानं स्वतः श्वसनतः बलं ओजः ईहा सत्त्वादिभिः स्थितिलयौद्भवः आदिकर्ता ॥ 4॥
आदौ अभूत् शतधृती रजस अस्य सर्गे विष्णु स्थितौ क्रतुपतिः द्विजधर्मसेतुः । रुद्रः अपि अयाय तमसा पुरुषः सः आद्यः इति उद्भवस्थितिलयाः सततं प्रजासु ॥ 5॥
धर्मस्य दक्षदुहितर्यजनिष्टः मूर्त्या नारायणः नरः ऋषिप्रवरः प्रशांतः । नैष्कर्म्यलक्षणं उवाच चचार कर्म यः अद्य अपि च आस्त ऋषिवर्यनिषेवितांघ्रिः ॥ 6॥
इंद्रः विशंक्य मम धाम जिघृक्षति इति कामं न्ययुंक्त सगणं सः बदरिउपाख्यम् । गत्वा अप्सरोगणवसंतसुमंदवातैः स्त्रीप्रेक्षण इषुभिः अविध्यतत् महिज्ञः ॥ 7॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
विज्ञाय शक्रकृतं अक्रमं आदिदेवः प्राह प्रहस्य गतविस्मयः एजमानान् । मा भैष्ट भो मदन मारुत देववध्वः गृह्णीत नः बलिं अशून्यं इमं कुरुध्वम् ॥ 8॥
इत्थं ब्रुवति अभयदे नरदेव देवाः सव्रीडनम्रशिरसः सघृणं तं ऊचुः । न एतत् विभो त्वयि परे अविकृते विचित्रम् स्वारामधीः अनिकरानतपादपद्मे ॥ 9॥
त्वां सेवतां सुरकृता बहवः अंतरायाः स्वौको विलंघ्य परमं व्रजतां पदं ते । न अन्यस्य बर्हिषि बलीन् ददतः स्वभागान् धत्ते पदं त्वं अविता यदि विघ्नमूर्ध्नि ॥ 10॥
क्षुत् तृट्त्रिकालगुणमारुतजैव्ह्यशैश्न्यान् अस्मान् अपारजलधीन् अतितीर्य केचित् । क्रोधस्य यांति विफलस्य वश पदे गोः मज्जंति दुश्चरतपः च वृथा उत्सृजंति ॥ 11॥
इति प्रगृणतां तेषां स्त्रियः अति अद्भुतदर्शनाः । दर्शयामास शुश्रूषां स्वर्चिताः कुर्वतीः विभुः ॥ 12॥
ते देव अनुचराः दृष्ट्वा स्त्रियः श्रीः इव रूपिणीः । गंधेन मुमुहुः तासां रूप औदार्यहतश्रियः ॥ 13॥
तान् आह देवदेव ईशः प्रणतान् प्रहसन् इव । आसां एकतमां वृंग्ध्वं सवर्णां स्वर्गभूषणाम् ॥
14॥
ॐ इति आदेशं आदाय नत्वा तं सुरवंदिनः । उर्वशीं अप्सरःश्रेष्ठां पुरस्कृत्य दिवं ययुः ॥ 15॥
इंद्राय आनम्य सदसि श्रुण्वतां त्रिदिवौकसाम् । ऊचुः नारायणबलं शक्रः तत्र आस विस्मितः ॥ 16॥
हंसस्वरूपी अवददत् अच्युतः आत्मयोगम् दत्तः कुमार ऋषभः भगवान् पिता नः । विष्णुः शिवाय जगतां कलया अवतीर्णः तेन आहृताः मधुभिदा श्रुतयः हयास्ये ॥ 17॥
गुप्तः अपि अये मनुः इला ओषधयः च मात्स्ये क्रौडे हतः दितिजः उद्धरता अंभसः क्ष्माम् । कौर्मे धृतः अद्रिः अमृत उन्मथने स्वपृष्ठे ग्राहात् प्रपन्नमिभराजं अमुंचत् आर्तम् ॥ 18॥
संस्तुन्वतः अब्धिपतितान् श्रमणान् ऋषीं च शक्रं च वृत्रवधतः तमसि प्रविष्टम् । देवस्त्रियः असुरगृहे पिहिताः अनाथाः जघ्ने असुरेंद्रं अभयाय सतां नृसिंहे ॥ 19॥
देव असुरे युधि च दैत्यपतीन् सुरार्थे हत्वा अंतरेषु भुवनानि अदधात् कलाभिः । भूत्वा अथ वामनः इमां अहरत् बलेः क्ष्माम् यांचाच्छलेन समदात् अदितेः सुतेभ्यः ॥ 20॥
निःक्षत्रियां अकृत गां च त्रिःसप्तकृत्वः रामः तु हैहयकुल अपि अयभार्गव अग्निः । सः अब्धिं बबंध दशवक्त्रं अहन् सलंकम् सीतापतिः जयति लोकं अलघ्नकीर्तिः ॥ 21॥
भूमेः भर अवतरणाय यदुषि अजन्मा जातः करिष्यति सुरैः अपि दुष्कराणि । वादैः विमोहयति यज्ञकृतः अतदर्हान् शूद्रां कलौ क्षितिभुजः न्यहनिष्यदंते ॥ 22॥
एवंविधानि कर्माणि जन्मानि च जगत् पतेः । भूरीणि भूरियशसः वर्णितानि महाभुज ॥ 23॥
इति श्रीमद्भगवते महापुराणे पारमहंस्यां संहितायामेकादशस्कंधे निमिजायंतसंवादे चतुर्थोऽध्यायः ॥
Browse Related Categories: