Vishnu · Traditional devotional text · Source: vignanam.org (Traditional devotional text (public-domain shlokas))
अथ चतुर्थस्तोत्रम्
निजपूर्णसुखामितबोधतनुः परशक्तिरनंतगुणः परमः । अजरामरणः सकलार्तिहरः कमलापतिरीड्यतमोऽवतु नः ॥ 1॥
Offered for worship and study, not as prediction. Non-commercial.
More devotional texts
यदसुप्तिगतोऽपि हरिः सुखवान् सुखरूपिणमाहुरतो निगमाः । स्वमतिप्रभवं जगदस्य यतः परबोधतनुं च ततः खपतिम् ॥ 2॥ (सुमतिप्रभवम्) बहुचित्रजगत् बहुधाकरणात्परशक्तिरनंतगुणः परमः । सुखरूपममुष्यपदं परमं स्मरतस्तु भविष्यति तत्सततम् ॥ 3॥
स्मरणे हि परेशितुरस्य विभोर्मलिनानि मनांसि कुतः करणम् । विमलं हि पदं परमं स्वरतं तरुणार्कसवर्णमजस्य हरेः ॥ 4॥
विमलैः श्रुतिशाणनिशाततमैः सुमनोऽसिभिराशु निहत्य दृढम् । बलिनं निजवैरिणमात्मतमोभिदमीशमनंतमुपास्व हरिम् ॥ 5॥
न हि विश्वसृजो विभुशंभुपुरंदर सूर्यमुखानपरानपरान् । सृजतीड्यतमोऽवति हंति निजं पदमापयति प्रणतां स्वधिया ॥ 6॥
परमोऽपि रमेशितुरस्य समो न हि कश्चिदभून्न भविष्यति च । क्वचिदद्यतनोऽपि न पूर्णसदागणितेड्यगुणानुभवैकतनोः ॥ 7॥
इति देववरस्य हरेः स्तवनं कृतवान् मुनिरुत्तममादरतः । सुखतीर्थपदाभिहितः पठतस्तदिदं भवति ध्रुवमुच्चसुखम् ॥ 8॥
इति श्रीमदानंदतीर्थभगवत्पादाचार्य विरचितं द्वादशस्तोत्रेषु चतुर्थस्तोत्रं संपूर्णम्
Browse Related Categories: