Navagraha · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
सावित्र्युवाच
तपसा धर्ममाराध्य पुष्करे भास्करः पुरा । धर्मं सूर्यःसुतं प्राप धर्मराजं नमाम्यहम् ॥ 1
समता सर्वभूतेषु यस्य सर्वस्य साक्षिणः । अतो यन्नाम शमनमिति तं प्रणमाम्यहम् ॥ 2 ॥
येनांतश्च कृतो विश्वे सर्वेषां जीविनां परम् । कामानुरूपं कालेन तं कृतांतं नमाम्यहम् ॥ 3 ॥
बिभर्ति दंडं दंडाय पापिनां शुद्धिहेतवे । नमामि तं दंडधरं यः शास्ता सर्वजीविनाम् ॥ 4 ॥
विश्वं च कलयत्येव यः सर्वेषु च संततम् । अतीव दुर्निवार्यं च तं कालं प्रणमाम्यहम् ॥ 5 ॥
तपस्वी ब्रह्मनिष्ठो यः संयमी संजितेंद्रियः । जीवानां कर्मफलदस्तं यमं प्रणमाम्यहम् ॥ 6 ॥
स्वात्मारामश्च सर्वज्ञो मित्रं पुण्यकृतां भवेत् । पापिनां क्लेशदो यस्तं पुण्यमित्रं नमाम्यहम् ॥ 7 ॥
यज्जन्म ब्रह्मणोंऽशेन ज्वलंतं ब्रह्मतेजसा । यो ध्यायति परं ब्रह्म तमीशं प्रणमाम्यहम् ॥ 8 ॥
इत्युक्त्वा सा च सावित्री प्रणनाम यमं मुने । यमस्तां शक्तिभजनं कर्मपाकमुवाच ह ॥ 9 ॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
इदं यमष्टकं नित्यं प्रातरुत्थाय यः पठेत् । यमात्तस्य भयं नास्ति सर्वपापात्प्रमुच्यते ॥ 10 ॥
महापापी यदि पठेन्नित्यं भक्तिसमन्वितः । यमः करोति संशुद्धं कायव्यूहेन निश्चितम् ॥ 11 ॥
इति श्रीमद्देवीभागवते महापुराणे नवमस्कंधे एकत्रिंशोऽध्यायः ।
Browse Related Categories: