Ganesha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
विनायको विघ्नराजो गौरीपुत्रो गणेश्वरः । स्कंदाग्रजोऽव्ययः पूतो दक्षोऽध्यक्षो द्विजप्रियः ॥ 1 ॥
अग्निगर्वच्छिदिंद्रश्रीप्रदो वाणीप्रदोऽव्ययः सर्वसिद्धिप्रद-श्शर्वतनयः शर्वरीप्रियः ॥ 2 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
सर्वात्मकः सृष्टिकर्ता देवोऽनेकार्चितश्शिवः । शुद्धो बुद्धिप्रिय-श्शांतो ब्रह्मचारी गजाननः ॥ 3 ॥
द्वैमात्रेयो मुनिस्तुत्यो भक्तविघ्नविनाशनः । एकदंत-श्चतुर्बाहु-श्चतुर-श्शक्तिसंयुतः ॥ 4 ॥
लंबोदर-श्शूर्पकर्णो हर-र्ब्रह्मविदुत्तमः । कालो ग्रहपतिः कामी सोमसूर्याग्निलोचनः ॥ 5 ॥
पाशांकुशधर-श्चंडो गुणातीतो निरंजनः । अकल्मष-स्स्वयंसिद्ध-स्सिद्धार्चितपदांबुजः ॥ 6 ॥
बीजपूरफलासक्तो वरद-श्शाश्वतः कृती । विद्वत् प्रियो वीतभयो गदी चक्रीक्षुचापधृत् ॥ 7 ॥
श्रीदोऽज उत्पलकरः श्रीपतिः स्तुतिहर्षितः । कुलाद्रिभेत्ता जटिलः कलिकल्मषनाशनः ॥ 8 ॥
चंद्रचूडामणिः कांतः पापहारी समाहितः । अश्रित-श्रीकर-स्सौम्यो भक्तवांछितदायकः ॥ 9 ॥
शांतः कैवल्यसुखद-स्सच्चिदानंदविग्रहः । ज्ञानी दयायुतो दांतो ब्रह्मद्वेषविवर्जितः ॥ 10 ॥
प्रमत्तदैत्यभयदः श्रीकंठो विबुधेश्वरः । रमार्चितो निधि-र्नागराजयज्ञोपवीतवान् ॥ 11 ॥
स्थूलकंठः स्वयंकर्ता सामघोषप्रियः परः । स्थूलतुंडोऽग्रणी-र्धीरो वागीशः-सिद्धिदायकः ॥ 12 ॥
दूर्वाबिल्वप्रियोऽव्यक्तमूर्ति-रद्भुतमूर्तिमान् । शैलेंद्रतनुजोत्संगखेलनोत्सुकमानसः ॥ 13 ॥
स्वलावण्यसुधासारजितमन्मथविग्रहः । समस्तजगदाधारो मायी मूषकवाहनः ॥ 14 ॥
हृष्ट-स्तुष्टः प्रसन्नात्मा सर्वसिद्धिप्रदायकः । अष्टोत्तरशतेनैवं नाम्नां विघ्नेश्वरं विभुम् ॥ 15 ॥
तुष्टाव शंकरः पुत्रं त्रिपुरं हंतुमुद्यतः । यः पूजयेदनेनैव भक्त्या सिद्धिविनायकम् ॥ 16 ॥
दूर्वादलै-र्बिल्वपत्रैः पुष्पैर्वा चंदनाक्षतैः । सर्वान्कामानवाप्नोति सर्वविघ्नैः प्रमुच्यते ॥
इति विघ्नेश्वराष्टोत्तर शतनामस्तोत्रं संपूर्णम्
Browse Related Categories: